11 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकादशः सर्गः

अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा ।

पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणो ऽनुजगाम ह ।। 3.11.1 ।।

अथ कर्माणि सापायानि, रामसेवैका निरपायेति दर्शयितुं माण्डकर्णिवृत्तान्तप्रकटनपूर्वकं सकलमुनिजनाश्रममण्डलसञ्चरणमेकादशे अग्रत इत्यादि । अनेन श्लोकेन प्रणवार्थ उक्तः । तौ पश्यमानावित्यादिना नाराणपदार्थः । माण्डकर्णिवृत्तान्ते नम इत्यस्यार्थः । ततः परं विरोधिनिवृत्तिः सूच्यते । एवं मूलमन्त्रार्थानुसन्धानमेव परमा गतिरित्युच्यते ।। 3.11.1 ।।

तौ पश्यमानौ विविधान् शैलप्रस्थान् वनानि च ।

नदीश्च विविधा रम्या जग्मतुः सीतया सह ।। 3.11.2 ।।

सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः ।

सरांसि च सपद्मानि युक्तानि जलजैः खगैः ।। 3.11.3 ।।

तावित्यादि । पश्यमानौ पश्यन्तौ । शैलप्रस्थान् शैलसानूनि । सारसान् हंसविशेषान् । पुलिनं सैकतम् । जलजैः खगैः जलपक्षभिः ।। 3.11.2,3 ।।

यूथबद्धांश्च पृषतान् मदोन्मत्तान्विषाणिनः ।

महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः ।। 3.11.4 ।।

यूथबद्धान् यूथतया बद्धान्, समूहीभूतानित्यर्थः । पृषतान् बिन्दुमृगान् । विषाणिन इति महिषादि विशेषणम् । नागान् गजान् ।। 3.11.4 ।।

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।

ददृशुः सहिता रम्यं तटाकं योजनायतम् ।। 3.11.5 ।।

पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम् ।

सारसैर्हंसकादम्बैः सङ्कुलं जलचारिभिः ।। 3.11.6 ।।

लम्बमाने अस्तमयोन्मुखे । योजनायतं चुतर्दिशि योजनप्रमाणविस्तारम् । पद्मपुष्करसम्बाधं पद्मैः पुष्करैः सर्पैश्च सम्बान्धं निबिडम् । “वाद्यभाण्डमुखे सर्पे कारण्डे पुष्करं स्मृतम्” इति विश्वः । सारसैः “सारसो मैथुने कामी गोनर्दः पुष्कराह्वयः” इत्युक्तेः । हंसैः राजहंसैः । कादम्बैः “कादम्बः कलहंसश्च हंसः स्याद्धूसरच्छदः ” इत्युक्तेः ।। .3.11.5,6 ।।

प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे ।

गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ।। 3.11.7 ।।

गीतेति । गीतानि षड्जादिस्वरनिबद्धप्रबन्धाः । वादित्राणि ततघनसुषिरानद्धभेदेन चतुर्विधानि तेषां निर्घोषः । अत्र यादवः “वादित्रं वादितं वाद्यमातोद्यं तच्चतुर्विधम् । ततं वीणादिकं वाद्यं तालं तु विततं घनम् । वंशादिकं तु सुषिरमानद्धं मुरजादिकम् ।।” इति। कश्चन वादयिता न दृश्यते ।। 3.11.7 ।।

ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः ।

मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ।। 3.11.8 ।।

इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने ।

कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ।। 3.11.9 ।।

वक्तव्यं यदि चेद्विप्र नातिगुह्यमपि प्रभो ।। 3.11.10 ।।

तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ।

प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे ।। 3.11.11 ।।

धर्मभृतं सहागतेषु मुनिष्वन्यतमम् । कथ्यतामित्येवं प्रष्टुं समुपचक्रम इत्यन्वयः ।। प्रभवम् उत्पत्तिम् । कृस्नं गीतवादित्रमूलं चेत्यर्थः ।। 3.11.811 ।।

इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् ।

निर्मितं तपसा राम मुनिना माण्डकर्णिना ।। 3.11.12 ।।

पञ्चाप्सरःक्रीडासाधनकत्वात् पञ्चाप्सरो नाम । सार्वकालिकं सर्वकाले भवम् । “कालाट्ठञ्” उभयपदवृद्धिः । सर्वस्मिन्नपि काले अघुष्यदित्यर्थः ।। 3.11.12 ।।

स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः ।

दशवर्षसहस्राणि वायुभक्षो जलाश्रयः ।। 3.11.13 ।।

उक्तार्थे इतिहासमाह स हीत्यादिना । जलाश्रयः स्वनिर्मिततटाकजलावगाढः ।। 3.11.13 ।।

ततः प्रव्यथिताः सर्वे देवाः साग्निपुरो गमाः ।

अब्रुवन्वचनं सर्वे परस्परसमागताः ।। 3.11.14 ।।

साग्निपुरोगमाः अग्निना पुरस्सरेण सहिताः । क्रियाभेदात्सर्वशब्दावृत्तिः ।। 3.11.14 ।।

अस्माकं कस्यचित्स्थानमेष प्रार्थयते मुनिः ।

इति संविग्नमनसः सर्वे ते त्रिदिवौकसः ।। 3.11.15 ।।

अस्माकं मध्ये संविग्नमनसः भीतमनस्काः ।। 3.11.15 ।।

तत्र कर्तुं तपोविघ्नं देवैः सर्वैर्नियोजिताः ।

प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः ।। 3.11.16 ।।

तत्र तदा । विद्युच्चलितवर्चसः विद्युत इव तरलतेजसः, चलितविद्युद्वर्चस इति वार्थः ।। 3.11.16 ।।

अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः ।

नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ।। 3.11.17 ।।

ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः ।

तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम् ।। 3.11.18 ।।

दृष्टपरावरः दृष्टपरमात्मजीवस्वरूपः ।। 3.11.17,18 ।।

तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् ।

रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम् ।। 3.11.19 ।।

तपोयोगात् तपोरूपोपायात् यौवनमास्थितम् । “योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु” इत्यमरः ।। 3.11.19 ।।

तासां सङ्क्रीडमानानामेष वादित्रनिस्वनः ।

श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ।। 3.11.20 ।।

सङ्क्रीडमानानामिति “क्रीडो ऽनुसम्परिभ्यश्च” इत्यात्मनेपदम् । भूषणोन्मिश्रः भूषणघोषोन्मिश्रः वादित्रनिःस्वनविशेषणम् । भूषणोन्मिश्रो वादित्रनिःस्वनो गीतशब्दश्च श्रूयत इत्यन्वयः ।। 3.11.20 ।।

आश्चर्यमिति तस्यैतद्ववचनं भावितात्मनः ।

राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ।। 3.11.21 ।।

एतत् पूर्वोक्तं वचनम् । आश्चर्यमिति प्रातजग्राह श्रुतवान् ।। 3.11.21 ।।

एवं कथयमानस्य ददर्शाश्रममण्डलम् ।

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ।। 3.11.22 ।।

कथयमानस्य कथयमाने तस्मिन् मुनौ । कथयमानः स इति पाठे एवं सम्भाषमाणः स रामः । ब्राह्म्या ब्राह्मसम्बन्धिन्या लक्ष्म्या समृद्ध्या, ब्राह्मणसम्पूर्णमित्यर्थः । आश्रममण्डलं ददर्श राघव इत्यनुषङ्गः ।। 3.11.22 ।।

प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ।

उवास मिनिभिः सर्वैः पूज्यमानो महायशाः ।। 3.11.23 ।।

प्रविश्येति आश्रममण्डलमित्यनुषज्यते । सर्वैस्तदाश्रमवासिभिः पूज्यमानः स्व स्वाश्रमे अर्घ्यादिना अर्च्यमानः ।। 3.11.23 ।।

