[highlight_content]

Dramidopanishat Tatparya Ratnavazhi Moolam

श्रीः

श्रीमते रामानुजाय नमः

श्रीमते निगमान्तमहादेशिकाय नमः

द्रमिडोपनिषत्तात्पर्यरत्नावळिः

 

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि ॥

 

सारः सारस्वतानाम् शठरिपुफणितिः शान्तिशुद्धान्तसीमा

मायामायामिनीभिः स्वगुणविततिभिः बन्धयन्तीम् धयन्ती ।

पारम् पारम्परीतो भवजलधिभवन्मज्जनानाम् जनानाम्

प्रत्यक्प्रत्यक्षयेन्नः प्रतिनियतरमासन्निधानम् निधानम् ॥ 1 ॥

 

प्रज्ञाख्ये मन्थशैले प्रथितगुणरुचिम् नेत्रयन् सम्प्रदायम्

तत्तल्लब्धिप्रसक्तैः अनुपधि विबुधैः अर्थितो वेङ्कटेशः ।

तल्पम् कल्पान्तयूनः शठजिदुपनिषद्दुग्धसिन्धुम् विमथ्नन्

ग्रथ्नाति स्वादुगाथालहरिदशशतीनिर्गतम् रत्नजातम् ॥ 2 ॥

 

पाञ्चालीगात्रशोभाहृतहृदयवधूवर्गपुम्भावनीत्या

पत्यौ पद्मासहाये प्रणयिनि भजतः प्रेयसीपारतन्त्र्यम् ।

भक्तिः शृङ्गारवृत्त्या परिणमति मुनेः भावबन्धप्रथिम्ना

योगात् प्रागुत्तरावस्थितिरिह विरहो देशिकास्तत्र दूताः ॥ 3 ॥

 

भाषा गीतिः प्रशस्ता भगवति वचनात् राजवच्चोपचारात्

सा चागस्त्यप्रसूता त्विह परिजगृहे भूमिकाभेदयोग्या ।

यत्तत्कृत्यम् श्रुतीनाम् मुनिगणविहितैः सेतिहासैः पुराणैः

तत्रासौ सत्त्वसीम्नः शठमथनमुनेः सम्हिता सार्वभौमी ॥ 4 ॥

 

आदौ शारीरकार्थक्रममिह विशदम् विम्शतिः वक्ति साग्रा

सङ्क्षेपोऽसौ विभागम् प्रथयति च ऋचाम् चारुपाठोपपन्नम् ।

सम्यक् गीतानुबद्धम् सकलमनुगतम् सामशाखासहस्रम्

सम्लक्ष्यम् साभिधेयैः यजुरपि दशकैः भात्यथर्वा रसैश्च ॥ 5 ॥

 

प्राच्ये सेवानुगुण्यात् प्रभुमिह शतकेऽमम्स्त मुक्तेरुपायम्

मुक्तप्राप्यम् द्वितीये मुनिरनुबुबुधे भोग्यताविस्तरेण ।

प्राप्यत्वोपायभावौ शुभसुभगतनोरित्यवादीत् तृतीये

ऽनन्यप्राप्यश्चतुर्थे समभवदितरैरप्यनन्याद्युपायः ॥ 6 ॥

 

देवः श्रीमान् स्वसिद्धेः करणमिति वदन्ने एकमर्थम् सहस्रे

सेव्यत्वादीन् दशार्थान् पृथगिह शतकैः वक्ति तत्स्थापनार्थान् ।

ऐकैकश्यात् परत्वादिषु दशकगुणेष्वायतन्ते तथा ते

तत्तद्गाथागुणानामनुविदधति तत्पङ्क्तयः पङ्क्तिसङ्ख्याः ॥ 7 ॥

 

सेव्यत्वात् भोग्यभावात् शुभतनुविभवात् सर्वभोग्याधिकत्वात्

श्रेयस्तद्धेतुदानात् श्रितविवशतया स्वाश्रितानिष्टहृत्त्वात् ।

भक्तच्छन्दानुवृत्तेः निरुपधिकसुहृद्भावतः सत्पदव्याम्

साहाय्याच्च स्वसिद्धेः स्वयमिह करणम् श्रीधरः प्रत्यपादि ॥ 8॥

 

ब्रूते गाथासहस्रम् मुरमथनगुणस्तोमगर्भम् मुनीन्द्रः

प्रत्येकम् चात्र गाथाः प्रथितविभुगुणाः स्पष्टमध्यक्षयामः ।

तत्रासङ्कीर्णतत्तद्दशकगुणशतस्थापनौचित्ययुक्तान्

ऐदम्पर्यावरुद्धान् अगणितगुणितान् तद्गुणान् उद्गृणीमः ॥ 9 ॥

 

इच्छासारथ्यसत्यापितगुणकमलाकान्तगीतान्तसिध्य–

च्छुद्धान्ताचारशुद्धैः इयमनघगुणग्रन्थिबन्धानुबद्धा ।

तत्तादृक्ताम्रपर्णीतटगतशठजिद्दृष्टसर्वीयशाखा–

गाथातात्पर्यरत्नावलिरखिलभयोत्तारिणी धारणीया ॥ 10 ॥

 

शतकम् 1

 

निस्सीमोद्यद्गुणत्वात् अमितरसतयाऽनन्तलीलास्पदत्वात्

स्वायत्ताशेषसत्तास्थितियतनभिदावैभवात् वैश्वरूप्यात् ।

त्र्यक्षब्रह्मात्मभावात् सदसदवगतेः सर्वतत्त्वेषु पूर्तेः

पश्यन् योगी परम् तत्पदकमलनतावन्वशादात्मचित्तम् ॥1-1॥

 

स्वामित्वात् सुस्थिरत्वात् निखिलनिरुपधिस्वात्मविद्ग्राह्यभावात्

तादृक्सर्वानुकूल्यात् च्यवनवदितरप्राप्यवैषम्यवत्त्वात् ।

सर्वत्राप्यक्षिपातात् शुभविभवतया मानसाद्यर्च्यभावात्

सङ्कोचोन्मोचकत्वात् जगदयनतयोपादिशत् सर्वयोग्यम् ॥ 1-2 ॥

 

बन्धार्हत्वात् स्वभक्तैः अधिकतरगुणानन्तदिव्यावतारात्

सर्वेष्वासक्तिमत्त्वात् नतसुगमतया स्वप्रबोधप्रदत्वात् ।

ख्याताभिख्यादिचिह्नात् स्वरुचिवितरणात् सर्वकालाश्रयत्वात्

शर्वादेः स्वाङ्गदानात् प्रहितपदतयाऽनन्तसौलभ्यमाह ॥ 1-3 ॥

 

त्राणे बद्धध्वजत्वात् शुभनयनतया स्वार्थलाभेऽर्थिभावात्

तिम्यन्मेघस्वभावात् जगदुपजननस्थापनातिप्रियत्वात् ।

कारुण्याप्तत्वयोगात् अनुगतमहिषीसन्निधेः सङ्गदैर्घ्यात्

नानाबन्धैः स्वरक्षावहिततमतया क्षाम्यतीत्याह कृष्णम् ॥ 1-4 ॥

 

सद्ध्रीभव्यान् सुवाचः सुचरितसुभगान् कृष्णसारूप्यसौम्यान्

स्वाहारोदारशीलान् तनुधृतभगवल्लक्ष्मणो बाल्यगुप्तान् ।

छात्रस्वच्छन्दस्ववृत्तीन् अभिगतशिशिरान् अन्तरङ्गोक्तियोग्यान्

आचार्यान् कृष्णलब्धाववृणुत शठजित् प्रेयसीदूतनीत्या ॥ 1-5 ॥

क्षुद्राह्वानाभिमुख्यात् निजमहिमतिरस्कारकार्चाप्रियत्वात्

सर्वत्राप्यङ्घ्रिदानात् सविधशयनतः स्वाङ्घ्रिसक्तैकरस्यात् ।

गोपाद्याप्तेरशेषेक्षणविषयतया भक्तवस्तुप्रसक्तेः

श्लिष्यन्नाशव्यपोहात् तदहितशमनात्प्राह नाथं सुशीलम् ॥ 1-6 ॥

 

अक्रीतैरर्च्यभावात् अनियतविविधाभ्यर्चनात् अल्पतुष्टेः

प्रह्वावर्ज्येशभावात् स्वविषयनियतेष्वादरात् स्वादुभूम्ना ।

पादासक्तप्रसक्तेः सकृदुपसदने मोक्षणात् धर्मसौस्थ्यात्

क्षिप्रक्षिप्ताहितत्वात् सुकरभजनताम् माधवस्याभ्यधत्त ॥ 1-7 ॥

 

