श्रीभाष्यकाराणां परमगुरुणा श्रीयामुनाचार्यस्वामिना प्रणीतम् ।
आगमप्रामाण्यम् । (Part 3)
(श्रीपञ्चरात्रतन्त्रप्रामाण्यव्यवस्थापनपरम्)
अपि च ।
किं चेदं वेदबाह्यत्वं का वा स्यात्तद्गृहीतता ।
किमङ्ग वेदादन्यत्व वेदबाह्यत्वमुच्यते ॥
तन्निषिद्धार्थकारित्वमाहो तद्द्वेषशीलता ।
तथा ।
गृहीतत्वमधीतत्वं ज्ञातत्वं वा विचार्यताम् ।
क्रियमाणर्थता वा स्याद्धेतुः सर्वत्र दुष्यति ॥
तत्र तावद् ।
यदि वेदाद्विभिन्नत्वं बाह्यत्वं साऽप्यधीतता ।
वेदादन्यैस्त्रिभिर्वर्णैरधीतं वैदिकं वचः ।
प्रमाणमित्यनैकान्त्यं हेतोस्तत्र प्रसज्यते ॥
ज्ञातत्वेऽपि गृहीतत्वे दोषादस्मान्न मुच्यसे ।
पूर्वोक्तं वेदबाह्यत्वं क्रियमाणार्थता यदि ॥
गृहीतताऽपि वेदैः स्यात्तथैव व्यभिचारिता ।
प्रतिषिद्धार्थकर्तृत्वे वेदबाह्यत्वलक्षणे ॥
व्यभिचारस्त्रयीवाक्यैः प्रायश्चित्तविधायकैः ।
प्रायश्चित्तविधायकानि वाक्यानि कूष्माण्डैर्जुहुयात् इत्यादीनि
प्रतिषिद्धकारिभिरधीतगृहीतानुष्ठीयमानार्थान्येव
प्रमाणानीति तादृशवेदबाह्यगृहीतत्वमनैकान्तिकम् ।
नापि वेदद्वेषिजनपरिगृहीतत्वादप्रामाण्यं
पञ्चरात्रतन्त्राणां, हेतोरसिद्धत्वात्, अपि च न
वेदद्वेषिजनपरिग्रहः प्रामाण्यं प्रतिहन्ति, यदि हि
प्रतिहन्यान्निरर्गलस्तर्हि नास्तिकानां पन्थाः, ते हि
वेदप्रामाण्यप्रोत्सादनाय प्रयस्यन्तः ।
कथञ्चिद्वेदवाक्यानि गृहीत्वा विप्रलम्भनात् ।
अनायासेन मिथ्यार्थान् वेदान् कुर्युर्दिगम्बराः ॥
अथ तत्रानधिकारिणामध्येतॄणामेव न चाभिव्याहरेद्
ब्रह्मस्वधानिनयादृते । इत्यादिवचनपर्यालोचनया दोषो न
निर्दोषवेदवाक्यानामिति चेत्
तत्प्रस्तुततन्त्रेष्वप्यनधिकारिश्रोतृजनानामेष दोषः, न
निर्दोषतन्त्राणामिति सर्वं समानमन्यत्राभिनिवेशात् । अथ मतं
वेदबाह्यत्वं नाम वैदिककर्मानधिकारित्वं
तदनधिकारिभिर्वेदबाह्यैर्गृहीतत्वात् चैत्यवन्दनवाक्यवत्
अप्रमाणमिति तत्रापि
किमखिलवैदिककर्मानधिकारिजनपरिगृहीतत्वं हेतुः, उत
कतिपयवैदिककम्रानधिकारिगृहीतत्वमिति विविच्य व्याचष्टाम् ।
न तावदग्रिमः कल्पः कल्पते हेत्वसिद्धितः ।
न हि सोऽस्ति मनुष्येषु यः श्रौते क्वापि कर्मणि ॥
नाधिकुर्यादहिंसादौ नृमात्रस्याधिकारः ।
अन्यथा हि ब्राह्मणहनन=तद्धनापहरण-
वर्णाङ्गनासंगम-वेदाध्ययनादि कुर्वाणाश्चण्डालादयो न
दुष्येयुः । तदनधिकारित्वाद्, यस्य हि यन्न कर्त्तव्यं तस्य हि
तत्करणं प्रत्यवायाय, अतः सर्वेषामीदृशवैदिकर्मणि अधिकारो
विद्यत एवेत्यसिद्धो हेतुः, साधनविकलश्च दृष्टान्तः ।
नापि
कतिपयवैदिककर्मानधिकारिभिर्गृहीतत्वादप्रामाण्यं
समस्तवेदवाक्यानामप्रामाण्यप्रसङ्गात्, अस्ति हि सर्वेषां
कतिपयवैदिककर्मानधिकारः, ब्राह्मणस्येव राजसूये,
राजन्यस्येव सोमपाने, अतो
व्यवस्थितवर्णाधिकारिगृहीतवेदवचनैरनैकान्तिकोहेतुः,
अप्रयोजकश्च ।
चैत्यवन्दनतः स्वर्गो भवतीतीदृशी मतिः ।
न तत्परिग्रहान्मिथ्या किन्तु कारणदोषतः ॥
उक्तश्च वैदिकसमस्तास्तिकप्रवरभृगु भरद्वाज
द्वैपायनप्रभृति महर्षिजनपरिग्रहः, अद्यत्वेऽपि हि
पञ्चरात्रतन्त्रविहितमार्गेण प्रासादकरण
प्रतिमाप्रतिष्ठापन प्रणाम प्रदक्षिणोत्सवादीनि
प्रत्यक्षश्रुतिविहिताग्निहोत्रादिवत् श्रेयस्करतरबुद्ध्याऽनुतिष्ठतः
शिष्टान् पश्यामः, न चैतदाचरणं निर्म्मूलमिति युक्तं
सन्ध्यावन्दनाष्टकाचरणादेरपि निर्मूलत्वप्रसङ्गात्, उक्तं च
शिष्टाचारस्य प्रामाण्यम् अपि वा कारणाग्रहणे प्रयुक्तानि
प्रतीयेरन्निति ।
अथ भागवतजनपरिगृहीतत्वादिति हेतुः, हन्त तर्हि
तत्परिगृहीतत्वाद् वाजसनेयकैकायनशाखावचसां
प्रत्यक्षादीनां चाप्रामाण्यप्रसङ्गः ।
अथ तैरेव परिगृहीतत्वादिति हेतुः तदसाधारणानैकान्तिकम्,
असिद्धञ्च ।
किमिति वा तत्परिग्रहादप्रामाण्यम् अत्रैवर्णिकत्वादिति चेत् किं
