64 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःषष्टितमः सर्गः

स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् ।

शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ।।

अपि गोदावरीं सीता पद्मान्यानयितुं गता ।। 3.64.1 ।।

अथ चिह्नविशेषैः सीताहरणनिश्चयश्चतुःषष्टितमे स दीन इत्यादि । लोके कश्चद्दीनो ऽपि दीनां वाचं न व्याहरति । इदमर्धमेकं वाक्यम् ।। 3.64.1 ।।

एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ।

नदीं गोदावरीं रम्यां जगाम लघु विक्रमः ।। 3.64.2 ।।

एवमिति । लघुविक्रमः त्वरितपदविन्यासः ।। 3.64.2 ।।

तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ।। 3.64.3 ।।

तीर्थवतीम् अवतारवतीम् ।। 3.64.3 ।।

नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ।। 3.64.4 ।।

क्रोशतः आह्वयतः । मे मत्तः । न शृणोति, सेति शेषः ।। 3.64.4 ।।

कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी ।

न ह्यहं वेद तं देशं यत्र सा जनकात्मजा ।। 3.64.5 ।।

लक्ष्मणस्य वचः श्रुत्वा दीनः सन्तापमोहितः ।

रामः समभिचक्राम स्वयं गोदावरीं नदीम् ।। 3.64.6 ।।

वेद जानामि ।। 3.64.5,6 ।।

स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ।। 3.64.7 ।।

स तामित्यर्धमेकं वाक्यम् ।। 3.64.7 ।।

भूतानि राक्षसेन्द्रेण वधार्हेण हृतामिति ।

न तां शशंसू रामाय तथा गोदावरी नदी ।। 3.64.8 ।।

भूतानि वन्यानि । सत्त्वानि दृष्टान्तार्थमिदम् । यथा पूर्वं पृच्छ्यमानानि भूतानि न शशंसुः तथा गोदवरी च न शशंसेत्यर्थः ।। 3.64.8 ।।

ततः प्रचोदिता भूतैः शंसास्मत्तां प्रियामिति ।

न तु साभ्यवदत्सीतां पृष्टा रामेण शोचता ।। 3.64.9 ।।

स्वयं न शशंस भूतैः प्रचोदितापि न शशंसेत्यर्थः । अस्मत् अस्मदर्थं पञ्चमी ।। 3.64.9 ।।

रावणस्य च तद्रूपं कर्माणि च दुरात्मनः ।

ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् ।। 3.64.10 ।।

अकथने हेतुमाह रावणस्येति ।। 3.64.10 ।।

निराशस्तु तया नद्या सीताया दर्शने कृतः ।

उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ।। 3.64.11 ।।

एषा गोदावरी सौम्य किञ्चिन्न प्रतिभाषते ।

किन्नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ।

मातरं चैव वैदेह्या विना तामहमप्रियम् ।। 3.64.12 ।।

निराशः कृतः इत्यन्वयः ।। 3.64.11,12 ।।

या मे राज्यविहीनस्य वने वन्येन जीवतः ।

सर्वं व्यपनयेच्छोकं वैदेही क्वनु सा गता ।। 3.64.13 ।।

वन्येन फलादिना ।। 3.64.13 ।।

ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः ।

मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ।। 3.64.14 ।।

मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम् ।

सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते ।। 3.64.15 ।।

एते मृगा महावीर्या मामीक्षन्ते मुहुर्मुहुः ।

वक्तुकामा इव हि मे इङ्गितान्युपलक्षये ।। 3.64.16 ।।

ज्ञातयश्च ते पक्षाः सहायाश्च तैर्विहीनस्य ।। 3.64.1416 ।।

तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह ।

क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया दृशा ।। 3.64.17 ।।

बाष्पसंरुद्धया दृशा निरीक्षन् निरीक्षमाणः सन् क्व सीतेत्युवाच ।। 3.64.17 ।।

एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः ।

दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम् ।। 3.64.18 ।।

उक्तः पृष्टः । नभःस्थलं दर्शयन्तः आकाशावलोकनेङ्गितेन सीतागमनमार्गं दर्शयन्त इत्यर्थः । उत्थिताः प्रस्थिताः आकाशमार्गेण दक्षिणां दिशं गता सीतेत्यसूचयन्निति भावः ।। 3.64.18 ।।

मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत ।

तेन मार्गेण धावन्तो निरीक्षन्ते नराधिपम् ।। 3.64.19 ।।

अमुमेवार्थं स्पष्टयति मैथिलीति । ह्रियमाणा सा मैथिली यां दिशमन्वपद्यत प्राप । तेन मार्गेण तया दिशा धावन्तः सन्तः नराधिपं निरीक्षन्ते ।। 3.64.19 ।।

येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः ।

पुनश्च मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः ।। 3.64.20 ।।

येन कारणेन मार्गम् आकाशमार्गं भूमिं च निरीक्षन्ते स्म पुनश्च मार्गं दक्षिणमार्गम् इच्छन्ति स्म, गन्तुमिति शेषः । तेन कारणेन मृगाः उपलक्षिताः गृहीतचेष्टार्था आसन् ।। 3.64.20 ।।

तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम् ।

उवाच लक्ष्मणो ज्येष्ठं धीमान् भ्रातरमार्तवत् ।। 3.64.21 ।।

उक्तमनुवदन्नाह तेषामिति । वचनसर्वस्वं तत्सदृशमिङ्गितमित्यर्थः । लक्षयामास मृगचेष्टार्थं वचनोक्तमिव ज्ञातवानित्यर्थः । उवाच चेत्यन्वयः । आर्तवत् आर्तमिति क्रियाविशेषणम् । क्तवतुप्रत्ययः ।। 3.64.21 ।।

क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः ।

दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः ।। 3.64.22 ।।

साधु गच्छावहै देव दिशमेतां हि नैर्ऋतिम् ।

यदि स्यादागमः कश्चिदार्या वा साथ लक्ष्यते ।। 3.64.23 ।।

क्वेत्यादिश्लोकद्वयमेकान्वयम् । यथा येन प्रकारेण दर्शयन्ति तथा गच्छावहै इत्यन्वयः । आर्षमात्मनेपदम् । नैर्ऋतिं दक्षिणपश्चिमां राक्षसाधिष्ठितां तस्याश्च दक्षिणैकदेशत्वाद्दक्षिणां दिशमिति व्यपदेशः । आगमः सीतादर्शनोपायः ।। 3.64.22,23 ।।

बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् ।

लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुन्धराम् ।। 3.64.24 ।।

श्रीमान् सीताधिगमनहेतुदर्शनश्रीमान् ।। 3.64.24 ।।

एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ ।

वसुन्धरायां पतितं पुष्पमार्गमपश्यताम् ।। 3.64.25 ।।

एवं साध्वित्याद्युक्तरीत्या । पुष्पमार्गं पुष्पयुक्तमार्गम् । मध्यमपदलोपिसमासः ।। 3.64.25 ।।

तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले ।

उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ।। 3.64.26 ।।

वीरः दर्शनोपायमात्रे ज्ञाने तां लब्धुं समर्थः ।। 3.64.26 ।।

अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण ।

पिनद्धानीह वैदेह्या मया दत्तानि कानने ।। 3.64.27 ।।

तानीमानि पुष्पाणि मया दत्तानि वैदेह्या केशपाशो पिनद्धानि बद्धानीत्यभिजानामि ।। 3.64.27 ।।

मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी ।

अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ।। 3.64.28 ।।

अम्लानीकरणात् सूर्यः अनुत्क्षेपणात् वायुः धारणात् भूमिश्च रक्षन्तीति भावः ।। 3.64.28 ।।

एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः ।

उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् ।। 3.64.29 ।।

महाबाहुमित्यनेन बलवत्सहायत्वम् पुरुषर्षभ इत्यनेन स्वतः पराक्रमशालित्वमुक्तम् । तथापि धर्मात्मा सहसा गिरेरविनाशकरणात् ।। 3.64.29 ।।