सच्चित्ताकर्षहेतोरघशमननिधेर्नित्यभोग्यामृतस्य

त्यागे हेतूज्झितस्य प्रवहदुपकृतेर्दुस्त्यजस्वानुभूतेः ।

त्यागाकाङ्क्षानिरोदधुः श्रितहृदयपृथक्कारनित्याक्षमस्य

स्वात्मश्लिष्टस्य गायच्छ्रमहरयशसः सेवनम् स्वाद्ववोचत् ॥ 1-8॥

 

सूरीणाम् स्वैरसेव्ये स्वयमवतरति क्षुद्रदिव्यैकनेत्रे

गोपाद्यर्थम् धृताद्रौ श्रिततनुरसिके वामनीभावदृश्ये ।

सच्चित्तानन्यवृत्तौ विभवसमतनौ स्वायुधारूढहस्ते

नीचोच्चग्राह्यपादे निरुपधिमृजुताम् नीरवर्णे जगाद ॥ 1-9 ॥

 

पर्यन्तेऽत्के च दृष्टम् स्वविरहविधुरम् डिम्भवत्पार्श्वलीनम्

चित्ते क्लृप्तप्रवेशम् भुजशिखरगतम् तालुसिम्हासनस्थम् ।

चक्षुर्मध्ये निविष्टम् स्थितमलिकतटे मस्तके तस्थिवाम्सम्

प्रत्याहारोक्तरीत्या विभुमनुबुभुजे सात्म्यभोगप्रदानात् ॥ 1-10 ॥

 

विष्वग्विक्रान्तिदृश्यम् विगणनसुलभम् व्यक्तपूर्वोपकारम्

स्वान्तस्वैकाग्र्यहेतुम् स्वयमुदयजुषम् बन्धमात्रोपयातम् ।

चिन्तास्तुत्यादिलक्ष्यम् नतजनसततश्लेषिणम् दर्शितार्चम्

स्मृत्यै चित्ते मिषन्तम् स्ववितरणमहौदार्यतुष्टोऽभ्यचष्ट ॥ 1-11 ॥

 

आदावित्थम् परत्वादखिलसमतया भक्तसौलभ्यभूम्ना

निःशेषागःसहत्वात् कृपणसुघटनात् शक्यसम्राधनत्वात् ।

स्वादु स्वोपासनत्वात् प्रकृतिऋजुतया सात्म्यभोगप्रदत्वात्

अव्याजोदारभावात् अमनुत शतके माधवम् सेवनीयम् ॥ 1-12 ॥

 

शतकम् 2

 

निद्राविच्छेदकत्वात् अरतिजननतोऽजस्रसङ्क्षोभकत्वात्

अन्वेष्टुम् प्रेरकत्वात् विलयवितरणात् कार्श्यदैन्यादिकृत्त्वात् ।

चित्ताक्षेपात् विसञ्जीकरणत उपसम्शोषणावर्जनाभ्याम्

दृष्टास्वादस्य शौरेः क्षणविरहदशादुस्सहत्वम् जगाद ॥ 2-1 ॥

 

पूर्णैश्वर्यावतारम् भवदुरितहरम् वामनत्वे महान्तम्

नाभीपद्मोत्थविश्वम् तदनुगुणदृशम् कल्पतल्पीकृताब्धिम् ।

सुप्तम् न्यग्रोधपत्रे जगदवनधियम् रक्षणायावतीर्णम्

रुद्रादिस्तुत्यलीलम् व्यवृणुत ललितोत्तुङ्गभावेन नाथम् ॥ 2-2 ॥

 

चित्रास्वादानुभूतिम् प्रियमुपकृतिभिः दास्यसारस्यहेतुम्

स्वात्मन्यासार्हकृत्यम् भजदमृतरसम् भक्तचित्तैकभोग्यम् ।

सर्वाक्षप्रीणनार्हम् सपदि बहुफलस्नेहमास्वाद्यशीलम्

सभ्यैः साध्यैः समेतम् निरविशदनघाशेषनिर्वेशमीशम् ॥ 2-3॥

 

प्रह्लादार्थे नृसिम्हम् क्षपितविपदुषावल्लभम् क्षिप्तलङ्कम्

क्ष्वेलप्रत्यर्थिकेतुम् श्रमहरतुलसीमालिनम् धैर्यहेतुम् ।

त्राणे दत्तावधानम् स्वरिपुहतिकृताश्वासनम् दीप्तहेतिम्

सत्प्रेक्षारक्षितारम् व्यसननिरसनम् व्यक्तकीर्तिम् जगाद ॥ 2-4 ॥

स्वप्राप्त्या सिद्धकान्तिम् सुघटितदयितम् विस्फुरत्तुङ्गमूर्तिम्

प्रीत्युन्मेषातिभोग्यम् नवघनसुरसम् नैकभूषादिदृश्यम् ।

प्रख्यातप्रीतिलीलम् दुरभिलपरसम् सद्गुणामोदहृद्यम्

विश्वव्यावृत्तिचित्रम् व्रजयुवतिगणख्यातनीत्याऽन्वभुङ्क्त ॥ 2-5 ॥

 

स्वास्वादख्यापकत्वात् श्रितनियतदृशेः नैकभोगप्रदानात्

त्यागानर्हप्रकाशात् स्थिरपरिचरणस्थापनात् पापभङ्गात् ।

दुस्साधार्थस्य सिद्धेः विरहभयकृतेः दुर्विभेदात्मयोगात्

नित्यानेकोपकारात् स्वविरहचकितम् प्रेक्षताम्भोरुहाक्षम् ॥ 2-6 ॥

 

सर्वादिः सर्वनाथः त्रिभुवनजननीवल्लभः स्वाश्रितार्थी

विष्वग्व्याप्त्याऽतिदीप्तः विमतनिरसनः स्वाङ्घ्रिसद्भक्तिदायी ।

विश्वाप्त्यै वामनाङ्गः स्वविभवरसदः स्वान्तनिर्वाहयोग्यः

स्वार्थेहो बन्धमोक्ता स्वजनहिततया द्वादशाख्याभिरूचे ॥ 2-7 ॥

 

प्राप्याकारोपपत्त्या जनिपरिहरणात् विश्वसृष्ट्यादिशक्तेः

निस्सीमानन्ददेशान्वयत उपजगौ रक्षणार्थावतारात् ।

सुप्रख्यातानुभावात् विविधविहरणात् व्याप्तिवैचित्र्यवत्त्वात्

भक्तैः द्राग्दृश्यभावात् अखिलफलकृतेः मुक्तिसौख्यम् मुकुन्दे ॥ 2-8 ॥

 

श्रद्धेयस्वाङ्घ्रियोगम् शुभमतिकरदम् स्तोत्रसामर्थ्यहेतुम्

स्वार्थीकारोपकारम् स्मृतिरसशमितान्यादरम् प्रीतिवश्यम् ।

प्राप्तौ कालाक्षमत्वप्रदममृतरसध्यानमात्मार्पणार्हम्

वैमुख्याद्वारयन्तम् वृतपरिचरणम् चक्रपाणिम् जगाद ॥ 2-9 ॥

 

दीप्ताश्चर्यस्वभावम् मुखरितजलजम् वर्षुकाम्भोदवर्णम्

शैलच्छत्राभिगुप्ताश्रितमतिविलसद्धेतिमापीतगव्यम् ।

सम्रम्भोत्क्षिप्तभूमिम् प्रणमदनुगुणम् पूतनाचेतनान्तम्

पूर्वाचार्यम् श्रुतीनाम् शुभसविधगिरिस्थानतो निर्विवेश ॥ 2-10 ॥

 

इत्यब्रूतात्यसह्यक्षणविरहतया मानुषत्वे परत्वात्

सर्वास्वादत्वभूम्ना व्यसनहरतया स्वाप्तिसम्प्रीतिमत्त्वात् ।

वैमुख्यत्रासयोगात् निजसुहृदवनात् मुक्तिसारस्यदानात्

कैङ्कर्योद्देश्यभावात् शुभनिलयतया चातिभोग्यम् द्वितीये ॥ 2-11 ॥

 

शतकम् 3

 