भोः त्रैवर्णिकेतरसवर्णरथकारनिषादादिपरिगृहीतानुष्ठीय-
मानार्थानामाथर्वणवचसां रथकार आदधीत एतया
निषादस्थपतिं याजयेत् इत्यादिवचसां प्रामाण्यं नास्ति ।
अस्तुवाऽत्रवर्णिकपरिग्रहोऽप्रामाण्यहेतुः, एतेषां तु
भगच्छास्त्रानुगामिनां भागवतानामुत्कृष्टब्राह्मण्यं
सर्वप्रमाणसमवगतमिति तत्परिग्रहः प्रामाण्यमेव द्रढयति ।
आह केन पुनः प्रमाणेनैषां ब्राह्मण्यमवगतं, केन
वाऽन्येषाम् ।
ननु चक्षुर्विस्फारणसमनन्तरं शिखा यज्ञोपवीत
पालाशदण्ड मौञ्जीयुजो द्विजकुमारकान् पश्यन्तो ब्राह्मणा
इत्यवगच्छन्ति इह वा
किमहरहरधीयमानवाजसनेयकैकायनशाखान्
विलसदुपवीतोत्तरीयशिखाशालिनोऽध्यापयतो याजयत प्रतिगृह्णतो
विदुषः पश्यन्तो ब्राह्मणा इति नावयन्ति ।
अथ याजन प्रवचन पालाशदण्डादीनां
दुष्टशूद्रादिषु व्यभिचारसंभवाद् ब्राह्मण्यसिद्धवत्कारेण
प्रवृत्तेश्च न तेभ्यो ब्राह्मण्य निर्णयः,
तद्भागवतेतरविप्राणमपि समानम् ।
अथ सत्यपि तेषां क्वचिद्व्यभिचारे तत्सामान्यादन्यत्र
व्यभिचारशङ्कायां शुक्तौ रजतधियो व्यभिचारात् रजते
रजतधियां व्यभिचारशङ्कावत् प्रत्यक्षविरोधात् अनवस्थानाच्च
अनुपलभ्यमानव्यभिचारोदाहरणेषु तथात्वनिश्चयस्तदन्यत्रापि
समानम् ।
अथ मतम् अन्येषां ब्राह्मण्यं
तदसाधारंअगोत्रस्मरणादिति, तद् भागवतानामपि समानम्,
स्मरन्ति हि भागवताः । वयं भारद्वाजाः वयं काश्यपाः
वयं गौतमाः वयमौपगवा इति ।
न चेदं गोत्रस्मरणं निर्मूलं साम (आधुनिकम्)यिकं वा
सर्वगोत्रस्मरणानां तथाभावप्रसङ्गात् ।
संभाव्यमानदोषत्वाद् वंशानां यदि संशयः ।
तद्ब्राह्मण्ये ततो लोकं सर्वं व्याकुलयेदयम् ॥
तथा हि ।
जननीजारसन्देहजातश्चण्डालसंशयः ।
निर्विशङ्कः कथं वेदमधीषे साधु सत्तम ? ॥
तेन भागवतानामविच्छिन्नपरम्पराप्राप्तविचित्रगोत्रस्मरण-
पर्यवस्थापितं ब्राह्मण्यमनपोदितमास्ते इति न
भागवतानामम्येषाञ्च ब्राह्मण्ये कश्चिद्विशेषः ।
यदि परं ते परमपुरुषमेवाश्रिता एकान्तिनः, अन्ये
क्षुद्रदैवतिका (तांस्तु भगवानेव तेष्पि मामेव कौन्तेय
यजन्त्यविधिपूर्वकमिति विनिनिन्द ।)स्साधारणा इति, किं पुनरेतेषां
ब्राह्मण्ये प्रमाणमभिहितं यदेवान्येषां, केन वा तेषां
ब्राह्मण्यमवगतम् किन्न (न केवलं ममैव
ब्राह्मण्यनिरूपण्यनिरुपणभार आवयोरुभयोरेव तस्य
निरूपणीयत्वेन समत्वादिति भावः ।) एतेन, यदि च कौतूहलम् ।
श्रूयतामुभयत्रापि ब्राह्मण्यस्यावधारकम् ।
प्रत्यक्षं वाऽनुमानं वा यद्वाऽर्थापत्तिरेव वा ॥
ननु कथं प्रत्यक्षं ब्राह्मण्यमवगमयति, न हि
प्रथमाक्षसन्निपातसमनन्तरमदृष्टपूर्वविप्र
क्षत्रसमानवयोवेषपिण्डद्वयसन्निधावजगजमहिषादिविशेषवद्
अयं ब्राह्मणः अयं क्षत्रिय इति विभागेन प्रतिपद्यामहे ।
न च तत्पित्रादिब्राह्मण्यस्मरणसापेक्षमक्षमेव
सन्निहितव्यक्तिवर्ति ब्राह्मण्यमवगमयतीति साम्प्रतं,
तत्स्मरस्यैव पूर्वानुभवविरहेण
बन्ध्यासुतस्मरणवदनुपपत्तेः ।
न चानुमानात्तत्प्रतिबद्धलिङ्गादर्शनात् ।
न च शम दम तपश्शौचादयो ब्राह्मण्ये लिङ्गं, तेषां
ब्राह्मणेन सता संपाद्यत्वाद् व्यभिचाराच्च ।
न चार्थापत्त्या ब्राह्मण्यनिर्णयः, अनुपपत्त्यभावात्, न च
वसन्ते ब्राह्मणोऽग्नीनादधीत इत्यादिवाक्यार्थानुपपत्त्या
ब्राह्मण्यनिर्णयः, ब्राह्मण्यादिपदार्थावगमपूर्वकत्वात्
तद्वाक्यार्थावगमस्य, नायं दोषः, न हि
प्रथमाक्षसंप्रयोगसमय एव भासमानं प्रत्यक्षं
नान्यदित्यस्ति नियमः, यदेवेन्द्रियव्यापारानुवृत्तौ
सत्यामपरोक्षमवभासते तत्प्रत्यक्षं तथा च ब्राह्मण्यमिति
तदपि प्रत्यक्षं, प्रतीमो हि वयमुन्मीलितलोचनाः
तत्सन्ततिविशेषानुसंधानसमनन्तरं वसिष्ठ काश्यपीय
शठमर्षणप्रभृतिविचित्रगोत्रकुलशालिषु समाचारशुचिषु
विलसदुपवीतोत्तरीयशिखामौञ्जीबन्धेषु स्फुटतरसंदधद्
ब्राह्मण्यम् ।
न चैतदलौकिकं
यत्सन्ततिविशेषानुसंधानसापेक्षमक्षं ब्राह्मण्यं
