56 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्पञ्चाशः सर्गः

सा तथोक्ता तु वैदेही निर्भया शोककर्शितता ।

तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ।। 3.56.1 ।।

तथैतच्छ्रुत्वा परुषं भाषमाणायाः सीतायाः पुनरशोकवनिकानयनं षट्पञ्चाशे सा तथेत्यादि । अन्तरतो मध्ये, पतिव्रतायाः परपुरुषं प्रत्यभिमुखतया भाषणायोगात् ।। 3.56.1 ।।

राजा दशरथो नाम धर्मसेतुरिवाचलः ।

सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ।। 3.56.2 ।।

धर्मसेतुः धर्मस्य सेतुरिव मर्यादास्थापकः इत्यर्थः । अचलः स्थिरः । परिज्ञातः प्रसिद्धः, कथमेतादृशकुलं प्राप्ता ऽतिचरेदिति भावः ।। 3.56.2 ।।

रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ।

दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम ।। 3.56.3 ।।

सः दशरथपुत्रः दैवतं सर्वलोकानामिति शेषः । य एवम्भूतः स मे पतिरिति योजना । कथमेवम्भूतभर्तृका ऽतिचरेदिति भावः ।। 3.56.3 ।।

इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः ।

लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् हरिष्यति ।। 3.56.4 ।।

इक्ष्वाकूणामिति । त्वद्वधार्थमेव भ्रात्रा सह इक्ष्वाकुकुले ऽवतीर्ण इति भावः । तथा च न मे त्वत्तो भयमिति भावः ।। 3.56.4 ।।

प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् ।

शयिता त्वं हतः सङ्ख्ये जनस्थाने यथा खरः ।। 3.56.5 ।।

तर्हि कथमिदानीं स तूष्णीं स्थित इत्याशङ्क्याह प्रत्यक्षमिति । प्रत्यक्षं यथा तथा यदि धर्षिता स्यां तदा त्वं हतः सन् युद्धे शयिता म्रयेथा इत्यर्थः ।। 3.56.5 ।।

य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः ।

राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ।। 3.56.6 ।।

य इति । निर्विषाः निर्वीर्या इति राक्षसपक्षे ।। 3.56.6 ।।

तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः ।

शरीरं विधमिष्यन्ति गङ्गा कूलमिवोर्मयः ।। 3.56.7 ।।

तस्येति । विधमिष्यन्ति ध्मास्यन्ति निपातयिष्यन्तीत्यर्थः । गङ्गेत्यविभक्तिकनिर्देशः, गङ्गाया ऊर्मय इत्यर्थः ।। 3.56.7 ।।

असुरैर्वा सुरैर्वा त्वं यद्यवध्यो ऽसि रावण ।

उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ।। 3.56.8 ।।

त्वं सुरासुरैर्यद्यप्यवध्यः तथापि तस्य रामस्य सुमहद्वैरं कोपमुत्पाद्य स्थितस्त्वं जीवन् सन् तच्छरपातान्न मोक्ष्यसे न मुक्तो भविष्यसीत्यर्थः ।। 3.56.8 ।।

स ते जीवितशेषस्य राघवोन्तकरो बली ।

पशोर्यूपगतस्येव जीवितं तव दुर्लभम् ।। 3.56.9 ।।

सः राघवः । ते जीवितशेषस्य अन्तकरः नाशं कर्तुं समर्थः । तस्मात् यूपगतस्य पशोरिव रामापराधिनस्तव जीवितं दुर्लभम् ।। 3.56.9 ।।

यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा ।

रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम् ।। 3.56.10 ।।

यदीति । हे रक्षः सः रामः त्वां रोषदीप्तेन चक्षुषा यदि पश्येत् तदा त्वं निर्दग्धः सन् सद्यः पराभवं गच्छेः, निर्दग्धशब्देनातीव पीडितत्वमुच्यते ।। 3.56.10 ।।

यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा ।

सागरं शोषयेद्वापि स सीतां मोचयेदिह ।। 3.56.11 ।।

नभसः आकाशात् पातयेत् नाशयेत वा अदर्शनं प्रापयेद्वा सागरमपि शोषयेत् । सः सीतां मोचयेदिति किमुत ।। 3.56.11 ।।

गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः ।

लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ।। 3.56.12 ।।

त्वकृतेन परदाराभिमर्शनरूपपापेन त्वम् आयुरादिहीनो भविष्यसि, लङ्का च वैधव्यसंयुक्ता अनाथत्वयुक्ता भविष्यति । “आयुर्बलं यशो लक्ष्मीः परदाराभिमर्शनात् । सद्य एव विनश्यन्ति ” इति स्मृतेः ।। 3.56.12 ।।

न ते पापमिदं कर्म सुखोदर्कं भविष्यति ।

या ऽहं नीता विनाभावं पतिपार्श्वात्त्वया वने ।। 3.56.13 ।।

न त इति । या ऽहं वने पतिपार्श्वात् विनाभावं वियोगं नीता । तस्यां मयि ते इदं पापं कर्म सुखोदर्कं न भविष्यति, किन्तु दुःखोदर्कमेव भविष्यतीत्यर्थः ।। 3.56.13 ।।

