55 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चपञ्चाशः सर्गः

सन्दिश्य राक्षसान् घोरान् रावणो ऽष्टौ महाबलान् ।

आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत ।। 3.55.1 ।।

पूर्वं स्वप्रभावकथनमुखेन प्रलोभनं कृतवान् । अथ भोगोपकरणप्रदर्शनमुखेन रावणः सीतां प्रलोभयति पञ्चपञ्चाशे सन्दिश्येत्यादि । बुद्धिवैक्लव्यात् बुद्धिदौर्बल्यात्, अकृतबुद्धित्वादित्यर्थः ।। 3.55.1 ।।

स चिन्तयानो वैदेहीं कामबाणसमर्पितः ।

प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ।। 3.55.2 ।।

समर्पितः पीडित इत्यर्थः । अभित्वरन् अभित्वरमाणः ।। 3.55.2 ।।

स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः ।

अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम् ।। 3.55.3 ।।

स प्रविश्येति वेश्म अन्तःपुरम् ।। 3.55.3 ।।

अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम् ।

वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ।। 3.55.4 ।।

मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् ।

अधोमुखमुखीं सीतामभ्येत्य च निशाचरः ।। 3.55.5 ।।

तां तु शोकपरां दीनामवशां राक्षसाधिपः ।

स बलाद्दर्शयामास गृहं देवगृहोपपम् ।। 3.55.6 ।।

अश्र्वित्यादिश्लोकत्रयमेकं वाक्यम् । अधोमुखमवनतं मुखं यस्यास्ताम् । “स्यादवाङप्यधोमुखः” इत्यमरः । शोकभाराभिपीडितामभ्येत्य शोकपरां दर्शयामासेति क्रियाभेदादपुनरुक्तिः । अवशां दर्शनमनिच्छन्तीम् ।। 3.55.46 ।।

हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम् ।

नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ।। 3.55.7 ।।

काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि ।

वज्रवैडूर्यचित्रैश्च स्तम्भैर्द्दष्टिमनोहरैः ।। 3.55.8 ।।

गृहं वर्णयति द्वाभ्याम् हर्म्येत्यादि । हर्म्यैः ह्रस्वविमानैः प्रासादैः उन्नतविमानैश्च सम्बाधं

निबिडम् । काञ्चनैः स्वर्णमयैः तापनीयैः तप्तस्वर्णमयैः स्तम्भैरुपलक्षितम् ।। 3.55.7,8 ।।

दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् ।

सोपानं काञ्चनं चित्रमारुरोह तया सह ।। 3.55.9 ।।

दिव्यदुन्दुभिनिर्ह्रादं निर्ह्रादवत् । अर्शआद्यच् । यद्वा दिव्यदुन्दुभेरिव निर्ह्रादः शब्दो यस्य तत्, आरोहणकाले दुन्दुभिवत् ध्वनतीति भावः । तोरणो बहिर्द्वारम् । चित्रम् आश्चर्यभूतम् । “आलेख्याश्चर्ययोश्चित्रम्” इत्यमरः । तया सहारुरोह तामादायारुरोहेत्यर्थः ।। 3.55.9 ।।

दान्तिका राजताश्चैव गवाक्षाः प्रियदर्शनाः ।

हेमजालावृताश्चासन् तत्र प्रासादपङ्क्तयः ।। 3.55.10 ।।

वक्ष्यमाणभूभागदर्शनसाधनान्याह दान्तिका इति । दान्तिकाः दन्तविकृताः । तत्र सोपानमार्गे गवाक्षा आसन् तदुपरि हेममयैः जालैः जालकैः प्रासादपङ्क्तयश्चासान् ।। 3.55.10 ।।

सुधामणिविचित्राणि भूमिभागानि सर्वशः ।

दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ।। 3.55.11 ।।

सुधावलेपनेन मणिभिश्च विचित्राणि, भूमिभागानीति क्लीबत्वमार्षम् । प्रादर्शयत प्रादर्शयामास । तैर्गवाक्षैरिति शेषः ।। 3.55.11 ।।

दीर्घिकाः पुष्करिण्यश्च नानावृक्षसमन्विताः ।

रावणो दर्शयामास सीतां शोकपरायणाम् ।। 3.55.12 ।।

दीर्घिकाः वाप्यः । पुष्करं जलमासामस्तीति पुष्करिण्यः । द्वितीयार्थे प्रथमा । “पुष्करादिभ्यो देशे” इति इनिप्रत्ययः । शोकपरायणामित्यनेन तस्या असह्यत्वं द्योत्यते ।। 3.55.12 ।।

दर्शयित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम् ।

उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया ।। 3.55.13 ।।

लोभितुं लोभयितुम् । अन्तर्भावितण्यर्थो ऽयम् ।। 3.55.13 ।।

दश राक्षसकोट्यश्च द्वाविंशतिरथापराः ।

तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ।। 3.55.14 ।।

दश द्वाविंशतिश्चेति द्वात्रिंशत्कोट्यः तेषां द्वात्रिंशत्कोटिराक्षसानाम् । गुणीभूतानामपि राक्षसानां तच्छब्देन परामर्शः “अथ शब्दानुशासनं केषां शब्दानाम्” इत्यदौ तथा दर्शनात् ।। 3.55.14 ।।

