13 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोदशः सर्गः

राम प्रीतो ऽस्मि भद्रं ते परितुष्टो ऽस्मि लक्ष्मण ।

अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ।। 3.13.1 ।।

एतादृशस्थले सर्गविच्छित्तिर्नास्तीति प्रतीयते, कथाया अपर्यवसानात् । अथ खरवधायागस्त्येनानुज्ञातस्य रामस्य पञ्चवटीं प्रति प्रयाणं त्रयोदशे रामेत्यादि । ते इत्यस्य लक्ष्मणेत्यत्राप्यन्वयः ।। 3.13.1 ।।

अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः ।

व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ।। 3.13.2 ।।

अध्वश्रमेण मार्गायासेन । प्रचुरः श्रमः श्रमजलं येन सः प्रचुरश्रमः । खेदः वां बाधते । उत्कण्ठते विश्रान्तिमभिलषति । अनेनास्याः श्रमातिशय उच्यते । जनकात्मजेति सौकुमार्यातिशयोक्तिः ।। 3.13.2 ।।

एषा हि सुकुमारी च दुःखैश्च न विमानता ।

प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ।। 3.13.3 ।।

एषा सुकुमार्यपि प्राज्यदोषं बहुदोषं वनं प्राप्ता दुःखैर्न विमानिता न परिभूता च । तत्र हेतुः भर्तृस्नेहप्रचोदितेति ।। 3.13.3 ।।

यथैषा रमते राम इह सीता तथा कुरु ।

दुष्करं कृतवत्येषा वने त्वामनुगच्छति ।। 3.13.4 ।।

इह आश्रमे ।। 3.13.4 ।।

एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन ।

समस्थमनुरञ्जन्ति विषमस्थं त्यज्यन्ति च ।। 3.13.5 ।।

प्रकृतिः स्वभावः । आसृष्टेः जगत्सृष्टिमारभ्य । समस्थं सुस्थं प्रति । विषमस्थं दुर्दशापन्नम् ।। 3.13.5 ।।

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।

गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ।। 3.13.6 ।।

शतह्रदानां विद्युताम् । लोलत्वं चञ्चलत्वम् । अनुगच्छन्ति चञ्चलचित्तत्त्वादिति भावः । शस्त्राणां तीक्ष्णतां क्रौर्यम् । अनुगच्छन्ति बहुकालागतस्नेहबन्धच्छेदनादिति भावः । गरुडानिलयोः शैघ्य्रम् अनु गच्छन्ति, अविचारेण कार्यकरणादिति भावः ।। 3.13.6 ।।

इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता ।

श्लाध्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ।। 3.13.7 ।।

एवं लौकिकस्त्रीणां दुष्टस्वभावमुक्त्वा सीतायास्तद्वैलक्षण्यमाह इयन्त्विति । न केवलं दोषरहिता, श्लाध्या सद्भिः प्रशंसनीया च । व्यपदेश्या पतिव्रतास्वग्रगण्या । एवं सीताप्रशंसनं वक्ष्यमाणदेवबन्दीमोचनोत्साहनाय ।। 3.13.7 ।।

अलङ्कृतो ऽयं देशश्च यत्र सौमित्रिणा सह ।

वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम ।। 3.13.8 ।।

अयं देशः आश्रमप्रदेशः । यद्वा भूलोकः । वत्स्यसि दश वर्षसहस्राणि दश वर्षशतानि च ।। 3.13.8 ।।

एवमुक्तः स मुनिना राघवः संयताञ्जलिः ।

उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ।। 3.13.9 ।।

धन्योस्म्यनुगृहीतो ऽस्मि यस्य मे मुनिपुङ्गवः ।

गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ।। 3.13.10 ।।

संयताञ्जलिः बद्धाञ्जलिः ।। 3.13.9,10 ।।

किन्तु व्यादिश मे देशं सोदकं बहुकाननम् ।

यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ।। 3.13.11 ।।

निरतः एकाग्रः ।। 3.13.11 ।।

ततो ऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः ।

ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः ।। 3.13.12 ।।

ध्यात्वा भाविकार्योचितदेशं ध्यात्वा । धीरः धीमान्, निश्चितकार्योचितदेश इत्यर्थः । धीरतरम् अतिनिश्चितं वचः ।। 3.13.12 ।।