ग्राहयतीति, सर्वत्र
देशकालसंस्थानादितिकर्त्तव्यतानुगृहीतमेन्द्रियं
स्वगोचरपरिच्छेदोत्पादे कारणम्भवति करणमात्रस्यायं
स्वभावो यदितिकर्त्तव्यतापेक्षणम् ।
यथाह ।
न हि तत्कारणं लोके वेदे वा किञ्चिदीदृशम् ।
इति कर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥ इति,
ततश्च सन्ततिस्मृत्यानुगृहीतेन चक्षुषा ।
विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति ॥
तथा च दृश्यते नाना सहकारिव्यपेक्षया ।
चक्षुषोजातिविज्ञानकरणत्वं यथोदितम् ॥
सुवर्णं व्यज्यते रूपात् ताम्रत्वादेरसंशयम् ।
तैलाद् घृतं विलीनञ्च गन्धेन तु रसेन वा ॥
भस्मप्रच्छादितो वन्हिः स्पर्शनेनोपलभ्यते ।
अश्वत्वादौ च दूरस्थे निश्चयो जायते ध्वनेः ॥
संस्थानेन घटत्वादि ब्राह्मणत्वादियोनितः ।
क्वचिदाचारतश्चापि सम्यग्राज्यानुपालितात् ॥
इति ॥
यत्समानवयोवेषपिण्डद्वयविलोकने ।
तत्क्षणादक्षतो भेदो नावभातीति भाषितम् ॥
नैतावता विभागस्य प्रत्यक्षत्वं निवर्तते ।
सादृश्यदोषात्तत्र स्याद् विभागस्यानवग्रहः ॥
समानरूपसंस्थानशुक्तिका कलधौतयोः ।
विवेकः सहसा नाभादिति कालान्तरेऽपि किम् ॥
प्रत्यक्षो न भवेदेवं विप्रक्षत्रविशां भिदा ।
यद्वा संततिविशेषप्रभवत्वमेव ब्राह्मण्यं,
तच्चान्वयव्यतिरेकाभ्यां यथालोकं
कार्यान्तरवदवगन्तव्यमेव, के पुनः सन्ति विशेषा येषु
ब्राह्मणशब्दं प्रयुञ्जते वृद्धाः केषु वा प्रयुञ्जते, ।
उक्तं गोत्रार्षेयादिस्मृतिमत्स्वित्यनेकशः ।
आस्तामप्रस्तुता चिन्ता प्राची प्रस्तूयते कथा ॥
सिद्धं गोत्रादियुक्तत्वाद् विप्रा भागवता इति ।
वैश्यव्रात्यान्वये जन्म यदेषामुपवर्णितम् ॥
पञ्चमस्सात्वतो नाम विष्णोरायतनानि सः ।
पूजयेदाज्ञया राज्ञः स तु भागवतः स्मृतः ॥
वैश्यात्तु जायते व्रात्यादिति वाक्यद्वयेक्षणात् ।
अत्र ब्रूमः किमेताभ्यां वचनाभ्यां प्रतीयते ॥
अभिधानान्वयो वा स्यान्नियमो वाऽभिधीयताम् ।
न तावत् सात्त्वत् भागवत शब्दौ
वैश्यव्रात्याभिधायकावेवेति नियन्तुं शक्यौ अप्रतीतेः,
अतिप्रसङ्गाच्च, न हि पञ्चमः सात्वत इत्यत्र सात्वत भागवत
शब्दयोरर्थान्तराभिधानप्रतिषेधः प्रतीयते
श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् इह हि व्रात्यवैश्यान्वयजन्मा
यः पञ्चमः सात्वत इति तस्य सात्त्वतसंज्ञान्वयोऽवगम्यते
पञ्चम शब्दस्य प्रथम निर्दिष्टत्वेनोद्देश
(उद्देश्यसमर्थकृत्वादित्यर्थः)कत्वात् ।
न च पञ्चमस्य सात्वतत्वे सात्वतेनापि
वैश्यव्रात्यपञ्चमेन भवितव्यं, न हि उद्दिश्यमानस्याग्निमत्त्वे
उपादीयमानस्याग्ने धूमवत्त्वेन भवितव्यम् अतो
नेदृशस्मृतिपर्यालोचनया सात्वत भागवत शाब्दितानां
व्रात्यत्वनिश्चयः ।
यदि पुनरनयोर्जात्यन्तरेऽपि प्रयोगो दृष्ट इति एतावता
तच्छब्दाभिधेयतया भगवच्छास्त्रानुगामिनामपि विप्राणां
तज्जातीयत्वनिश्चयः, ततस्तत्रैव सहपठिताचार्यशब्दस्यापि
निकृष्टव्रात्यापत्ये प्रयोगदर्शनात्
साङ्गसरहस्यवेददातुर्द्विजपरस्यापि व्रात्यत्वं स्यात् ।
अथ तस्य व्रात्यवाचकाचार्य शब्दाभिधेयत्वेऽपि
प्रमाणान्तरेणाप्लुतब्राह्मण्यनिश्चयात् आचार्य शब्दस्य
आचिनोत्यस्य बुद्धिम् इत्यादिगुणयोगेनापि वृत्तिसंभवान्न
व्रात्यत्वशङ्का तदत्रापि जात्यन्तरवाचकसात्वत भागवत
शब्दाभिधेयत्वेऽपि भगवच्छास्त्रानुगामिनाममीषामति-
स्पष्टविशिष्टगोत्रार्षेयादिस्मरणदृढावगतत्वाद् ब्राह्मण्यस्य
सात्वत भागवत शब्दयोश्च सत्त्ववति भगवति भक्तियोगेनैव
वृत्तिसम्भवान्न व्रात्यत्वशङ्कावतारः, एतदुक्तं भवति ।
न चैकशब्दावाच्यत्वादेकजातीयता भवेत् ।
मा भूदाचार्यशब्दत्वाद् ब्राह्मणस्य मण्डूकवाचिता ।
इति तच्छब्दवाच्यत्वात् सिंहो मण्डूक एव किम् ॥
तथा गो शब्दवाच्यत्वाच्छब्दश्चापि विषाणवान् ।
ततश्च ।
