17 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तदशः सर्गः

। अरण्यकाण्डः ।।।। श्लोकसहितव्याख्यानम् ।।

(17सर्गतः 48सर्गपर्यन्तम्)

कृताभिषेको रामस्तु सीता सौमित्रिरेव च । त्ित्र त्त्र त्र

तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम् ।। 3.17.1 ।।

एवं रामतपोविशेषद्योतनाय हेमन्तं प्रथमप्रवृत्तमुपवर्ण्य ततस्त्रिषु संवत्सरेष्वतीतेषु कदाचिच्चैत्रमासे प्रसक्तं भाविसकलराक्षसवधनिदानत्वेन शूर्पणखावृत्तान्तमुक्षिपति सप्तदशे कृताभिषेक इत्यादि । ततः अभिषेकानन्तरभाविकृत्यानन्तरम् । आश्रमं तपोवनम् । “तपोवने मठे ब्रह्मचर्यादावाश्रमो ऽस्त्रियाम्” इति बाणः ।। 3.17.1 ।।

आश्रमं तमुपागम्य राघवः सह लक्ष्मणः ।

कृत्वा पौर्वह्णिकं कर्म पर्णशालामुपागमत् ।। 3.17.2 ।।

पूर्वाह्णे भवं पौर्वाह्णिकं ब्रह्मयज्ञादि न त्वग्निकृत्यम् अनुदितहोमत्वेन तस्य सूर्योपस्थानानन्तरभावित्वाभावात् । पर्णशालामुपागमत् आश्रमे पर्णशालातो बहिरेव कर्तव्यमनुष्ठाय वासस्थानमगमदित्यर्थः ।। 3.17.2 ।।

उवास सुखितस्तत्र पूज्यमानो महर्षिभिः ।

लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ।। 3.17.3 ।।

कथाः पुराणेतिहासकथाः । चकार उवाचेत्यर्थः । तथा चोक्तं धातुवृत्तौ “करोतिरभूतप्रादुर्भावे वर्तते अश्मानमितः कुरु पादं जले कुरु यः प्रथमः शकलः परापतेत् सस्मरुः कार्यः चोरङ्कारमाक्रोशतीत्यादौ अवस्थापननिर्मलीकरणोपादानोच्चारणादौ प्रयोगात् । चोरङ्कारमित्यत्र चोरशब्दमुच्चार्येत्यर्थः । नह्यत्र चोरः क्रियते अर्थनिर्देशस्तूपलक्षणम्” इति ।। 3.17.3 ।।

स रामः पर्णशालायामासीनः सह सीतया ।

विरराज महाबाहुश्चित्रया चन्द्रमा इव ।। 3.17.4 ।।

चित्रया चित्रानक्षत्रेण । चित्रापौर्णमास्यामिति भावः ।। 3.17.4 ।।

तथासीनस्य रामस्य कथासंसक्तचेतसः ।

तं देशं राक्षसी काचिदाजगाम यदृच्छाया ।। 3.17.5 ।।

रामस्यासीनस्य रामे आसीने ।। 3.17.5 ।।

सा तु शूर्मणखा नाम दशग्रीवस्य रक्षसः ।

भगिनी राममासाद्य ददर्श त्रिदशोपमम् ।। 3.17.6 ।।

राक्षसीमृषिर्विशेषयति सेति । राममासाद्य ददर्श रामं दृष्ट्वा आससादेत्यर्थः । समानकर्तृकत्वमात्रे ल्यप् ।। 3.17.6 ।।

सिंहोरस्कं महाबाहुं पद्मपत्त्रनिभेक्षणम् ।

आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ।। 3.17.7 ।।

गजविक्रान्तगमनं जटामण्डलधारिणम् ।

सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ।। 3.17.8 ।।

राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् ।

बभूवेन्द्रोपमं दृष्टवा राक्षसी काममोहिता ।। 3.17.9 ।।

सिंहोरस्कं सिंहशब्दः श्रेष्ठवाची, विशालोरस्कमित्यर्थः । महासत्त्वं महाबलम् । पार्थिवव्यञ्जनानि राजलक्षणानि । कामकृतमोहहेतवो विशेषणानि ।। 3.17.79 ।।

सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी ।

विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ।। 3.17.10 ।।

तस्यास्तस्मिन् मनःप्रवृत्तिं मुनिः परिहसति सुमुखमित्यादिना । वृत्तमध्यं तनुमध्यम् । विरूपाक्षी विकटनेत्री । सुकेशं नीलकेशम् ।। 3.17.10 ।।

प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा ।

तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ।। 3.17.11 ।।

प्रीतिरूपम् प्रियरूपम् । प्रीयत इति प्रीतिः । विरूपा विकटरूपा । सुस्वरं स्निग्धगम्भीरस्वरम् । तरुणं युवानं सौम्यं चेत्यर्थः । दारुणोति प्रतियोगिनिर्देशात् । दक्षिणम् ऋजुभाषिणम् । वामभाषिणी वक्रभाषिणी ।। 3.17.11 ।।

न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना ।

शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत् ।। 3.17.12 ।।

न्यायवृत्तम् उचिताचारम् । शरीरजो मन्मथः ।। 3.17.12 ।।

जटी तापसरूपेण सभार्यः शरचापधृत् ।

आगतस्त्वमिमं देशं कथं राक्षससेवितम् ।

किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ।। 3.17.13 ।।

जटीति तापसरूपेण जटी । कामुकरूपेण सभार्यः । क्षत्ित्रयरूपेण शरचापधृत् । राक्षससेवितम् एतद्रूपासहैः सेवितमित्यर्थः ।। 3.17.13 ।।

एवमुक्तस्तु राक्षस्या शूर्पनख्या परन्तपः ।

ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ।। 3.17.14 ।।

अनृतं नहि रामस्य कदाचिदपि सम्मतम् ।

विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य च ।। 3.17.15 ।।

शूर्पनख्येति छान्दसौ ङीष्णत्वाभावनौ । ऋजुबुद्धितया कुटिलेष्वप्यकुटिलबुद्धितया । आश्रमस्थस्य तपोवनस्थस्य ।। 3.17.14,15 ।।

आसीद्दशरथो नाम राजा त्रिदशविक्रमः ।

तस्याहमग्रजः पुत्रो रामो नाम जनैःश्रुतः ।। 3.17.16 ।।

भ्राता ऽयं लक्ष्मणो नाम यमीयान् मामनुव्रतः ।। 3.17.17 ।।

यवीयान् कनिष्ठः । अनुव्रतः अनुसरणं व्रतं यस्य सः ।। 3.17.16,17 ।।

इयं भार्या च वैदेही मम सीतेति विश्रुता ।

नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ।। 3.17.18 ।।

वैदिही विदेहराजपुत्री । मातुः कैकेय्याः । यन्त्रितः नियतः चोदित इति यावत् ।। 3.17.18 ।।

घर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः ।

त्वां तु वेदितुमिच्छामि कथ्यतां का ऽसि कस्य वा ।। 3.17.19 ।।

धर्मकाङ्क्षी पितृवाक्यपालनरूपधर्मकाङ्क्षी । धर्मार्थं तपोरूपधर्मसिद्ध्यर्थम् । वनं वस्तुं यन्त्रितः सन्निहागत इत्यन्वयः । का ऽसीति नामजातिप्रश्नः । कस्येति पित्रादिविषयः प्रश्नः ।। 3.17.19 ।।

नहि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे ।

इह वा किन्निमित्तं त्वमागता ब्रूहि तत्त्वतः ।। 3.17.20 ।।

नहीति । तावत्कार्त्स्न्येन । मनोज्ञाङ्गी न भवति, मां प्रति राक्षसीति प्रतिभासि । यद्वा राक्षससेवित इति तद्वचनात् राक्षसीत्वमित्याशङ्य परिहरति । मनोज्ञाङ्गी त्वं राक्षसीति न प्रतिभासीति रामदर्शनकाले तथारूपं कृतवती कामरूपत्वात् । दुर्मुखीत्यादिकं वास्तवाभिप्रायेण मुनिनोक्तमिति ज्ञेयम् ।। 3.17.20 ।।

