74 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःसप्ततितमः सर्गः

तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने ।

प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ।। 3.74.1 ।।

एवमेतावत्पर्यन्तं भगवत्कैङ्कर्यतत्फले दर्शिते । अथाचार्याभिमाननिष्ठातत्फले दर्शयति चतुःसप्ततितमे तावित्यादि । प्रतीचीं दिशं गृह्य गृहीत्वा कबन्धेन दर्शितं पम्पाया मार्गमुद्दिश्य प्रतस्थतुः प्रतस्थाते ।। 3.74.1 ।।

तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान् द्रुमान् ।

वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ।। 3.74.2 ।।

शैलेष्वाचितान् प्ररूढान् अनेकांश्च क्षौद्रकल्पफलान् मधुतुल्यफलयुक्तान् वीक्षन्तौ वीक्षमाणौ ।। 3.74.2 ।।

कृत्वा च शैलपृष्ठे तु तौ वासं रामलक्ष्मणौ ।

पम्पायाः पश्चिमं तीरं राघवावुपतस्थस्तुः ।। 3.74.3 ।।

कृत्वा चेति । वासं तस्यां रात्र्यामिति शेषः । उपतस्थतुः उपतस्थाते, प्रापतुरित्यर्थः । रात्र्यन्त इति शेषः ।। 3.74.3 ।।

तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् ।

अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ।। 3.74.4 ।।

तौ पुष्करिण्या इति । स्पष्टम् ।। 3.74.4 ।।

तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् ।

सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ।। 3.74.5 ।।

ताविति । आश्रममासाद्य तमभिवीक्षन्तौ अभिवीक्षमाणौ ।। 3.74.5 ।।

तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्चलिः ।

रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः ।

पाद्यमाचमनीयं च सर्वं प्रादाद्यथाविधि ।। 3.74.6 ।।

तौ चेति सार्धश्लोक एकान्वयः । सिद्धा सिद्धयोगा ।। 3.74.6 ।।

तामुवाच ततो रामः श्रमणीं संशितव्रताम् ।

कच्चित्ते निर्जिता विघ्नाः कच्चिते वर्धते तपः ।। 3.74.7 ।।

कच्चित्ते नियतः क्रोध आहारश्च तपोधने ।

कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् ।। 3.74.8 ।।

कच्चिते गुरुशुश्रूषा सफला चारुभाषिणि ।। 3.74.9 ।।

विघ्नाः तपोविघ्नाः कामादयः । नियतः निगृहीतः । आहारश्चेत्यत्रापि नियत इत्यनुषज्यते । “तपो नानशनात्परम्” इति श्रुतेः । नियमाः व्रतानि । मनसः सुखं मनस्सन्तोषः । चारुभाषिणीति साध्वीसम्बोधनप्रकारः । इति तामुवाचेति सम्बन्धः ।। 3.74.79 ।।

रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता ।

शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ।। 3.74.10 ।।

रामेणेति । रामाय प्रत्युपस्थितेति तादर्थ्ये चतुर्थी ।। 3.74.10 ।।

अद्य प्राप्ता तपःसिद्धिस्तव सन्दर्शनान्मया ।

अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः । 3.74.11 ।।

तपः सिद्धिः तपःपरिपाकः । तप्तं तपः ।। 3.74.11 ।।

अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति ।

त्वयि देववरे राम पूजिते पुरुषर्षभ ।। 3.74.12 ।।

अद्य म इति । अद्येत्यस्यार्थं विवृणोति त्वयीति । देववरे विष्णौ । अनेन शबर्याः परमार्थज्ञानं वृत्तमिति सूच्यते ।। 3.74.12 ।।