सुधन्वाचार्य इत्याद्या यथाऽर्थान्तरवाचकाः ।
व्रात्यान्वये प्रयुज्यन्ते तथैवैतो भविष्यतः ॥
यदुक्तं योगरूढिशक्तिद्वयोपनिपाते सात्वत
भागवत=शब्दयोरूढिशक्तिरेवाश्रयितुमुचितेति ।
तदयुक्तं कॢप्तावयवश्क्त्यैवाभिधानोपपत्तौ
सत्यामकॢप्ताखण्डशक्तिकल्पनाऽनुपपत्तेः ।
योऽपि हि सात्वत भागवत-
शब्दयोर्वैश्यव्रात्यान्वयजन्मनि रूढिशक्तिमभ्युपगच्छति
अभ्युपगच्छत्येव असावन्यत्र सत्त्ववद्भगवच्छब्दयोः
प्रकृतिभूतयोस्तदुत्पन्नस्य च
तद्धितप्रत्ययस्यार्थान्तराभिधानसामर्थ्यं सात्त्वतं
विधिमास्थाय, जन्मान्तरकृतैः पुण्यैर्नरो भागवतो
भवेदित्यादौ तदिहापि तद्योगेनैव व्रात्यान्वयजन्मनि
वृत्तिसम्भवेन शक्त्यन्तरकल्पनायां प्रमाणं क्रमते,
संभवति चैतेषामपि साक्षाद्भगवदाराधनाभावेऽपि
वासुदेवस्यायतनशोधन बलिनिर्हरण
प्रतिमासंरक्षणादिक्रियायोगेनैव सात्त्वत भागवत
शब्दाभिधेयत्वं, तस्येदम् इति संबन्धमात्रेऽपि
चाण्प्रत्ययस्मरणात्, उक्तश्च वैश्यव्रात्यान्वयजन्मनोऽपि
भगवदायतनादिशोधनादिक्रियायोगः, सात्वतानाञ्च
देवायतनशोधनं नैवेद्यभोजनं प्रतिमासंरक्षणम् इति,
तथा विष्णोरायतनानि संपूजयेति ।
एतेन इदमप्यपास्तं यदेषामपि वृत्तिसाम्याद् व्रात्यात्वमिति
अन्यदेव हि देवायतनशोधनबलिनिर्हरणप्रतिमासंरक्षणादिकम्
। अन्ये चाभिगमनोपादानेज्या स्वाध्याययोगा
भागवतैरहरहरनुष्ठीयमानाः क्रियाकलापा इति
ज्योतिष्टोमादाविव तथैव ज्योतिष्टोमे
ग्रहचमसजुह्वादिपात्रकरणतक्ष्णादिषु तक्ष्णो व्यापारः,
ऋत्विजस्तु विशिष्टमन्त्रोच्चारणदेवताभिध्यानाऽभिष्टवप्रभृतिषु ।
न च तावता तेषां तक्ष्णाञ्चैकजातित्वसंशयः, एवमिहापि
भगवच्छास्त्रसिद्धपाञ्चकालिकानुष्ठातॄणामन्येषामाय-
तनशोधनादि कुर्वतां प्रासादपालकावरनाम्नामन्त्यानां
चेति ।
यत्पुनरुक्तं सात्वत भागवत शब्दयोर्यौगिकत्वे
रथकार आदधीत इत्यत्रापि रथकार शब्दस्य रथकरणयोगेन
त्रैवर्णिकवृत्तिप्रसङ्ग इति तदनुपपन्नं, युक्तं हि
तत्राधानोत्पत्तिवाक्यावगतवसन्तादिकालबाधप्रसङ्गात्,
सौधन्वना ऋभवः सूरचक्षस इति
मन्त्रवर्णावगतजात्यन्तरवृत्तिबाधप्रसङ्गाच्च ।
माहिष्येण करिण्यां तु रथकारः प्रजायते ।
इति स्मृत्यवगतजात्यन्तरत्वेऽपि क्षत्रियवैश्यानुलोमोत्पन्नो
रथकारस्तस्येज्याधानोपनयनक्रियाश्चाप्रतिषिद्धा इति
शङ्खवचनाद् विद्यासाध्येऽपि कर्मणि अधिकाराविरोधात्,
त्रैवर्णिकानाञ्च शिल्पोपजीवित्वस्य प्रतिषिद्धत्वेन तेषु
रथकारशब्दस्यानुचितत्वाच्च जात्यन्तरवाचित्वाध्यवसानं, न
चेह तथा विरोधोऽस्ति ।
अपि च ।
कॢप्तावयवशक्त्यैव लब्धे स्वार्थावबोधने ।
नष्टावयवमानत्वं प्रत्याचष्ट च सूत्रकृत् ॥
प्रोक्षणीष्वर्थसंयोगात् इति ।
ततश्च सत्त्वाद्भगवान् भज्यते यैः परः पुमान् ।
ते सात्वता भागवता इत्युच्यन्ते द्विजोत्तमाः ॥
स्मृत्यन्तराणि च
भागवतानामुत्कृष्टब्राह्मण्यप्रतिपादकानीति परस्तात्
प्रदर्शयिष्यन्ते ।
यत् पुनरुक्तं समाने ब्राह्मण्ये किमिति सात्वत
भागवतैकान्तिक शब्दैरेवैतेषां नियमेन व्यपदेश इति
तत्परिव्राजकनिगदादिवदित्यदोषः ।
यथैव हि समाने ब्राह्मण्ये यजुष्ट्वे च केचिदेव ब्राह्मणाः
कानिचिदेव यजूंषि परिव्राजकनिगदशब्दाभ्यामधीयन्ते
तिष्ठन्तु ब्राह्मणाः परिव्राजका आनीयन्तां, यजूंषि वर्त्तने न
निगदाः, निगदा वर्त्तन्ते न यजूंषि इति च तथेहापि भविष्यति,
निगदाश्चतुर्थम्मन्त्रजातं यजूंषि वा तद्रूपत्त्वात् इति
न्यायाभिधानात् ।
वृत्त्यर्थं देवतापूजानैवेद्यप्राशनादिभिः ।
दौर्ब्राह्मण्यं यदप्युक्तं तत्र प्रतिविधीयते ॥
न हि भागवतैस्सर्वैर्वृत्तयेऽभ्यार्चितो हरिः ।
दृष्टा हि बहवस्सवार्थं पूजयन्तोऽपि सात्वताः ॥
केचिद्यदि परं सन्तः सात्त्वता वृत्तिकार्शिताः ।
याजयन्ति महाभागैर्वैष्णवैर्वृत्तिकारणात् ॥
न तावतैषां ब्राह्मण्यं शक्यं नास्तीति भाषितुम् ।
