अधिकरणसारावली अहिकुण्डलाधिकरणम्

अधिकरणसारावली अहिकुण्डलाधिकरणम् 3.2.22    विश्वस्रष्टुस्स्वदुः खप्रजननमिह न स्वांशतोऽचित्त्वक्लृप्तौ मृत्तत्कार्यादिकञ्च स्वरसमिह बहूदाहृतं सप्रतिज्ञम्। तस्मादव्याकृतादिर्विहरणनियता विक्रयैवेति चेन्न स्वांशे मौढ्यं वितन्वन्विहरति भगवानित्यनर्थानपोहात्।। 3.2.23    कश्चिन्नित्योऽचिदंशो विविधविकृतिमान् ब्रह्मणीत्याहुरेके फेनादिन्यायतोऽन्ये सति विकृतिवशाद् ज्ञाज्ञसर्वज्ञभागान्। चन्द्रज्योत्स्नादिनीत्या कतिचिदिह जगद्ब्रह्मणोरैकजात्यं सर्वे ते सर्ववेदस्वरसगतिहतेरत्र वित्रासनीयाः।।

अधिकरणसारावली उभयलिङ्गाधिकरणम्

अधिकरणसारावली उभयलिङ्गाधिकरणम् 3.2.16    नैर्गुण्यं निर्गुणोक्तेर्गुणवचन मिहाविद्यघर्मार्थवादो नैर्दोष्यं वस्तुवृत्त्या तदितरदखिलं स्वाप्नभोगादितुल्यम्। इत्थं जीवेशभूमापहरणकुहनावादमोमुह्यमानान् क्षेप्तुं नस्थानतोऽपीत्यधिकरणमथारभ्यतेऽनेकश्रृङ्गम्।। 3.2.17    हेयं वस्तु स्वतो यत् स्थितिरिह हि भवेद् दुःखकृत्स्वेच्छयापि त्याज्यत्वं नान्यथा स्यादिति न निरुपधेर्हेयभावस्य हानेः। नित्यस्वातन्त्र्यभाजो भविन इव दशाभेदतो नाप्यवद्यं श्रुत्यैवैकत्र देहे परतदितरयोश्शुद्ध्यशुद्धी ह्यधीते।। 3.2.18    ब्रह्मक्षत्रादिदेहेष्वणुरिव विभुरप्यात्मभावेन तिष्टन् तत्तच्छब्दाभिलप्यस्तदिह स न कथं तत्तदादेशवश्यः। मैवं न ज्ञाप्यतेऽसावविदितविरहाच्छासितृत्वान्न शास्यः किञ्चिज्ज्ञो […]

अधिकरणसारावली मुग्धाधिकरणम्

अधिकरणसारावली मुग्धाधिकरणम् 3.2.14    जाग्रत्स्वप्नौ न बाह्यावगमविरहितौ श्वासपूर्णा सुषुप्तिः तस्मान्मुग्धिरमृतिस्स्यात् प्रशमितकरणप्राणवर्गेति चेन्न। मृत्यादेरहेतुभेदात्स्थितिमृतिविशयादुत्थितेरानियत्यात् मर्तुं प्रक्रम्य मध्ये विरमति विधिनेत्यत्र तुर्यार्धभावः।। 3.2.15    जन्तूनां जागरादिस्थितिषु भवति यद्वैशसं दर्शितं तत् तत्तत्स्थानेषु योगेऽप्यनघशुभगुणं ब्रह्म संशोध्यतेऽत्र। संसर्गैक्यादिना परिहरति ततो दोषवर्गानुभाभ्यां हीनत्वौदार्यहानी परमपनयते नीतियुग्मेन नेतुः।।

अधिकरणसारावली कर्मानुस्मृतिशब्दविध्यधिकरणम्

अधिकरणसारावली कर्मानुस्मृतिशब्दविध्यधिकरणम् 3.2.12    मुक्तिर्ब्रह्मण्यपीतिरजहदसुखगणा तादृशीयं सुषुप्तिः श्रुत्यैव ख्याप्यतेऽतस्तदनु तनुभृदुद्बुध्यमानस्ततोऽन्यः। मैवं कर्मानुवृत्तेस्स्मरणनियमतः पूर्वएवेतिशब्दात् मोक्षोपायादिशिष्टेस्स्वपदनुवदनात् प्राच्य एव प्रबुद्धः।। 3.2.13    जीवानादित्वमूचे दृषदनुकरणं क्षेप्स्यते चापवर्गे स्वर्गाद्यर्थेप्रवृत्तिश्श्रुतिनयविदिता सौगताद्याश्च भग्नाः। कल्पान्तेऽप्येकतोक्तेर्नियमितविषया नामरूपग्रहाणात् भूयश्चिन्ता सुषुप्तेः प्रलयसमदशासञ्जिहासादिसिद्ध्यै।।

अधिकरणसारावली तदभावाधिकरणम्

अधिकरणसारावली तदभावाधिकरणम् 3.2.11    स्थानं जन्तोस्सुषुप्तौ श्रुतिरनियमतो वक्ति नाड्यः पुरीतद् हार्दं ब्रह्मेति तस्मादिह भवतु मिथो नैरपेक्ष्याद्विकल्पः। तन्न प्रासादखट्वाशयनवदुपकृत्यन्तरैर्योजितानां पक्षेपक्षे विकल्पः क्रमघटितचतुर्दोषयुक्तो न युक्तः।।

