63 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिषष्टितमः सर्गः

स राजपुत्रः प्रियया विहीनः कामेन शोकेन च पीड्यमानः ।

विषादयन् भ्रातरमार्तरूपो भूयो विषादं प्रविवेष तीव्रम् ।। 3.63.1 ।।

अथ तापाख्यां मदनावस्थां दर्शयति त्रिषष्टितमे स राजपुत्र इत्यादि । कामेन प्रियास्मरणजन्येन शोकेन प्रियाविरहजन्येन भ्रातरं भूयो विषादयन् आर्तरूपः पीडितशरीरः । स रामः तीव्रं विषादं प्रविवेश । स्वशोकलक्ष्मणशोकाभ्याम् अधिकतरं शोकं गत इत्यर्थः ।। 3.63.1 ।।

स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्रो विपुले तु रामः ।

उवाच वाक्यं व्यसनानुरूपमुष्णं विनिःश्वस्य रुदन् सशोकम् ।। 3.63.2 ।।

विपुले शोके निमग्नः लक्ष्मणशोकदर्शनजशोकेन विपिले शोके सीताशोके निमग्नः व्यसनानुरूपं लोकवद्दुःखप्रसङ्गोचितम् उष्णं यथा तथा विनिःश्वस्य रुदन् सशोकं वाक्यमुवाच ।। 3.63.2 ।।

न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयो ऽस्ति वसुन्धरायाम् ।

शोकेन शोको हि परम्पराया मामेति भिन्दन् हृदयं मनश्च ।। 3.63.3 ।।

द्वितीयो मद्विधो दुष्कृतकर्मकारी पापकर्मकारी वसुन्धरायां नास्तीति मन्ये । शोकेनेति । न मद्विध इत्यादिनोक्तमनेनार्थेन स्पष्टीक्रियते । परम्परायाः परम्परारूपेणागतः शोकेन शोकः शोकाच्छोकः हृदयं मनश्च भिन्दन् मामेति । मनो ऽधिष्ठानं हृदयम् ।। 3.63.3 ।।

पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि ।

तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि ।। 3.63.4 ।।

एवं शोकपारम्पर्ये हेतुमुत्प्रेक्षते पूर्वमिति । पूर्वं पूर्वजन्मनि । प्रार्थितानि तत्र तेषु पापेषु विपाकः कार्यौन्मुख्यम् । आपतितः प्राप्तः ।। 3.63.4 ।।

राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननी वियोगः ।

सर्वाणि मे लक्ष्मण शोकवेगमापूरयन्ति प्रविचिन्तितानि ।। 3.63.5 ।।

दुःखानि परिगणयति राज्येति । राज्यप्रणाशो राज्यभ्रंशः । स्वजनैः वन्धुभिः । सर्वाणीति सामान्ये नपुंसकम् । शोकवेगं शोकराशिम् । प्रविचिन्तितानि स्मृतानि ।। 3.63.5 ।।

सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम् ।

सीतावियोगात् पुनरप्युदीर्णं काष्ठैरिवाग्निः सहसा प्रदीप्तः ।। 3.63.6 ।।

शून्यं निर्जनं वनमेत्य स्थितस्य मम शरीरे शान्तं शरीरक्लेशेन विस्मृतमित्यर्थः । उदीर्णम् उद्रिक्तं प्रदीप्तो ऽग्निः पुनः काष्ठैरिव ।। 3.63.6 ।।

सा नूनमार्या मम राक्षसेन बलाद्धृता खं समुपेत्य भीरुः ।

अपस्वरं सस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम् ।। 3.63.7 ।।

मम सम्बन्धिनी आर्या सा राक्षसेन केनचिद्बलाद्धृता सती खमाकाशमुपेत्य भीरुतया सस्वरविप्रलापा सती उच्चैर्ध्वनियुक्तविप्रलापा सती भयेन अपस्वरम् अपगतनिजस्वरं यथा तथा । अभीक्ष्णमत्यर्थम् आक्रन्दितवती उद्घोषितवतीत्युत्प्रेक्षा ।। 3.63.7 ।।

तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य ।

वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिभातः ।। 3.63.8 ।।

लोहितस्य लोहिताख्यस्य उत्तमचन्दनस्य । “रक्तं तु चन्दनं विद्याल्लोहितं हरिचन्दनम् ।” इति । यद्वा कुङ्कुमादिना रक्तस्य उत्तमचन्दनस्य सदा उचितौ योग्यौ वृत्तौ वर्तुलौ मम प्रियायाः स्तनौ शोणितपङ्कदिग्धौ राक्षसेन भक्षणाय विशसनादिति भावः । एवम्भूतौ सन्तौ नाभिभातः न प्रकाशेते । वर्तमानसामीप्ये वर्तमानवत्प्रयोगः । मम नाभिपात इति पाठान्तरे एवमपि मम देहपातो न जायत इत्यर्थः ।। 3.63.8 ।।

तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम् ।

रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः ।। 3.63.9 ।।

तत् पूर्वमनुभूतम् । श्लक्ष्णो मधुरः सुव्यक्तः अर्थव्यक्तियुक्तः मृदुः अपरुषः प्रलापो यस्य तत् ।। 3.63.9 ।।

तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुव्रतायाः ।

रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि ।। 3.63.10 ।।

हारपाशस्य हारमालायाः सदोचितायाः सुव्रतायाः मदन्यं स्प्रष्टुमनिच्छन्त्याः मम प्रियायाः ग्रीवां शून्ये एकान्ते विभिद्य रुधिररूपाणि अशनानि पानानि परिपीतवन्ति नूनम् ।। 3.63.10 ।।

मया विहीना विजने वने या रक्षोभिराहृत्य विकृष्यमाणा ।

नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा ।। 3.63.11 ।।

या विजने वने मया विहीना सा कुररीव क्रौञ्चीव विनादं मुक्तवती । आयतकान्तनेत्रेत्यनेन तत्काले मदागमनमार्गव्यग्रतोक्ता ।। 3.63.11 ।।

अस्मिन् मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा ।

कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम् ।। 3.63.12 ।।

पूर्वं गोदावर्यां सीतया सह सरसलीलाविहारो यस्मिन् कृतस्तस्मिन् प्रदेशे गत्वा तददर्शनेन जातपूर्वस्मरणो लक्ष्मणं प्रत्याह अस्मिन्निति । अस्मिन् एवं शून्यतया स्थिते प्रदेशे हि मया पूर्वं निधिर्लब्धः । मया सार्धं प्रणयधारायामहं पण्डितमानी तादृशो ऽहमप्यप्रधानो ऽभवं तदीयविदग्धव्यवहारेषु । उदारशीला पूर्वं नगरवासे श्वश्र्वादिसन्निधानेन सङ्कुचितविहारा स्थिता, सीतया सार्धमिति ह्युक्तम् । साम्प्रतं तु एकान्तस्थलतया सरसभोगेषु सर्वस्वदानं कृतवती । शिलातले पूर्वमुपोपविष्टा गोदावरीसलिले चिरं सलिलविहारे प्रवृत्ते खिन्नो रामः प्रदेशान्तरे निस्तरणायोगात् केनचिच्छिलातलमार्गेण निर्गन्तुमालोकितवान् । सीता तु “प्रेक्षितज्ञास्तु कोसलाः” इति न्यायेन कान्तस्य प्रेक्षणातिशयमवगम्य तं पुनः क्लेशयितुं तच्छिलातलं पूर्वमधिरूढा उपोपविष्टा । तत्र यं यं कोणमवलम्ब्योत्थातुमिच्छति तत्तदाक्रम्य मुखे सलिलमभिषिञ्चिन्ती स्थिता, वीप्सयैवमवगम्यते । कान्तस्मिता सहजमधुरहासवती । जातहासा स्वविजयकृतहर्षेण सञ्जातहासा । त्वामाह इतः पूर्वं कुत्रापि पराजयाभावात् अधुना स्त्रीतो ऽभिनव पराजयाद्रामो लज्जानम्रवदनो ऽभूत् । तं विहाय भ्रातरं बहुधा प्रशंसन्तं लक्ष्मणं प्रत्युक्तवती । बहुवाक्यजातं युवां सङ्कल्पितं सर्वं निर्वर्तितवन्तौ हि युवामतिबलपराक्रमशालिनौ पुरुषधौरेयौ वयमबलाजनाः युवां मृगयायै शत्रुहत्यायै चाभियातारः वयं गृहादनिर्गच्छन्त्यः युवयोः सङ्कल्पितं सर्वं कर्तुं शक्यं युष्मदग्रजो जितवान् हि इत्येवं बहुमुखं वचनमवोचत् ।। 3.63.12 ।।

गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् ।

अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी यति हि सा कदाचित् ।। 3.63.13 ।।

नित्यकालं सर्वकालम् । अत्र गोदावर्याम् चिन्तयामि तन्न युक्तमिति शेषः ।। 3.63.13 ।।

पद्मानना पद्मविशालनेत्रा पद्मानि वानेतुमभिप्रयाता ।

तदप्ययुक्तं नहि सा कदाचिन्मया विना गच्छति पङ्कजानि ।। 3.63.14 ।।

अभिप्रयाता गोदावरीमिति शेषः । पङ्कजानीत्यत्राप्यानेतुमित्यनुषज्यते ।। 3.63.14 ।।

कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम् ।

वनं प्रयाता नु तदप्ययुक्तमेकाकिनी साति बिभेति भीरुः ।। 3.63.15 ।।

अतिबिभेति । अत्यन्तं बिभेति ।। 3.63.15 ।।

आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन् ।

मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकवशस्य नित्यम् ।। 3.63.16 ।।

भो इत्यादित्यस्य सम्बोधनम् । लोकस्य कृताकृते जानातीति तथा । सत्यानृतयोः पुण्यपापयोः कर्मणः साक्षिन् । “कर्मसाक्षी जगच्चक्षुः” इत्युक्तेः । मम प्रिया क्व गता अथवा हृता केनचिदपहृतेति शंसस्व शंस ।। 3.63.16 ।।

लोकेषु सर्वेषु च नास्ति किञ्चिद्यत्ते न नित्यं विदितं भवेत्तत् ।

शंसस्व वायो कुलशालिनीं तां हृता मृता वा पथि वर्तते वा ।। 3.63.17 ।।

लोकेष्विति । ते नित्यं यन्न विदितं तत् सर्वेषु नास्ति तस्माच्छंसेति ।। 3.63.17 ।।

इतीव तं शोकविधेयदेहं रामं विसञ्ज्ञं विलपन्तमेवम् ।

उवाच सौमित्रिरदीनसत्त्वो न्याये स्थितः कालयुतं च वाक्यम् ।। 3.63.18 ।।

शोकविधेयः शोकपरवशः कालयुतं कालोचितम् । अदीनसत्त्वः अदीनधृतिः एवमुवाचेत्यन्वयः ।। 3.63.18 ।।

शोकं विमुञ्चार्य धृतिं भजस्व सोत्साहता चास्तु विमार्गणे ऽस्याः ।

उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु ।। 3.63.19 ।।

अस्याः सीतायाः । विमार्गणे अन्वेषणे ।। 3.63.19 ।।

इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमार्तो रघुवंशवर्धनः ।

न चिन्तयामास धृतिं विमुक्तवान् पुनश्च दुःखं महदभ्युपागमत् ।। 3.63.20 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिषष्टितमः सर्गः ।। 63 ।।

उदग्रपौरुषं श्रेष्ठपराक्रमम् । इतीव ब्रुवन्तं सौमित्रिं न चिन्तयामास तद्वचनं नादृतवानित्यर्थः । धृतिं च मुक्तवान् ।। 3.63.20 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिषष्टितमः सर्गः ।। 63 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.