सुश्लिष्टाकल्पमङ्गैः अनुपमसुषमम् वक्ति निस्सीमदीप्तिम्

स्वान्तस्वादुस्वदेहम् सुखभजनपदम् मण्डिताङ्गम् महिष्या ।

स्तोत्रातिक्रान्तकीर्तिम् मलिनिमरहितौज्ज्वल्यमिष्टौपवाह्यम्

वीताश्चर्यत्रिणेत्रप्रभृतिसुरनुतिम् चित्रसौन्दर्यविद्धम् ॥ 3-1 ॥

 

स्रष्टा क्रान्ता च लोकान् हृतधरणिभरोऽनन्यभोग्याङ्घ्रियुग्मः

चित्तोद्यन्नीलरूपः निरवधिरसद स्वाङ्घ्रिरध्यक्षमूर्तिः ।

नित्योपास्यस्वपादः निखिलवसुमतीगोपनस्वाङ्घ्रिवृत्तिः

मुष्णन् मूर्तिप्रतीत्या यमपरवशताम् प्रैक्षि लोकैकनाथः ॥ 3-2 ॥

 

स्थानोत्कर्षात् सुदीप्तम् श्रमहरवपुषम् स्वाङ्गपर्याप्तभूषम्

तेजिष्ठम् नीचयोगात् प्रणमितभुवनम् पावनम् सन्नतानाम् ।

प्राप्त्यर्हस्थानमम्हःप्रशमनविषयम् बन्धविच्छेदिपादम्

भेजे शीघ्राभियानक्षमशुभवसतिम् लम्भितार्चाभिमुख्यः ॥ 3-3 ॥

 

भूतैस्तत्कार्यभूतैः शुभनिजवपुषा दीप्तिमद्भिः पदार्थैः

पथ्यास्वादोपपन्नैः श्रुतिमुखसुभगाशेषशब्दप्रपञ्चैः ।

नानाकारैः पुमर्थैः जगदधिपतिभिः चेतनाचेतनौघैः

जुष्टम् दोषैरदुष्टम् निखिलतनुतया सम्प्रतुष्टाव तुष्टः ॥ 3-4 ॥

ग्राहग्रस्तेभमोक्षे सुररिपुदमने गोकुलत्राणकार्ये

गोदार्थोक्षावमर्दे सदहितमथने सिन्धुपर्यङ्कयोगे ।

क्षोणीभारव्यपोहे क्षितिधरवसतौ निर्जराराध्यतायाम्

विश्वारम्भे च शौरेः शुभतनुसुषमोन्मादकत्वम् जगाद ॥ 3-5 ॥

 

पद्माक्षीम् पापहन्त्रीम् मणिरुचिम् अमराधीशचिन्त्याङ्घ्रिपद्माम्

तत्तादृक्कुन्तलश्रीसुघटितमकुटाम् भावुकप्राप्यपादाम् ।

शुद्धास्वाद्यस्वभावाम् यमभटमथनीम् भक्तधीवृत्तिभव्याम्

नीचोच्चाभीष्टवृत्तिम् हरितनुमवदत् निर्मलार्चानुरक्तः॥ 3-6 ॥

 

स्फीतालोकातिभूम्ना पृथुबहुभुजया दिव्यमाल्यास्त्रभाजा

सद्वस्त्राकल्पक्लृप्त्या त्रिदशरसकृता रक्षणौन्मुख्यवत्या ।

मुक्तैरुत्तम्सिताङ्र्घ्या स्थिरधृतरमया श्यामया नित्यसत्या

शौरेः कान्त्या जितानाम् स्वबहुमतजनस्वामितामन्वमम्स्त ॥ 3-7 ॥  

 

चित्ताकृष्टिप्रवीणैः अभिलपनसुखैः स्पर्शवाञ्छाम् दुहानैः

आतन्वानैः दिदृक्षाम् श्रुतिहितसहितैः आत्मनित्यादरार्हैः ।

विश्लेषाक्रोशकृद्भिः स्मरदरतिकरैः दत्तसायुज्यसङ्गैः

कुर्वाणैः बाललौल्यम् मिलितगुणगणैः नित्यदृश्याङ्गमाह ॥ 3-8 ॥

 

रम्यस्थानादियोगात् अमितविभवतः सत्पथप्रापकत्वात्

सम्यक्सायुज्यदानात् अनघवितरणात् सर्वशेषित्वचिह्नात् ।

प्रख्याताख्यासहस्रैः अवतरणरसैः भुक्तिमुक्त्याभिमुख्यात्

त्रैलोक्योत्पादनाच्च स्तुतिविषयतनुम् व्याहरन्निन्दितान्यः ॥ 3-9॥   

 

प्रादुर्भावानुभावात् परिजनविभवात् पावनालङ्क्रियत्वात्

जैत्रव्यापारयोगात् अघटितघटनात् देवभावप्रसिद्धेः ।

आश्चर्यक्रीडनत्वात् सरसिजनिलयानन्दनात् छन्दवृत्तेः

ऐश्वर्यव्यक्तिमत्वात् अघशमनतनुम् केशवम् व्याजहार ॥ 3-10 ॥

 

एवम्  सौन्दर्यभूम्ना तनुविहितजगत्कृत्यसौभाग्ययोगात् 

स्वेच्छासेव्याकृतित्वात् निखिलतनुतयोन्माददानार्हकान्त्या ।

लभ्यार्चावैभवत्वात् गुणरसिकगुणोत्कर्षणात् अक्षकृष्ट्या

स्तुत्यत्वात् पापभङ्गात् शुभसुभगतनुम् प्राह नाथम् तृतीये ॥ 3-11 ॥

 

शतकम् 4

 

श्रीमान्नारायणः स्वाम्यनुगुणमकुटः वीरदामाङ्कमौळिः

 

दुर्दान्तारातिहन्ताऽद्भुतनियततनुः कल्पपाथॊधितल्पः ।

 

विश्वाद्यम् ज्यॊतिरुर्वीधरफणिशयनॊ वॆदरूपस्वकॆतुः

 

निर्धूताशॆषदॊषः प्रभुरथ कथितः सुस्थिरैश्वर्यसीमा ॥ 4-1 ॥

 

 

शैत्यात् सौगन्ध्यभूम्ना रुचिरुचिरतया पॊषणादाभिरूप्यात्

 

सन्दर्भात् पुष्प सङ्गात् महिततुलसिकामालया शङ्खतश्च ।

 

चक्राधीशस्य यॊगात् वटदळशयनाद्यर्हणीयापदानैः

 

सम्पन्नानॆकभॊग्यम् निरविशदजितम् कृष्णमूर्तिम् शठारिः ॥ 4-2 ॥

 

चॆतॊगन्धानुलॆपः स्तुतिवचनकृतस्रक्पटॊऽञ्जल्युपात्ता–

 

लङ्कारः प्राणवासी कलितवरशिरॊभूषणश्चॆतनॆन ।

 

शीर्ष्णा सत्पादपीठः स्वतनुसदनतामात्मरूपॆ वितन्वन्

 

अन्यॊन्यात्मत्वयॊगात् प्रभुरगणि मिथःश्लिष्टभावॊऽथ तॆन ॥ 4-3 ॥

 

भूम्याद्यैः सागराद्यैः ज्वलनशशिमुखैः वस्तुभिर्वत्सपूर्वैः

 

नृत्यद्भिः स्वैश्च लॊकादिभिरथ पृथिवीक्षिद्भिरात्मीयदासैः ।

 

सौलभ्यैश्वर्यवर्गैरपि च गुणगणैः वासुदॆवॊ वियॊगॆ

 

स्वीयैस्तुल्यैश्च भक्तान् व्यथयति मधुहॆत्यब्रवीत् कारिसूनुः ॥ 4-4 ॥

 

आपन्नानन्यबन्धौ सरसिजनिलयावल्लभॆ सान्द्रमॊदॆ

 

भक्ताघध्वम्सशीलॆ तदुचितसमयाश्वासदानप्रवीणॆ ।

 

कर्पूरालॆपशॊभॆ समधिकरहितॆ तॊषकॆ सर्वपूर्णॆ

 

कृष्णॆ स्तुत्यादिभाजाम् शठरिपुरवदत् धन्यताम् निन्दितान्यः ॥ 4–5 ॥

 

इच्छासारथ्ययॊगात् प्रहरणनवनात् श्रीतुलस्याढ्यमौळॆः

 

स्तुत्याङ्घ्र्यॊः पादधूल्या स्वजनभजनतत्पादधूलीनमॊभिः ।

 

तन्मूलस्वाङ्घ्रिनुत्या तदितरभजनत्यागपूर्वॊपसत्त्या

 

दॆवम् प्राचिख्यपत् स्वप्रणयिषु भिषजम् कॆसरस्रग्विभूषः ॥ 4–6 ॥

 