न खल्वाध्वर्यवं कुर्वञ् ज्योतिष्टोमे पतिष्यति ॥
यदि न प्रतिगृह्णीयुः पूजैव विफला भवेत् ।
पूजासाद्गुण्यसिद्ध्यर्थमतस्ते प्रतिगृह्णते ॥
अर्चनान्ते हिरण्यञ्च तस्मै देयं स्वशक्तितः ।
अन्यथा पूजकस्यैव तत्र पूजाफलं भवेत् ॥
हन्त्यल्पदक्षिणो यज्ञ इत्यादिस्मृतिदर्शनात् ।
ऋत्विजा द्रव्यलुब्धेन स्वयं याञ्चापुरस्सरम् ॥
यदार्त्विज्यं कृतं कर्म तदेव हि निषिध्यते ।
तद्यथा यदाशंसमानमार्त्विज्यं कारयन्ति उत वामे
दद्यात् उत वा मा वृणीत इति तद्ध तत्परागेव यथा जग्धं न
हैवं त्यज्यमानं भुनक्ति । इति,
श्रद्धापूतदक्षिणादानं तूभयोरपि श्रेयस्करमेव ।
योऽर्चितं प्रतिगृह्णाति दद्यादर्चितमेव च ॥
ता उभौ गच्छतः स्वर्गमित्यादिस्मृतिदर्शनात् ।
यदपि वृत्त्यर्थं देवपूजनाद् देवकोशोपजीवित्वाच्च
देवलकत्त्वप्राप्तिरिति तदषि देवतान्तरवृत्त्यर्थाराधन
तत्कोशोपजीवनविषयमिति द्रष्टव्यम् ।
तथा च भगवान् व्यासः ।
भवेद्देवलको यो वै रुद्रकाद्युपजीवकः इति,
अपि भवति शाण्डिल्यवचनम् ।
वृत्त्यर्थं याजिनस्सर्वे दीक्षाहीनाश्च केवलम् ।
कर्मदेवलका एते स्मृता ह्यत्र पुरा मुने ॥
तांश्च संवत्सरादूर्ध्वं न स्पृशेन्न च संविशेत् ।
तथा ।
कल्पदेवलकाः केचित् कर्मदेवलका अपि ।
अथ त्रिवर्षादूर्ध्वमयोग्या देवकर्मणि ॥
ये कल्पोक्तं प्रकुर्वन्ति दीक्षाहीना द्विजातयः ।
वृत्त्यर्थं वा यशोऽर्थं वा कल्पदेवलकास्तु ते ॥
वृत्तिं कृत्वा तु विप्रेण दीक्षितेन विधानतः ।
अन्येन यूजयेद्देवमशक्तः स्वयमर्चने ॥
यजनं मुख्यमेवैतद् गौणमेवान्यथा भवेत् ।
अन्यथा इति अदीक्षितेनेत्यर्थः, तदेव स्पष्टयति
अदीक्षितेन विप्रेण येनकेन विधानतः ।
वृत्त्यर्थं यत्कृतं कर्म तज्जघन्यमुदाहृतं ॥
इत्यादिस्मृतिशतपर्यालोचनात्
पञ्चरात्रसिद्धदीक्षासंस्कारविरहितानां ब्राह्मणानां
देवकोशोपजीवनवृत्त्यर्थपूजनादिकमुपब्राह्मणत्वदेवलकत्वा-
वहमिति निश्चीयते, यत्पुनः शिष्टविगर्हितनिर्माल्यनिवेद्योपयोगाद्
भागवतानामशिष्टत्वमिति ।
तत्र ब्रूमः किमिदं निर्माल्यं निवेद्यं चाभिप्रेतं श्रोत्रियस्य ।
पुष्पौदनादिमात्रं चेत् सर्वलोकाविरुद्धता ।
पुष्पौदनपरित्यागं न हि लोकोऽनुमन्यते ॥
विशिष्टप्रतिषेधोऽपि न युक्तस्तदसिद्धितः ।
न ह्यनिरूपितविशेषणा विशिष्टबुद्धिराविरस्ति, न चेह
विशेषणं निरूपयितुं शक्यते, किमिति न शक्यते यावता
देवोद्देशेन परित्यागो विशेषणं, किमिदानीं
पञ्चरात्रशास्त्रमपि प्रमाणमङ्गीकृतं भवता येन
पञ्चरात्रतन्त्रविहितमन्त्रप्रतिष्ठापितप्रतिमासु देवतामभ्युपेत्य
तदुद्देशेन त्यागो विशेषणमभिलष्यते, कथं हि
तत्प्रामाण्यानभ्युपगमे तत्प्रतिपाद्यमानाया देवतात्वं,
कथन्तराञ्च तदुद्देशेन त्यक्तस्य निर्माल्यनिवेद्यभावः, न हि
काचिज्जात्या देवता नामास्ति, यैव हि हविः प्रतियोगितया
प्रमाणभूताच्छब्दादवगम्यते सा तत्र देवता इति हि वः
सिद्धान्तः ।
अथ पञ्चरात्रिकैर्देवतोद्देशेन
परित्यक्तत्वाभ्युपगमान्निर्माल्यनिवेद्यभावः, हन्त तर्हि, तैरेव
परमपावनतयाऽपि निर्माल्यनिवेद्योपयोगस्याङ्गीकृतत्वात्
तद्वदेव पावनत्वमङ्गीक्रियताम् ।
अथापावनमेव तैः पावनबुद्ध्या परिगृहीतमिति न
तत्प्राशत्यमङ्गीक्रियते, हन्त तर्ह्यदेवतैव देवताबुद्ध्यारोपेण
तैः परिगृहीतेति न तदुद्देशेन त्यक्तस्य
निर्माल्यनिवेद्यभावोऽङ्गीक्रियताम् ।
एतदुक्तं भवति
पुष्पौदनादिस्वरूपमात्रत्यागस्यानिष्टत्वात् स्वदर्शनानुसारेण
च विशेषणासंभवात् परदर्शनानुसारेण विशेषणनिरूपणे
तस्यैव परमपावनत्वापातात् तत्र
प्रामाण्यमभ्युपगच्छद्भिरन्यैश्च
निर्माल्यनिवेद्योपयोगोऽवश्याङ्गीकरणीय इति ।
आह कथं पुनस्तत्र प्रामाण्यमङ्गीकुर्वता
निर्माल्यं निवेद्यञ्च न परिहरणीयम् ।
निषिध्यते हि तन्त्रेषु निर्माल्यप्राशनादिकम् ।
