70 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्ततितमः सर्गः

तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।

बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ।। 3.70.1 ।।

अथ कबन्धस्य बाहुच्छेदेन पूर्वजन्मस्मृतिरुच्यते सप्ततितमे तौ त्वित्यादि । परिक्षिप्तौ परिवेष्टितौ ।। 3.70.1 ।।

तिष्ठतः किन्नु मां दृष्ट्वा क्षुधार्तं क्षत्ित्रयर्षभौ ।

आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ ।। 3.70.2 ।।

तिष्ठत इति । क्षुधार्तं मां दृष्ट्वा भीतौ किन्नु तिष्ठतः व्यर्थमेव न तु जीवितापत्परिहार इत्यर्थः । यतो गतचेतसौ युवां मे दैवेनाहारार्थं सन्दिष्टौ ।। 3.70.2 ।।

तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा ।

उवाचार्तिं समापन्नो विक्रमे कृतलक्षणः ।। 3.70.3 ।।

तच्छ्रुत्वेति । कृतलक्षणः कृतोद्योगः ।। 3.70.3 ।।

त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः ।

तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू ।। 3.70.4 ।।

त्वां चेति । पुरा आदत्ते आदास्यतीत्यर्थः ।। 3.70.4 ।।

भीषणो ऽयं महाकायो राक्षसो भुजविक्रमः ।

लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ।। 3.70.5 ।।

भीषण इति । भुजयोरेव विक्रमो यस्य स तथा । लोकं जनम् । अतिजितम् अत्यन्तजितम् ।। 3.70.5 ।।

निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः ।

क्रतुमध्योपनीतानां पशूनामिव राघव ।। 3.70.6 ।।

भुजच्छेदनमात्रं कर्तव्यं न तु मारणमित्याह निश्चेष्टानामिति । निश्चेष्टानां प्रतीकाराशक्तानाम् । जगतीपतेः क्षत्ित्रयस्य । क्रतुमध्योपनीतानां निश्चेष्टानामित्यस्मिन्नर्थे प्रयुक्तम् । “पर्यग्निकृतानारण्यानुत्सृजन्त्यहिंसायै” इत्युक्तरीत्या अश्वमेधक्रतावुपनीतानामारण्यपशूनां वधः कुत्सित एव ।। 3.70.6 ।।

एतत्सञ्जल्पितं श्रुत्वा तयोः क्रद्धस्तु राक्षसः ।

विदार्यास्यं तदा रौद्रस्तौ भक्षयितुमारभत् ।। 3.70.7 ।।

तयोरेतत् सञ्जल्पितं श्रुत्वा भक्षयितुमारभत्, हस्ताभ्यामाकृष्टवानित्यर्थः ।। 3.70.7 ।।

ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ ।

अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशतः ।। 3.70.8 ।।

सुसंहृष्टौ कदलीकाण्डवत् सुखच्छेदनादिति भावः ।। 3.70.8 ।।

दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः ।

चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ।। 3.70.9 ।।

दक्षिणः समर्थः । असक्तम् अप्रतिबन्धं यथा भवति तथा । रामस्य दक्षिणपार्श्वे गमनं लक्ष्मणस्य, अत उभयोर्दक्षिणसव्यपार्श्वप्राप्तिः ।। 3.70.9 ।।

स पपात महाबाहुश्छिन्नबाहुर्महास्वनः ।

खं च गां च दिशश्चैव नादयन् जलदो यथा ।। 3.70.10 ।।

गां भूमिम् ।। 3.70.10 ।।

स निकृत्तौ भूजौ दृष्ट्वा शोणितौघपरिप्लुतः ।

दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ।। 3.70.11 ।।

निकृत्ताविति । पूर्वमदत्तोत्तरत्वात् पुनः प्रश्नः ।। 3.70.11 ।।

इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः ।

शशंस राघवं तस्य कबन्धस्य महात्मनः ।। 3.70.12 ।।

इतीति । क्रियाभेदात् पुनस्तच्छब्दः ।। 3.70.12 ।।

अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः ।

अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ।। 3.70.13 ।।

इक्ष्वाकुदायादः दशरथपुत्रः । “दायादौ सुतबान्धवौ” इत्यमरः ।। 3.70.13 ।।

[ मात्रा प्रतिहृते राज्ये रामः प्रव्राजितो वनम् ।

मया सह चरत्येष भार्यया च महद्वनम् ।। ]

अस्य देवप्रभावस्य वसतो विजने वने ।

रक्षसा ऽपहृता पत्नी यामिच्छन्ताविहागतौ ।। 3.70.14 ।।

इच्छन्तौ अन्वेषमाणावित्यर्थः ।। 3.70.14 ।।

त्वं तु को वा किमर्थं वा कबन्धसदृशो वने ।

आस्येनोरसि दीप्तेन भग्नजङ्घो विवेष्टसे ।। 3.70.15 ।।

त्वं त्विति । विवेष्टसे लुठसीति यावत् ।। 3.70.15 ।।

एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः ।

उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् ।। 3.70.16 ।।

प्रीतः शापमोक्षकालप्रत्यभिज्ञानात् । तदिन्द्रवचनम् उत्तरसर्गप्रतिपाद्यम् ।। 3.70.16 ।।

स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् ।

दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ।। 3.70.17 ।।

बाह्वोर्बन्धनं ययोस्तौ बाहुबन्धनौ अंसावित्यर्थः ।। 3.70.17 ।।

विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा ।

तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव ।। 3.70.18 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्ततितमः सर्गः ।। 70 ।।

विरूपं विषमरूपं यथा येन प्रकारेण प्राप्तं तत्कारणं तत्त्वतस्तव शंसतो मे सकाशाच्छृणु । अस्मिन् सर्गे अष्टादश श्लोकाः ।। 3.70.18 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्ततितमः सर्गः ।। 70 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.