तथा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले ।

उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः ।। 3.11.24 ।।

जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् ।

येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् ।। 3.11.25 ।।

कियन्तं कालं तत्रोवासेत्यपेक्षायां कालपरिमाणं वक्तुं रामस्याश्रमवासप्रकारं दर्शयति तथेत्यादिश्लोकद्वयेन । तथा उक्तप्रकारेण । तस्मिन्नाश्रममण्डले सुखमुषित्वा तत्र पूज्यमानः स राम इत्युक्तानुवादः । येषां सकाशे पूर्वमुषितवान् पर्यायेण द्वितीयपर्यायेण च जगाम । एवमाश्रमवासप्रकारः एकवारं सर्वेषामाश्रमान् गत्वा पुनरपि तेषामेवाश्रमान् जगामेति वाक्यार्थः । महास्त्रविदित्यनेन तत्रत्यराक्षसोपद्रवपरिहाराय पुनर्गमनमिति सूचयति । वक्ष्यति हि मारीचः “तेन मुक्तास्त्रयो बाणाः” इत्यारभ्य “पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा । समुद्भ्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ।। ” इति । एतदर्थमेव सुतीक्ष्णेनात्र गमनमनुज्ञातम् ऋषिभिः कारितं च ।। 3.11.24,25 ।।

क्वचित् परिदशान् मासानेकं संवत्सरं क्वचित् ।

क्वचिच्च चतुरो मासान् पञ्च षट् चापरान् क्वचित् ।। 3.11.26 ।।

अपरत्राधिकं मासादप्यर्धमधिकं क्वचित् ।

त्रीन् मासानष्टमासांश्च राघवो न्यवसत् सुखम् ।। 3.11.27 ।।

पूर्वमुषितवानित्युक्तवासक्रमं दर्शयति क्वचिदित्यादिना । राघवो रामः क्वचिदाश्रमे परिदशान् परिगताः दश येषां ते परिदशाः । “सङ्ख्ययाव्यय ” इत्यादिना बहुव्रीहिसमासः । “बुहुव्रीहौ सङ्ख्येये डजबहुगणात्” इति डच् समासान्तः । तान् मासान् त्रयोदशमासानित्यर्थः । अत्यन्तसंयोगे द्वितीया । सुखं यथा भवति तथा न्यवसत् । क्वचिदाश्रमे एकं संवत्सरं सुखं न्यवसत् । क्वचिदाश्रमे चतुरो मासान् सुखं न्यवसत् । क्वचित् पञ्च मासान् क्वचित् षण्मासान् क्वचिदपरान् षड्भ्यो ऽन्यान् सप्त मासान् सुखं न्यवसत् । पञ्च षट् च तथा क्वचिदिति पाठे तथा पुनः क्वचित् षण्मासानित्यर्थः । परिदशानित्यत्र चतुर्दशमासानित्यर्थः । अपरत्राश्रमे मासादधिकं सुखं न्यवसत् । अधिकशब्देनात्र मासचतुर्थांशो विवक्षितः, एकमासं मासपादं चेत्यर्थः । अपरत्राधिकं मासमिति पाठे मासम् अधिकं तत्पादं चेत्यर्थः । अपिशब्दः सर्वत्र मासानुकर्षणार्थः । क्वचिदाश्रमे अर्धमधिकं च न्यवसत् पादोनमासमित्यर्थः । तथा चैतदव्यविहितपूर्वाश्रमवासादिनैर्द्वौ मासौ संवृत्तौ । एकत्र सपादमासः अपरत्र पादोनमास इत्याहत्य मासद्वयसम्भवात् । अध्यर्धमधिकं क्वचिदिति पाठे अध्यर्धम् अर्धाधिकम् अर्धमासाधिकमित्यर्थः । अधिकं पूर्वोक्तपादमासात्मकाधिकं तथा च त्रिपादमासमित्यर्थः । क्वचित् त्रीन् मासान् न्यवसत् । क्वचिदष्टमासान् न्यवसत् । एवं षष्टिमासाः सिद्धाः । केचिदाहुः परिदशान् दशाधिकानिति वक्ष्यमाणेष्वष्टसु स्थानेष्वन्वेति । तथाचायमर्थः एवं संवत्सरं क्वचिदित्यत्र द्वाविंशतिमासानित्यर्थः । क्वचिच्च चतुरो मासानित्यत्र चतुर्दश मासानित्यर्थः । पञ्च षट् चापरान् क्वचिदित्यत्र क्वचित् पञ्चदश मासान् क्वचित् षोडशमासानित्यर्थः । अपरानधिकं मासादप्यर्धमधिकं क्वचिदित्यत्र प्रथमाधिकशब्दो ऽर्धमासरूपाधिकांशपरः । तथा च आपरान् परिदशान् मासान् अधिकं चेत्यन्वये अर्धाधिकदशमासानित्यर्थः । मासादप्यर्धमित्यादेरयमर्थः क्वचित्परिदशान् मासान् तदुपरिमासादधिकमर्धमपि चेति तथा च अर्धाधिकैकादशमासानित्यर्थः । त्रीन् मासान् अष्टमासांश्चेत्यत्र त्रयोदश मासान् अष्टादश मासांश्चेत्यर्थः । तथाच विंशत्युत्तरशतमासा लब्धा इति । तस्मिन् पक्षे प्राथमिकक्वचित्पदमासपदानर्थक्यं पूर्वग्रन्थविरोध इत्यादि द्रष्टव्यम् ।। 3.11.26,27 ।।