अधिकरणसारावली सन्ध्याधिकरणम्

अधिकरणसारावली तृतीयाध्यायस्य द्वितीयः पादः सन्ध्याधिकरणम् 3.2.1      ब्रह्मैव स्वैस्स्वभावैर्बहुमुखमवदत् प्राक्तनाध्याययुग्मे तस्येहाकृष्य चिन्ता किमिति पुनरसौ साधनाध्यायमध्ये। मैवं विद्याः प्रभेत्तुं विशदयति परं तद्धि तद्रूपभेदात् सिद्धोपायादिभावं प्रथयति च विभोः प्राप्यतृष्णाप्रथिम्ने।। 3.2.2      नैर्गुण्यं ब्रह्मणश्चेद्वितथ इह गुणैरब्रह्मविद्याविभागः सोऽस्त्वेतैः कल्पितैश्चेच्छ्रुमतविहतिर्नात्र दृष्टिक्रमोऽपि। निर्दोषत्वच्च नित्यं यदि वदसि मुधा दोषशान्त्यर्थयत्नः कल्प्यं चेद् दुष्टता स्यात् प्रकृतिरिति परक्षिप्तये चैष पादः।। 3.2.3      […]

अधिकरणसारावली अन्याधिष्ठिताधिकरणम्

अधिकरणसारावली अन्याधिष्ठिताधिकरणम् 3.1.15    जन्म व्रीह्यादिनाम्ना श्रुतमिह तदिदं देवमत्र्यत्ववत्स्यात् नैरात्म्यं स्थावराणां नच निगमविदस्स्थापयन्तीति चेन्न। पुण्यस्यैव प्रवृत्ते फलपरिगणने स्थावरत्वोक्त्त्ययोगात् रेतस्सिगवर्ष्मणीव ह्युपचरति जनिं स्थावरेऽप्यन्यदेहे।। 3.1.16    हिंसायोगादशुद्धं श्रुतिविहितमपि न्यायमिष्टादिकं तत्- पापांशं व्रीहिभावप्रभृतिषु सुकृती भुङ्क्त इत्यप्ययुक्तम्। उक्ता मन्त्रार्थवादैः पशुहितमिति सा तच्चिकित्सावदेषां ब्रूते यज्ञे वधोऽसाववध इति मनुस्स्तौति निन्दा त्विहान्यत्।। 3.1.17    कर्तुर्दोषं दिशेत् संज्ञपनमिह पशोस्तत्क्रतोश्चोपकुर्यात् तस्मादस्मिन्निषेधं क्षिपति न विधिरित्यब्रुवन् […]

अधिकरणसारावली नातिचिराधिकरणम्

अधिकरणसारावली नातिचिराधिकरणम् 3.1.14    व्योमादिस्थित्यवस्था चिरमचिरमिति व्यक्तनिर्देशहानेः शुक्लावस्थानयात् स्यादनियतिरिति न स्वारसिक्याः प्रवृत्तेः। व्रीह्यादिभ्यो हि दुर्निष्प्रपयरमिति तु श्रूयते तेन पूर्वं शीघ्रं तत्तदृशास्त्यजनमिति परिज्ञायते वाक्यशक्त्या।।

अधिकरणसारावली तत्स्वाभाव्यापत्त्यधिकरणम्

अधिकरणसारावली तत्स्वाभाव्यापत्त्यधिकरणम् 3.1.13    आहुत्योर्देहवत्त्वं प्रथमचरमयोर्निरविवादं तथा स्यात् जन्मैवाकाशवायुप्रभृतिषु भवतेरन्वयादित्यसारम्। रेयस्सिग्ओभावनीया पृथगभिसपनानर्हतामात्रमेव द्युभ्वोः पुण्यप्रसाध्यं फलमिह पठितं नास्ति भोगस्य मध्ये।।

अधिकरणसारावली अनिष्टादिकार्यधिकरणम्

अधिकरणसारावली अनिष्टादिकार्यधिकरणम् 3.1.11    सर्वेषां देहपाते सति नियमवती चन्द्रमः प्राप्तिरुक्ता तस्मात् पापोत्तराणां निरयगतिपुरस्कारिणी सेति चेन्न। लोकस्सूंपूर्यते तैर्न पर इति गिरा संकुचेत् सर्वशब्द- स्ते तत्तद्यातनान्ते तत इह सहसा कुत्सितां यान्ति योनिम्।। 3.1.12    जन्मप्राप्तिर्जरायुप्रभृतिषु भवितां कर्मपाकैर्विचित्रा भूयिष्ठैः पुण्यपापैस्त्वपदवदनवती पञ्चमाहुत्यपेक्षा। तद्वद्धूमादिमार्गः कति कति च शुभैरुत्कटैर्देहपाते दिव्यं रूपं विमानादिकमपि सपदि प्राप्य याताः प्रसिद्धाः।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.