58 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टपञ्चाशः

स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः ।

पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ।। 3.58.1 ।।

अथ सीताप्राप्तिसन्देहकृतशोकप्रलापो ऽष्टपञ्चाशे स दृष्ट्वेत्यादि । शून्ये वने वैदेहीं विना आगतं वैदेहीं विसृज्यागतं लक्ष्मणं पर्यपृच्छत पर्यपृच्छत् ।। 3.58.1 ।।

प्रस्थितं दण्डकारण्यं या मामनुजगाम ह ।

क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ।। 3.58.2 ।।

प्रश्नस्वरूपमाह प्रस्थितमित्यादिना । दण्डकारण्यं प्रति प्रस्थितम् ।। 3.58.2 ।।

राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।

क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ।। 3.58.3 ।।

दुःखसहाया समानदुःखेत्यर्थः ।। 3.58.3 ।।

यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् ।

क्व सा प्राणसहाया मे सीता सुरसुतोपमा ।। 3.58.4 ।।

सुरसुता सुरस्त्री ।। 3.58.4 ।।

पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण ।

तां विना तपनीयाभां नेच्छेयं जनकात्मजाम् ।। 3.58.5 ।।

तपनीयं स्वर्णम् । इच्छेयम् इच्छामि ।। 3.58.5 ।।

कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम ।

कच्चित्प्रवाजनं सौम्य न मे मिथ्या भविष्यति ।। 3.58.6 ।।

प्राणैः प्राणेभ्यः । प्रव्राजनं चतुर्दशवर्षवनवासः । मिथ्या असत्यं न भविष्यति कच्चित् । चतुर्दशवर्षसमाप्तावेव सीतावियोगजं जीववियोगं किं प्राप्स्यामीत्यर्थः ।। 3.58.6 ।।

सीतानिमित्तं सौमित्रे मृते मयि गते त्ययि ।

कच्चित् सकामा सुखिता कैकेयी सा भविष्यति ।। 3.58.7 ।।

सीतानिमित्तं सीताविनाशनिमित्तम् । त्वयि गते, अयोध्यामिति शेषः । सकामेत्यनेन रामस्य हृदये कैकेयी स्वविनाशार्थमेव वनं प्रेषितवतीति सदा वर्तते । तदिदीनीं सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेन व्यक्तीकृतम् ।। 3.58.7 ।।

सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी ।

उपस्थास्यति कौसल्या कच्चित् सौम्य न केकयीम् ।। 3.58.8 ।।

तपस्विनी शोच्या ।। 3.58.8 ।।

यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः ।

सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ।। 3.58.9 ।।

वृत्ता परेता । सुवृत्ता स्वाचारा ।। 3.58.9 ।।

यदि मामाश्रमगतं वैदेही नाभिभाषते ।

पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ।। 3.58.10 ।।

प्रहसिता प्रहसितमुखी ।। 3.58.10 ।।

ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।

त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ।। 3.58.11 ।।

यदि जीवति तदा ब्रूहि वद । वैदेही जीवति वा न वा । न वेत्यस्य विवरणं त्वयीति । प्रमत्ते अनवहिते ।। 3.58.11 ।।

सुकुमारी च बाला च नित्यं चादुःखदर्शिनी ।

मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ।। 3.58.12 ।।

दुःखं पश्यतीति दुःखदर्शिनी सा न भवतीत्यदुःखदर्शिनी । शोचति अशोचत् । वनवास इति शेषः । दुर्मनाः चिन्ताकुलेति यावत् ।। 3.58.12 ।।

सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।

वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ।। 3.58.13 ।।

जिह्मेन कपटेन । तवापि अतिशूरस्यापि ।। 3.58.13 ।।

श्रुतस्तु शङ्के वैदेह्या स स्वरः सदृशो मम ।

त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ।। 3.58.14 ।।

मम स्वरेण यस्मादागतः तस्मात् सः स्वरो वैदेह्या श्रुतः त्रस्तया तया त्वं प्रेषितश्चेति शङ्क इति योजना ।। 3.58.14 ।।

सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने ।

प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ।। 3.58.15 ।।

कष्टमेवाह प्रतीति । प्रतिकर्तुं मत्कृतापकारस्य प्रत्यपकारं कर्तुम् । अन्तरम् अवकाशो दत्तः ।। 3.58.15 ।।

दुःखिताः खरघातेन राक्षसाः पिशिताशनाः ।

तैः सीता निहता घोरैर्भविष्यति न संशयः ।। 3.58.16 ।।

प्रतीकारमेवाह दुःखिता इति । पिशिताशनत्वं निहनने हेतुः ।। 3.58.16 ।।

अहो ऽस्निन् व्यसने मग्नः सर्वथा शत्रुसूदन ।

किन्न्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ।। 3.58.17 ।।

अहो ऽस्मिन्निति सन्धिरार्षः । ईदृशं व्यसनमज्जनं प्राप्तव्यमिति शङ्के ।। 3.58.17 ।।

इति सीतां वरारोहां चन्तयन्नेव राघवः ।

आजगाम जनस्थानं त्वरया सहलक्ष्मणः ।। 3.58.18 ।।

वरारोहामिति चिन्ताहेतुसौन्दर्यातिशयोक्तिः ।। 3.58.18 ।।

विगर्हमाणो ऽनुजमार्तरूपं क्षुधा श्रमाच्चैव पिपासया च ।

विनिःश्वसन् शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ।। 3.58.19 ।।

स्वमाश्रमं सम्प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् ।

एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ।। 3.58.20 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टपञ्चाशः ।। 58 ।।

विगर्हमाण इत्यादिश्लोकद्वयमेकान्वयम् । वक्ष्यमाणानेकसर्गार्थसङ्ग्रहरूपम् । श्रमात् बहुदूरधावनात् । प्रतिश्रयं स्वाश्रमप्रदेशम् । शून्यं सीतारहितं प्रतिश्रयमित्यनुषज्यते । अनन्तरं स्वाश्रमं सम्प्रविगाह्य प्रविश्य तमपि शून्यं समीक्ष्येति शेषः । तदनु सीतायाः कांश्चिद्विहारदेशाननुसृत्य विचित्य तानपि शून्यान् समीक्ष्य तत्रत्यनिवासभूमौ क्रीडास्थाने । तदेतदिति । तादृशमेतादृशमिति विहारविशेषं स्मृत्वा प्रहृष्टरोमा सन् शोकेन व्यथितो बभूव ।। 3.58.19,20 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ।। 58 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.