तथा संवसतस्तस्य मुनीनामाश्रमेषु वै ।

रमतश्चानुकूल्येन ययुः संवसरा दश ।। 3.11.28 ।।

तथाचाश्रममण्डले दश संवत्सराः संवृत्ता इत्याह तथा संवसत इति । इयमेवाश्रमवाससङ्ख्या । पूर्वापरसङ्ख्या तु किष्किन्धाकाण्डे वक्ष्यते ।। 3.11.28 ।।

परिवृत्त्य च धर्मज्ञो राघवः सह सीतया ।

सुतीक्ष्णस्याश्रमं श्रीमान् पुनरेवाजगाम ह ।। 3.11.29 ।।

स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः ।

तत्रापि न्यवसद्रामः किञ्चित्कालमरिन्दमः ।। 3.11.30 ।।

अथाश्रमस्थो विनयात् कदाचित्तं महामुनिम् ।

उपसीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् ।। 3.11.31 ।।

परिवृत्त्य एवमाश्रमं सर्वं परिक्रम्य ।। 3.11.2931 ।।

अस्मिन्नरण्ये भगवन्नगस्त्यो मुनि सत्तमः ।

वसतीति मया नित्यं कथाः कथयतां श्रुतम् ।। 3.11.32 ।।

कथाः नानाकथाः । कथयतां कथयत्सु ।। 3.11.32 ।।

नतु जानामि तं देशं वनस्यास्य महत्तया ।

कुत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः ।। 3.11.33 ।।

प्रसादात्तत्रभवतः सानुजः सह सीतया ।

अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ।। 3.11.34 ।।

तत्र वने । अगस्त्यमभिवादयितुमभिगच्छेयमित्यन्वयः ।। 3.11.33,34 ।।

मनोरथो महानेष हृदि मे परिवर्तते ।

यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम् ।। 3.11.35 ।।

इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ।

सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ।। 3.11.36 ।।

तं मुनिवरं शुश्रूषेयमिति यत् एष मनोरथः अभिलाषो मे हृदि परिवर्तत इत्यन्वयः । शुश्रूषेयमिति परस्मैपदमार्षम् ।। 3.11.35,36 ।।

अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् ।

अगस्त्यमभिगच्छेति सीतया सह राघव ।। 3.11.37 ।।

दिष्ट्या त्विदानीमर्थे ऽस्मिन् स्वयमेव ब्रवीषि माम् ।

अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः ।। 3.11.38 ।।

अहमिति । अगस्त्यमभिगच्छेत्येतद्वक्तुकामो ऽस्मीत्यन्वयः ।। 3.11.37,38 ।।

योजनान्याश्रमादस्मात्तथा चत्वारि वै ततः ।

दक्षिणेन महाञ्छ्रीमानगस्त्यभ्रातुराश्रमः ।। 3.11.39 ।।

अस्मादाश्रमाद्दक्षिणेन तथेति हस्तेन निर्देशः । चत्वारि योजनानि अभियाहीति शेषः । ततस्तत्र अगस्त्यभ्रातुराश्रमो वर्तते । आश्रमाद्दक्षिणेनेत्यत्र “एनपा द्वितीया” इति द्वितीयाभाव आर्षः ।। 3.11.39 ।।

स्थलीप्राये वनोद्देशे पिप्पलीवनशोभिते ।

बहुपुष्पफले रम्ये नानाशकुनिनादिते ।। 3.11.40 ।।

स्थलीप्राये स्थलीप्रचुरे ।। 3.11.40 ।।

पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः ।

हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ।। 3.11.41 ।।

कारण्डवाः सारसाः ।। 3.11.41 ।।

तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् ।

दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः ।। 3.11.42 ।।

तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् ।

रमणीये वनोद्देशे बहुपादपसंवृते ।। 3.11.43 ।।

रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया ।

स हि रम्यो वनोद्देशो बहुपादपसङ्कुलः ।। 3.11.44 ।।

यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् ।

अद्यैव गमने बुद्धिं रोचयस्व महायशः ।। 3.11.45 ।।

तत्रागस्त्यभ्रात्राश्रमे रजनीं व्युष्य रात्रिमतिवाह्य । वनषण्डस्य वनसमूहस्य पार्श्वतः दक्षिणां दिशम् । आस्थाय उद्दिश्य निर्वणदेशे योजनमन्तरं योजनावकाशं गत्वा अगस्त्याश्रमपदं गम्यतामित्यन्वयः ।। 3.11.4245 ।।

इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च ।

प्रतस्थे ऽगस्त्यमुद्दिश्य सानुजः सीतया सह ।। 3.11.46 ।।

इति एवम्प्रकारेण मुनेः सकाशाच्छ्रुत्वा ।। 3.11.46 ।।

पश्यन् वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान् ।

सरांसि सरितश्चैव पथि मार्गवशानुगाः ।। 3.11.47 ।।

सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ।

इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ।। 3.11.48 ।।

अभ्रसन्निभान् मेघसन्निभान् । मार्गवशानुगाः मार्गवशेनानुगम्यमानाः । राम इति पूर्वश्लोकादनुकृष्यते । 3.11.47,48 ।।

एतदेवाश्रमपदं नीनं तस्य महात्मनः ।

अगस्त्यस्य मुनेर्भ्रातुर्द्दश्यते पुण्यकर्मणः ।। 3.11.49 ।।

नीतमिति वितर्के । यदाश्रमपदं दृश्यते एतन्मुनेर्नूनमित्यन्वयः ।। 3.11.49 ।।

यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः ।

सन्नताः फलभारेण पुष्पभारेण च द्रुमाः ।। 3.11.50 ।।

उक्ते ऽर्थे हेतुमाह यथा हीति । यथा हि मे पथि चिह्नतया वनं श्रुतं तथैवास्य वनस्य फलभारेण पुष्पभारेण च सन्नताः द्रुमाः सहस्रशो मया ज्ञाताः ज्ञायमाना वर्तन्ते ।। 3.11.50 ।।

पिप्पलीनां च पक्वानां वनादस्मादुपागतः ।

गन्धो ऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ।। 3.11.51 ।।

तत्र तत्र च दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः ।

लूनाश्च पथि दृश्न्यते दर्भा वैडूर्यवर्चसः ।। 3.11.52 ।।

असाधारणोपदिष्टलिङ्गं चानुभूयत इत्याह पिप्पलीनामित्यादि । पक्वानां पिप्पलीनामिति तत्फलानामित्यर्थः । कटुकस्य कटुरसस्य उदयो ऽभिव्यक्तिरानुमानिकी येन स तथा गन्धः उपागतः ।। 3.11.51,52 ।।

एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ।

पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते ।। 3.11.53 ।।

कृष्णाभ्रशिखरोपमं नीलमेघाग्रोपमम् ।। 3.11.53 ।।

विविक्तेषु च तीरेषु कृतस्नाना द्विजातयः ।

पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः ।। 3.11.54 ।।

विविक्तेषु पूतेषु । “विविक्तौ पूतविजनौ” इत्यमरः । उपहारं पुष्पबलिम् । स्वयमार्जितैः “समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरेत्” इति स्मरणात् ।। 3.11.54 ।।

तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् ।

अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति ।। 3.11.55 ।।

“नूनं तर्के विनिश्चये” इत्यमरः ।। 3.11.55 ।।

निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ।

यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा ।। 3.11.56 ।।

मृत्युं वातापील्वलनिमित्तकं मरणम् । हितकाम्यया हितेच्छया । इयं दिक् । शरण्या संश्रयितुं योग्या ।। 3.11.56 ।।

इहैकदा किल क्रूरो वातापिरपि चेल्वलः ।

भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ ।। 3.11.57 ।।

अस्मिन्नर्थे आख्यायिकामाह इहेत्यादिना ।। 3.11.57 ।।

धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् ।

आमन्त्रयति विप्रान् स्म श्राद्धमुद्दिश्य निर्घृणः ।। 3.11.58 ।।

संस्कृतं व्याकरणसंस्कारवतीं वाचम् वदन् ।। 3.11.58 ।।

भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् ।

तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा ।। 3.11.59 ।।

संस्कृतं श्राद्वोचितपाकसंस्कारसंस्कृतं कृत्वा श्राद्धदृष्टेन श्राद्धकल्पावगतेन ।। 3.11.59 ।।