आपद्बन्धुत्वदीप्तम् निरवधिकमहानन्ददम् क्रान्तलॊकम्

 

दुर्दर्शम् दॆवतानाम् पितरमनुपधिम् सर्वभूतान्तरस्थम् ।

 

पूर्णज्ञनैकमूर्तिम् ध्रुतशुभतुलसीम् चक्रनाथम् श्रुतीनाम्

 

विश्रान्तिस्थानमीशम् विशदबहुगुणम् प्राह खिन्नः शठारिः ॥ 4–7 ॥

 

दुश्शीलॊ माम्सचक्षुः निरवधिदुरितॊ वीतलज्जॊ विलॊलः

 

प्रॆक्षाहीनॊऽन्यसङ्गात् कृतमपि लघयन् श्रीशमन्तर्दधानः ।

 

कर्मज्ञानादिशून्यः निरुपधिविहिताम् ज्ञानदृष्टिम् विनिन्दन्

 

प्रख्याप्यैवम् स्वदॊषान् पतिगुणरसिकः तद्दिद्रुक्षाम् चचक्षॆ ॥ 4–7 ॥

 

सौन्दर्यादौ स्वकीयॆ हृदि च खनिकरॆ पूर्णतायाम् च कान्तौ

 

सम्यग्ज्ञानॆ प्रकाशॆ वलयरशनयः वर्ष्मणि स्वस्वरूपॆ ।

 

स्यादिष्णॊर्यद्युपॆक्षा तदिदमखिलमून्मूलनीयम् तदीयैः

 

इत्यूचॆ कारिसूनुः तदुपरि कथयम्स्तम् शिवाद्याश्रिताङ्गम् ॥ 4-8 ॥

 

कारुण्यादब्धिमाथी तदुपरि शयितः तत्समानाङ्गवर्णः

 

ख्यातौदार्यः स्वदानॆ रुचिरमणिरुचिः वॆषतॊऽतीव भॊग्यः ।

 

आत्मत्वॆनानुभाव्यः दुरधिगमपदः बन्धमॊक्षस्वतन्त्रः

 

स्वान्यप्रॆमॊपरॊधी स्वदत इह विभुः तत्पदॊत्कण्ठिताय ॥ 4-9 ॥

 

तापैः सम्बन्धि दुःखैः स्वविभवमरणैः तापकृद्भॊग्यसङ्गैः

 

दुर्गत्याज्ञातिवृत्तॆः अनितरविधुतॆरण्डकारानिरॊधात् ।

 

प्रह्वीभावॊज्झितत्वात् प्रलघुसुखपरिष्वङ्गतश्चातिशॊच्यम्

 

विश्वम् द्रष्टुम् न शक्तॊ निजपदनयनॆ नाथति स्म स्वनाथम् ॥ 4-9 ॥

 

स्वानाम् निर्वाहकत्वात् अहिपतिशयनात् अब्धिवर्णस्वभावात्

 

अत्यन्तॊदारभावात् वलभिदुपलवत् दर्शनीयत्वयॊगात् ।

 

सन्मौळित्वात् तुलस्या प्रियकरणमुखैरण्डसृष्टौ पटुत्वात्

 

सुप्रापत्वादिभिः तम् फलमतुलमवैत् भेजुषामॆष नाथम् ॥ 4-9 ॥

 

कल्पान्तॆऽपि स्थितत्वात् सकलसुरगण स्रष्टृभावात् जनानाम्

 

रक्षाद्यापादकत्वात् शिवविधिभरणात् सर्वदॆवात्मभावात् ।

 

तत्तत्कर्मानुरूपम् फलवितरणतॊ वैनतॆयध्वजत्वात्

 

मार्कण्डॆयावनादॆः प्रभुमथ शठजित् प्राह सर्वामरॊच्चम् ॥ 4-10 ॥

 

नित्यैश्वर्यम् तु तुर्यॆ सहजबहुलसद्भॊग्यमन्यॊन्यसक्तम्

 

क्लॆशापादिस्वतुल्यम् स्वजनकृतकृतार्थीकृतिम् स्नॆहिवैद्यम् ।

 

सम्युक्तम् सद्गुणौघैः स्वजनपरिहृतॊपॆक्ष्यमिष्टार्थरूपम्

 

श्रॆष्ठम् निश्शॆषभॊग्यादमनुत शतकॆ दॆवतासार्वभौमम् ॥ 4-11 ॥

 

शतकम् 5

 

चक्रस्फायत्करत्वात् स्वजनवशतया रक्षणॊद्युक्तभावात्

 

भव्यत्वात् स्वात्मदानात् विमलतनुतया श्रीगजॆन्द्रावनाच्च ।

 

नानाबन्धुत्वयॊगात् विपदि सखितया व्याजमात्राभिलाषात्

 

कारुण्याधीनवृत्तिम् कमलदृशमवैत् कारिसूनुः कृतार्थः ॥ 5-1 ॥

 

पाथॊधिप्रौढकान्तौ सरसतुलसिकालङ्कृतौ धातृभावॆ

 

वैकुण्ठत्वॆ च चक्रप्रहरणवशितादॆवतास्थापनादौ ।

 

स्वानामच्यावनादौ सकलनियमनॆ सकलकर्मॆज्यभावॆ

 

नित्यासक्तैः स्वभक्तैः जगदघशमनम् प्राह कृष्णम् शठारिः ॥ 5-2 ॥

 

ज्यॊतीरूपाङ्गकत्वात् सरसिजनयनाविष्टविध्वम्सकत्वात्

 

मॆघौघश्यामळत्वात् श्रितसरसतया उत्कृष्टसौलभ्ययॊगात् ।

 

रक्षायाम् सावधानात् सुभगतनुतया सॊपकारास्त्रवत्त्वात्

 

स्वानाम् प्रॆमातिमात्रम् जनयति भगवानित्यवादीत् शठारिः ॥ 5-3 ॥

 

आपद्बन्धुत्वकीर्त्या यदुकुलजननात् धीरवीरत्वकीर्त्या

 

लॊकानाम् विक्रमाच्च आश्रितदुरितहृतेः अद्भुतैश्चॆष्टितैश्च ।

 

चक्राद्यस्त्रान्वितत्वात् कमलनयनसम्पदा वामनत्वात्

 

क्षीराब्धौ शॆषशायी जगदवनमहादीक्षितॊऽज्ञायि तॆन ॥ 5-4 ॥

 

शङ्खाद्यैः यज्ञसूत्रादिभिरपि च तथा शार्ङ्गमुख्यैः तुलस्या

 

बिम्बॊष्ठाद्यैः सुनासाव्रतति निरवधि ज्यॊतिरूर्जस्विमूर्त्या ।

 

नॆत्राब्जाद्यैरशॆषाभरणसुषमया स्वैश्च भक्तैर्मनॊज्ञः

 

दॆवः स्वानामजस्रम् स्मृतिविषयतया भाति चॆत्यभ्यधायि ॥ 5-5 ॥

 

स्रष्ट्रुत्वाद्यैः जगत्याः सकलविधकलावर्तकत्वॆन भूता

 

न्तर्यामित्वॆन कृत्युद्धरणपरतया भूभरापाकृतॆश्च ।

 

शैलॆन्द्रॊद्धाराणाद्यैः स्वजनहिततया ब्रह्मरुद्रॆन्द्रभावात्

 

दुष्कर्मॊन्मूलनाद्यैः प्रभुरनिशमहम्बुद्धिबॊध्योಽन्वभावि ॥ 5-6 ॥

 

सर्पाधीशॆशयत्वात् अरिदरभरणात् सानुकम्पत्वयॊगात्

 

सत्साहाय्यादशॆषान्तरनिलयतया भूसमुद्धृत्युदन्तैः ।

 

सर्वॆषाम् तातभावात् इतरजनदुराधर्षतादेः शरण्यम्

 

दीनानाम् प्राह विष्णुम् शठजनमथनॊ दॆवतासार्वभौमम् ॥ 5-7 ॥

 

निस्सौहित्यामृतत्वात् स्ववशजनितया अनन्यभावप्रदानात्

 

मर्यादातीतकीर्त्या नळिननयनतॊ नायकत्वात् सुराणाम् ।

 

सर्वश्रैष्ठ्यादियॊगात् अनितरगतिताद्यावहासन्नभावात्

 

दास्यॆ स्वॆ स्थापयॆत् स्वान् हरिरिति शठजित् स्थापयामास कृष्णम् ॥ 5-8 ॥

 