कच्चित्क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ।

रामा रम्ये वनोद्देशे मया विरहिता त्वया ।। 3.64.30 ।।

कच्चिदिति । रामा स्त्री ।। 3.64.30 ।।

क्रुद्धो ऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा ।। 3.64.31 ।।

अदर्शनादाह क्रुद्ध इति । एकमर्धम् ।। 3.64.31 ।।

तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत ।

यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ।। 3.64.32 ।।

हेमवर्णां हेमप्रतिमासदृशीम् । हेमाभां स्वर्णतुल्यकान्तिम् ।। 3.64.32 ।।

एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति ।

शंसन्निव ततः सीतां नादर्शयत राघवे ।। 3.64.33 ।।

शंसन्निव प्रतिध्वनिना कथयन्निव, स्वपृष्टस्यैवानुवादेनानादरोक्तिं रामो ऽमन्यतेति भावः । ततः अनादरोक्त्या राघवे विषये सीतां नादर्शयत ।। “णिचश्च” इत्यात्मनेपदम् ।। 3.64.33 ।।

ततो दाशरथी राम उवाच च शिलोच्चयम् ।। 3.64.34 ।।

दाशरथिरिति हेतुगर्भम् । शिलोच्चयं पर्वतम् । इदमर्धमेकम् ।। 3.64.34 ।।

मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ।

असेव्यः सन्ततं चैव निस्तृणद्रुमपल्लवः ।। 3.64.35 ।।

ममेति श्लोकः ।। 3.64.35 ।।

इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण ।

यदि नाख्याति मे सीतामार्यां चन्द्रनिभाननाम् ।। 3.64.36 ।।

इमामिति, इयमपि पृष्टा चेन्न वक्ष्यतीति मत्वेति भावः ।। 3.64.36 ।।

एवं स रुषितो रामो दिधक्षन्निव चक्षुषा ।

ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् ।। 3.64.37 ।।

त्रस्ताया रामकाङ्क्षिण्याः प्रधावन्त्या इतस्ततः ।

राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ ।। 3.64.38 ।।

निष्क्रन्तं प्रादुर्भूतम् । इतः पूर्वमदर्शनादेवमुक्तम्, त्रस्तायाः रावणाद्भीतायाः रामकाङ्क्षिण्याः रामाश्रमं प्रयातुमुद्युक्तायाः अत एव राक्षसेनानुवृत्तायाः अनुगतायाः अत एवेतस्ततो धावन्त्याः । ददर्शेत्यनुवर्तते ।। 3.64.37,38 ।।

स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ।

भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम् ।

सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ।। 3.64.39 ।।

स समीक्ष्येति सार्धश्लोक एकान्वयः । परिक्रान्तं परिक्रमम् पदन्यासमिति यावत् ।। 3.64.39 ।।

पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः ।

भूषणानां हि सौमित्रे माल्यानि विविधानि च ।। 3.64.40 ।।

कनकबिन्दवः स्वर्णशकलानि ।। 3.64.40 ।।

तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः ।

आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ।। 3.64.41 ।।

तप्तेति । तप्तं स्वर्णम् ।। 3.64.41 ।।

मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः ।

भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ।। 3.64.42 ।।

मन्य इति । इति मन्य इति योज्यम् ।। 3.64.42 ।।

तस्या निमित्तं वैहेह्या द्वयोर्विवदमानयोः ।

बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ।। 3.64.43 ।।

तस्या निमित्तं सुन्दोपसुन्दवत् परिग्रहार्थमित्यर्थः । विवदमानयोः वैमत्यं प्राप्तयोः । “भासनोपसम्भाषा” इत्यादिना आत्मनेपदम् ।। 3.64.43 ।।