ततो भुक्तवतां तेषां विप्राणामिल्वलो ऽब्रवीत् ।

वातापे निष्क्रमस्वेति स्वरेण महता वदन् ।। 3.11.60 ।।

भुक्तवतां भुक्तवत्सु । बदन्नब्रवीत् व्यक्तमब्रवीत् ।। 3.11.60 ।।

ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् ।

भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ।। 3.11.61 ।।

व्यनिष्पतत् विनिरपतत् ।। 3.11.61 ।।

ब्रह्मणानां सहस्राणि तैरेवं कामरूपिभिः ।

विनाशितानि संहत्य नित्यशः पिशिताशनैः ।। 3.11.62 ।।

तैरिति बहुवचनं परिवारापैक्षया । संहत्य बहुश इति यावत् ।। 3.11.62 ।।

अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ।

अनुभूय किल श्राद्धे भक्षितः स महासुरः ।। 3.11.63 ।।

अनुभूय श्राद्धवरणादिकमनुभूय ।। 3.11.63 ।।

ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः ।

भ्रातरं निष्क्रमस्वेति चेल्वलः सो ऽभ्यभाषत ।। 3.11.64 ।।

स तं तथा भाषमाणं भ्रातरं विप्रघातिनम् ।

अब्रवीत् प्रहसन् धीमानगस्त्यो मुनिसत्तमः ।। 3.11.65 ।।

कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः ।

भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ।। 3.11.66 ।।

ततः श्राद्धान्ते । सम्पन्नमित्युक्त्वा ततो हस्तोदकं च दत्त्वा ।। 3.11.6466 ।।

अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रयम् ।

प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ।। 3.11.67 ।।

नाशविषयम् । प्रधर्षयितुं हिंसितुम् ।। 3.11.67 ।।

सो ऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा ।

चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ।। 3.11.68 ।।

अनलकल्पेन अग्निसदृशेन ।। 3.11.68 ।।

तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः ।

विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ।। 3.11.69 ।।

एवं कथयमानस्य तस्य सौमित्रिणा सह ।

रमस्यास्तं गतः सूर्यः सन्ध्याकालो ऽभ्यवर्तत ।। 3.11.70 ।।

उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि ।

प्रविवेशाश्रमपदं तमृषिं सो ऽभ्यवादयत् ।। 3.11.71 ।।

विप्रानुकम्पया विप्रेष्वनुकम्पया ।। 3.11.6971 ।।

सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः ।

न्यवसत्तां निशामेकां प्राश्य मूलफलानि च ।। 3.11.72 ।।

तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले ।

भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः ।। 3.11.73 ।।

प्रतिगृहीतः प्रत्युद्गतः । प्राश्य भुक्त्वा ।। 3.11.72,73 ।।

अभिवादये त्वां भगवन् सुखमध्युषितो निशाम् ।

आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ।। 3.11.74 ।।

अभिवादय इति अत्र वर्णाधिक्यमार्षम् ।। 3.11.74 ।।

गम्यतामिति तेनोक्तो जगाम रघुनन्दनः ।

यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ।। 3.11.75 ।।

यथोद्दिष्टेन सुतीक्ष्णोक्तेन ।। 3.11.75 ।।

निवारान् पनसांस्तालांस्तिमिशान्वञ्जुलान् धवान् ।

चिरिबिल्वान् मधूकांश्च बिल्वानपि च तिन्दुकान् ।। 3.11.76 ।।

पुष्पितान् पुष्पिताग्राभिर्लताभिरनुवेष्टितान् ।

ददर्श रामः शतशस्तत्र कान्तारपादपान् ।। 3.11.77 ।।

हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् ।

मत्तैः शकुनिसङ्घैश्च शतशश्च प्रणादितान् ।। 3.11.78 ।।

ततो ऽब्रवीत्समीपस्थं रामो राजीवलोचनः ।

पृष्ठतो ऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ।। 3.11.79 ।।

निवारान् जलकदम्बान् । वञ्जुलान् वकुलान् । “वकुलो वञ्जुलो ऽशोकः” इत्यमरः । तिमिशान् नेमिवृक्षान् । धवान् चिरिबिल्वान् नक्तमालान् । “करञ्जः स्यान्नक्तमालः प्रकीर्यश्चिरिबिल्वकः” इति वैजयन्ती । मधूकान् मधुद्रुमाख्यवृक्षान् । तिन्दुकान् स्फूर्जकाख्यान् वृक्षान् ।। 3.11.7679 ।।

स्निग्धपत्त्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः ।

आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ।। 3.11.80 ।।

स्निग्धपत्त्राः आश्रमवासिभिः रक्षितत्वेन सरसपत्त्राः । क्षान्ताः शान्ताः । यथा येन प्रकारेण तथा तेन प्रकारेण । आश्रमो नातिदूरस्थ इति मन्ये ।। 3.11.80 ।।

अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा ।

आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः ।। 3.11.81 ।।

प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः ।

प्रशान्तमृगयूथश्च नानाशकुनिनादितः ।। 3.11.82 ।।

स्वेन कर्मणा विन्ध्यस्तम्भनरूपेण । अगस्त्य इति विख्यातः अगं स्तम्भयतीत्यगस्त्य इति व्युत्पत्तेः । परिश्रान्तानां श्रममपहन्तीति परिश्रान्तश्रमापहः । प्राज्यैर्बहुभिर्धूमैराकुलं वनं यस्य सः ।। 3.11.81,82 ।।

निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ।

दक्षिणा दिक्कृता येन शरण्या पुण्यकर्मणा ।

तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः ।

दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते ।। 3.11.83 ।।

त्रासात् दृश्यते न तु प्राचीनकाल इवोपभुज्यते ।। 3.11.83 ।।

यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा ।

तदाप्रभृति निर्वैराः प्रशान्ता ऱजनीचराः ।। 3.11.84 ।।

नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा ।

प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ।। 3.11.85 ।।

यदाप्रभृतीति अगस्त्यागमनात्प्रभृति । दिक् अगस्त्याश्रमप्रदेशः । अन्यथा पूर्वोक्तविराधादिराक्षसोपद्रवो विरुध्येत । यद्वा दिक् सर्वापि । विराधादयोप्यगस्त्यागमनप्रभृति मन्दोपद्रवा एव । अशुचितादशायामेव मुनिमांसभक्षणम् । निर्वैरा वैरप्रवर्तनाशक्ताः प्रशान्तवद्वर्तमानाः । अत एवेयं दक्षिणा दिक् नाम्ना भगवतो ऽगस्त्यस्य दिगिति प्रसिद्धेत्युच्यते ।। 3.11.84,85 ।।

मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः ।

निदेशं पालयन् यस्य विन्ध्यः शैलो न वर्द्धते ।। 3.11.86 ।।

अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ।

अगस्त्यस्याश्रमः श्रीमान् विनीतजनसेवितः ।। 3.11.87 ।।

निरतः, उद्युक्तः, वर्धमान इत्यर्थः । न वर्धते अद्यापीति शेषः ।। 3.11.86,87 ।।

एष लोकार्चितः साधुर्हिते नित्यरतः सताम् ।

अस्मानभिगतानेष श्रेयसा योजयिष्यति ।। 3.11.88 ।।

सतां हिते साधुः नित्यरतश्च ।। 3.11.88 ।।

आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् ।

शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ।। 3.11.89 ।।

शेषं चेति । प्रभो इत्युक्तिः लक्ष्मणस्यापि राजपुत्रत्वात् । प्रभोरिति पाठे प्रभोरगस्त्यस्य नियोगादिति शेषः ।। 3.11.89 ।।

अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।

अगस्त्यं नियताहारं सततं पुर्यपासते ।। 3.11.90 ।।

अत्रेति । देवाः वक्ष्यमाणाः पूज्यव्यतिरिक्ताः ।। 3.11.90 ।।

नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः ।

नृशंसः कामवृत्तो वा मुनिरेष तथाविधः ।। 3.11.91 ।।

क्रूरः निर्दयः । “क्रूरौ कठिननिर्दयौ ” इत्यमरः । शठः गूढविप्रियकृत् । नृशंसः घातुकः । कामेन वृत्तं यस्य सः कामवृत्तः स्वैरवृत्तः । एष मुनिः अगस्त्यः तथाविधः मृषावाद्याद्यनर्हः ।। 3.11.91 ।।

अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह ।

वसन्ति नियताहारा धर्ममाराधयिष्णवः ।। 3.11.92 ।।

देवाः वक्ष्यमाणब्रह्मादिभिन्नाः । पतगैः गरुडजातिभिः । आराधयिष्णवः आराधयन्तः । छान्दस इष्णुच् ।। 3.11.92 ।।

अत्र सिद्धा महात्मानो विमानैः सूर्यसन्निभैः ।

त्यक्तदेहा नवैर्देहैः स्वर्याता परमर्षयः ।। 3.11.93 ।।

सिद्धास्तपस्सिद्धाः । नवैः दिव्यैः ।। 3.11.93 ।।

यक्षत्वममरत्वं च राज्यानि विविधानि च ।

अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः ।। 3.11.94 ।।

भूतैः प्राणिभिः । देवाः ब्रह्मादयः । अगस्त्योपासनकृतनित्यसान्निध्यादिति भावः । शुभैः सत्कर्मनिरतैः ।। 3.11.94 ।।

आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः ।

निवेदयेह मां प्राप्तमृषये सीतया सह ।। 3.11.95 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकादशः सर्गः ।। 11 ।।

आगता इति । सीतया सह प्राप्तमित्यन्वयः । अनेन रावणवधोद्युक्तत्वं द्योतयति । अत्र चतुर्नवतिः श्लोकाः ।। 3.11.95 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकादशः सर्गः ।। 11 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.