इतो द्वियोजने तात बहुमूलफलोदकः ।

देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः ।। 3.13.13 ।।

तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह ।

रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ।। 3.13.14 ।।

कालो ऽयं गतभूयिष्ठो यः कालस्तव राघव ।

समयो यो नरेन्द्रेण कृतो दशरथेन ते ।। 3.13.15 ।।

तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि ।

धन्यस्ते जनको राम स राजा रघुनन्दन ।

यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः ।। 3.13.16 ।।

पञ्चानां वटानां समाहारः पञ्चवटी, तद्युक्तदेशो लक्षणया पञ्चवटीत्युच्यते । पञ्चवटीत्यभिविश्रुतो देश इत्यन्वयः ।। 3.13.1316 ।।

विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ ।

तपसश्च प्रभावेन स्नेहाद्दशरथस्य च ।। 3.13.17 ।।

मम पितृवाक्यपरिपालनप्रकारः कथं ज्ञात इत्यत्राह विदित इति । तपः प्रभावेन पर्यालोचनकरणे निमित्तमाह स्नेहादिति ।। 3.13.17 ।।

हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया ।

इह वासं प्रतिज्ञाय मया सह तपोवने ।। 3.13.18 ।।

[वसन्तं त्वां जनाः सर्वे ज्ञास्यन्ति रघुनन्दन ।]

अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ।। 3.13.19 ।।

स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ।

स देशः श्लाघनीयश्च नातिदूरे च राघव ।। 3.13.20 ।।

छन्दः अभिप्रायः । “अभिप्रायवशौ छन्दौ” इत्यमरः । खरादिवधसङ्कल्प इत्यर्थः । तपसा आलोचनेन तन्मूलत्वद्वचनभङ्ग्या चेत्यर्थः । अलङ्कृतो ऽयं देशश्चेति ममेह वासे प्रस्तुते किन्तु व्यादिश मे देशमिति त्वदुक्त्या चेत्यर्थः । अभिप्रायवेदनकार्यमाह इहेति । यस्मात्त्वदभिप्रायो मया विदितः अतो हेतोः इह तपोवने मया सह वासं प्रतिज्ञाय अनुज्ञाय तदनन्तरमेव त्वं पञ्चवटीं गच्छेति ब्रूमि ब्रवीमि । अनित्यमागमशासनमिति ईडभावः ।। 3.13.1820 ।।

गोदावर्याः समीपे च मैथिली तत्र रंस्यते ।

प्राज्यमूलफलश्चैव नानाद्विजगणायुतः ।

विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ।। 3.13.21 ।।

आयुतः व्याप्तः । विविक्तः विजनः ।। 3.13.21 ।।

भवानपि सदारश्च शक्तश्च परिरक्षणे ।

अपि चात्र वसन् राम तापसान् पालयिष्यसि ।। 3.13.22 ।।

परिरक्षणे तापसानामिति शेषः । अत्र प़ञ्चवट्याश्रमे ।। 3.13.22 ।।

एतदालक्ष्यते वीर मधूकानां महद्वनम् ।

उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता ।। 3.13.23 ।।

अस्य मधूकवनस्य । न्यग्रोधमभिगच्छता उत्तरेण मार्गेण गन्तव्यम् । इदं मधूकवनं गत्वा तदुत्तरेण मार्गेण गन्तव्यम्, स मार्गो न्यग्रोधं प्रापयतीत्यर्थः ।। 3.13.23 ।।

ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ।

ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः । 3.13.24 ।।

ततो न्यग्रोधात्परतः । स्थलं निर्वणप्रदेशम् । किञ्चिदुन्नतमुपारुह्य गमने कश्चित्पर्वतो दृश्यते तस्याविदूरतः पञ्चवटीति ख्यातः पञ्चवटत्वेन प्रसिद्धः । नित्यपुष्पितकाननत्वेन ज्ञातुं योग्यश्चाश्रमो दृश्यत इत्यर्तः ।। 3.13.24 ।।

अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ।

सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् ।। 3.13.25 ।।

तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ ।

तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया ।। 3.13.26 ।।

सत्कृत्य प्रदक्षिणनमस्काराभ्यामिति शेषः ।। 3.13.25,26 ।।

गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ ।

यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ ।। 3.13.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोदशः सर्गः ।। 13 ।।

विषक्ततूणौ बद्धतूणीरौ । अकारान्तोपि तूणशब्दः । महार्षिणा यथोपदिष्टेन पथेत्यन्वयः । समाहितौ एकाग्रौ । अस्मिन् सर्गे सार्धसप्तविंशतिः श्लोकाः ।। 3.13.27 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयोदशः सर्गः ।। 13 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.