मुक्तामणिमयं चेदं तपनीयविभूषितम् ।

धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ।। 3.64.44 ।।

मुक्तामणिमयं मुक्तामणिप्रचुरम् ।। 3.64.44 ।।

तरुणादित्यसङ्काशं वैडूर्यगुलिकाचितम् ।

विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् ।। 3.64.45 ।।

वैडूर्यगुलिकाचितं वैडूर्यमणिखचितम् ।। 3.64.45 ।।

छत्त्रं शतशलाकं च दिव्यमाल्योपशोभितम् ।

भग्नदण्डमिदं कस्य भूमौ सम्यङ्निपातितम् ।। 3.64.46 ।।

सम्यक् शतधा भग्नदण्डमित्यन्वयः ।। 3.64.46 ।।

काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः ।

भीमरूपा महाकायाः कस्य वा निहता रणे ।। 3.64.47 ।।

काञ्चनमयाः उरश्छदाः तनुत्राणि येषां ते । खराः अश्वतराः रासभविशेषा वा ।। 3.64.47 ।।

दीप्तपावकसङ्काशो द्युतिमान् समरध्वजः ।

अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः ।। 3.64.48 ।।

द्युतिमत्त्वादेव दीप्तपावकसङ्काशः समरे नायकसूचको ध्वजः समरध्वजः अपविद्धः रथश्च भग्न इति सम्बन्धः । साङ्ग्रामिकः समरोचितः ।। 3.64.48 ।।

रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ।

कस्येमे ऽभिहता बाणाः प्रकीर्णा घोरकर्मणः ।। 3.64.49 ।।

रथस्याक्षः आधारदण्डः तन्मात्राः तद्वद्दीर्घप्रमाणाः । प्रमाणे मात्रच् । विगतशिखाः मुण्डाग्रा इत्यर्थः । विगतफलभागा इति वा । अभिहताः भग्नाः प्रकीर्णाः इतस्ततो विप्रकीर्णाः ।। 3.64.49 ।।

शरावरै शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ।

प्रतोदाभीषुहस्तो वै कस्यायं सारथिर्हतः ।। 3.64.50 ।।

शरानावृणुत इति शरावरौ निषङ्गौ । प्रतोदः तोत्रम् । अभीषवः रश्मयः । “अभीषु प्रग्रहे रश्मौ” इति शाश्वतः ।। 3.64.50 ।।

कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि ।

चामरग्राहिणौ सौम्य सोष्णीषमणिकुण्डलौ ।। 3.64.51 ।।

उष्णीषः शिरोवेष्टनम् ।। 3.64.51 ।।

पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः ।

वैरं शतगुणं पश्य ममेदं जीवितान्तकम् ।। 3.64.52 ।।

एषा पदवी मार्गः पुरुषस्य जघनभागनिम्नत्वाद्यभावात्, तत्रापि रक्षसः पदवी विषमरूपत्वात् । एव़ञ्च मम राक्षसैः सह इदं वैरं शतगुणं सत्तेषां जीवितमन्तयति विनाशयतीति जीवितान्तकं सम्पन्नं पश्य । एतावत्पर्यन्तं राक्षसैस्तीव्रवैराकरणात्तदपराघः सोढः सम्प्रति तान् समूलं नाशयिष्यमीति भावः ।। 3.64.52 ।।

सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः ।

हृता मृता वा सीता सा भक्षिता वा तपस्विनी ।। 3.64.53 ।।

मृता मारिता ।। 3.64.53 ।।

न धर्मस्त्रायते सीतां ह्रियमाणां महावने ।। 3.64.54 ।।

अस्यामवस्थायामरक्षकत्वाद्धर्मे ऽपि रोषो जात इत्याह न धर्म इति इदमर्धमेकम् ।। 3.64.54 ।।

भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण ।

के हि लोके ऽप्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ।। 3.64.55 ।।

न केवलं धर्मे तत्फलप्रददेवेषु च रोषो जात इत्याह भक्षितायामिति । के वा ईश्वराः मम अप्रियं कर्तुं शक्ता इत्यन्वयः । आद्यो हिः पादपूरणे, द्वितीयः प्रसिद्धौ ।। 3.64.55 ।।

कर्तारमपि लोकानां शूरं करुणवेदिनम् ।

अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण ।। 3.64.56 ।।

तर्हीदानीं कथमप्रियं तैः कृतमित्यत्राह कर्तारमिति । लोकानां कर्तारमपि शूरमपि संहारकरणसमर्थमपि । करुणवेदिनं कारुण्यपरं पुरुषं सर्वभूतानि अज्ञानादवमन्येरन् नाद्रियेरन् । लोकस्वभावो ऽयमितिभावः ।। 3.64.56 ।।

मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् ।

निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ।। 3.64.57 ।।

विशष्य गर्विता देवाः मां नाद्रियेरन्नित्याह मृदुमिति । लोकहिते युक्तं सक्तम्, अत एव मृदुं कोमलहृदयम्, अत एव करुणवेदिनम्, दान्तं विषयचापलरहितं मां निर्वीर्यं मन्यन्ते । अज्ञत्वाविशेषादिति भावः ।। 3.64.57 ।।

मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण ।

अद्यैव सर्वभूतानां रक्षसामभवाय च ।। 3.64.58 ।।

मामिति । गुणः कारुण्यादिः मां प्राप्य दोषः संवृत्तः अनिष्टसाधनत्वेन संवृत्तः ।

तस्मादस्मदवमानहेतुतया दोषरूपेण गुणेन किं प्रयोजनमित्यर्थः । यद्वा सर्वभूतानां रक्षसां च अभवाय नाशाय गुणः दोषः संवृत्तः, दयां त्यक्त्वा क्रोधं करिष्यामीत्यर्थः ।। 3.64.58 ।।

संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः ।

संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते ।। 3.64.59 ।।

संहृत्येति । यथा उदितः सूर्यः शशिज्योत्स्नां शीतलचन्द्रचद्रिकां संहृत्यैव प्रकाशते तथा मम तेजः गुणान् मृदुत्वादीन् संहृत्यैव प्रकाशते ।। 3.64.59 ।।

नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः ।

किन्नरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण ।। 3.64.60 ।।

देवविषयः कोपस्तत्सम्बन्धिष्वपि प्रवर्ततामित्याह नैवेति ।। 3.64.60 ।।

ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण ।

निस्सम्पातं करिष्यामि ह्यद्य त्रेलोक्यचारिणाम् ।। 3.64.61 ।।

ममेति । अस्त्राणि ब्रह्मास्त्रादीनि । पश्य, उत्तरक्षण इति शेषः । त्रैलोक्यचारिणां निस्सम्पातं बाणप्रचारतो ऽशक्यसञ्चारम् ।। 3.64.61 ।।

सन्निरुद्धग्रहणमावारितनिशाकरम् ।

विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ।। 3.64.62 ।।

विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ।

ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ।

त्रैलोक्यं तु करिष्यामि संयुक्तं कालधर्मणा ।। 3.64.63 ।।

सन्निरुद्धेत्यादिसार्धश्लोकद्वयमेकान्वयम् । सन्निरुद्धः ग्रहगणः ग्रहणसञ्चारः यस्य । आवारितः आच्छदितः । विप्रनष्टानलमरुत् नष्टाग्निवातं भास्करद्युतिसंवृतं संवृतभास्करद्युति । आहिताग्न्यादित्वान्निष्ठायाः परिनिपातः । कालसाध्यो धर्मः कालधर्मः विनाशः तेन कालधर्मणा । अनिजार्षः ।। 3.64.62,63 ।।

न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः ।

अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ।। 3.64.64 ।।

न तामिति । तस्मादस्मिन् मुहूर्त इत्युपस्कार्यम् । कुशलिनीं क्षेमयुक्ताम्, अक्षतामित्यर्थः ।। 3.64.64 ।।

नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण ।

मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम् ।। 3.64.65 ।।

नाकाशमिति । गुणो मौर्वी ।। 3.64.65 ।।

अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् ।

समाकुलममर्यादं जगत् पश्याद्य(र्य) लक्ष्मण ।। 3.64.66 ।।

अर्दितं हिंसितम् । समाकुलं सम्यग्वयग्रम् । अमर्यादं त्यक्तस्वस्वप्रकृत्यवस्थानम् ।। 3.64.66 ।।

आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः ।

करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् ।। 3.64.67 ।।

दुरावरैः दुर्वारैः । जीविलोकं ब्रह्माण्डम् ।। 3.64.67 ।।

मम रोषप्रयुक्तानां सायकानां बलं सुराः ।

द्रक्ष्यन्त्यद्य विमुक्तानामतिदूरातिगामिनाम् ।। 3.64.68 ।।

रोषप्रयुक्तानां रोषसम्प्रयुक्तानाम्, ममेति शेषः । अतिदूरातिगामिनाम् अतिदूरातिपातिनाम् ।। 3.64.68 ।।

नैव देवा न दैतेया न पिशाचा न राक्षसाः ।

भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते ।। 3.64.69 ।।

न भविष्यन्ति नशिष्यन्तीत्यर्थः । पूर्वं दुःखप्राप्तिरेवोक्ता ।। 3.64.69 ।।

देवदानवयक्षाणां लोका ये रक्षसामपि ।

बहुधा न भविष्यन्ति बाणौघैः शकलीकृताः ।। 3.64.70 ।।

देवेति । बहुधा शकलीकृता इत्यन्वयः ।। 3.64.70 ।।

निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः ।

हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः ।। 3.64.71 ।।

निर्मर्यादान् स्वस्वव्यवस्थारहितान् । न दास्यन्ति न दास्यन्ति यदि ।। 3.64.71 ।।

तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम् ।

नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम् ।। 3.64.72 ।।

हृतां मृतां वेत्यत्र सूचितमाह तथारूपामिति । जगत्सर्वं सर्वं जनमित्यर्थः । अन्यथा त्रैलोक्यमित्यनेन पुनरुक्तिः सचराचरमित्यनुवादः ।। 3.64.72 ।।

इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम् ।

शरमादाय सन्दीप्तं घोरमाशीविषोपमम् ।। 3.64.73 ।।

सन्धाय धनुषि श्रीमान् रामः परपुऱञ्जयः ।

युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत् ।। 3.64.74 ।।

इत्युक्त्वेति श्लोकद्वयमेकान्वयम् । निष्पीड्य दृढमुष्टिबलेन गृहीत्वा ।। 3.64.73,74 ।।

यथा जरा यथा मृत्युर्थथा कालो यथा विधिः ।

नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण ।

तथाहं क्रोधसंयुक्तो न निवार्यो ऽस्मि सर्वथा ।। 3.64.75 ।।

यथेत्यादिसार्धश्लोकः । विधिः अदृष्टं जरादयो यथा न प्रतिहन्यन्ते तथाहं न निवार्यः । अन्ये यथाशब्दाः पादपूरणार्थाः । यद्वा बहुवचनमविवक्षितम् । प्रतिहन्यत इति प्रत्येकमन्वयः ।। 3.64.75 ।।

पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् ।

सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम् ।। 3.64.76 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःषष्टितमः सर्गः ।। 64 ।।

पुरेव मे चारुदतीं मायामृगं प्रति गमनात् पूर्वं कान्तं मां प्रति इमं मृगं गृहीत्वा मह्यं देहीति हर्षेण यत् स्मितं कृतवती तेन सहैव न दास्यन्ति चेत् अनिन्दितां तामलब्ध्वा जगदुपसंहारं करिष्यामि चेदपि इदं निन्दितमिति न के ऽपि वक्ष्यन्तीति भावः । वक्ष्यते हि “यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् । अस्या हेतोर्विशालाक्ष्या युक्तमित्येव मे मतिः ।।” इति सर्वज्ञेन हनुमता। चारुदतीमित्यत्र “छन्दसि” इति सूत्रेण दन्तशब्दस्य दत्रादेशः। “अग्रान्त” इति सूत्रस्थचकारेण वा दत्रादेशः। सीताम् अयोनिजतया मत्तोप्यतिशयिताम्। मैथिलीं वीरश्रेष्ठजनकचक्रवर्तिपुत्रीत्वेन मत्सदृशीम्। सदेवेत्यादि। सर्वलोकस्य सम्भूतमरणमेव करिष्यामीति भावः। परिवर्तयामि नाशयामि अन्यथाकरिष्यामीति वा। अस्मिन् सर्गे सार्धपञ्चसप्ततिश्लोकाः ।। 3.64.76 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुःषष्टितमः सर्गः ।। 64 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.