यथा सनत्कुमारीयसंहितायामुदीरितम् ।
निवेदितं तु यद्धव्यं पुष्पम् फलमथापि वा ।
तन्निर्माल्यमिति प्रोक्तं तत्प्रयत्नेन वर्जयेत् ॥
तथा प्रदेशान्तरे ।
निर्माल्यं भक्षयित्वैवमुच्छिष्टमगुरोरपि ।
मासं पयोव्रतो भूत्वा जपन्नष्टाक्षरं सदा ॥
ब्रह्मकूर्चं ततः पीत्वा पूतो भवति मानवः ।
इति, तथेन्द्ररात्रे ।
न चोपजीवेद्देवेशं न निर्माल्यानि भक्षयेत् ।
तथा ।
न चोपयो (न चोपभोगयोग्यानीति पा. ।)गयोग्यानि निर्माल्यानि
कदाचन ।
इति, तथा संहितान्तरे ।
निर्माल्यानि न चाश्नीयान्न जिघ्रेन्न च लङ्घयेत् ।
इति, तदेवमनेकसंहितासमधिगतनिषेधस्य
निर्माल्योपभोगस्य कथमिव पावनत्वाङ्गीकारः, ।
अत्राह देवमुद्दिश्य त्यक्तस्यापि च वस्तुनः ।
नाडिकादशकादर्वागुपयोगो न निन्द्यते ॥
तथेन्द्ररात्र एव ।
दशनाड्याधिकं पूरं स्थापयेत्तु विचक्षणः ।
कालयोगस्समुद्दिष्टो रात्रावहनि चैव हि ॥
कालयोगातिरिक्तं तु निर्माल्यं परिचक्षते ।
ततस्तदप्सु चैवाग्रौ क्षिपेद्भूमौ खनेत्तु वा ॥
इति ।
उच्यते नात्र निर्माल्यप्राशनादि प्रशस्यते ।
किन्तु पूरणपूजायां विनियुक्तस्य वस्तुनः ॥
नाडिकादशके पूर्णे पश्चात्त्यागो विधीयते ।
सामान्येन निवेदितस्य पुष्पौदनादेः कृतकार्यतया
निर्माल्यत्वेनापनये प्राप्ते नाडिकादशपूरणं पूजाङ्गतया
स्थापनं विधीयते दशनाड्याधिकं पूरं स्थापयेदिति ।
ततश्च तन्त्रसिद्धान्तपर्यालोचनयापि वः ।
हरिद्राचूर्ण नैवेद्य पादाम्बुस्पर्शनादिकम् ॥
न सिद्ध्येत् तन्त्रसिद्धान्तः क्व नु यूयं क्व चाल्पकाः ।
अहो विद्यालवोल्लासिजिह्वाग्रस्तविचेतसः ॥
सितासितं वचो भाति सकलङ्केन्दुबिम्बवत् ।
ये हि युष्मद्विधा मूर्खास्तेषामेव निषेधगीः ॥
सेव्यमानः हि तत्सर्वं वैष्णवैरधिकारिभिः ।
अघौघध्वंसनायालं सोमपानमिवाध्वरे ॥
अन्येषां हि तदस्पृश्यं पुरोडाशः शुनामिव ।
तद्यथेश्वरसंहितायाम् ।
दुर्लभो भगवद्भक्तो लोकेस्मिन् पुरुषः सुत ? ।
तत्रापि दुर्लभतरो भावो वै यस्य तत्त्वतः ॥
पादोदकं प्रति शुभस्सिद्धान्नै (श्रीमद्भागवते यथाऽह
भगवन्तं श्रीकृष्णमुद्धवः तवोच्छिष्टभुजो दासास्तव
मायां जयेमहि इति ।) च निवेदिते ।
स्रगादिके चोपभुक्ते ह्युपभोगार्थमेव च ॥
अतश्च भावहीनानामभक्तानां च षणमुख ? ।
निषिद्धं भगवन्मन्त्रदृक्पूतमखिलं हि यत् ॥ इति,
तथा प्रदेशान्तरे ।
कुङ्कुमं चन्दनञ्चैतत् कर्पूरमनुलेपनम् ।
विष्णुदेहपरामृष्टं तद्वै पावनपावनम् ॥
इति, तथा पद्मोद्भवे ।
विष्णुदेहपरामृष्टं यश्चूर्णं शिरसा वहेत् ।
सोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते ॥
तथेश्वरसंहितायाम् ।
उपभुक्तस्य सर्वस्य गन्धपुष्पादिकस्य च ।
स्नानादावुपयुक्तस्य दधिक्षीरादिकस्य च ॥
दूषणं न प्रयोक्तव्यं शब्दैरप्र
(निन्दाऽसूयाद्याविष्कारकारकैरित्यर्थः ।)तिपत्तिजैः ।
निर्माल्यबुद्ध्या देवीयं पावनं दूषयन्ति ये ॥
ते यान्ति नरकं मूढास्तत्प्रभावापलापिनः । इति,
यानि पुनर्दीक्षितमेवाधिकृत्य समयानुशासनसमये
निर्माल्योपयोगनिषेधपराणि वचनानि तानि
पा(भगवत्पारिषदानमीशोविष्वक्सेनस्तदुपयोगानन्तरकाले
निषेधपराणि द्रष्टव्यानि ।)रिषदेशोपयोगोत्तरकालाभिप्रायेण
द्रष्टव्यानि ।
यतो भगवदर्थेन त्यक्तं स्रक्चन्दनादिकम् ।
पश्चादभोग्यतां याति विष्वक्सेननिवेदनात् ॥
अत एव निवेद्यादि ततोऽर्वागेव सात्वतैः ।
सेव्यते तेन तत्तेषामुत्कर्षस्यैव कारणम् ॥
अपि च ।
देवतान्तरनिर्माल्यं शिष्टैरिष्टं विगर्हितम् ।
इदन्तु वैदिकत्वेन सोमपानवदिष्यते ॥
ये नाम भगवच्छास्त्रप्रामाण्यं नानुजानते ।
न निरूपयितुं शक्यं तैर्निर्माल्यमितीरितम् ॥
निरूपणेऽपि भगवन्निर्माल्यमतिपावनम् ।
समस्तवैदिकाचार्यवचनैरवसीयते ॥
शब्दप्रमाणके ह्यर्थे यथाशब्दं व्यवस्थितिः ।
न चात्र शब्दो नास्तीति वक्तव्यं बधिरेतरैः ॥
यथा ब्रह्मपुराणे च पठ्यते ।