वर्जयित्वा जरावृद्धान् बालांश्च रजनीचरान् ।

सहस्रमेकमेकस्य मम कार्यपुरस्सरम् ।। 3.55.15 ।।

वर्जयित्वेति । बालवृद्धान् विना ममैकस्य । पुरः सरतीति पुरस्सरं परिचारकजातम् एकसहस्रमस्ति ।। 3.55.15 ।।

यदिदं राजतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् ।

जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी ।। 3.55.16 ।।

यदिदमिति । मम यदिदं राजतन्त्रं राजपरिकरः तत्सर्वं त्वयि प्रतिष्ठितं त्वदधीनं मम जीवितं च त्वदधीनं त्वयि प्रितिष्ठितम् । त्वं मे मम प्राणैः प्राणेभ्यः गरीयसी ।। 3.55.16 ।।

बहूनां स्त्रीसहस्राणां मम यो ऽसौ परिग्रहः ।

तासां त्वमीश्वरा सीते मम भार्या भव प्रिये ।। 3.55.17 ।।

अन्तःपुरचारिणां स्त्रीसहस्राणां मध्ये यो ऽसौ मम परिग्रहः या भार्या इत्यर्थः । “परिग्रहः कलत्रे स्यात्” इति शाश्वतः । नियत पुँल्लिङ्गः । जात्यभिप्रायेणैकवचनम् । तासामित्यत्र स्त्रीणामित्यभिप्रायेण स्त्रीलिङ्गनिर्देशः । मम भार्या सती तासामीश्वरा स्वामिनी भव । “स्थेशभासपिसकसो वरच्” इति वरच् । ततष्टाप् ।। 3.55.17 ।।

साधु किं ते ऽन्यथा बुद्ध्या रोचयस्व वचो मम ।

भजस्व मा ऽभितप्तस्य प्रसादं कर्तुमर्हसि ।। 3.55.18 ।।

साध्विति । मम वाचो रोचयस्व मदुक्तं स्वीकृरु, इदं साधु समीचीनम्, ते अन्यथा बुद्ध्या किम्? रामविषया बुद्धिर्मा भूदित्यर्थः । तस्मात् मा मां भजस्व । अभितप्तस्य कामाभिप्तस्य मे प्रसादं कर्तुमर्हसि । अर्हसि किं नार्हसीत्यपि ध्वनिः ।। 3.55.18 ।।

परिक्षिप्ता सहस्रेण लङ्केयं शतयोजना ।

नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः ।। 3.55.19 ।।

रामागमनप्रसक्तिरेव नास्तीत्याशयेनाह परिक्षिप्तेति । “शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्” इति वचनात् सहस्रेण अनेकराक्षसैः परिक्षिप्ता परिवृता इयं लङ्का शतयोजना शतयोजनपरिमिता, तस्मान्नेयं धर्षयितुं शक्या ।। 3.55.19 ।।

न देवेषु न यक्षेषु न गन्धर्वेषु पक्षिषु ।

अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ।। 3.55.20 ।।

मा भूत्पुरस्य दर्धर्षता मम पुनर्वीर्यं शृण्वित्याह न देवेष्विति । मे वीर्यं यः समो भवेत् तं देवेषु न पश्यामि, यक्षेषु न पश्यमि, गन्धर्वेषु न पश्यामि, पक्षिषु च न पश्यामि ।। 3.55.20 ।।

राज्यभ्रष्टेन दीनेन तापसेन गतायुषा ।

किं करिष्यसि रामेण मानुषेणाल्पतेजसा ।। 3.55.21 ।।

राज्येति । गतायुषा अल्पायुषेत्यर्थः ।। 3.55.21 ।।

भजस्व सीते मामेव भर्ताहं सदृशस्तव ।

यौवनं ह्यध्रुवं भीरू रमस्वेह मया सह ।। 3.55.22 ।।

भजस्वेति । इह भवने ।। 3.55.22 ।।

दर्शने मा कृथा बुद्धिं राघवस्य वरानने ।

का ऽस्य शक्तिरिहागन्तुमपि सीते मनोरथैः ।। 3.55.23 ।।

राघवस्य दर्शने बुद्धिं मा कृथाः, तद्दर्शनं च दुर्लभमित्यर्थः । तदेव स्पष्टयति । का ऽस्ये ऽति । अत्र आगन्तुं मानसिकव्यापारो ऽपि न शक्यः, किं पुनः कायिक इत्यर्थः ।। 3.55.23 ।।

न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः ।

दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलां शिखाम् ।। 3.55.24 ।।

अशक्यत्वे दृष्टान्तमाह न शक्य इति । विमलां निर्धूमाम् । शिखां ज्वालाम् ।। 3.55.24 ।।

