76 Sarga अयोध्याकाण्डम्
श्रीरामायणे आदिकाव्ये श्रीमदयोध्याकाण्डे षट्सप्ततितम: सर्ग: तमेवं शोकसन्तप्तं भरतं कैकयीसुतम् । उवाच वदतां श्रेष्ठो वसिष्ठ: श्रेष्ठवागृषि: ।। 2.76.1 ।। तमिति । कैकयीसुतमित्यत्र “केकयमित्रयुप्रलयानां यादेरिय:” इति विहितस्येयादेशस्याभाव: ।। 2.76.1 ।। अलं शोकेन भद्रं ते राजपुत्र महायश: । प्राप्तकालं नरपते: कुरु संयानमुत्तमम् ।। 2.76.2 ।। अलमिति । संयानं सम्यग् यानम्, स्वर्गप्रापकक्रियाजातमित्यर्थ: ।। 2.76.2 ।। वसिष्ठस्य वच: श्रुत्वा भरतो […]
75 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चसप्ततितम: सर्ग: दीर्घकालात् समुत्थाय संज्ञां लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वीक्ष्व मातरम् । सो ऽमात्यमध्ये भरतो जननीमभ्यकुत्सयत् ।। 2.75.1 ।। दीर्घकालादिति । दीनां प्रतिहतेच्छत्वात् । अमात्यमध्ये सुमन्त्रादिमध्ये । अनेन भरतागमनं श्रुत्वा सुमन्त्रादय: इत:पूर्वमागता इति गम्यते । अभ्यकुत्सयत् मन्त्रिणां ज्ञापनाय पुनरप्यनिन्ददित्यर्थ: ।। 2.75.1 ।। राज्यं न कामये जातु मन्त्रये नापि मातरम् । […]
74 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतु:सप्ततितम: सर्ग: तां तथा गर्हयित्वा तु मातरं भरतस्तदा । रोषेण महताविष्ट: पुनरेवाब्रवीद्वच: ।। 2.74.1 ।। एवं सामान्यतो मृदुतया निन्दित्वा पुनस्तदपराधस्मरणेन प्रवृद्धरोष: क्रूरं निन्दति–तामित्यादिना । तथा मृदुतया ।। 2.74.1 ।। राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि । परित्यक्ता च धर्मेण मा मृतं रुदती भव ।। 2.74.2 ।। भ्रंशस्व भ्रष्टा भव । त्वन्मातृवत्त्वमपि वनं प्रविशेत्यर्थ: […]
73 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिसप्ततितम: सर्ग: कैकेय्याप्येवमुक्तस्तु भरतो राघवानुज: । कर्णौ कराभ्यां प्रच्छाद्य पपात धरणीतले ।।] श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ । भरतो दु:खसन्तप्त इदं वचनमब्रवीत् ।। 2.73.1 ।। श्रुत्वेति । वृत्तम् अतीतम्, मृतमिति यावत् ।। 2.73.1 ।। किंनु कार्यं हतस्येह मम राज्येन शोचत: । विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ।। 2.73.2 […]
72 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विसप्ततितम: सर्ग: अपश्यंस्तु ततस्तत्र पितरं पितुरालये । जगाम भरतो द्रष्टुं मातरं मातुरालये ।। 2.72.1 ।। अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् । उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमासनम् ।। 2.72.2 ।। स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् । भरत: प्रतिजग्राह जनन्याश्चरणौ शुभौ ।। 2.72.3 ।। सा तं मूर्द्धन्युपाघ्राया परिष्वज्य यशस्विनम् । अङ्के […]
71 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकसप्ततितम: सर्ग: स प्राङ्मुखो राजगृहादभिनिर्याय राघव: । तत: सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ।। 2.71.1 ।। ह्लादिनीं दूरपारां च प्रत्यक्स्त्रोतस्तरङ्गिणीम् । शतद्रूमतरच्छ्रीमान् नदीमिक्ष्वाकुनन्दन: ।। 2.71.2 ।। स प्राङ्मुख इत्यादि । अत्र दूता ऋजुदुर्गमार्गेण त्वरितं गिरिव्रजमागता: । भरतस्तु चतुरङ्गबलयुक्ततया वक्रमपि महामार्गमाश्रित्य ययौ । अतो नदीपर्वतादिभेदकीर्त्तनमिति बोध्यम् । सुदामां सुदामाख्यां नदीम् । अवेक्ष्य […]
70 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ततितम: सर्ग: भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहना: । प्रविश्यासह्यपरिघं रम्यं राजगृहं पुरम् ।। 2.70.1 ।। समागम्य तु राज्ञा च राज पुत्रेण चार्चिता: । राज्ञ: पादौ गृहीत्वा तु तमूचुर्भरतं वच: ।। 2.70.2 ।। भरत इति । असह्यपरिघं परैरप्रधृष्यपरिघम् । राज्ञा केकयराजेन । राजपुत्रेण युधाजिता । अर्चिता: आनीतोपायननिरीक्षणेन संमानिता: । राज्ञ: भरतस्य । […]
69 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनसप्ततितम: सर्ग: यामेव रात्रिं ते दूता: प्रविशन्ति स्म तां पुरीम् । भरतेनापि तां रात्रिं स्वप्नो दृष्टो ऽयमप्रिय: ।। 2.69.1 ।। यामिति । यामेव यस्यामेव । सप्तम्यर्थे द्वितीया छान्दसी । तां तस्याम् । अयं वक्ष्यमाण: ।। 2.69.1 ।। व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् । पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ।। 2.69.2 […]
68 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्यकाण्डे अष्टषष्टितम: सर्ग: तेषां हि वचनं श्रुत्वा वसिष्ठ: प्रत्युवाच ह । मित्रामात्यगणान् सर्वान् ब्राह्मणांस्तानिदं वच: ।। 2.68.1 ।। तेषामित्यादि । मित्रामात्यगणान् मित्रभूतामात्यगणान् सुमन्त्रादीन् । ब्राह्मणान् मार्कण्डेयादीन् ।। 2.68.1 ।। यदसौ मातुलकुले पुरे राजगृहे सुखी । भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वित: ।। 2.68.2 ।। तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयै: । आनेतुं भ्रातरौ वीरौ […]
67 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तषष्टितम: सर्ग: आक्रन्दितनिरानन्दा सास्रकण्ठजनाकुला । अयोध्यायामवतता सा व्यतीयाय शर्वरी ।। 2.67.1 ।। अथाराजकदोषवर्णनम्–आक्रन्दित निरानन्देति । आक्रन्दितेन हेतुना निरानन्दा । अवतता दीर्घा, दु:खवशादतिदीर्घभूतेत्यर्थ: ।। 2.67.1 ।। व्यतीतायां तु शर्वर्यामादित्यस्योदये तत: । समेत्य राजकर्तार: सभामीयुर्द्विजातय: ।। 2.67.2. ।। मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यप: । कात्यायनो गौतमश्च जाबालिश्च महायशा: ।। 2.67.3 ।। एते द्विजा: […]