विष्णोर्नैवेद्यकं शुद्धं मुनिभिर्भोज्यमुच्यते ।
अन्यन्निवेद्य निर्माल्यं मुक्त्वा चान्द्रायणञ्चरेत् ॥
विष्णुदेहपरामृष्टम्माल्यं पापहरं शुभम् ।
यो नरश्शिरसा धत्ते स याति परमाङ्गतिम् ॥
एतेन ।
निर्माल्यञ्च निवेद्यञ्च भुक्त्वा चान्द्रायणञ्चरेत् । इति स्मरणमपि
रुद्रकाल्यादिविषयमित्यावेदितव्यं, तथा महाभारते ।
हृदि ध्यायन् हरिं तस्मै निवेद्यान्नं समाहितः ।
मध्यमाऽनामिकाङ्गुष्ठैर्गृहीत्वान्नमितं पुनः ॥
प्राणाय चेत्यपानाय व्यानाय च ततः परम् ।
उदानाय समानाय स्वाहेति जुहुयात् क्रमात् ॥
इति, तथा प्रदेशान्तरे ।
निवेदितन्तु यद्देवे तद्दद्याद् ब्रह्मचारिणे । इति ।
तथा महाभारते ।
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः ।
प्रापणं भगवद्भुक्तं भुञ्जते चाग्रभोजनम् ॥
इति, तथा च भगवान् शौनकः नैवेद्यं स्वयमश्नीयात् इति, ।
इत्यादिस्मृतिशतसिद्धशुद्धि विष्णोर्नैवेद्यं भवभयभेदि
यो विनिन्देत् । नास्तिक्यात्
स्मृतिवचनान्युपेक्षमाणस्तज्जिह्वाविशसनमेव युक्तमत्र ।
ननु प्राणाग्निहोत्रस्य नैवेद्यं साधनं कथम् ।
निरिष्टकं न शिष्टानामिष्टं होमादिसाधनम् ॥
न च द्रव्यान्तराक्षेपो होमायेत्वकल्पते ।
रागतः प्राप्तमेवान्नं यतस्तेनोपजीव्यते ॥
नापि भुक्त्यन्तराक्षेपो नैवेद्यायोपपाद्यते ।
सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् ॥
नान्तरा भोजनं कुर्यादिति तत्प्रतिषेधनात् ।
नैष दोषो यतः प्राणप्रभृतिर्देवतागणः ॥
गुणभूतः श्रुतो विष्णोर्विष्णुपारिषदेशवत् ।
यथैव हि भगवन्निवेदितमपि पुष्पौदनादिविष्वक्सेनाय
दीयमानं नानौचित्त्यमावहति ।
यथा वा होतुरुच्छिष्ट एव सोमरसोऽध्वरे ।
अध्वर्य्वादेर्विशुद्ध्यै स्यादेवमत्र भविष्यति ॥
अपि च ।
भोज्याभोज्यव्यवस्थायाः शास्त्रमेव निबन्धनम् ।
तच्चेद्भोज्यमिदं ब्रूते किं वयं विदधीमहि ॥
यथाऽनुष्ठानतन्त्रत्वं नित्यकाम्याग्निहोत्रयोः ।
एवं प्राणाग्निहोत्रेऽपि नैवेद्याशनतन्त्रता ॥
यदप्युक्तं गर्भाधानादिदाहान्तसंस्कारान्तसेवनाद्
भागवतानामब्रह्मण्यमिति तत्राप्यज्ञानमेवापराध्यति, न
पुनरायुष्मतो दोषः, यदेते वंशपरम्परया
वाजसनेयशाखामधीयानाः कात्यायनादिगृह्योक्तमार्गेण
गर्भाधानादिसंस्कारान् कुर्वते ।
ये पुनः सावित्र्यनुवचनप्रभृतित्रयीधर्मत्यागेन
एकायनश्रुतिविहितानेव चत्त्वारिंशत् संस्कारान् कुर्वते तेऽपि
स्वशाखागृह्योक्तमर्थं यथावदनुति (यद्यपि
अनूपसृष्टात्तिष्ठतेर्नात्मनेपदं प्राप्नोतीति अनुतिष्ठन्त इत्येव
स्यात्तथापि अनुष्ठानशीला अनुष्ठानपरायणा इत्यर्थस्य
प्रतिपिपादथियितत्वेन ताच्छील्यवयोवचनशक्तिषु चानश् इति
पाणिनीयेन चानश्प्रत्ययो न तु शानच्प्रत्यय इत्यवधारयन्तु
निपुणाः ।)ष्ठमानाः न शाखान्तरीयकर्माननुष्ठानाद्
ब्राह्मण्यात् प्रच्यवन्ते, अन्येषामपि परशाखाविहितकर्मान-
नुष्ठाननिमित्ताब्राह्मण्यप्रसङ्गात् सर्वत्र हि जाति चरण
गोत्राधिकारादिव्यवस्थिता एव समाचारा उपलभ्यन्ते । यद्यपि
सर्वशाखाप्रत्ययमेकं कर्म तथाऽपि न परस्परविलक्षणाधि-
कारिसंबद्धा धर्माः क्वचित्समुच्चीयन्ते, विलक्षणाश्च
त्रयीविहितस्वर्गपुत्रादिविषयोपभोगसाधनैन्द्राग्नेयादिकर्माधिक
अरिभ्यो द्विजेभ्यस्त्रय्यन्तेकायनश्रुतिविहितविज्ञानाभिगमनोपादा-
नेज्याप्रभृतिभगवत्प्राप्त्येकोपायककर्माधिकारिणोमुमुक्षवो
ब्राह्मणा इतिनोभयेषामप्यन्योन्यशाखाविहितकर्माननुष्ठान-
मब्राह्मण्यमापादयति, यथा चैकायनशाखाया
अपौरुषेयत्वं तथा काश्मीरा (काश्मीरागमपदेन किं
विवक्षितमिति न विशिष्य जानीमः काश्मीरागमप्रामाण्य-
निरूपणपरोग्रन्थोऽपि चास्मदृष्टेरगोचर इति न किंचिदीश्महे
वक्तुम् । यत्नेन तु तत्सर्वमासास्य समये प्रकाशयिष्यते
।)गमप्रामाण्ये प्रपञ्चितामिति ने प्रस्तूयते । प्रकृ(एतेनैति