त्रयाणामपि लोकानां न तं पश्यामि शोभने ।

विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् ।। 3.55.25 ।।

त्रयाणामिति । लोकानामिति निर्धारणे षष्ठी ।। 3.55.25 ।।

लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय ।

त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः ।

अभिषेकोदकल्किन्ना तुष्टा च रमयस्व माम् ।। 3.55.26 ।।

त्वत्प्रेष्याः त्वत्परिचरिकाः, भविष्यन्तीति शेषः । अभिषेकेत्यर्धमेकं वाक्यम् । अभिषेकोदकेन पट्टमहिषीत्वेनाभिषेकोदकेन । क्लिन्ना सिक्ता ।। 3.55.26 ।।

दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् ।

यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि ।। 3.55.27 ।।

दुष्कृतमिति । पुरा पूर्वजन्मनि यद्दुष्कृतं कर्मास्ति तत् वनवासेन वनवासक्लेशेन दत्तफलत्वात् गतं नष्टम् ।। 3.55.27 ।।

इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिलि ।

भूषणानि च मुख्यानि सेवस्व च मया सह ।। 3.55.28 ।।

भूषणानि च मुख्यानि, सेवस्व धारयेत्यर्थः ।। 3.55.28 ।।

पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे ।

विमानं सूर्यसङ्काशं तरसा निर्जितं मया ।। 3.55.29 ।।

विशालं रमणीयं च तद्विमानमनुत्तमम् ।

तत्र सीते मया सार्धं विहरस्व यथासुखम् ।। 3.55.30 ।।

पुष्पकमित्यादि । तरसा बलेन । विशालं वेशनयोग्यम् । “वेः शालच्छङ्कटचौ” इत्यनेन शालच् प्रत्ययः । असङ्कोचन्यायाद्यावदुपवेष्टृसम्भावनमुपवेशार्हमित्यर्थः ।। 3.55.29,30 ।।

वदनं पद्मसङ्काशं विमलं चारुदर्शनम् ।

शोकार्तं तु वरारोहे न भ्राजति वरानने ।। 3.55.31 ।।

न भ्राजति न भासते ।। 3.55.31 ।।

एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना ।

पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत् ।। 3.55.32 ।।

वदतीति सतिसप्तमी । पिधाय आच्छाद्य ।। 3.55.32 ।।

ध्यायन्तीं तामिवास्वस्थां दीनां चिन्ताहतप्रभाम् ।

उवाच वचनं पापो रावणो राक्षसेश्वरः ।। 3.55.33 ।।

इवशब्दो ऽवधारणे । यद्वा अस्वस्थामिव भूताविष्टामिवेत्यर्थः ।। 3.55.33 ।।

अलं व्रीडेन वैदेहि धर्मलोपकृतेन च ।

आर्षो ऽयं दैवनिष्यन्दो यसत्वामभिगमिष्यति ।। 3.55.34 ।।

अलमिति । वैदेहि धर्मलोपकृतेन व्रीडेनालम्, वीडा मा भूदित्यर्थः । कुत इत्यत्राह आर्ष इति । यो दैवनिष्यन्दः दैवकृतसम्बन्धः त्वामभिगमिष्यति अयं सम्बन्धः आर्षः ऋषिप्रोक्तः, न त्वधर्म्य इत्यर्थः । अत्र नारदः “परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ताः स्वयम्भुवा । पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा । कन्या वाक्षतयोनिर्वा पाणिग्रहणदूषिता । पुनर्भूः प्रथमा प्रोक्ता पुनः संस्कारकर्मणा । देशधर्मनपेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसन्यस्मै सा द्वितीया प्रकीर्त्यते । मृते भर्तरि तु प्राप्ता देवरादीनपास्य या । उपगच्छेत्परं कामात् सा तृतीया प्रकीर्तिता । प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा च या । तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ।।” इति। 3.55.34 ।।

एतौ पादौ महास्निग्धौ शिरौभिः परिपीडितौ ।

प्रसादं कुरु मे क्षिप्रं वश्यो दासो ऽहमस्मि ते ।। 3.55.35 ।।

एताविति । तवेति शेषः ।। 3.55.35 ।।

इमाः शून्या मया वाचः शुष्ममाणेन भाषिताः ।

न चापि रावणः काञ्चिन्मूर्ध्ना स्त्रीं प्रणमेत ह ।। 3.55.36 ।।

इमा इति । शुष्यमाणेन अनङ्गेन तप्यमानेन मया । इमाः शून्याः नीचाः वाचो भाषिताः । कुतः? यस्माद्रावणः स्त्रीं न प्रणमेत न प्रणमेत् । अदृष्टपूर्वत्वात् स्वस्यापि नीचोक्तिर्विस्मयावहा जातेति भावः ।। 3.55.36 ।।

एवमुक्त्वा दशग्रीवो मैथीलीं जनकात्मजाम् ।

कृतान्तवशमापन्नो ममेयमिति मन्यते ।। 3.55.37 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चपञ्चाशः सर्गः ।। 55 ।।

एवमिति । मन्यते अमन्यत ।। 3.55.37 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ।। 55 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.