51 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकपञ्चाशः सर्गः

इत्युक्तस्य यथान्यायं रावणस्य जटायुषा ।

क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ।। 3.51.1 ।।

अथ स्वामिकार्याय प्राणत्यागमकरोज्जटायुरित्याह इतीत्यादि ।। 3.51.1 ।।

संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः ।

राक्षसेन्द्रो ऽभिदुद्राव पतगेन्द्रममर्षणः ।। 3.51.2 ।।

अमर्षणः असहनः ।। 3.51.2 ।।

स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महावने ।

बभूव वातोद्धतयोर्मेघयोर्गगने यथा ।। 3.51.3 ।।

सः युद्ध्यस्वेति पूर्वं प्रवर्तितः । सम्प्रहारः युद्धम् । वाताभ्यां प्रतिकूलवायुभ्याम् । उद्धतयोः प्रेरितयोः । मेघपक्षे सम्प्रहारः सङ्घट्टनमात्रम् ।। 3.51.3 ।।

तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा ।

सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ।। 3.51.4 ।।

सपक्षयोः पक्षसहितयोः माल्यवतोः माल्यवन्नामानौ द्वौ पर्वतौ । एको दण्डकारण्ये पूर्वमुक्तः माल्यवन्तं शिखरिणमिति । अन्यः किष्किन्धासमीपे वक्ष्यति वर्षावर्णने ।। 3.51.4 ।।

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।

अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः ।। 3.51.5 ।।

नालीकैः नालमात्रशरैः । नाराचैः आयसशरैः । विकर्णिभिः अङ्कुशाग्रशरैः ।। 3.51.5 ।।

स तानि शरजालानि गृघ्रः पत्त्ररथेश्वरः ।

जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ।। 3.51.6 ।।

पत्त्ररथेश्वरः पक्षीश्वरः । प्रतिजग्राह सेहे । रावणास्त्राणि रावणप्रयुक्तास्त्राणि ।। 3.51.6 ।।

तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः ।

चकार बहुधा गात्रे व्रणान् पतगसत्तमः ।। 3.51.7 ।।

तस्य रावणस्य गात्रे ।। 3.51.7 ।।

अथ क्रोधाद्दशग्रीवो जग्राह दश मार्गणान् ।

मृत्युदण्डनिभान् घोरान् शत्रुमर्दनकाङ्क्षया ।। 3.51.8 ।।

मार्गणान् बाणान् ।। 3.51.8 ।।

स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः ।

बिभेद निशितैस्तीक्ष्णैर्गृधं घोरैः शिलीमुखैः ।। 3.51.9 ।।

पूर्णम् आकर्णाकृष्टं यथ तथा मुक्तैः । अजिह्मगैः ऋजुगामिभिः । निशितैः शाणोल्लीढैः । अत एव तीक्ष्णैः घोरैः भयङ्करैः । शिलीमुखैः शिली मुख यषां तैः बाणैः गृध्रं बिभेद ।। 3.51.9 ।।