चक्षुषा तव सौम्येन पूता ऽस्मि रघुनन्दन ।

गमिष्याम्यक्षयान् लोकांस्त्वत्प्रसादादरिन्दम ।। 3.74.13 ।।

एवमुपचारवादानुक्त्वा स्वप्रयोजनमाह चक्षुषेति । ते सौम्येन चुक्षुषा निर्हेतुककटाक्षेण पूता ऽस्मि अनेन पूर्वाघविनाश उक्तः । अरिन्दमेत्यनेन उत्तराघाश्लेष उच्यते । त्वत्प्रसादात् “धातुः प्रसादान्महिमानमात्मनः” इत्युक्तत्वादाचार्यप्रसादोपबृंहितात्त्वत्प्रसादात् । अक्षयान् लोकान् गमिष्यामि पुनरावृत्तिरहितं परमपदं प्राप्स्यामीत्यर्थः ।। 3.74.13 ।।

चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः ।

इतस्ते दिवमारूढा यानहं पर्यचारिषम् ।। 3.74.14 ।।

तर्हि त्वदाचार्यैरेव सह किमर्थं न गता ऽसीत्यत्राह चित्रकूटमिति । ते मतङ्गशिष्या मदाचार्याः ।। 3.74.14 ।।

तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः ।

आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ।। 3.74.15 ।।

स ते प्रतिग्रहीतव्यः सौमित्रिसहितो ऽतिथिः ।

तं च दृष्ट्वा वरान् लोकानक्षयांस्त्वं गमिष्यसि ।। 3.74.16 ।।

तैरिति । धर्मज्ञैः योगरूपभागवत्प्राप्त्युपायाभावेप्याचार्यप्रसादकृतभगवत्प्रसादात् सद्गतिमियं प्राप्स्यतीत्येतद्धर्मज्ञैः महाभागैः भविष्यत्तद्वृत्तान्तज्ञानोचितभाग्यवद्भिः । सुपुण्यमित्यागमनार्हत्वमुच्यते । स इति । प्रतिग्रहीतव्यः आतिथ्यकरणेन सत्करणीयः । दृष्ट्वा तेन दर्शनेन निमित्तेन अक्षयान् लोकान् गमिष्यसि । वरानिति कैवल्यव्यावृत्तिः । गमिष्यसीति तैरहमुक्तेत्यन्वयः । अनेन आचार्यशुश्रूषणं भगवत्प्रसादद्वारा मोक्षहेतुरित्युक्तं भवति ।। 3.74.15,16 ।।

मया तु विविधं वन्यं सञ्चितं पुरुषर्षभ ।

तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम् ।। 3.74.17 ।।

आचार्योक्तिश्रद्धामात्मनः सूचयति मया त्विति । तीरसम्भवं विविधं वन्यं सञ्चितम् । वन्यशब्देन फलमूलादिकमुच्यते । विविधमित्यनेन फलमूलादिभेद उच्यते । सञ्चितमित्यनेन रामस्य चित्रकूटागमनात् प्रभृति सम्पादितत्वम् आदरेण गुप्तत्वं च तत्तत्फलजातीयमाधुर्यं परीक्ष्य स्थापितमिति सम्प्रदायः ।। 3.74.17 ।।

एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् ।

राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् ।। 3.74.18 ।।

विज्ञाने विषये । अबहिष्कृताम् अन्तरङ्गभूताम् । जात्या हीनामप्याचार्यप्रसादलब्धब्रह्मज्ञानामिति भगवताप्यादरणीयत्वोक्तिः ।। 3.74.18 ।।

दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनः ।

श्रुतं प्रत्यक्षमिच्छामि सन्द्रष्टुं यदि मन्यसे ।। 3.74.19 ।।

दनोः सकाशात् दनुत इत्यर्थः । पञ्चम्यर्थे सकाशशब्दं प्रयुञ्जते । तत्वेन याथार्थ्येन । ते महात्मनः त्वत्सम्बन्धिनो महात्मनः मतङ्गस्येत्यर्थः । महात्मनामिति पाठे त्वदाचार्याणामित्यर्थः । श्रुतं प्रभावं प्रत्यक्षं सन्द्रष्टुमिच्छामि । यदि मन्यसे दर्शयितुमिति शेषः ।। 3.74.19 ।।

एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम् ।

शबरी दर्शयामास तावुभौ तद्वनं महत् ।। 3.74.20 ।।

एवत्त्विति । विनिस्सृतं निर्गतम् ।। 3.74.20 ।।

पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ।

मतङ्गवनमित्येव विश्रुतं रघुनन्दन ।। 3.74.21 ।।

मेघघनप्रख्यं घनमेघसदृसं विश्रुतं वनमिति शेषः ।। 3.74.21 ।।

इह ते भावितात्मानो गुरवो मे महाद्युते ।

जुहवाञ्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम् ।। 3.74.22 ।।

भावितात्मानः चिन्तितात्मानः ते प्रसिद्धाः मे गुरवः । मन्त्रवन्मन्त्रपूजितं मन्त्रवतां मन्त्रैः पूजितं तीर्थं गङ्गादिपुण्यसलिलम् । इह प्रदेशे जुहवाञ्चक्रिरे आहूतवन्तः । महाद्युते इत्यनेन मुनिप्रभावश्रवणे सन्तोषवत्त्वं व्यज्यते ।। 3.74.22 ।।

इयं प्रत्यक्स्थली वेदिर्यत्र ते मे सुसत्कृताः ।

पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः ।। 3.74.23 ।।

प्रत्यक्स्थली प्रत्यक्प्रदशे स्थलीभूता । प्राक्प्रदेशे पश्चिमाभिमुखविष्णुस्थानत्वेन प्रत्यङ्निम्नेत्यर्थः । वेदिः देवपूजास्थानम् । इयम् अवलोक्यतामिति शेषः । यत्र वेद्यां मे मया सुसत्कृतास्ते गुरवः श्रमात् वृद्धताकृतया पुष्पधारणाशक्त्या उद्वेपिभिः उत्कम्पिभिः करैः पुष्पोपहारं पुष्पैरर्चनं कुर्वन्ति अकुर्वन् । अत्र वेदिरिति जात्येकवचनम् । उत्तरश्लोके बहुवचनप्रयोगात् बहूनां बहुवेदिसम्भवाच्च ।। 3.74.23 ।।

तेषां तपःप्रभावेन पश्याद्यापि रघूद्वह ।

द्योतयन्ति दिशः सर्वाः श्रिया वेद्यो ऽतुलप्रभाः ।। 3.74.24 ।।

तेषाम् अस्मदाचार्याणाम् । प्रभावेन अतुलप्रभाः इमाः वेद्यः अद्यापि तेषामसन्निधाने ऽपि सर्वा दिशः द्योतयन्ति प्रकाशयन्ति । अनेन आचार्याभिमतो देशस्तदसन्निधानेप्युद्देश्य इत्युक्तम् ।। 3.74.24 ।।

अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः ।

चिन्तिते ऽभ्यागतान् पश्य सहितान् सप्त सागरान् ।। 3.74.25 ।।

पुनर्वैभवान्तरमाह अशक्नुवद्भिरिति । उपवासश्रमेण अलसैः मन्दैः अत एव सप्त सागरान् गन्तुमशक्नुवद्भिः मे गुरुभिः चिन्तिते चिन्तितमात्रे अभ्यागतान् अभिमुखमागतान् सप्त सागरान् पश्य ।। 3.74.25 ।।

कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह ।

अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन ।। 3.74.26 ।।

अद्भुतान्तरमाह कृतेति । इह प्रदेशे सागरप्रदेशे कृताभिषेकैः कृतस्नानैः तैर्गुरुभिः पादपेषु न्यस्ताः आर्द्रवल्कलाः अद्यापि नावशुष्यन्ति न शुष्का भवन्ति । तदङ्गसम्पर्कवैभवादिति भावः ।। 3.74.26 ।।

देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै ।

पुष्पैः कुवलयैः सार्धं म्लानत्वं नोपयान्ति वै ।। 3.74.27 ।।

देवकार्याणि देवार्चनानि कुर्वद्भिः तैः कुवलयैः सह पुष्पैः पुष्पान्तरैः यानीमानि माल्यानि कृतानि तानि म्लानत्वं नोपयान्ति भक्त्यतिशयेन समर्पितत्वादिति भावः । एतावता ग्रन्थसन्दर्भेण “गुरुं प्रकाशयेद्धीमान्” इत्युक्तरीत्या आचार्यवैभवप्रकटनं कर्तव्यमिति सूचितम् ।। 3.74.27 ।।

कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ।

तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत् कलेवरम् ।। 3.74.28 ।।

उपलसंहरति कृत्स्नमिति । अभ्यनुज्ञाता त्वयेति शेषः ।। 3.74.28 ।।

तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् ।

मुनीनामाश्रमो येषामहं च परिचारिणी ।। 3.74.29 ।।

त्यक्त्वा किं करिष्यसीत्यत्राह तेषामिति । समीपं पादमूलं गमिष्यामि यानहं पर्यचारिषमित्यन्यत्रोक्तेः । आश्रमः अयमिति शेषः । येषामाश्रमो ऽयं येषामहं च परिचारिणी तेषां समीपं गन्तुमिच्छामीति सम्बन्धः ।। 3.74.29 ।।

धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः ।

प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः ।। 3.74.30 ।।

धर्मिष्ठमिति । वचः आचार्यवैभवप्रदर्शनादिरूपम् । तत्त्वतः मायां विना आश्चर्यमिति मत्वा ।। 3.74.30 ।।

तामुवाच ततो रामः श्रमणीं संशितव्रताम् ।

अर्चितो ऽहं त्वया भक्त्या गच्छ कामं यथासुखम् ।। 3.74.31 ।।

अथ शबरीमनोरथं पूरयति तामिति । संशितव्रताम् आचार्यपरिचर्यानिष्ठामित्यर्थः । अर्चितः तव गुरुवृत्तिसन्दर्शनेनैवेति शेषः । भक्त्या वन्यसम्पादनमात्रेण वा, अयमेवार्थः सङ्क्षेपे “शबर्या पूजितः सम्यक्” इत्युक्तः । कामं काम्यमानं लोकम् ।। 3.74.31 ।।

इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा ।

तस्मिन्मुहूर्ते शबरी देहं जीर्णं जिहासती ।। 3.74.32 ।।

अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने ।

ज्वलत्पावसङ्काशा स्वर्गमेव जागम सा ।। 3.74.33 ।।

इतीति । श्लोकद्वयमेकान्वयम् । जिहासती हातुमिच्छन्ती । स्वर्गमेवेत्यवधानं द्योतयति ।। 3.74.32,33 ।।

दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना ।

दिव्याम्बरधरा तत्र बभूव प्रियदर्शना ।

विराजयन्ती तं देशं विद्युत्सौदामिनी यथा ।। 3.74.34 ।।

दिव्येति सार्धश्लोकः । तत्र स्वर्गगमनारम्भे विद्युत् विशेषेण द्योतमाना सौदामिनी तडित् ।। 3.74.34 ।।

यत्र ते सुकृतात्मानो विहरन्ति महर्षयः ।

तत्पुण्यं शबरीस्थानं जगमात्मसमाधिना ।। 3.74.35 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःसप्ततितमः सर्गः ।। 74 ।।

ते गुरवः सुकृतात्मानः सुकृतधैर्यवन्तः । आत्मसमाधिना आत्मविषययोगेन । एतत्सर्गवृत्तान्तेन मतङ्गशिष्योपदिष्टसमाधिका शबरी गुर्वनुज्ञया रामागमनपर्यन्तं स्थित्वा ततो रामानुज्ञया स्वसमाधिबलेन स्वगुरुगतं स्वर्गविशेषं प्राप्तेत्यवगम्यते । स्त्रिया अपि विदुरादेरिव योगाधिकारः सम्भवति तदङ्गयज्ञादिकर्मस्थाने गुरुशुश्रूषा । स्वर्गश्च आदौ अक्षयानित्युक्त्या पुनरावृत्तिरहितं परमपदमित्यवगम्यते । “एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इति श्रुत्या केवलस्वर्गस्य क्षयित्वावगमात् । अस्मिन् सर्गे सार्धपञ्चत्रिंशच्छ्लोकाः ।। 3.74.35 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ।। 74 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.