स्वामित्वात् सम्श्रितानाम् उपकरणरसात् स्वॆष्टसम्श्लॆषकत्वात्

 

सर्वास्वादत्वभूम्ना कपटवटुतया दारुणापत्सखत्वात् ।

 

दिव्यस्थानॊपसत्त्या भ्रमदरिभरणाच्चापि नारायणत्वात्

 

अत्यासन्नः श्रितानाम् भवति हरिरिति प्राह कारॆस्तनूजः ॥ 5-9 ॥

 

प्रादुर्भावादिवृत्तैः वृषगणदमनात् पूतनाशातनाद्यैः

 

मॊहार्थम् बौद्धकृत्यैः गिरिवरभजनस्वीकृतॆः स्थानभेदैः ।

 

तॆजॊध्वान्तादिभावात् जलनिधिशयनात् भिक्षणाद्यैस्त्रिपद्याः

 

पीयूषस्पर्शनाद्यैः शिथिलयति हरिः स्वीयहृच्चॆत्यथॊचॆ ॥ 5-10 ॥

 

इत्थम् कारुण्यनिघ्नम् दुरितहरजनम् प्रॆम तीव्रम् दुहानम्

 

लॊकानाम् रक्षितारम् स्मृतिविषयमहम्भावनागॊचरम् च ।

 

दीनानाम् सच्छरण्यम् स्वरसकृतनिजप्रॆष्यतावाञ्छमूचॆ

 

प्राप्तम् शक्तिपदम् श्रीपतिमिह शतकॆ श्रॆयसामॆकहॆतुम् ॥ 5-11 ॥

 

शतकम् 6

 

चक्रित्वात् स्वामिभावात् विपदि सखितया बिम्बदृश्याधरत्वात्

 

अब्धिश्यामात्मकान्त्या धृततुलसितया निर्जराधीशभावात् ।

 

रक्ताभास्याङ्घ्रिभावात् पृथुमकुटतया आश्चर्यचर्याविशॆषैः

 

लङ्काध्वम्साच्च कृष्णम् शठजिदकथयत् दॆशिकद्वारगम्यम् ॥ 6-1 ॥

 

पूर्णत्वात् गॊपनारीजनसुलभतया लॊलनादम्बुराशॆः

 

न्यग्रॊधाग्रॆशयत्वात् अरिसुभगतया श्रीमहीवल्लभत्वात् ।

 

निर्दॊषॊत्तुङ्गभावात् निरवधिक यशस्सद्वशीकारिद्रुक्त्वात्

 

मॊक्षस्पर्शॆच्छया च स्वयमभिसरतीत्याह कृष्णम् शठारिः ॥ 6-2 ॥

 

सम्पद्दारिद्र्यभावात् असुखसुखकृतेः पत्तनग्रामभावात्

 

पुण्यापुण्यादिभावात् कपटऋजुतया सर्वलोकादिभावात् ।

 

दिव्यादिव्याङ्गवत्त्वात् सुरदितिजगणस्निग्धशत्रुत्वकीर्त्या

 

छायाच्छायादिभावात् अघटितघटनम् प्राह कृष्णम् शठारिः॥ 6-3 ॥

 

रासक्रीडादिकृत्यैः विविधमुरलिकावादनैः मल्लभङ्गैः

 

गॊपीबन्धार्हभावात् व्रजजननमुखैः कम्सदैत्यादिभङ्गैः ।

 

प्रादुर्भावैः निहीनेष्वसुरभुजवनच्छेदमुख्यैः चरित्रैः

 

आकर्षॆत् सर्वचित्तम् हरिरिति कथयामास कारॆरपत्यम् ॥ 6-4 ॥

 

शङ्खाच्चक्रादितश्च त्रिदशसुरतया सिन्धुशायित्वभूम्ना

 

दॆवानाम् स्वामिभावात् अतिसुभगतयाऽलङ्कृतॆः कुन्दभङ्गात् ।

 

तद्वच्चॊदारभावात् अरुणसरसिजाक्षत्वचिह्नाभिधानैः ।

 

दॆवीभिः सेव्यभावात् अतिसुलभतया स्वॆष्वतिस्निग्धभावात्

 

बन्धुभ्यः स्वान् मुरारिः विघटयति हठादित्यवॊचत् शठारिः ॥ 6-5 ॥

 

पारम्याद्यैश्च पञ्चायुधविधृतिमुखैः ब्रह्मणः स्रष्ट्रुभावात्

 

प्रादुर्भावैश्च सर्वान्तरनिलयतयाऽहम्ममॆत्यादिधैर्यम्

 

चातुर्यादीनि नॄणामपहरति हरिः चेत्यभाणीत् शठारिः ॥ 6-6 ॥

 

पारम्यात् भव्यभावात् स्रगभिहितिमुखैः श्रीशतैश्वर्यभूम्ना

 

स्नॆहित्वादाभिरूप्यात् श्रितपरवशतासर्वलॊकॆशताद्यैः ।

 

धृत्यादॆरादिहॆतुम् मुरमथनमथ व्याहरत्  सम्श्रितानाम्

 

वॆदानागस्त्यभाषावपुष उदधरत् श्रॆयसॆ दॆहिनाम् यः ॥ 6-7 ॥

 

लॊकस्रष्टृत्वशक्त्याऽऽयुधसुभगतया जिष्णुसारथ्ययॊगात्

 

स्रग्भ्राड्दॆवॆशभावात् गरुडरथतया स्वाश्रितॆ पक्षपातात् ।

 

कान्त्या साम्राज्ययॊगात् अवतरणदशास्पष्टपारम्यतश्च

 

स्वीयायत्तस्वभूतिद्वयमथ कथयामास दॆवम् शठारिः ॥ 6-8 ॥

 

सर्वात्मत्वात् जगत्याः क्रमणत उत सम्रक्षणात् विष्टपानाम्

 

शत्रुध्वम्सात् परत्वाद्यभिमतदशया पञ्चधाऽवस्थितत्वात् ।

 

निर्वाहादण्डकॊट्या बुधदयिततया सर्वशीर्ष्ण्यङ्घ्रिदानात्

 

मॊक्षॆच्छॊत्पादकत्वात् हरिमथ शठजित् वक्त्यनर्हद्वियॊगम् ॥ 6-9 ॥

 

आपत्सम्रक्षणादर्युपकरणतया मॆघसाम्यादिभूम्ना

 

स्वानाम् विश्वासदानात् सुरगणभजनात् दिव्यदॆशॊपसत्त्या ।

 

प्राप्याप्राप्यत्वयॊगात् स्वजनविजनयॊः सत्प्रपत्तव्यभावात्

 

ऊचॆ नाथम् शरण्यम् श्रुतिशतविदितम् वॆङ्कटॆशम् शठारिः ॥ 6-10 ॥

 

इत्थम् सद्वारगम्यम् स्वयमितम् असहस्थायिनाम् यॊजनार्हम्

 

कर्षन्तम् स्वैः चरितैः विघटितविजनम् स्वान्वितस्तॆयदक्षम् ।

 

धृत्यादीनाम् निदानम् घटकवशमहाभूतियुग्मम् शठारिः

 

वैघट्यस्याप्यनर्हम् प्रपदनसुलभम् प्राह षष्ठॆ शरण्यम् ॥ 6-11 ॥

 

शतकम् 7

 

निस्सङ्ख्याश्चर्ययॊगात् अतिमधुरतयाऽथॊ जगत्कारणत्वात्

 

न्यग्रॊधार्हत्वभूम्ना त्रिदशपतितया वाङ्मनस्सन्निधानात् ।

 

पीयूषस्पर्शनाद्यैरखिलपतितया लॊकसम्रक्षणाद्यैः

 

शाठ्याशङ्काम् सहॆत त्रितनुरसुरहॆत्याह चिञ्चान्तिकस्थः ॥ 7-1 ॥

 

श्रीरङ्गॆ सन्निधानात् निखिलजगदनुस्रष्टृताद्यैः शुचित्वात्

 

विध्वस्तानिष्टभावात् उरगशयनतः पुम्सु कर्मानुरूपम् ।

 

शर्माशर्मप्रदानात् जलदतनुतयॊपक्रियातत्परत्वात्

 

स्वामी स्वानाम् विगर्हामुपशमयति चॆत्याह धीमान् शठारिः ॥ 7-2 ॥

 

पद्माक्षत्वॆन हृत्स्थः परमखनिलयः स्वोपकारी विगर्ज–

 

च्छङ्खॊनिष्टप्रहर्ताऽऽदरविलसनकृत् रक्षकॊऽबॊधिदृश्यः ।

 