स राक्षसरथे पश्यन् जानकीं बाष्पलोचनाम् ।

अचिन्तयित्वा तान् बाणान् राक्षसं समभिद्रवत् ।। 3.51.10 ।।

समभिद्रवत् समभ्यद्रवत् ।। 3.51.10 ।।

ततो ऽस्य सशरं चापं मुक्तामणिविभूषितम् ।

चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ।। 3.51.11 ।।

सशरं संहितशरम् ।। 3.51.11 ।।

ततो ऽन्यद्धनुरादाय रावणः क्रोधमूर्च्छितः ।

ववर्ष शरवर्षाणि शतशो ऽथ सहस्रशः ।। 3.51.12 ।।

क्रोधमूर्च्छितः क्रोधेन व्याप्तः ।। 3.51.12 ।।

शरैरावारितस्तस्य संयुगे पतगेश्वरः ।

कुलायमुपसम्प्राप्तः पक्षीव प्रबभौ तदा ।। 3.51.13 ।।

आवारितः आ समन्ताद्व्याप्तः । कुलायं नीडं प्राप्तः पक्षीव बभौ ।। 3.51.13 ।।

स तानि शरवर्षाणि पक्षाभ्यां च विधूय च ।

चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः ।। 3.51.14 ।।

तानि च पक्षाभ्यां विधूय चरणाभ्यां धनुर्बभञ्ज चेत्यन्वयः ।। 3.51.14 ।।

तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् ।

पक्षाभ्यां स महावीर्यो व्याधुनोत्पतगेश्वरः ।। 3.51.15 ।।

शरावरं कवचम् । पक्षाभ्यां पक्षवातेन व्याधुनोत् प्राच्यावयत् ।। 3.51.15 ।।

काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् ।

तांश्चास्य जवसम्पन्नान् जघान समरे बली ।। 3.51.16 ।।

काञ्चनोऱश्छदान् स्वर्णमयकवचयुक्तान् । “उरश्छदः कङ्कटको जागरः कवचो ऽस्त्रियाम्” इत्यमरः । बली जटायुः ।। 3.51.16 ।।

वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम् ।

मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ।। 3.51.17 ।।

वरमिति । त्रिवेणुः युगन्धरः । कामं यथेच्छं गच्छतीति कामगम् ।। 3.51.17 ।।

पूर्णचन्द्रप्रतीकाशं छत्त्रं च व्यजनैः सह ।

पातयामास वेगेन ग्राहिभी राक्षसैः सह ।। 3.51.18 ।।

पूर्णेति । ग्राहिभिः छत्त्रचामरादिग्राहकैः । “नन्दिग्रहि ” इत्यादिना णिनिः ।। 3.51.18 ।।

सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः ।

पुनर्व्यपाहरच्छ्रीमान् पक्षिराजो महाबलः ।। 3.51.19 ।।

सारथेरिति । व्यपाहरत् खण्डितवान् । पुनरित्यनेन छत्त्रादिखण्डनं तुण्डेनेति सूच्यते ।। 3.51.19 ।।

स भग्नधन्वा विरथो हताश्वो हतसारथिः ।

अङ्केनादाय वैदेहीं पपात भुवि रावणः ।। 3.51.20 ।।

भग्नधन्वा । “धनुषश्च” इत्यनङ् ।। 3.51.20 ।।

दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् ।

साधु साध्विति भूतानि गध्रराजमपूजयन् ।। 3.51.21 ।।

दृष्ट्वेति । अपूजयन् मनसेति शेषः ।। 3.51.21 ।।

परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् ।

उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः ।। 3.51.22 ।।

गृह्य गृहीत्वा ।। 3.51.22 ।।

तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् ।

गृध्रराजः समुत्पत्य समभिद्रुत्य रावणम् ।

समावार्य महातेजा जटायुरिदमब्रवीत् ।। 3.51.23 ।।

तमित्यादिसार्धश्लोक एकान्वयः । समुत्पत्य ऊर्ध्वं गत्वा । समभिद्रुत्य अभिमुखं गत्वा । समावार्य सम्यगवरुध्य ।। 3.51.23 ।।

वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण ।

अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ।। 3.51.24 ।।

वज्रसंस्पर्शाः वज्रसमस्पर्शाः बाणाः यस्य ।। 3.51.24 ।।

समित्रबन्धुः सामात्यः सबलः सपरिच्छदः ।

विषपानं पिबस्येतत्पिपासित इवोदकम् ।। 3.51.25 ।।

समित्रेति । पीयते इति पानं पानकरसादि । विषयुक्तं पानमिति मध्यमपदलोपिसमासः । यद्वा विषस्य पानं विषपानम्, एतत्सीताहरणरूपं विषपानं पिबसि करोषि । ओदन पाकं पचतीतिवत् प्रकृतेः प्रत्ययोपस्थानमात्रं प्रयोजनम् ।। 3.51.25 ।।

