26 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षड्विंशः सर्गः दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः । सन्दिदेश महाबाहुर्भीमवेगान् दुरासदान् । राक्षसान् पञ्च साहस्रान् समरेष्वनिवर्तिनः ।। 3.26.1 ।। अथ दुषणप्रमुखसर्वसैन्यविनाशः षङ्विंशे दूषणस्त्वित्याद्यर्धत्रयमेकं वाक्यम् । निरीक्ष्य चेति खिन्नश्चेत्यर्थः । भीमवेगान् भयङ्करधावनान् अत एव दुरासदान् । पञ्चसहस्रानित्यनेन पञ्चसाहस्री पूर्वं हतेति व्यज्यते ।। 3.26.1 ।। ते शूलैः पट्टिशै खङ्गैः शिलावर्षेर्द्रुमैरपि । शरवर्षैरविच्छिन्नं […]

25 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चविंशः सर्गः अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् । ददर्शाश्रममागम्य खरः सह पुरस्सरैः ।। 3.25.1 ।। तुमुलयुद्धं पञ्चविंशे अवष्टब्धेत्यादि । धन्यत इति धनुः । “धन धान्ये” इत्यस्माद्धातोः “भृमृशीतृ़चरितत्सरितनिधनिमिमस्जिभ्य उः” इत्यौणादिकसूत्रेण उप्रत्ययः । “धनुषां च धनुं विदुः, धनुरिवाजनि वक्रः” इति कविकाव्यप्रयोगश्च ।। 3.25.1 ।। तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्वनम् । रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् […]

24 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्विंशः सर्गः आश्रमं प्रतियाते तु खरे खरपराक्रमे । तानेवोत्पातिकान् रामः सह भ्रात्रा ददर्श ह ।। 3.24.1 ।। तानुत्पातान् महाघोरानुत्थितान् रोमहर्षणान् । प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ।। 3.24.2 ।। अथ रामस्य युद्धसन्नाहश्चतुर्विंशे आश्रममित्यादि । औत्पातिकानिति स्वार्थे ठक् ।। 3.24.1,2 ।। इमान् पश्य महाबाहो सर्वभूतापहारिणः । समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् ।। 3.24.3 ।। […]

23 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोविंशः सर्गः तस्मिन् याते जनस्थानादशिवं शोणितोदकम् । अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ।। 3.23.1 ।। अथ युद्धाय प्रयातस्य खरस्य उत्पातवर्णनं त्रयोविंशे तस्मिन् यात इत्यादि । अशिवम् अशुभावहम् । शोणितोदकम् रक्तवर्णजलम् । तुमुलः सङ्कुलः । गर्दभारुणः गर्दभवद्धूसरः । 3.23.1 ।। निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया ।। 3.23.2 ।। निपेतुः स्खलिताः । […]

22 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वाविंशः सर्गः एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा । उवाच रक्षसां मध्ये खरः खरतरं वचः ।। 3.22.1 ।। अथ खरस्य युद्धोद्योगो द्वाविंशे एवमित्यादि । आधर्षितः अवमानितः । खरः दारुणः । खरतरं परुषतरम् ।। 3.22.1 ।। तवावमानप्रभवः क्रोधो ऽयमतुलो मम । न श्क्यते धारयितुं लवणाम्भ इवोत्थितम् ।। 3.22.2 ।। लवाणाम्भः लवणसमुद्राम्मः उत्थितं पर्वण्युल्बणम् ।। […]

21 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकविंशः सर्गः स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः । उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ।। 3.21.1 ।। मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः । त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ।। 3.21.2 ।। अथ खरप्रोत्साहनमेकविंशे स पुनरित्यादि । अनर्थार्थं सर्वराक्षसविनाशार्थम् ।। 3.21.1,2 ।। भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः । घ्नन्तो ऽपि न निहन्तव्या न न […]

20 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे विंशः सर्गः ततः शूर्पणखा घोरा राघवाश्रममागता । रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ।। 3.20.1 ।। ते रामं पर्णशालायामुपविष्टं महाबलम् । ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ।। 3.20.2 ।। तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् । अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ।। 3.20.3 ।। अथ चतुर्दशराक्षसवधो विंशे ततः शूर्पणखेत्यादि ।। […]

19 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनविंशः सर्गः तां यथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् । भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः ।। 3.19.1 ।। अथ खरवधमूलभूतः खरक्रोध उच्यते एकोनविंशे तामित्यदि । भगिनीं ज्येष्ठाम् । “अक्तिका भगिनी ज्येष्ठा” इत्यमरः ।। 3.19.1 ।। उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् । व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ।। 3.19.2 ।। उत्तिषठेति । प्रमोहो विसञ्ज्ञता […]

18 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टादशः सर्गः ततः शूर्पणखां रामः कामपाशावपाशिताम् । स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ।। 3.18.1 ।। अथ खरक्रोधहेतुः शूर्पणखाविरुपकरणमष्टादशे तत इत्यादि । ततः तत्र पर्णशालायाम् । अथ शूर्पणखावचनानन्तरम् । स्वच्छया स्पष्टार्थया । श्लक्ष्णया मृद्व्या । काम एव पाशः तेनावपाशितां सञ्जातपाशां बद्धामित्यर्थः ।। 3.18.1 ।। कृतदारो ऽस्मि भवति भार्येयं दयिता मम । त्वद्विधानां तु […]

17 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तदशः सर्गः । अरण्यकाण्डः ।।।। श्लोकसहितव्याख्यानम् ।। (17सर्गतः 48सर्गपर्यन्तम्) कृताभिषेको रामस्तु सीता सौमित्रिरेव च । त्ित्र त्त्र त्र तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम् ।। 3.17.1 ।। एवं रामतपोविशेषद्योतनाय हेमन्तं प्रथमप्रवृत्तमुपवर्ण्य ततस्त्रिषु संवत्सरेष्वतीतेषु कदाचिच्चैत्रमासे प्रसक्तं भाविसकलराक्षसवधनिदानत्वेन शूर्पणखावृत्तान्तमुक्षिपति सप्तदशे कृताभिषेक इत्यादि । ततः अभिषेकानन्तरभाविकृत्यानन्तरम् । आश्रमं तपोवनम् । “तपोवने मठे ब्रह्मचर्यादावाश्रमो ऽस्त्रियाम्” इति बाणः ।। […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.