आपत्सम्रक्षकः श्रीमकरवरलसत्कुण्डलः स्वाङ्गकान्त्या

 

स्वॆषु स्वम् गॊप्तृभावम् प्रकटयति हरिः चॆत्यशम्सत् शठारिः ॥ 7-3 ॥

 

विक्रान्त्या विष्टपानाम् अमृतमथनतः चोद्धृतॆर्भूतधात्र्याः

 

कल्पॆ लॊकादनाच्च क्षितिभरहरणात् दैत्यराजप्रहारात् ।

 

लङ्कासङ्कॊचकत्वात् असुरभुजवनच्छॆदनात् लोकसृष्टॆः

 

धृत्या गॊवर्धनाद्रेः स्फुटजगदवनप्रक्रियम् श्रीशमाह ॥ 7-4 ॥

 

साकॆतॆ मुक्तिदानात् स्थिरचरजनुषाम् सर्वशॊ रक्षकत्वात्

 

चैद्यॆ सायुज्यदानात् जगदुदयकृतॆः उद्धृतॆः भूमिदॆव्याः ।

 

याञ्चार्थम् वामनत्वात् शिवभजकमुनेः मोक्षदानाद्युदन्तैः

 

स्नॆहम् सर्वाश्रयम् स्वम् प्रकटयति हरिः चॆत्यथाज्ञायि तॆन ॥ 7-5 ॥

 

नाभीपद्मॊज्ज्वलत्वात् विधिशिवभजनीयाङ्घ्रिभावात् गवाम् च

 

त्राणाद्यैः सर्वभूतान्तरनियमनतः सम्श्रितॆ भव्यभावात् ।

 

ब्रह्माद्यापद्विमॊक्षात् असुरनिरसनात् त्रातरक्षॊऽनुजत्वात्

 

स्वीयाक्रन्दापहारी भवति च भगवान् इत्यवादीत् शठारिः ॥ 7-6 ॥

 

दृग्भ्याम् पद्माकृतिभ्याम् अमरतरुलतानासिकातॊऽधरॆण

 

भ्रूचापॆन स्मितॆनाप्यथ मकरलसत्कुण्डलाभ्याम् विशिष्टः ।

 

फालॆनार्धेन्दुभासाऽमलमुखशशिना नॆत्रशॊभादिभाजा

 

श्रीमान् दॆवः किरीटी स्मृतिविशदतनुः भाति चॆत्यभ्यधायि ॥ 7-7 ॥

 

भूतैश्चन्द्रार्यमाद्यैः सकलयुगगतैः वस्तुभिः चॆतनाद्यैः

 

स्वैर्लॊकानाम् नियत्या स्मरणतदितरॊत्पादनात् माननाद्यैः ।

 

दुर्ज्ञॆयत्वात् स्वभाजाम् बहुशुभकरणात् वॆदसम्वॆद्यभावात्

 

श्रीमानाश्चर्यनानाविभव इति ततः श्रीधरः प्रत्यपादि ॥ 7-8 ॥

 

स्वामित्वाश्चर्यभावादपि च करुणया दत्तवाग्जृम्भणत्वात्

 

उज्जीवापादकत्वा अघटितघटनाशक्तिवैकुण्ठयॊगात् ।

 

शुद्धस्वान्तत्व चक्रायुध जलधिसुतावल्लभत्वात् पितृत्वात्

 

स्वॆ स्तॊत्रॆ विष्णुरप्रत्युपकृतिविषयॆ स्वान् युनक्तीत्यगायत् ॥ 7-9 ॥

 

वैकुण्ठॆ नित्ययॊगात् श्रितविवशतया अनन्तकीर्त्युज्ज्वलत्वात्

 

शॆषॆ शायित्व रुक्मिण्यभिमतसुरजिद्बाणदॊःखण्डनाद्यैः ।

 

ग्राहग्रस्तॆभरक्षाभिरुचितविषयॆ सन्निधानात् शुचित्वात्

 

स्तॊतॄणाम् दुःखजातम् विघटयति हरिः तीर्थपादॊऽभ्यदायि ॥ 7-10 ॥

 

शाठ्याशङ्कासहिष्णुम् प्रशमितजनतागर्हणम् स्पष्टरक्षम्

 

व्याकुर्वन्तम् स्वरक्षाक्रममखिलजनस्नॆहिताम् दर्शयन्तम् ।

 

स्वीयाक्रन्दच्छिदॊत्कम् स्मरणसुविशदम् विस्मयार्हद्विभूतिम्

 

स्तॊत्रॆ युञ्जन्तमाह स्तुतिकृदघहरम् सप्तमॆऽनिष्टचॊरम् ॥ 7-11 ॥

 

शतकम् 8

 

श्र्याद्यैः पत्न्यादिमत्त्वात् रघुयदुकुलयॊरुद्भवात् स्वाश्रितॆच्छा–

 

धीनॆहाविग्रहत्वात् सकलचिदचितामन्तरात्मत्वभूम्ना ।

 

स्वामित्वात् स्वाश्रितावॆध्यखिलगुणतया ज्ञानिनामप्यदुःख–

 

स्थानॆच्छापादनाद्यैः हरिरकथि परम् दर्शनॆच्छोः सुदृश्यः ॥ 8-1 ॥

 

तार्क्ष्यॊद्यद्वाहनत्वात् शुभनयनतया नीलमॆघाकृतित्वात्

 

आश्चर्यॊच्चॆष्टितत्वात् दुरवधरतया यॊगिभिः निर्जरैश्च ।

 

स्वॆषु व्यामुग्धभावात् प्रतिहतिविरहात् दुर्जनादृश्यभावात्

 

निस्सङ्गानाम् जनानाम् सुलभतम इति प्राह नाथः शठारिः ॥ 8-2 ॥

 

श्रीभूमिनायकत्वात् अरिसुरकरतया कल्पसिन्धौ शिशुत्वात्

 

श्रीस्थानॆ सन्निधानात् सुरहितकरणात् श्रीनिवासत्वयॊगात् ।

 

विक्रान्त्या विष्टपानाम् विधिदुरधिगमात् स्वॆषु सौलभ्यभूम्ना

 

चैकाकी स्वाश्रितानाम् विहरणसमयॆ श्रीधरः प्रत्यपादि ॥ 8-3 ॥

 

दुर्दान्तॆभॆन्द्रभङ्गात् शुभनिलयतया साम्यतः चॆतरॆषाम्

 

स्वायत्तत्वॆन भानात् श्रितहृदि सततम् दॆवतद्द्वॆषिसङ्घॆ ।

 

मित्रामित्रत्वयॊगात् जगदुदयकृतॆः दॆवतात्मत्वमुख्यैः

 

श्रीमान् वैकुण्ठनाथः श्रितविहितसमग्रत्वभूमाऽन्वभाषि ॥ 8-4 ॥

 

आश्चर्यॆहान्वितत्वात् शुभमकुटतया स्वामितोऽब्धौ शयित्वात्

 

जीमूतश्यामलत्वात् श्रितसुलभतया पद्मसूर्यॊपमाङ्गात् ।

 

सारथ्यात् पाण्डुसूनॊः अवनिभरहृतॆः अन्तरात्मत्वयॊगात्

 

जीवापॆक्षाप्रतीक्षॊ भवति तदवनॆ श्रीधरः चॆत्यभाणि ॥ 8-5 ॥

 

भातत्वात् श्रीतुलस्या श्रितहृदि शयनात् श्रीद्धवक्षस्कभावात्

 

आश्चर्यॊपक्रियत्वात् सुरगणभजनात् वैरिविध्वम्सकत्वात् ।

 

गॊविन्दत्वात् अशॆषाभिमतविषयतॊऽभीष्टसच्चित्तकत्वात्

 

सर्वाकाराद्भुतत्वात् स्वपदवितरणॆ सज्ज इत्याह कृष्णम् ॥ 8-6 ॥

 

भव्यत्वात् रक्षकत्वात् त्रिजगदधिककारुण्यतॊ गॊपभावात्

 

नीलाश्माद्रिप्रभत्वात् स्वजनकृतनिजात्मप्रदानप्रभुत्वात् ।

 

मन्दस्मित्या स्थितत्वात् हृदि सुकृतिषु चातर्कितानुग्रहत्वात्

 

स्वानाम् चित्तानपायात् स्वजनहृदि रतॊ माधवः चॆत्यवॊचत् ॥ 8-7 ॥

 

प्रासाधित्येन भानात् हृदि च विभुतयाऽलम् महिम्ना परत्वात्

 