अनुबन्धमजानन्तः कर्मणामविचक्षणाः ।

शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि ।। 3.51.26 ।।

अनुबध्यत इत्यनुबन्धः फलम् । अविचक्षणाः असमर्थाः । कर्मणाम् आत्मना क्रियमाणानां फलमजानन्तः शीघ्रं विनश्यन्ति । तत्रोदाहरणं भवानित्याह यथेति ।। 3.51.26 ।।

बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे ।

वधाय बडिशं गृह्य सामिषं जलजो यथा ।। 3.51.27 ।।

बद्धेति । कालपाशेन बद्धस्त्वं क्व देशे गतः सन् तस्य तस्मात्कालपाशान्मोक्ष्यसे, सहानुवर्तमानाद्बन्धात्कथं ते मुक्तिर्भविष्यतीत्यर्थः । सामिषं मांससहितम् । ब़डिशं मत्स्यबन्धनम् । “ब़डिशं मत्स्यबन्धनम्” इत्यमरः । आमिषलोभेन गृह्य गृहीत्वा जलजो मत्स्यो यथा देशान्तरं गतो ऽपि न जीवति बडिशामोक्षणात् तद्वत् ।। 3.51.27 ।।

नहि जातु दुराधर्षो काकुत्स्थौ तव रावण ।

धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ।। 3.51.28 ।।

आश्रमकर्मकं त्वत्कर्तृकं धर्षणं परिभवम् । आश्रमशब्देन आश्रमस्था सीतोच्यते । मञ्चाः क्रोशन्तीतिवत् ।। 3.51.28 ।।

यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ।

तस्कराचरितो मार्गो नैष वीरनिषेवितः ।। 3.51.29 ।।

यथेति । लोकगर्हितं कर्म भीरुणा त्वया यथा कृतं तथा तस्कराचरिता मार्गः ।

तस्करकृत्यतुल्यं त्वत्कृत्यमित्यर्थः । तस्मादेष मार्गः वीरनिषेवितो न भवतीत्यर्थः ।। 3.51.29 ।।

युद्ध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण ।

शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ।। 3.51.30 ।।

युद्ध्यस्वेति । पूर्वसर्गान्ते व्याख्यातो ऽयम् ।। 3.51.30 ।।

परेतकाले पुरुषो यत्कर्म प्रतिपद्यते ।

विनाशायात्मनो ऽधर्म्यं प्रतिपन्नो ऽसि कर्म तत् ।। 3.51.31 ।।

परेतेति । परेतकाले मृत्युकाल इत्यर्थः । यत्कर्म यादृशं कर्म पुरुषः आत्मविनाशाय प्रतिपद्यते प्राप्नोति । अधर्म्यम् अधर्मादनपेतं तत्कर्म सीताहरण रूपं प्रतिपन्नो ऽसि । एतादृशकर्मकरणादवश्यमविलम्बितं मृत्युं प्राप्नोषीत्यर्थः ।। 3.51.31 ।।

पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत् ।

कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि ।। 3.51.32 ।।

यस्य कर्मणः पापानुबन्धः पापफलसम्बन्धो भवति तत्कर्म लोकाधिपतित्वादिविशिष्टो़ ऽपि को नु कुर्वीति ।। 3.51.32 ।।

एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः ।

निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ।। 3.51.33 ।।

एवमिति । पृष्ठ इत्यनेन जटायुषमनादृत्य रावणस्य पलायमानत्वं गम्यते ।। 3.51.33 ।।

तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः ।

अधिरूढो गजारोहो यथा स्याद्दुष्टवारणम् ।। 3.51.34 ।।

तमिति । तं गृहीत्वा बलान्निवर्त्याधिरूढः सन् जटायुः गजारोहो यन्ता दुष्टवारणं पलायितम् अङ्कुशैर्निरुध्य यथा विदारयति तथा नखैः विरराद । स्यादिति सम्भावनायाम् ।। 3.51.34 ।।

विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् ।

केशांश्चोत्पाटयामास नखपक्षमुखायुधः ।। 3.51.35 ।।

विररादेति । नखपक्षमुखायुधो गृध्रः । अस्य रावणस्य पृष्ठे नखैः सह तुण्डं समर्पयन् व्यपारयन् सन् विरराद व्यदारयदित्यर्थः । केशांश्चोत्पाटयामास ।। 3.51.35 ।।

स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः ।

अमर्षस्फुरितोष्ठः सन् प्राकम्पत स रावणः ।। 3.51.36 ।।

स इति । अमर्षेण क्रोधेन । स्फुरितोष्ठः चलितोष्ठः । प्राकम्पत प्रहारार्थं प्रदक्षिणं प्राचलदित्यर्थः ।। 3.51.36 ।।

स परिष्वज्य वैदेहीं वामेनाङ्केन रावणः ।

तलेनाभिजघानाशु जटायुं क्रोधमूर्च्छितः ।। 3.51.37 ।।

स इति । अङ्केन ऊरुभागेन । जटायुं जटायुरित्युकारान्तो ऽप्यस्ति ।। 3.51.37 ।।

जटायुस्तमभिक्रम्य तुण्डेनास्य खगाधिपः ।

वामबाहून् दश तदा व्यपाहरदरिन्दमः ।। 3.51.38 ।।

जटायुरिति । अभिक्रम्य अभितो गत्वा, अवसरं प्रतीक्ष्येत्यर्थः । अस्य वामबाहून् यैः सीता परिष्वक्ता तानित्यर्थः । व्यपाहरत् अच्छिनत् ।। 3. 51.38 ।।

सञ्छिन्नबाहोः सद्यैव बाहवः सहसा ऽभवन् ।

विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः ।। 3.51.39 ।।

सञ्छिन्नबाहोः रावणादिति शेषः । सद्यैवेत्यार्षे सलोपे वृद्धिः । अभवन् प्रादुरभवन् । विषज्वालेत्युपमानविशेषणाद्वाहूनां सायुधत्वं गम्यते ।। 3.51.39 ।।

ततः क्रोधाद्दशग्रीवः सीतामुत्सृज्य रावणः ।

मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ।। 3.51.40 ।।

तत इति । अपोथयदताडयत् ।। 3.51.40 ।।

ततो मुहूर्तं सङ्ग्रामो बभूवातुलवीर्ययोः ।

राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ।। 3.51.41 ।।

तत इति । सङ्ग्रामो युद्धम् ।। 3.51.41 ।।

तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः ।

पक्षौ पार्श्वौ च पादौ च खङ्गमुद्धृत्य सो ऽच्छिनत् ।। 3.51.42 ।।

तस्येति । व्यायच्छमानस्य व्यायामं कुर्वतः । “आङो यमहनः” इत्यात्मनेपदम् । “शरीरायासजनकं कर्म व्यायाम उच्यते” इति वाग्भटः । युद्धं कुर्वतः इत्यर्थः । पार्श्वौ पक्षमूले ।। 3.51.42 ।।

स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा ।

निपपात हतो गृध्रो धरण्यामल्पजीवितः ।। 3.51.43 ।।

स इति । अल्पजीवितः द्वित्रिक्षणावस्थानोचितप्राण इत्यर्थः ।। 3.51.43 ।।

तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् ।

अभ्यधावत वैदही स्वबन्धुमिव दुःखिता ।। 3.51.44 ।।

क्षतजं शोणितम् ।। 3.51.44 ।।

तं नीलजीमूतनिकाशकल्पं सुपाण्डुरोरस्कमुदारवीर्यम् ।

ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम् ।। 3.51.45 ।।

नीलजीमूतनिकाशकल्पं नीलमेघप्रकाशतुल्यम् । अग्निदावं दावाग्निम् ।। 3.51.45 ।।

ततस्तु तं पत्त्ररथं महीतले निपातितं रावणवेगमर्दितम् ।

पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ।। 3.51.46 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकपञ्चाशः सर्गः ।। 51 ।।

ततः परिष्वज्य बाहुभ्यामिति शेषः ।। 3.51.46 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकपञ्चाशः सर्गः ।। 51 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.