स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः ।

निर्भयो वीर्यमाश्रित्य शून्यो वसति दण्डके ।। 3.56.14 ।।

दैवतसंयुक्तः दैवबलसंयुक्तः । दीनस्तापसो रामो मां किं करिष्यतीति पूर्वं रावणेनोक्तस्य परिहारो ऽयम् ।। 3.56.14 ।।

स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम् ।

अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे ।। 3.56.15 ।।

स त इति । दर्पं मदम् । उत्सेकम् उल्लङ्घ्यकार्यकारित्वम् । गात्रेभ्य इत्युक्तिर्दर्पादिनां देहविशिष्टगुणत्वात् ।। 3.56.15 ।।

यदा विनाशो भूतानां दृश्यते कालचोदितः ।

तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ।। 3.56.16 ।।

लोकन्यायमाह यदेति । कालचोदितो दैवकृतः विनाशो यदा दृश्यते सन्निहितो भवतीत्यर्थः । तदा कार्ये कृत्ये प्रमाद्यन्ति वैपरीत्यं प्राप्नुवन्ति ।। 3.56.16 ।।

मां प्रधृष्य स ते कालः प्राप्तो ऽयं राक्षसाधम ।

आत्मनो राक्षसानां च वधायान्तःपुरस्य च ।। 3.56.17 ।।

उक्तं लोकन्यायं प्रकृते योजयति मामिति । मां प्रधृष्य स्थितस्य तव । कालो ऽप्ययमेव वर्तमान एव, न तु चिरायेत्यर्थः । आत्मनो राक्षसानामन्तःपुरस्य च वधाय प्राप्तः ।। 3.56.17 ।।

न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता ।

द्विजातिमन्त्रपूता च चण्डालेनावमर्दितुम् ।। 3.56.18 ।।

तथाहं धर्मनित्यस्य धर्मपत्नी पतिव्रता ।

त्वया स्प्रष्टुं न शक्या ऽस्मि राक्षसाधम पापिना ।। 3.56.19 ।।

न शक्येत्यादिश्लोकद्वयमेकान्वयम् । यज्ञो यज्ञपुरुषः तन्मध्यस्था गार्हपत्याहवनीयमध्यगता । वेदिः ऐष्टिकी महावेदिः । स्रुग्भाण्डमण्डिता स्रुगाद्युपकरणालङ्कृता । द्विजादिमन्त्रैः उद्धननादिमन्त्रैः । पूता शुद्धा यथा चण्डालेनावमर्दितुं पादेनाक्रमितुं न शक्या नार्हा तथाहं धर्मनित्यस्य यज्ञस्थानीयस्य धर्मपत्नी पतिव्रता त्वया स्प्रष्टुं न शक्या ।। 3.56.18,19 ।।

क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यदा ।

हंसी सा तृमषण्डस्थं कथं पश्येत मदगुकम् ।। 3.56.20 ।।

नित्यदा नित्यम् । नित्यशब्दस्य सर्वैकादिष्वपाठेप्यार्षौ दाप्रत्ययः । सा प्रसिद्धा । तृणषण्डस्थं जलजनडादितृणकदम्बमध्यस्थम् । मद्गुकं जलकाकम् ।। 3.56.20 ।।

इदं शरीरं निस्सञ्ज्ञं बन्ध वा खादयस्व वा ।

नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस ।।

न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः ।। 3.56.21 ।।

निस्सञ्ज्ञं निश्चेष्टम् । बन्ध बधान । खादयस्व भक्षय ।। न त्वित्यर्धमेकं वाक्यम् । आत्मनः उपक्रोशमपवादं पृथिव्यां दातुं न शक्ष्यामि ।। 3.56.21 ।।

एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः ।

रावणं मैथिली तत्र पुनर्नोवाच किञ्चन ।। 3.56.22 ।।

एवमुक्त्वेति । तत्र तद्विषये क्रियाभेदात् पुनर्मैथिलीशब्दप्रयोगः ।। 3.56.22 ।।

सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् ।

प्रत्युवाच ततः सीतां भयसन्दर्शनं वचः ।। 3.56.23 ।।

सीताया इति । रोमहर्षणं क्रोधावहत्वाद्रोमाञ्चकरम् । भयसन्दर्शनं भयोत्पादकम् ।। 3.56.23 ।।

शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि ।

कालेनानेन नाभ्येषि यदि मां चारुहासिनि ।। 3.56.24 ।।

ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः ।। 3.56.25 ।।

शृण्वित्यादिसार्धश्लोक एकान्वयः । द्वादश मासानित्यत्यन्तसंयोगे द्वितीया । प्रतीक्ष इति शेषः । प्रातर्भक्षणार्थम् । सूदाः पाचकाः । “सूदा औदनिका गुणाः” इत्यमरः । अत्र सीताहरणं चैत्रमास इत्यवगन्तव्यम्, संवत्सरान्ते रावणवधकरणात् । तेन त्रीन् वर्षान् पञ्चवट्यां रामः स्थित इति गम्यते । हेमन्तवर्णनं तु रामतपोविशेषज्ञापनाय न शूर्पणखागमनज्ञापनाय ।। 3.56.24,25 ।।

इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः ।

राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ।। 3.56.26 ।।

शत्रून् रावयति क्रोशयतीति शत्रुरावणः ।। 3.56.26 ।।

शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः ।

दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः ।। 3.56.27 ।।

शीघ्रमिति । विनेष्यध्वं विनयध्वम् । व्यत्ययेन स्यादेशः ।। 3.56.27 ।।

वचनादेव तास्तस्य सुघोरा राक्षसीगणाः ।

कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् ।। 3.56.28 ।।

कृतप्राञ्जलयः रावणवाक्याङ्गीकारे कृतप्रकृष्टाञ्जलयः ।। 3.56.28 ।।

स ताः प्रोवाच राजा तु रावणो घोरदर्शनः ।

प्रचाल्य चरुणोत्कर्षैर्दारयन्निव मेदिनीम् ।। 3.56.29 ।।

चरणोत्कर्षैः चरणाघातैः । मेदिनीं भुवम् । दारयन्निव भिन्दन्निव । प्रचाल्य गत्वा उत्थाय वा ताः प्रोवाच ।। 3.56.29 ।।

अशोकवनिकामध्ये मैथिली नीयतामियम् ।

तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ।। 3.56.30 ।।

युष्माभिः परिवारिता युष्माभिः रक्ष्यताम् ।। 3.56.30 ।।

तत्रैवान्तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम् ।

आनयध्वं वशं सर्वा वन्यां गजवधूमिव ।। 3.56.31 ।।

तत्रेति । अत्यन्तभयेन प्राणवियोगो माभूदिति पुनः सान्त्वैरित्युक्तम् ।। 3.56.31 ।।

इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः ।

अशोकवनिकां जग्मुर्मैथिलीं प्रतिगृह्य तु ।। 3.56.32 ।।

प्रतिगृह्य आदाय ।। 3.56.32 ।।

सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् ।

सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ।। 3.56.33 ।।

सर्वस्मिन्नपि काले फलानि येषां ते सर्वकालफलाः तैः । एवमुत्तरत्रापि जग्मुरिति पूर्वेणान्वयः ।। 3.56.33 ।।

सा तु शोकपरीताङ्गी मैथिली जनकात्मजा ।

राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा ।। 3.56.34 ।।

सा त्विति । राक्षसीत्यविभक्तिकनिर्दशः । राक्षसीनामित्यर्थः ।। 3.56.34 ।।

शोकेन महता ग्रस्ता मैथिली जनकात्मजा ।

न शर्म लभते भीरुः पाशबद्धा मृगी यथा ।। 3.56.35 ।।

लभते अलभत ।। 3.56.35 ।।

न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता ।

पतिं स्मरन्ती दयितं च दैवतं विचेतना ऽभूद्भयशोकपीडिता ।। 3.56.36 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्पञ्चाशः सर्गः ।। 56 ।।

तत्र अशोकवनिकायाम् । दयितं प्राणवल्लभम् । ननु सीता लक्ष्म्या अवतार इति सिद्धम्, वक्ष्यति च “सीता लक्ष्मीर्भवान् विष्णुः” इति । विष्णुपुराणे चोक्तम् “राघवत्वे ऽभवत्सीता रुक्मिणी कृष्णजन्मनि” इति । एवम्भूतां सीतां समरसीमनि जनितमूर्च्छालक्षणं लक्ष्मणमप्युद्धर्तमसमर्थो रावणः कथं बलात्करोति स्म? वक्ष्यति हि “हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः । शक्यं भुजाभ्यामुद्धर्तुं न सङ्ख्ये भरतानुजः ।।” इति। उच्यते वेदवतीरूपपूर्वजन्मनि देवी तथा सङ्कल्पितवती। उक्तं ह्युत्तरकाण्डे “यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने। तस्मात्तव वधार्थं वै उत्पत्स्येऽहं महीतले ।।” इति । देवकार्यनिर्वाहाय स्वयमेव स्वधर्षणमङ्गीचकार, प्रजायां कूपपतितायां यथा माता स्वयं तदुपरि पतति वात्सल्यातिशयेन तथा रावणबन्दीकृतदेवस्त्रीरक्षणाय स्वयं तत्र स्वगमनमनुतवती । वक्ष्यति सुन्दरकाण्डे “नापहर्तुमहं श्कया तस्य रामस्य धीमतः । विधिस्तव वधार्थाय विहितो नात्र संशयः ।।” इति। तर्हि सीता प्रलापादिकं किमर्थं कृतवतीति चेत् शृणु, पतिविरहे पतिव्रतयैवं वर्तितव्यमिति लोकहितप्रवर्तनाय प्रलापादिकमकरोदिति ।। 3.56.36 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्पञ्चाशः सर्गः ।। 56 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.