माधुर्यात् दॆहदॆह्यादिषु च गततया स्वस्वरूपप्रकाशात् ।

 

अन्त्यस्मृत्याऽऽप्यभावात् स्वपरमपुरुषैक्यभ्रमध्वम्सकत्वात्

 

ज्ञानाज्ञानप्रदत्वात् प्रकटयति हरिः पुम्सि दास्यम् स्वमूचॆ ॥ 8-8 ॥

 

वैलक्षण्यात् स्वमूर्तॆः मकुटमुखमहाभूषणैः भूषितत्वात्

 

स्वार्हानॆकायुधत्वात् प्रळयसखितयॊज्जीवनॆ कर्षकत्वात् ।

 

भव्यत्वाद्यैश्च सम्पन्निरवधिकतयाऽऽश्चर्यचॆष्टत्वयॊगात्

 

निष्ठाम् दास्यॆ स्वकीयॆ प्रकटयति हरिः चॆत्यथाज्ञायि तॆन ॥ 8-9 ॥

 

व्यामुग्धत्वात् स्वकीयॆष्वमलघनरुचा वामनत्वॆन चाप–

 

द्बन्धुत्वाश्चर्यभावात् अहितनिरसनात् लोकसृष्ट्यादिशक्तॆः ।

 

अब्धौ शायित्वयॊगात् श्रितदुरितहृतॆः चातसीपुष्पकान्त्या

 

त्वाकृष्टेः स्वीयदास्यावधि विशदयतीत्याह नाथः स्वदास्यम् ॥ 8-10 ॥

 

इत्थम् सूरिर्दिदृक्षोः दृशिविषयम् निस्पृहैरॆव लभ्यम्

 

स्वानाम् विश्लॆषभॊग्यम् श्रितविहितसमग्रत्वभूतिम् शठारिः ।

 

स्वापॆक्षासव्यपॆक्षम् स्ववितरणपरम् हृद्गतम् स्पष्टयन्तम्

 

दास्यम् स्वम् तस्य निष्ठाम् तदवधिमपि चाप्यष्टमॆ स्वॆष्टवश्यम् ॥ 8-11 ॥

 

शतकम्  9

 

आपद्बन्धुत्वकीर्त्या दृढमतिजननात् दैत्यनाशाय भूमौ

 

जातत्वात्त्त् उत्तरस्याम् पुरि मधुरपदालङ्कृतायाम् दयाब्धेः ।

 

बन्धॊः कृष्णस्य पादाश्रयणमिह विना नॊ सहायः पुमर्थॊ

 

रक्षासामर्थ्यहानेः भविन इति हितम् कारिसूनुः बभाषॆ ॥ 9-1 ॥

 

लक्ष्मीसम्बन्धभूम्ना मितधरणितया पद्मनॆत्रत्वयॊगात्

 

स्थित्याद्यैः स्वैः चरित्रैः स्वहृदपहरणात् श्रीगजॆन्द्रावनाच्च ।

 

तार्क्ष्याम्सौ चाधिरुह्यारिगणनिरसनात् दॆवदुष्प्रापताद्यैः

 

दुष्कर्मॊन्मूलनाद्यैः सुचिरकृतदयः माधवः चॆत्यवॊचत् ॥ 9-2 ॥

 

नैकश्रीनामवत्वात् जगदुदयसुसम्थापनाद्यैः हरित्वात्

 

दानात् मॊक्षस्य हॆयप्रतिभटघटकश्रॆणिसम्पत्तिमत्त्वात् ।

 

प्रह्लादाह्लादकत्वात् वृषगिरिकटकॆ सन्निधानादिकृत्यैः

 

शर्वादॆः स्वाङ्गदानात् अकथि यदुपतिः शीलरत्नाकरॊऽसौ ॥ 9-3 ॥

 

लक्ष्मीवक्षस्कभावात् स्वजनसुलभता पर्वतॊद्धारणाद्यैः

 

दुर्ज्ञॆयत्वात् सुरादॆः अखिलपतितया नाकिनाम् वृद्धभावात् ।

 

स्वॆषाम् हृद्वासितायाः स्वजनवशतया तत्र चासक्तिभूम्ना

 

स्वस्वामित्वादिबन्धात् जगदवति हरिः चॆत्यभाणीत् शठारिः ॥ 9-4 ॥

 

प्राणत्वात् अद्भुतत्वात् अपि च सुविदितत्वॆन भव्यत्वयॊगात्

 

लक्ष्मीवक्षस्कभावात् रघुकुलजननात् नीलरत्नाभमूर्त्या ।

 

कृष्णत्वात् अब्जद्रुक्त्वात् परमपतितया चॆश्वरम् सम्श्रितानाम्

 

ऊचॆ धीमान् शठारिः स्वगुणगरिमसम्स्मारकम् सर्वदर्शी ॥ 9-5 ॥

 

आश्चर्यॆहान्वितत्वात् अखिलपतितया चान्तरात्मत्वभूम्ना

 

अशक्यॆ शक्तत्वभूम्ना जलदतनुतया भव्यताकर्षकत्वात् ।

 

औदार्यादॆर्विशिष्टादपि च भवभ्रुताम् रक्षणॆ तीव्रसङ्गात्

 

विस्मर्तुम् नैव शक्यॊ हरिरिति शठजित् कम्सजॆतारमाह ॥ 9-6 ॥

 

रम्यत्वात् श्रीतुलस्या श्रितजनसहितत्वॆन पद्माक्षतायाः

 

स्वामित्वात् सत्परञ्ज्योतिरिति कथनतः श्रीधरत्वातिकीर्त्या ।

 

पुष्पश्यामत्वभूम्ना रथचरणमुखस्वायुधत्वाद्युदन्तैः

 

शौरेः धीमान् शठारिः घटकमुखसुविस्रम्भणीयत्वमाह ॥ 9-7 ॥

 

वल्लीमध्यैत्वयॊगात् जगति सुविदित श्रीवचॊवाच्यभावात्

 

भूम्याद्यैश्वर्ययॊगात् अवतरणदशासाहचर्यात् स्वाभर्तुः ।

 

सन्धातृत्वात् सुबॊधप्रददुरितहरत्वात् समासन्नभावात्

 

लक्ष्म्याः कान्तम् शठारिः प्रथयति च सुमज्जानिभावॆन नाथम् ॥ 9-8 ॥

 

पद्माक्षत्वप्रसिद्ध्या जगदवनतया भव्यताद्यैश्च सार–

 

ग्राहित्वात् वॆणुनादैः हृषितजनतया स्वाङ्गदानादजादॆः ।

 

श्यामत्वात् गव्यचॊरत्वत उत सरसस्मॆरचॆष्टत्वभूम्ना

 

नः कूटस्थॊऽत्र सिद्ध्युन्मुखसमयतया ख्यापयामास कृष्णम् ॥ 9-9 ॥

 

सर्वश्रैष्ठ्यात् स्वकीयैरपि जगदवनात् दण्डषण्डाधिपत्यात्

 

नीलाया वल्लभत्वात् अमृतवितरणात् भक्तसुस्निग्धभावात् ।

 

दासानाम् सत्यभावात् अतिसुजनतयाऽथॊ जगत्कारणत्वात्

 

श्रीमान् वॆलाप्रतीक्षॊ भवभयहरणॆ चॆत्यभाणीत् शठारिः ॥ 9-10 ॥

 

इत्थम् सर्वैकबन्धुम् चिरकृतकरुणम् शीलसिन्धुम् पतित्वात्

 

सम्बन्धाद्रक्षितारम् स्वगुणगरिमसम्स्मारकम् प्राह कृष्णम् ।

 

विस्मर्तुम् चाप्यशक्यम् घटकमुखसुविस्रम्भणीयम् सुमत्या

 

लक्ष्म्याश्लिष्टम् विसिद्ध्युन्मुखसमयमनॆहः प्रतीक्षम् सुमित्रम् ॥ 9-11 ॥

 

शतकम् 10

 

 

दैत्यानाम् नाशकत्वात् विधृततुलसिकामौलिभावात् जयित्वात्

 

सर्पाधीशॆशयत्वात् निरवधिकपरञ्ज्योतिरुल्लास्यभावात् ।

 

लॊकानाम् स्रष्ट्रुभावात् दशरथसुतता श्रान्तिहारित्वमुख्यैः

 

आकारैः सद्गतिः स्यात् जलदतनुरुचिश्चॆति तॆनाभ्यदायि ॥ 10-1 ॥

 

