56 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्पञ्चाश: सर्ग: अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् । प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दन: ।। 2.56.1 ।। अथेति । अनन्तरं स्वप्रबोधानन्तरम् । अवसुप्तम् ईषत्सुप्तमित्यर्थ: ।। 2.56.1 ।। सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् । सम्प्रतिष्ठामहे काल: प्रस्थानस्य परन्तप ।। 2.56.2 ।। सौमित्र इति । वन्यानां शुकपिकशारिकादीनाम् । वल्गु सुन्दरम् । काल: प्राप्त इति शेष: ।। 2.56.2 […]
55 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चपञ्चाश: सर्ग: उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ । महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ।। 2.55.1 ।। उषित्वेत्यादि ।। 2.55.1 ।। तेषां चैव स्वस्त्ययनं महर्षि: स चकार ह । प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानिवान्वगात् ।। 2.55.2 ।। तेषामिति । तेषां प्रस्थातुमुद्युक्तानाम् । अन्वगादिति पाठ: । अन्वशादिति पाठे–अनुशिष्टवान् मार्गोपदेशमकरोदित्यर्थ: ।। 2.55.2 ।। तत: प्रचक्रमे वक्तुं […]
54 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतु:पञ्चाश: सर्ग: यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्त्तते । जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ।। 2.54.2 ।। ते भूमिभागान् विविधान् देशांश्चापि मनोरमान् । अदृष्टपूर्वान् पश्यन्तस्तत्रतत्र यशस्विन: ।। 2.54.3 ।। यत्रेत्यादिश्लोकद्वयमेकान्वयम् । भूमिभागान् वनप्रदेशान् । देशान् वत्सदेशावान्तरदेशान् । एतदेवनानात्वमाह तत्रतत्रेति । यशस्विन इत्यनेन तत्तद्देशीयैरर्चितत्वमुक्तम् ।। 2.54.23 ।। यथाक्षेमेण गच्छन् स पश्यंश्च विविधान् द्रुमान् । निवृत्तमात्रे […]
53 Sarga अयोध्याकाण्डम्
स तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम् । रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् ।। 2.53.1 ।। स तमित्यादि । अत्र मृगमांसादनमस्तमयात् प्रागर्थसिद्धम् । अन्वास्य उपास्य ।। 2.53.1 ।। अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहि: । या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ।। 2.53.2 ।। अद्येति । याता प्राप्ता । अद्येत्यस्य नोत्कण्ठितुमर्हसीत्यनेनान्वय: । उत्कण्ठा दु:खस्मरणं तां प्रतीति शेष: ।। […]
52 Sarga अयोध्याकाण्डम्
श्रीरामायणे श्रीमदयोध्याकाण्डे द्विपञ्चाश: सर्ग: प्रभातायां तु शर्वर्यां पृथुवक्षा महायशा: । उवाच राम: सौमित्रिं लक्ष्मणं शुभलक्षणम् ।। 2.52.1 ।। प्रभातायामिति । पृथुवक्षा इत्युत्साहातिरेकोक्ति: । महायशा इति धर्मव्यतिक्रमाभाव: सूचित: । सौमित्रिमिति “रामं दशरथं विद्धि” इत्यादिनोक्तार्थानुष्ठायित्वं सूचितम् । शुभलक्षणमित्यनेन स्वभक्तिरुक्ता ।। 2.52.1 ।। भास्करोदयकालो ऽयं गता भगवती निशा । असौ सुकृष्णो विहग: कोकिलस्तात कूजति ।। 2.52.2 ।। भास्करोदयकाल […]
51 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकपञ्चाश: सर्ग: तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् । गुह: सन्तापसन्तप्तो राघवं वाक्यमब्रवीत् ।। 2.51.1 ।। तं जाग्रतमित्यादि । अदम्भेन अकृत्रिमेण । अर्थाय रक्षणाय । सन्तापसन्तप्त: रामदुर्दशादर्शनसन्तापेन सन्तप्त: । राघवं लक्ष्मणम् ।। 2.51.1 ।। इयं तात सुखा शय्या त्वदर्थमुपकल्पिता । प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ।। 2.51.2 ।। इयमिति । प्रत्याश्वसिहि विश्रान्तो भवेति यावत् […]
50 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चाश: सर्ग: विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वज: । अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् ।। 2.50.1 ।। विशालानिति । कोसलान् यात्वा अन्तपर्यन्तदक्षिणकोसलान् यात्वेत्यर्थ: ।। 2.50.1 ।। आपृच्छे त्वां पुरिश्रेष्ठे काकुत्स्थपरिपालिते । दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ।। 2.50.2 ।। निवृत्तवनवासस्त्वामनृणो जगतीपते: । पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गत: ।। 2.50.3 ।। निर्गमनावसरे […]
49 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनपञ्चाश: रामो ऽपि रात्रिशेषेण तेनैव महदन्तरम् । जगाम पुरुषव्याघ्र: पितुराज्ञामनुस्मरन् ।। 2.49.1 ।। अथ रामवृत्तान्तं प्रस्तौति–रामोपीति । तेनैव रात्रिशेषेण येन रात्रिशेषेण पौरान् विहाय गतस्तेनैव । महदन्तरं महावकाशम् । महहूरमिति यावत् ।। 2.49.1 ।। तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा । उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहत ।। 2.49.2 ।। तथेति । गच्छत: गच्छति […]
48 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टचत्वारिंश: सर्ग: तेषामेवं विषण्णानां पीडितानामतीव च । बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ।। 2.48.1 ।। तेषामित्यादि । मुमूर्षया मर्त्तुमिच्छयोपलक्षितानाम् ।। 2.48.1 ।। अनुगम्य निवृत्तनां रामं नगरवासिनाम् । उद्गतानीव सत्त्वानि बभूबुरमनस्विनाम् ।। 2.48.2 ।। स्वंस्वं निलयमागम्य पुत्रदारै: समावृता: । अश्रूणि मुमुचु: सर्वे बाष्पेण पिहितानना: ।। 2.48.3 ।। सत्त्वानि प्राणा: । “द्रव्यासुव्यवसायेषु सत्त्वम्” इत्यमर: । […]
47 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तचत्वारिंश: सर्ग: प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना । शोकोपहतनिश्चेष्टा बभूवुर्हतचेतस: ।। 2.47.1 ।। अथ पौरवृत्तान्तं दर्शयति–प्रभातायामित्यादि । शोकोपहतनिश्चेष्टा: शोकोपहतत्वान्निश्चेष्टा: । हतचेतस: मूढा: ।। 2.47.1 ।। शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्तत: । आलोकमपि रामस्य न पश्यन्ति स्म दु:खिता: ।। 2.47.2 ।। शोकजेति । शोकजाश्रुभि: परिद्यूना: परिक्लान्ता: । आलोकमपि रामस्य रामसम्बन्ध्यालोकमपि । आलोक्यत इत्यालोक: तम् […]