यादवाभ्युदयः सर्गः-16

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ षोडशः सर्गः 16.1     ऐरावतमथारुह्य श्वेताद्रिमिव जङ्गमम् । पुरीं द्वारवतीं शौरेराजगाम पुरन्दरः।। 16.2     अपत्यभावमापन्नमात्मानममृतोदधेः।निमेषरहितैः पौरैर्देवभूतैर्निरीक्षितम् ।। 16.3     अदृश्यं मन्दपुण्यानाममन्दप्रीतिदायिनम् । आत्तदेहमिव स्वर्गमासेचनकदर्शनम् ।। 16.4     महनीयपरिष्कारं वल्गुध्वजमतल्लिकम् । महोत्सवमिवाशानामाशाभ्यधिकसंपदम् ।। 16.5     उदधेरिव मन्थेन पीडितस्य समुत्थितैः। दृढलग्नैरिवोत्पत्तौ दीप्तं शोणितबिन्दुभिः।। 16.6     दैत्यदानवदर्पघ्नैर्दन्तैर्दलितमन्दरैः। सिंहानामपि हन्तारं सिंहवक्त्रविभूषणैः।। 16.7     मेरुकल्पेन रुपेण मेदिनीधृतिहेतुना । त्रिदशप्रीतिदातारं स्त्यानसिन्दूरधातुना […]

यादवाभ्युदयः सर्गः-15

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ पञ्चदशस्सर्गः 15.1     अथ पद्मभुवः पितुः सकाशादभिगच्छन् यदुपुङ्गवं दिदृक्षुः। मुनिरध्वनि वल्लकीसहायः प्रजगौ लास्यतरङ्गितप्रचारः।। 15.2     अहमस्मि पितामहस्य सूनुः स विभोरात्मभुवः सरोजनाभेः। भजते भुवि साम्प्रतं स देवः स्वयमेवानकदुन्दुभेः सुतत्वम् । 15.3     अवरोपितदोपसूनुभावः स नटाः सम्प्रति देवकीसुतस्सन् । परितोषितभावुकः स्ववृत्त्या श्रुतिलक्ष्यां महतीं प्रियामविन्दत् ।। 15.4     तदहं तमसः स्थितं परस्तादनपायद्युति भास्वतात्मनैव कमलोल्लसितेन दर्शनीयं […]

यादवाभ्युदयः सर्गः-14

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ चतुर्दशः सर्गः 14.1     अथैकदा रोधसि पश्चिमोदधेरदभ्रसत्राजितभक्तियन्त्रितः । त्रयीमयश्चन्द्रसमीकृतद्युतिः प्रसेदिवान् प्रादुरभूत् दिवाकरः (प्रभाकरः?) ॥ १ ॥ 14.2     अनल्पतेजोनिधिमप्रमाद्यतां प्रसूतिमिष्टस्य धनस्य भूयसः । स्वकण्ठलग्नं द्युमणिः स्यमन्तकं महामणिं भूमिभृते वरं ददौ ॥ २ ॥ 14.3     तमुग्रसेनार्थमियेष कंसजित् न वार्यते राजनि रत्नहारिता । प्रतीत्य सत्राजित एतदप्रियं क्वचिन्निचिक्षेप गुणाधिके(कं?) मणिम् ॥ ३ ॥ […]

यादवाभ्युदयः सर्गः-13

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ त्रयोदशः सर्गः 13.1     प्रसादभाजः प्रतिनिर्गतां तां प्रासादतो वासववल्लभायाः । समग्रशक्तिः समयोपयातः प्राणेश्वरीं प्राप्तुमियेष शौरिः ॥ १ ॥ 13.2     तामद्भुतां सिद्धिमिवाद्भुतानां सौभाग्यविद्यामिव सद्गुणानाम् । सत्तामनन्यामिव सद्गुणानां यथाश्रुतं प्रैक्षत यादवेन्द्रः ॥ २ ॥ 13.3     अङ्गैरवज्ञातकदम्बगोलैरस्पन्दमन्देन विलोचनेन । लीलोपशान्त्या लिखितेव साऽभूत् दामोदरे दृष्टिपथं प्रयाते ॥ ३ ॥ 13.4     पद्माकराणां परिषन्निवेशे पर्याप्तचन्द्रायुतकान्तिपू(सा)रे […]

यादवाभ्युदयः सर्गः-12

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ द्वादशः सर्गः 12.1     तथाविधानन्दमहापयोधेस्तरङ्गवृत्त्या भजतोवतारान् । अशेषरूपेष्वनुरूपरूपा देवी जगन्नेतुरनुप्रजज्ञे ।। 12.2     सा तस्य नित्योदितदिव्यधाम्नः पत्युः प्रिया भानुमतः प्रभेव । अध्यासितुर्द्वारवतीमदूरात् व्यक्तिं शुभां प्राप विदर्भदेशे ।। 12.3     शिखण्डकं निष्प्रतिमं श्रुतीनां शृङ्गारलीलोपमविश्वकृत्यम् । अधीयते तन्मिथुनं स्वभावादन्योन्यजीवातुमनन्यभोग्यम् ।। 12.4     दयेव नित्यं दयिता त्रिधाम्नः सर्वेषु भावेषु समानभावा । परावराणां जननी प्रजानामासीत् विदर्भाधिपतेरपत्यम् […]