सा ऽब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता ।

श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम ।। 3.17.21 ।।

तत्त्वार्थं परमार्थम् ।। 3.17.21 ।।

अहं शूर्पणखा नाम राक्षसी कामरूपिणी ।

अरण्यं विचरामीदमेका सर्वभयङ्करा ।। 3.17.22 ।।

कामरूपिणी इतोप्यधिकरूपधारणे समर्था । सर्वभयङ्करेति वक्ष्यमाणरतिप्रतिबन्धकनिवारणक्षमतोक्ता ।। 3.17.22 ।।

रावणो नाम मे भ्राता बलीयान् राक्षसेश्वरः ।

वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः ।। 3.17.23 ।।

का ऽसिति प्रश्नस्योत्तरमुक्त्वा कस्येत्यस्य प्रश्नस्योत्तरमाह रावण इत्यादिना ।। 3.17.23 ।।

प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः ।

विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ।। 3.17.24 ।।

कुम्भकर्णश्च मे भ्रातेत्यन्वयः । विभीषणस्तु तस्य विशेषो ऽस्ति सो ऽपि मे

भ्रातेत्यर्थः । तं विशेषमाह धर्मात्मेति । धर्मात्मा धर्मस्वभावः राक्षसचेष्टितो न, जन्मना राक्षसो ऽपि न राक्षसव्यापार इत्यर्थः ।। 3.17.24 ।।

प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ।

तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात् ।

समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् ।। 3.17.25 ।।

एतद्देशागमने निमित्तमाह प्रख्यातेति । खरदूशणौ जनस्थानस्थाविति शेषः । एवं भ्रातृकथनेन रामस्य स्वपरिग्रहे भीतिर्मा भूदित्यताह तानहमिति । अतिक्रान्ता अतिक्रम्य वर्तमाना, स्वच्छन्दचारिणीत्यर्थः । त्वा त्वाम् । पूर्वदर्शनात् प्रथमदर्शनमारभ्य । अपूर्वदर्शनादिति वा छेदः । देवदानवमर्त्येष्वितः पूर्वमदृष्टत्वद्रूपदर्शनाद्धेतोः । भावेन हृदयेन रत्याख्यभावेन वा भर्तारं समुपेतास्मि । तत्र हेतुः पुरुषोत्तममिति ।। 3.17.25 ।।

अहं प्रभावमम्पन्ना स्वच्छन्दबलगामिनी ।

चिराय भव मे भर्ता सीतया किं करिष्यसि ।। 3.17.26 ।।

सीतायां विद्यमानायां किं त्वयेत्यत्राह अहमिति । स्वच्छन्दबलगामिनी स्वेच्छानुगुणबलगमना च ।। 3.17.26 ।।

विकृता च विरूपा च न चेयं सदृशी तव ।

अहमेवानुरूपा ते भार्यारूपेण पश्य माम् ।। 3.17.27 ।।

सीतां निन्दति विकृता चेति । विकृतेति विषमशरीरत्वमुच्यते । करालां विकृताम् “करालो दन्तुरे तुङ्गे विशाले विकृते ऽपि च” इति वैजयन्ती ।। 3.17.27 ।।

इमां विरूपामसतीं करालां निर्णतोदरीम् ।

अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम् ।। 3.17.28 ।।

ततः पर्वतशृङ्गाणि वनानि विविधानि च ।

पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि ।। 3.17.29 ।।

निर्णतं निरतिशयेन नतं निम्नमुदरं यस्याः सा निर्णतोदरी ।। 3.17.28,29 ।।

इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् ।

इदं वचनमारेभे वक्तुं वाक्यविशारदः ।। 3.17.30 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तदशः सर्गः ।। 17 ।।

तां मदिरेक्षणां मदयति दर्पयतीति मदिरम् तादृशमीक्षणं यस्यास्ताम् । “मद दर्पशोभनयोः” इत्यस्माद्धातोः “इषिमदि–” इत्यादिना किरच् प्रत्ययः । अत्र सार्धत्रिंशच्छ्लोकाः ।। 3.17.30 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तदशः सर्गः ।। 17 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.