20 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे विंशः सर्गः

ततः शूर्पणखा घोरा राघवाश्रममागता ।

रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ।। 3.20.1 ।।

ते रामं पर्णशालायामुपविष्टं महाबलम् ।

ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ।। 3.20.2 ।।

तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् ।

अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ।। 3.20.3 ।।

अथ चतुर्दशराक्षसवधो विंशे ततः शूर्पणखेत्यादि ।। 3.20.13 ।।

मुहुर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः ।

इमानस्या वधिष्यामि पदवीमागतानिह ।। 3.20.4 ।।

मुहूर्तमिति । प्रत्यनन्तरः प्रत्यासन्नः, रक्षक इति यावत् । अस्याः पदवीमागतानित्यन्वयः ।। 3.20.4 ।।

वाक्यमेतत्ततः श्रुत्व रामस्य विदितात्मनः ।

तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ।। 3.20.5 ।।

प्रत्यपूजयत् परिपालितवान् ।। 3.20.5 ।।

राघवो ऽपि महञ्चापं चामीकरविभूषितम् ।

चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ।। 3.20.6 ।।

चामीकरं स्वर्णम् ।। 3.20.6 ।।

पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ ।

प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ।। 3.20.7 ।।

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।

वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ।। 3.20.8 ।।

स्वस्य कपटवेषत्वं परिहरन्नाह पुत्रावित्यादि । आवां किमर्थमुपहिंसथ ।। 3.20.7,8 ।।

युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे ।

ऋषीणां तु नियोगेन प्राप्तो ऽहं सशरायुधः ।। 3.20.9 ।।

प्रत्युत युष्मानेवाहं हन्तुमागत इत्याह युष्मानिति । विप्रकारान् हिंसकान् । भवतां प्रथमप्रवृत्तिमाकाङ्क्षन् स्थितो ऽस्मीत्यर्थः ।। 3.20.9 ।।

तिष्ठतैवात्र सन्तुष्टा नोपावर्तितुमर्हथ ।

यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः ।। 3.20.10 ।।

अत्रैव सन्तुष्टाः अभीता इति यावत् । तिष्ठत नोपावर्तितुमर्हथेति मा पलायध्वमित्यर्थः । यदि वा प्राणैः अर्थः प्रयोजनं प्राणापेक्षास्ति चेन्निवर्तध्वमित्यर्थः ।। 3.20.10 ।।

तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।

ऊचुर्वाचं सुसङ्क्रुद्धा ब्रह्मघ्नाः शूलपाणयः ।। 3.20.11 ।।

[संरक्तनयना घोरा रामं संरक्तलोचनम् ।

परुषं मधुराभाषं हृष्टा दृष्टपराक्रमम् ।।]

क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।

त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ।। 3.20.12 ।।

ब्रह्मघ्नाः ब्राह्मणघ्नाः ।। 3.20.11,12 ।।

का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि ।

अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहव ।। 3.20.13 ।।

शक्तिः बलम् । “शक्तिर्बले प्रभावादौ” इति विश्वः ।। 3.20.13 ।।

एहि बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः ।

प्राणांस्त्यक्षङसि वीर्यं च धनुश्च करपीडितम् ।। 3.20.14 ।।

परिघैः गदाभेदैः । पट्टिशैः असिभेदैः ।। 3.20.14 ।।

इत्येवमुक्त्वा सङ्क्रुद्धा राक्षसास्ते चतुर्दश ।

[उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः ।]

चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ।। 3.20.15 ।।

तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ।

तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ।। 3.20.16 ।।

तानि शूलपाणय इति पूर्वमुक्तानि ।। 3.20.15,16 ।।

ततः पश्चान्महातेजा नाराचान् सूर्यसन्निभान् ।

जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ।। 3.20.17 ।।

नाराचान् अफलकान् बाणान् । शिलाशितान् शिलास्वपि शितान्, शिलानिर्भेदक्षमानित्यर्थः । शाणोपलसन्निघृष्टानित्यप्याहुः ।। 3.20.17 ।।

गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ।

मुमोच राघवो बाणान् वज्रानिव शतक्रतुः ।। 3.20.18 ।।

गृहीत्वेति । लक्ष्यान् वेध्यान् । वज्रानित्यभूतोपमा ।। 3.20.18 ।।

रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः ।

ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः ।

विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ।। 3.20.19 ।।

न्यमज्जन्त न्यमज्जन्त चेत्यर्थः ।। 3.20.19 ।।

ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ।

निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः ।। 3.20.20 ।।

विकृताः विरूपाः । विगतासवः विगतप्राणाः ।। 3.20.20 ।।

तान् दृष्ट्वा पतितान् भूमौ राक्षसी क्रोधमूर्च्छिता ।

परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान् ।। 3.20.21 ।।

भैरवस्वनान् भयङ्करशब्दान् ।। 3.20.21 ।।

सा नदन्ती पुनर्नादं जवाच्छूर्पणखा पुनः ।

[जगाम तत्र सम्भ्रान्ता खरो यत्र महाबलः ।]

उपगम्य खरं सा तु किञ्चित्संशुष्कशोणिता ।। 3.20.22 ।।

पपात पुनरेवार्ता सनिर्यासेव सल्लकी ।। 3.20.23 ।।

भ्रातुः समीपे शोकार्ता ससर्ज निनदं मुहुः ।

[भूमौ शयाना दुःखार्ता लब्धसञ्ज्ञाचिरात्पुनः ।]

सस्वरं मुमुचे बाष्पं विषण्णवदना तदा ।। 3.20.24 ।।

महानादं नदन्ती कुर्वन्तीत्यर्थः । निर्यासः क्षतप्रसृतवृक्षरसः । सल्लकी लताविशेषः ।। 3.20.2224 ।।

निपातितान् दृश्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः ।

वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगीनी खरस्य सा ।। 3.20.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे विंशः सर्गः ।। 20 ।।

पुनः सर्गार्थं सङ्क्षेपेणाह निपातितानिति । दृश्य दृष्ट्वा । अस्मिन् सर्गे पञ्चविंशतिश्लोकाः ।। 3.20.25 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने विंशः सर्गः ।। 20 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.