यादवाभ्युदयः सर्गः-11

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ एकादशः सर्गः 11.1     तदद्भुतं क्रीडितकं क्रमेण श्रुत्वा हरेरप्रतिमानशक्तेः। महाबलान् कंसवधादिजन्मा मन्युः प्रपेदे मगधेन्द्रमुख्यान् ।। 11.2     गोपालडिम्भो नरपालहन्ता कुले यदोरञ्चितमातपत्रम्। अन्यच्च भूम्यामधरोत्तरत्वं हन्तेति वादान् प्रभूरभ्यनन्दत् ।। 11.3     हलादिभिर्हेतिवरैर्यथार्हं रथाङ्गमुख्यैरपि रामकृष्णौ । स्ववृत्तियोग्यावसरोपयातैः प्राचीं श्रियं प्रदुरभावयेताम्।। 11.4     स दैत्यजित् वध्यवरूथिनीनां संप्रापकं सारथिमात्रश्षम् । पुनः प्रवृत्तानुशयं पुरीं स्वां निन्ये जरासंधम् अहार्यसंधः।। […]

यादवाभ्युदयः सर्गः-10

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ दशमः सर्गः 10.1     ततस्तौ ददृशुस्तत्र विशन्तौ राजवीथिकाम् । पूर्णदृष्टिफलाः पौराः पुण्यैरेकमुखैरिव ।। 10.2     चक्षुषामिव भाग्येन संप्रवृत्तौ महोत्सवौ । युक्तौ मदनशक्त्येव युगपन्मधुमाधवौ ।। 10.3     अभिख्यावीचिविक्षेपैरपृथग्भावचित्रितैः। समेतैरनुभावाद्यैः सक्ताविव रसोत्तमौ ।। 10.4     क्रममुल्लङ्घ्यभूतानां भोगमोक्षाविवोद्गतौ । तयोरेव विनिष्पत्त्यै धर्माविव च तादृशौ ।। 10.5     पुनन्तौ भुवनं पादैः पुष्पवन्ताविवापरौ । सिञ्चन्तौ कान्तिवर्षेण सितकृष्णाविवाम्बुदौ ।। […]

यादवाभ्युदयः सर्गः-9

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ नवमः सर्गः 9.1       अथ भोजपतिर्जगत्पतेरवतारं भुवि नारदान्मुनेः। श्रुतवान् अतिदेवदानवं व्यथया पीतविषोपमोभवत् ।। 9.2       निहता पृथुकेन पूतना शकटं तत् परिवर्तितं महत् । ककुभद्वितयं निपातितं प्रहितः क्वापि निपीड्य कालियः।। 9.3       स च गोमुखवर्धनो दधे गमितः क्षोदमरिष्टपर्वतः। प्रथितश्च बलः प्रलम्बजित् निधनं धेनुकदानवो गतः।। 9.4       दवहव्यवहश्च जग्रसे विषधृत् विन्ध्यसमो विदारितः। इति वाम […]

यादवाभ्युदयः सर्गः-8

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ अष्टमः सर्गः 8.1       अथ प्रसूनायुधभागधेयान्यारब्धमन्दानिलसौतिकानि । मधुप्रसङ्गान्मधुराणि यूनामनुष्णशीतान्यभवन् दिनानि ।। 8.1       अनेकरूपैः स्वयमेकरूपः कालात्मकं रूपमकालकाल्यः। ऋतुप्रभेदैरनुभूय रेमे रामासखो राममनुप्रयातः।। 8.3       हेमन्तपूर्वः शिशिरान्तिमश्च शरच्च संभूय वसन्तवृत्त्या । शनैश्शनैः शान्तिमुपेयिवांसस्तद्वैभवातं तन्मयतामिवा पुः।। 8.4       प्रायेण पञ्चायुधपञ्चवक्त्रः पलाशकोशाकृतिमाददानैः। मनस्विनीमानगजेन्द्रभेदात् सशोणितैः पाणिरुहैश्चकाशे ।। 8.5       जगन्ति पुण्ड्रेक्षुशरासनेन प्रसूनबाणैरपि जेतुमिच्छोः। असूचयन् आत्मभुवः स्वनादैरव्याहतामाशिषमन्यपुष्टाः ।। 8.6       […]

यादवाभ्युदयः सर्गः-7

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥सप्तमः सर्गः 7.1       व्रजौकसो विस्मयमन्थराक्षा बालार्कवर्णं वसनं वसानम् । श्यामं युवानं शतपत्रनेत्रं शैलोदितं देवमथोपसेदुः ।। 7.2       यमाहुरन्तर्बहिरप्यलक्ष्यं योगेश्वरं योगिभिरेव दृश्यम् । तमद्रिशृङ्गे समुदीक्षमाणा गोपं सतां गोपगणाः प्रणेमुः।। 7.3       स तान् अशेषान् सुधयेव दृष्ट्या प्रहर्षयन् प्रत्ययितप्रसादः। सरामकृष्णान् सनकादिगम्यः स्वामी सतां स्वागतमन्वयुङ्क्त ।। 7.4       शरत्प्रवृत्त्येव शशाङ्कभासो वाचा हरेर्गोपधियः प्रसन्नाः । मिथोविमर्शेः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.