22 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वाविंशः सर्गः

एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा ।

उवाच रक्षसां मध्ये खरः खरतरं वचः ।। 3.22.1 ।।

अथ खरस्य युद्धोद्योगो द्वाविंशे एवमित्यादि । आधर्षितः अवमानितः । खरः दारुणः । खरतरं परुषतरम् ।। 3.22.1 ।।

तवावमानप्रभवः क्रोधो ऽयमतुलो मम ।

न श्क्यते धारयितुं लवणाम्भ इवोत्थितम् ।। 3.22.2 ।।

लवाणाम्भः लवणसमुद्राम्मः उत्थितं पर्वण्युल्बणम् ।। 3.22.2 ।।

न रामं गणये वीर्यान्मानुषं क्षीणजीवितम् ।

आत्मदुश्चरितैः प्राणान् हतो यो ऽद्य विमोक्ष्यति ।। 3.22.3 ।।

यः आत्मदुश्चरितैरेव हतः सन् अद्य प्राणान् विमोक्ष्यति तं रामं न गणये ।। 3.22.3 ।।

बाष्पः संह्रियतामेष सम्भ्रमश्च विमुच्यताम् ।

अहं रामं सह भ्रात्रा नयामि यमसादनम् ।। 3.22.4 ।।

संह्रियतां निवर्त्यताम् । सदनमेव सादनम् ।। 3.22.4 ।।

परश्वधहतस्याद्य मन्दप्राणस्य संयुगे ।

रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ।। 3.22.5 ।।

परश्वधः कुठारः । मन्दप्राणस्य अल्पप्राणस्य । औष्ण्यार्थमिदमुक्तं रक्तवर्णत्वार्थं च ।। 3.22.5 ।।

सा प्रहृष्टा वचः श्रुत्वा खरस्य वदनच्च्युतम् ।

प्रशशंस पुनर्मौर्ख्याद् भ्रातरं रक्षसां वरम् ।। 3.22.6 ।।

मौर्ख्यात् अव्यवस्थितचित्ततया पुनः प्रशशंस ।। 3.22.6 ।।

तया परुषितः पूर्वं पुनरेव प्रशंसितः ।

अब्रवीद्दूषणं नाम खऱः सेनापतिं तदा ।। 3.22.7 ।।

अमुमर्थं विशदयति तयेति ।। 3.22.7 ।।

चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् ।

रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ।। 3.22.8 ।।

नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् ।

लोकहिंसाविहाराणां बलिनामुग्रतेजसाम् ।। 3.22.9 ।।

तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् ।

सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ।। 3.22.10 ।।

चतुर्दशेत्यादिश्लोकत्रयमेकं वाक्यम् । चतुर्दश सहस्राणि सन्तीति शेषः । घोराणां घोररूपाणाम् । लोकहिंसाविहाराणां जनवधैकलीलानाम् । महास्यानां विकृतमुखानामिति यावत् । उदीर्णानां गर्वितानाम् । सर्वोद्योगं सर्वप्रकारैरुद्योगम्, सर्वायुधवाहनादिभिरुद्योगमित्यर्थः ।। 3.22.810 ।।

उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च ।

शरांश्चित्रांश्च खङ्गांश्च शक्तीश्च विविधाः शिताः ।। 3.22.11 ।।

शक्तीः आयुधविशेषान् ।। 3.22.11 ।।

अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् ।

वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ।। 3.22.12 ।।

पौलस्त्यानां पुलस्त्यवंश्यानामग्रे रणकोविदो ऽहं गन्तुमिच्छामीत्यन्वयः । रामस्य रणज्ञत्वात् पौलस्त्यानां वधार्थमिति दैवीवाक् भाविसूचिनी ।। 3.22.12 ।।

इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् ।

सदश्वैः शबलैर्युक्तमाचचक्षे ऽथ दूषणः ।। 3.22.13 ।।

शबलैः नानावर्णैः । “शबलैताश्च कर्बुरे” इत्यमरः । महारथं सदश्वैर्युक्तमाचचक्ष इत्यन्वयः । 3.22.13 ।।

तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् ।

हेमचक्रमसम्बाधं वैडूर्यमयकूबरम् ।। 3.22.14 ।।

तप्तकाञ्चनं परिशुद्धकाञ्चनम् । असम्बाधं विस्तीर्णम् । कूबरः युगन्धरः । “कूबरस्तु युगङ्धरः” इत्यमरः ।। 3.22.14 ।।

मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः ।

मङ्गलैः पक्षिसङ्घैश्च ताराभिरभिसंवृतम् । 3.22.15 ।।

ध्व़जनिस्त्रिंशसम्पन्नं किङ्किणीकविराजितम् ।

सदश्वयुक्तं सोमर्षादारुरोह खरो रथम् ।। 3.22.16 ।।

निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः ।

तस्थुः सम्परिवार्यैनं दूषणं च महाबलम् ।। 3.22.17 ।।

खरस्तु तान् महेष्वासान् घोरवर्मायुधध्वजान् ।

निर्यातेत्यब्रमीद्धृष्टो रथस्थः सर्वराक्षसान् ।। 3.22.18 ।।

मङ्गलैः मङ्गलावहैः अलङ्कारकरैरित्यर्थः । काञ्चनैः काञ्चनविकारैः । इदं विशेषणद्वयं मत्स्यादिसर्वविशेषणम् । निस्रिंशः असिः ।। 3.22.1518 ।।

ततस्तद्राक्षसं सैन्यं घोरवर्मायुधध्वजम् ।

निर्जगाम जनस्थानान्महानादं महाजवम् ।। 3.22.19 ।।

तत इति । राक्षसं राक्षससम्बन्धि ।। 3.22.19 ।।

मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः ।

खङ्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः ।। 3.22.20 ।।

शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः ।

गदासिमुसलैर्वज्रैर्घृहीतैर्भीमदर्शनैः ।। 3.22.21 ।।

राक्षसानां सुघोराणां सहस्राणि चतुर्दश ।

निर्यातानि जनस्थानात् खरचित्तानुवर्त्तिनाम् ।। 3.22.22 ।।

मुद्गरः लोहमयगदा । पट्टिशः “पट्टयम्” इति द्रमिडनामयुक्त आयुधविशेषः । तोमरः “वल्लयम्” इति द्रमिडनामयुक्तः । शक्तिः “ईट्टी” इति द्रमिडनामकः । परिघः “कुण्डान्तडी” इति द्रमिडनामा । अतिमात्रैः महद्भिः वज्रैः अष्टास्रैरायुधैः ।। 3.22.2022 ।।

तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान् ।

खरस्यापि रथः किञ्चिज्जगाम तदनन्तरम् ।। 3.22.23 ।।

तांस्त्विति । किञ्चिज्जगाम सेनासम्मर्दादिति भावः । खरानुज्ञाभावाद्वा ।। 3.22.23 ।।

ततस्तान् शबलानश्वांस्तप्तकञ्चनबूषितान् ।

खरस्य मतिमाज्ञाय सारथिः समचोदयत् ।। 3.22.24 ।।

मतिं सम्मतिम् । यात्राभिप्रायमिति यावत् । 3.22.24 ।।

स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः ।

शब्देनापूरयामास दिशश्च प्रदिशस्तदा ।। 3.22.25 ।।

शब्देन नेमिघोषेण । प्रदिशः विदिशः ।। 3.22.25 ।।

प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थं त्वरितो यथान्तकः ।

अचूचुदत्सारथिमुन्नदन् घनं महाबलो मेघ इवाश्म वर्षवान् ।। 3.22.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वाविंशः सर्गः ।। 22 ।।

महाबलः झञ्झामारुतः । “झञ्झावातो महाबलः” इति निघण्टुः । तद्वान् अर्श आद्यच् । झञ्झामारुतप्रेरित इत्यर्थः । महानिल इत्यापि पाठः, । अश्मवर्षवान् अश्मवर्षोद्युक्त इत्यर्थः । घनम् उपरितत(न)मेघम् ।। 3.22.26 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वाविंशः सर्गः ।। 22 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.