श्रीसंप्रदाये सर्ववेदरहस्यार्थानुयायिनि
केनाप्यज्ञाततसुकृतेन समुत्पद्यापि शिष्यसंजिवृक्षया वा,
शिष्यान् व्यामोह्यार्थलिप्सया वा, शास्त्रतत्त्वार्थानभिज्ञानेन
वा, दुरभिमानगरिम्णा वा, लोकधन्धनार्थं वा,
पूर्वाचार्यवचस्स्वश्रद्धया वा,
तदीयचरमतात्पर्यज्ञानाशक्ततया वा, कलिकल्मषकलुषतया वा,
स्वीयदुरदृष्टाकृष्टतया वा,
वादिनिगूढातिप्रौढभावार्थानभिज्ञतया वा लिके
स्वप्रौढिमख्यापनाय वादिनी मुधैव संनिनत्सया वा, अथवा
संभूयैतैः सर्वर्हेतुभिरेव ओतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः
स्मृत इति भगवदुक्तरीत्या ब्रह्मासाधारण तदादिपदघटिते
परब्रह्मासाधारण श्रीरामायणारम्भणरूपे गायत्रीमन्त्रे
सर्ववाद्यविप्रतिपन्नपरदेवताप्रसादके देवतान्तरार्थकत्वं
बलादध्यारोप्य साधारणमन्त्रताप्रसाधनेन तस्य
क्षुद्रदेवाराधनपरत्वं वा द्विजानामनावश्यकत्वख्यापनं
वा क्षुद्रमन्त्रसाम्यसंभावनं वा कुर्वन्तः परास्ताः ।
प्रकृतानां भागवतानां तदत्यागबोधनेन त्यजतां च
व्रात्यताबोधनेन पूर्वाचार्याणां गायत्रीमन्त्रे
द्विजत्वप्रसाधकतायाः स्पष्टमनुमतत्वेन तन्नित्यत्वे
विवदमानानामाचार्यार्थवैमुख्यस्य बालेनापि सुज्ञानत्वात् ।
यदपि क्वचित् स्मृतिषु गायत्र्या रविदेवताकत्वं सवितृदेवताकत्वं
वा श्रूयते इति न तस्या भगवन्मन्त्रत्वमिति समुत्थानं तत्तु
रविःः सुलोचनः सूर्यः सविता रविलोचनः इति
श्लोकस्थभगवन्नामानभिज्ञाननिबन्धनमेव । यत्र
ब्रह्मासाधारणलिङ्गदर्शनेन
भौतिकाकाशादिवाचकाकाशादिपदानामाकाशस्तल्लिङ्गादिति
परब्रह्मोपस्थाकत्वमास्तिषताचार्याः किमु तत्र
भगवन्नामगणान्तःपातिनो
रविसवितृपदयोर्भगवद्वाचकत्वविप्रतिपत्तिसमुत्थानशङ्काऽपि
विदुषाम् । न च यानि नामानि गौणानि विख्यातानि महात्मनः ।
इत्यादिना सहस्रनामाचार्य एव गौणनामतामवोचदिति न
तयोर्भगवद्रढत्वं किन्तु रवि सवितृपदयोः कोशादिना दिवाकर
एव रूढिरिति कथं भगवदसाधारण्यसंभावनापीति वाच्यम् ।
न ह्यत्र गौणानीत्युक्त्या गुणवृत्त्या
भगवदभिनिर्देशकत्वमभिधित्सितं किन्तु अवयवशक्त्या
भगवदभिधायकत्वेन डित्थकपित्थादिशब्दानामि
भगवन्नामगणान्तः पातिशब्दानां न यदृच्छाशब्दत्वं,
किन्तु लोकवेदयोस्तेषां शब्दानां तदर्थे
शक्तिभ्रमविधुरैर्लक्षणाग्ररहितैश्च ऋषिभिर्भूशं परस्मिन्
ब्रह्मणि वासुदेवेऽभिहितत्वात्तद्वाचका एव ते शब्दा इत्ययमर्थः ।
अत एव तु प्रयोगभूयस्त्वाभिधित्सया विख्यातानी त्युक्तम् ।
परिगीतानीत्यत्र परिपदमपि सहस्रनाम्नां रूढत्वमुपोद्वलयति ।
किंच
सर्वधीप्रेरयितृत्वलक्षणान्तर्यामिकृत्यालिङ्गोपलम्भसामर्थ्येन
अपि तस्या ब्रह्मासाधारण्यसिद्धिः । किं च प्रिय एव हि सर्वथा
वरणीयो भवति नाप्रिय इति वरणीयत्वलिङ्गलिङ्गितत्वेनापि
निरतिशयप्रियतमत्वेन ब्रह्मासाधारण्यसिद्धिरिति प्रव्यक्तम् ।
ततश्चर्षीणां लक्षणाग्रहाजन्यभूयःप्रयोगयोगेन नाम्नां
रूढत्वसिद्ध्या सावित्रादिदेवताकत्वं
परब्रह्मासाधारणदेवताकत्वसाधकमिति सुपुष्कलमवशिष्टं
चास्मच्छिष्यैः सुनिरूपितमन्यत्रेति
कृतमनभिज्ञनिग्रहसंनहनेन
वैदिकमार्गनिष्कण्ठकीकरणप्रवृत्तानां सुदूरदृशाम्
॥)तानां तु भागवतानां सावित्र्यनुवचनादित्रयीधर्मबन्धस्य
स्फुटतरमुपलब्धेर्न तत्त्यागनिमित्तव्रात्यत्वादिसंदेहं सहते ॥
तत्तत्कल्पितयुक्तिभिस्शकलशः कृत्वा तदीअं मतं ।
यच्छिष्यैरुदमर्दि सात्वतमतस्पर्द्धावतामुद्धतिः ॥
यच्चेतत्सतं मुकुन्दचरणद्वन्द्वास्पदं वर्तते ।
जीयान्नाथमुनिस्स्वयोगमहिमप्रत्यक्षतत्त्वत्रयः ॥
आकल्पं विलसन्तु सात्वतमतप्रस्पर्द्धिदुष्पद्धति-
व्यामुग्धोद्धतदुर्विदग्धपरिषद्वैदग्ध्यविध्वंसिनः ।
श्रीमन्नाथमुनीन्द्रवर्द्धितधियोनिर्धूतविश्वाशिवाः
सन्तस्सन्ततगद्यपद्यपदवीहृद्यानवद्योक्तयः ।
इति श्री६यामुनमुनिविरचितमागमप्रामाण्यम् ॥