ऊचॆ श्रीकॆशवत्वाद्भुतचरितखगाधीशकॆतुत्वयॊगात्

 

आसन्नत्वात् पतित्वात् अमरपरिषदाम् आदिभूतत्वभूम्ना ।

 

व्यापारैः सृष्टिमुख्यैरपि च भुजगशायित्वमुख्यैः चरित्रैः

 

अध्वक्लॆशापहर्ता भवति च भगवानित्यनन्यः शठारिः ॥ 10-2 ॥

 

अम्भॊजाक्षत्वकीर्त्या यदुकुलजतया चात्मनः श्यामलत्वात्

 

गॊविन्दत्वात् प्रियॊद्यद्वचनपरतया चक्रराजायुधत्वात् ।

 

श्रीनीलाश्मप्रभत्वात् अतिसुभगतया गॊपिनिर्वाहकत्वात्

 

अस्थानस्नॆहशङ्कास्पदरस उदितः श्रीपतिः कारिजॆन॥ 10-3 ॥

 

श्रीमद्दामॊदरत्वात् अमरपरिषदामप्यगम्यत्वभूम्ना

 

चक्राधीशायुधत्वात् वटदलशयनात् नागराजॆशयत्वात् ।

 

मॊक्षस्पर्शॊन्मुखत्वात् परमपुरुषता माधवत्वादियॊगात्

 

दुष्प्रापॊऽयम् भजद्भिः सुगम इति दृढम् माधवम् सॊऽभ्यधत्त ॥ 10-4 ॥

 

नाम्नाम् सङ्कीर्तनॆन स्वपरिबृढतया भावनातॊऽनुवॆलम्

 

सम्स्मृत्या पुष्पदानाध्ययननिवचनैः स्तॊत्रनृत्यादिकृत्यैः।

 

धर्मैर्वर्णाश्रमॊक्तैः बहुविधभजनप्रक्रियॊ दीर्घबन्धुः

 

श्रीमन्नारायणश्चॆत्यकथयदखिलद्रामिडब्रह्मदर्शी॥ 10-5 ॥

 

चक्रित्वात् केशवत्वादिभिरपि च तथा श्रीशनारायणत्वात्

 

स्नॆहित्वात् पाण्डवानाम् अभिमततुलसीपूजनीयत्वभावात् ।

 

अम्भॊजाक्षत्वगॊविन्दत उत सुयशः श्रीपतित्वादिभावैः

 

श्रीमान् तीव्रॊद्यमॊऽयम् स्वपदवितरणॆ चॆति तॆनाभ्यधायि ॥ 10-6 ॥

 

अत्याश्चर्यस्वभावात् हृदयगततया स्वस्तुतौ प्रॆरकत्वात्

 

स्वामित्वात् सर्वभूतान्तरनुगततया स्वस्तुतौ कर्तृभावात् ।

 

आपद्बन्धुत्वयॊगात् बहुविधसविधस्थानवत्त्वॆन दॆवः

 

श्रीमानत्यादरः स्यात् स्वजनपरिकरॆष्वित्यथॊ सञ्जगाद ॥ 10-7 ॥

 

लक्ष्मीकान्तत्वयॊगात् विपदि सखितया दिव्यदेशस्थितत्वात्

 

मॊक्षॊद्यॊगात् तदर्थम् कृतशपथतया सर्वतः सन्निधानात् ।

 

दृष्ट्यन्तःसन्निवासात् अतिवितरणतः स्वस्वभावप्रकाशात्

 

स्वामित्वात् तुष्यतीत्थम् स्वयमनुपधितः श्रीपतिश्चॆत्यगायि ॥ 10-8 ॥

 

स्वामित्वात् श्रीशनारायण इति यशसा विक्रमाद्विष्टपानाम्

 

श्रीमत्त्वात् चक्रवत्त्वात् जलनिधिशयनाच्चापि गॊविन्दभावात् ।

 

वैकुण्ठस्वामिभावादपि च निजजनान् अर्चिराद्याख्यगत्या

 

स्वम् लॊकम् प्रापयॆत् श्रीपतिरिति कथयाम् श्रीशठारिः बभूव ॥ 10-9 ॥

 

ब्रह्मॆशान्तःप्रवेशात् जलनिधिसुतया सन्निरॊद्धव्यभावात्

 

दिव्यश्रीविग्रहत्वात् अखिलतनुतयाऽतृप्तपीयूषभावात् ।

 

पद्माबन्धुत्व भूम्युद्धरणकरणतः पुण्यपापॆशितृत्वात्

 

मुक्तॆर्दाताऽनुभाव्यॊ हरिरिति शठजिद्दर्शयन् मुक्तिमापः ॥ 10-10 ॥

 

एवम् स्वानाम् गतिम् व्यध्वजदुरितहरास्थानशङ्कार्हरागम्

 

सुप्रापम् भक्तिभाजाम् बहुविधभजनप्रक्रियम् श्रीशठारिः।

 

तीव्रॊद्यॊगम् स्वदानॆ स्वजनतनुकृतात्यादरम् प्राह चात्र

 

स्वॆच्छातुष्टम् सुखार्चिर्मुखसरणिमुखम् मॊक्षदम् मुक्तभॊग्यम् ॥ 10-11 ॥

 

इत्थम् सॆव्यम् सुभॊग्यम् शुभसुभगतनुम् सर्वभॊग्यप्रकृष्टम्

 

श्रॆयस्तद्दॆतुभूतम् प्रपदनसुलभम् स्वश्रितानिष्टजिष्णुम् ।

 

भक्तच्छन्दानुरक्तम् निरुपधिसुहृदम् सत्पदव्याम् सहायम्

 

श्रीशम् प्राह स्वसिद्धॆः स्वयमिह करणम् स्वप्रबन्धॆ शठारिः ॥

 

आद्यॆ स्वीयप्रबन्धॆ शठजिदभिदधॆ सम्सृतॆर्दुस्सहत्वम्

 

द्वैतीयीकॆ स्वरूपाद्यखिलमथ हरॆरन्वभूत्स्पष्टदृष्टम् ।

 

तार्तीयीकॆ स्वकीयाम् भगवदनुभवॆ स्फॊरयामास तीव्राम्

 

आशाम् तुर्यॆ यथॆष्टम् भगवदनुभवादाप मुक्तिम् शठारिः ॥

 

श्रीमान्सीमातिलङ्घि स्थिरतरकरुणः सर्ववित्सर्वशक्तिः

 

स्वामी सर्वस्य जन्तॊस्स्वचरणयुगळस्वीकृतास्माकभारः ।

 

किम् नः कृत्यम् स्वहॆतॊः किमिह न सुलभम् का विपत्तिर्भवित्री

 

कस्यान्यस्याधमर्णा वयमिति विदुषामाह तुङ्गत्वमन्तॆ ॥

 

शास्त्रॆ दॆहातिरिक्तात्मनि तदधिपतौ तत्प्रसादाद्युपायॆ

 

तस्मान्निश्श्रॆयसाप्तौ तदपचरणतॊऽनन्ततापाभिभूतॆ ।

 

तद्भक्तानाम् प्रभावॆ तदुपसदनतः स्वान्तकालुष्यशान्तौ

 

सारम् वॆद्यम् स्ववॆदॆ सकलमकथयत्सानुकम्पः शठारिः ॥

 

इत्थम् सत्सम्प्रदायक्रमसमधिगताशॆषवर्णार्हवॆद–

 

श्रद्धाशुद्धाशयानामघटयदनघम् कौतुकम् वॆङ्कटॆशः ।

 

सम्यक्त्वॆ तस्य साक्षाच्छठरिपुरथ वा सर्वसाक्षी स साक्षी

 

सावद्यत्वॆऽपि सॊढुम् प्रभवति भजतामप्रकम्प्यानुकम्पः ॥

 

श्लॊकः श्लॊकत्वमभ्यागत इति नयतः शुद्धबॊधार्णवोद्यत्

 

नानाकल्लॊलनाथानुभवरसपरीवाहतः श्राव्यवॆदात् ।

 

वॆदान्ताचार्यकश्रीबहुमतबहुविद्वॆङ्कटॆशॊद्धृतॆयम्

 

रम्या तात्पर्यरत्नावळिरनघगुणा रञ्जनी रङ्गभर्तुः ॥

 

इति कवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य वॆदान्ताचार्यस्य कृतिषु 

द्रमिडोपनिषत्तात्पर्यरत्नावळिः समाप्ता

 

वॆदान्ताचार्य तिरुवडिगळे शरणम्

 

 

 

 

 

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.