12 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वादशः सर्गः स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः । अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ।। 3.12.1 ।। राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली । रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ।। 3.12.2 ।। रुद्रस्यापूज्यत्वमाह स प्रविश्येत्यादि ।। 3.12.1,2 ।। लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः । अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ।। 3.12.3 ।। […]
11 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकादशः सर्गः अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा । पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणो ऽनुजगाम ह ।। 3.11.1 ।। अथ कर्माणि सापायानि, रामसेवैका निरपायेति दर्शयितुं माण्डकर्णिवृत्तान्तप्रकटनपूर्वकं सकलमुनिजनाश्रममण्डलसञ्चरणमेकादशे अग्रत इत्यादि । अनेन श्लोकेन प्रणवार्थ उक्तः । तौ पश्यमानावित्यादिना नाराणपदार्थः । माण्डकर्णिवृत्तान्ते नम इत्यस्यार्थः । ततः परं विरोधिनिवृत्तिः सूच्यते । एवं मूलमन्त्रार्थानुसन्धानमेव परमा गतिरित्युच्यते ।। 3.11.1 […]
10 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे दशमः सर्गः वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया । श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ।। 3.10.1 ।। एवं रामः सत्यप्रतिज्ञः निर्वैरं च रक्षोवधं न करिष्यति तथा च मद्वियोगेन रक्षोवधेन भवितव्यं मद्विरहं च न सहिष्यते, सङ्कटमिदमुपस्थितमित्याकुलचित्ता वैदेही पतिप्रेमान्धा रक्षोवधान्निवर्तयितुमुपक्रान्ता । रामस्तु सीताविरहं सोढ्वापि तन्मूलवैरेण रक्षांसि निहत्य प्रतिज्ञा निर्वोढव्येति समाधत्ते दशमे वाक्यमेतत्त्वित्यादि । भर्तृभक्तयेत्यनेन […]
09 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे नवमः सर्गः सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् । हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ।। 3.9.1 ।। अथ सीता वीरपत्नीत्वेन धनुर्मुष्टिग्रहणविशेषेण सायुधतया सन्नद्धं पतिमालोक्य यदि त्वं सायुधो राक्षसभूयिष्ठे देशे प्रविष्टः स्याः तर्हि तैः साकं विरोधः स्यात्, तेनावयोर्विश्लेषः स्यात्, तेन भवतो महान् क्लेशः स्यात् अतो निधायायुधं वने ऽस्माभिर्गन्तव्यमित्याह नवमे सुतीक्ष्णेनेत्यादि । अभ्यनुज्ञातम् अरिष्टं गच्छ पन्थानमिति रावणवधाभिप्रायेणानुज्ञातम् […]
08 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टमस्सर्गः रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः । परिणाम्य निशां तत्र प्रभाते प्रत्यबुद्ध्यत ।। 3.8.1 ।। अथ सुतीक्ष्णानुज्ञया रामस्याश्रममण्डलं प्रति प्रस्थानमष्टमे रामस्त्वित्यादि । परिणाम्य अतिवाह्य । प्रभाते उषःकाले ।। 3.8.1 ।। उत्थाय तु यथाकालं राघवः सह सीतया । उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना ।। 3.8.2 ।। सहसीतयेत्यनेन पूर्वमेव सौमित्रिः स्नात इति व्यज्यते । उपास्पृशत् स्नातवान् । “स्नानाचान्त्योरूपस्पर्शः” इति […]
07 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तमः सर्गः रामस्तु सहितो भ्रात्रा सीतया च परन्तपः । सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ।। 3.7.1 ।। अथ सुतीक्ष्णाभ्यर्थनया मृगरूपमारीचादि दुष्टराक्षसनिरासः सप्तमे रामस्त्वित्यादि । आश्रमपदम् उद्दिश्येति शेषः । तौर्द्विजैः वैखनसादिभिः ।। 3.7.1 ।। स गत्वा ऽदूरमध्वानं नदीस्तीर्त्वा बहूदकाः । ददर्श विपुलं शैलं महामेघमिवोन्नतम् ।। 3.7.2 ।। स इति । अदूरमिति छेदः । […]
06 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामदारण्यकाण्डे षष्ठः सर्गः शरभङ्गे दिवं याते मिनिसङ्घाः समागताः । अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ।। 3.6.1 ।। एवं खरवधार्थिमुनिजनशरणागतिं वक्तुं तदुपयोगितया रामस्य समर्थकारुणिकत्वमुक्त्वा अथ तच्छरणागतिं वक्तुमुपक्रमते शरभङ्ग इत्यादि । शरभङ्गे दिवं यात इति कालप्रदर्शनं सुतीक्ष्णादीनां विद्यमानत्वात् । समागताः सम्मलिताः ।। 3.6.1 ।। वैखानसा वालखिल्यास्सम्प्रक्षाला मरीचिपाः । अश्मकुट्टाश्च बहवः पत्त्राहाराश्च धार्मिकाः ।। 3.6.2 ।। […]
05 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामदारण्यकाण्डे पञ्चमः सर्गः हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् । अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ।। 3.5.1 ।। एवं विराधवनवासिमुमुक्षुमुनिजनशरणागतेरानुषङ्गिकफलभूतं विराधवधमभिधाय खरादिवधफलशरभङ्गाश्रमवासिमुनिजनशरणागतिं दर्शयिष्यन् तदुचितसौलभ्यदर्शनाय शरभङ्गाश्रमवनगमनं दर्शयति पञ्चमे हत्वेत्यादि । परिष्वज्य समाश्वास्य चेति विराधाङ्कस्पर्शजभयदुःखव्रीडाशान्त्यर्थमिति भावः ।। 3.5.1 ।। कष्टं वनमिदं दुर्गं न च स्म वनगोचराः । […]
04 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्थः सर्गः ह्रियमाणै तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ । उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ।। 3.4.1 ।। अथ परमपुरुषवहनफलं वक्तुमुक्रमते ह्रियमाणावित्यादि । चुक्रोश रामस्यातिमानुषं चरित्रमवगच्छन्त्यपि स्नेहातिशयेन व्याकुला रुरोदेत्यर्थः ।। 3.4.1 ।। एष दाशरथी रामस्सत्यवाञ्च्छीलवाञ्छुचिः । रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ।। 3.4.2 ।। सत्यवान् सत्यवचनवान् । शीलवान् सदाचारसम्पन्नः । शुचिः ऋजबुद्धिः ।। […]
03 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे तृतीयः सर्गः अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम् । आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ।। 3.3.1 ।। अथ विराधानुग्रहाय तदाक्रमणं तृतीये अथोवाचेत्यादि । पूरयन्, शब्देनेति शेषः । आत्मानं युष्मत्स्वरूपं पृच्छते मह्यमिति शेषः । ब्रूतमिति लोण्मध्यमपुरुषद्विचनम् । प्रश्नप्रकारमाह काविति ।। 3.3.1 ।। तमुवाच ततो रामो राक्षसं ज्वलिताननम् । पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः […]