00 तात्पर्यचन्द्रिका

वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका

यतिपरिबृढो यद्गीतानामदर्शयदञ्जसानिगमपरिषन्न दीयांसं २निरामयमाशयम् ।

जननपदवीयातायातश्रमापहरां धियं ।जनयतु स मे देवः श्रीमान्धनञ्जयसारथिः ॥

अनुचितपदवीभिश्चिन्तयित्वा प्रयातान्यलमल ३मतिमात्रत्रासचिन्ताविषादैः ।

उपनिषदमुदारा ४मुद्वमन्पाण्डवार्थशरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा ॥

५सन्तः सारलिहश्चित्ततमःप्रमथिनीमिमान् ।

भजन्तु भगवद्गीताभाष्यतात्पर्यचन्द्रिकाम् ॥

श्रीमद्गीतां व्याचिख्यासु:, अविघ्नपरिपूरणप्रचयगमनार्थ परमाचार्यस्य संग्रहश्लोकनिर्माण. मुखेन तदर्थोपदेष्ट्रतां तदनुवृत्तेः स्वाचार्यसंप्रीणनतामप्यनुसन्दधानः, परमाचार्यभजनरूपं मङ्गलमाचरति –यत्पदाम्भोरुहेत्यादि । ६यच्छब्देन सर्वोत्तराचार्यगुणपौष्कल्यहेतुकां प्रसिद्धि सूचयति । अम्भोरुहशब्देन भोग्यत्वप्रतीतेर्भक्तिरूपत्वं ध्यानस्य व्यज्यते । ७यामुनाचार्यस्य, द्रोणाचार्यस्य एकलव्य इवाहमित्यभिप्रायेण ध्यानशब्दः । सकृत्सन्दर्शनेन प्रायशः कल्मषाणि विध्वस्तानि, तन्मूलनिरन्तरस्मरणेन तेषां सवासनोन्मूलनं कृतमित्यभिप्रायेण ध्यानविध्वस्ताशेषकल्मषः’ इत्युक्तम् । वस्तुताम्८‘अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विन्दुः’ इत्याद्युक्तप्रकाराम् । अहं वस्तुतामुपयात इत्याश्चर्यगर्भम् ।।

एवमनिष्टनिवर्तनेष्टप्रापणरूपोपकारस्मृतिप्रेरितवागादि त्रितयकरणकः प्रणामः शिष्यशिक्षणार्थ श्रोतृणां फलसिद्धयर्थं च ग्रन्थे निवेशितः।तेन स्वाचार्यवत्तदाचार्यपरम्पराया अपि भजनमत्यादरेणकरणीयमित्यपि शिक्षितम् । तथा च श्रूयते, २ ३ से चाचार्यवंशो ज्ञेयो भवति, आचार्याणामसावसावित्या भगवत्तः’ इति ।।

अथाभिमतपरदैवतस्य भगवतः ४स्वरूपरूपगुणविभवादिभावनावर्णनाभ्यामर्थादभङ्गुरं मङ्गलमाचरन्, ५‘स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः । नारायणः परं ब्रह्म  गीताशास्त्रे समीरितः इति संग्रहानुरोधेन व्याख्येयशास्त्रप्रधानप्रतिपाद्यं  च सप्रकारं दर्शयन्, शास्त्रप्रमाण्यस्थापनाय वक्तु: स्वतः सर्वज्ञत्वपरमकारुणिकत्वसाधुपरित्राणोन्मुखावस्थत्व६सर्वशक्तित्वादिना भ्रमविप्रलम्भ७प्रमादाशक्त्याद्यभावप्रदर्शनेनाप्ततमत्वं समर्थयन्, अपवर्गप्रधानचतुर्वर्गोपायवोधात्मकमवान्तरप्रयोजनम् अपवर्गदशानुभाव्य ८सप्रकारभगवत्स्वरूपं च परमप्रयोजनं प्रकाशयन्, शंकरादिपक्षे शास्त्रोपदेशारम्भाद्यनुपपत्तेर्वक्ष्यमाणायाः स्वपक्षे प्रसङ्गाभावाय शास्त्रोपदेशाद्यनुकूलजीवपरमात्मपारमार्थिकभेदादिकथनेन शास्त्रारम्भं समञ्जसयन्, कारणशोधकोपासनभेदाभेदघटकवचसां सर्वेषामपि मुख्यतां ख्यापयन्, गुणतनुजनिविभवविहरणादिविधिनिषेधोपनिषदामल्पश्रुतकुमतिविहितप्रतारणकृतकलहकूलङ्कषां ९विषयव्यवस्थामपि स्थापयन्,अवाप्तसमस्तकामस्यापि लीलामात्रविहितनिखिलव्यापारत्वेन शारीरकद्वितीयाध्यायसिद्धं विरोधपरिहारमुपलक्षयन्,            जिज्ञास्यजगत्कारणपरब्रह्मभृतदेवताविशेषमपि सर्वशाखाप्रत्ययसामान्यविशेषादिन्यायैः १०त्रिमूर्त्यैक्यसाम्योत्तीर्णव्यक्त्यन्तरत्वव्युदासेन निरूपिताकारं ११निर्दिशन्, १२‘बहु स्याम्’ इति संकल्पमारभ्य सारथ्यचर्यापर्यन्तस्य सर्वस्य जगद्व्यापारस्याश्रितार्थतया व्याजमात्रलाभादपि परमपुरुषार्थभूतस्वात्मोपलम्भकाध्यात्मशास्त्रावतरणादिना च सौलभ्यातिशयमुद्धोषयन्, प्राप्यत्वोपास्यत्वैकान्तपरत्वसौलभ्यस्थापनौपयिकगुण१३वर्गद्वये जगत्पतित्वसर्वज्ञत्वसर्वशक्तित्वसर्वेश्वरत्वादिकं परमकारुणिकत्वशुभाश्रयत्वाश्रितार्थावतारत्वविरोधिनिरसनशीलत्वासेचनकदर्शनत्वादिकंचोदाहरन्, पञ्चमवेदपरमप्रतिपाद्यस्य भगवतो नारायणस्य प्राक्तनोदन्तं गीतोपनिषदुपदेशेन संगमयति–श्रियः पतिरित्यादिना अवतारयामासेत्यन्तेन । तत्रेत्यादिना चकारेत्यन्तेन द्वितीयेन वाक्येन बुभुत्सोर्धृतराष्ट्रस्य ज्ञातांशनिष्कर्षः । एवंज्ञात्वापीत्यादिना तु १४तृतीयेन वाक्येन १५शास्त्रोपोद्धातारम्भभूतप्रश्नसंङ्गतिः । अत्र दिव्यात्मस्वरूपव्यतिरिक्त समस्तमपि नारशब्दार्थतया विचिच्य दर्शयिष्यन्, तदयनं स्वरूपमन्यपदार्थतया उत्तरपदार्थतया १६वा समासद्वयेऽपि प्रधानभूतं प्रथमं निष्कृष्य दर्शयति –

श्रियःपतिरित्यादिना। विशेषज्ञप्तये भर्तुरभिगम्यत्वसिद्धये । समस्तमङ्गलाप्त्यै च प्रथमं श्रीरिहोदिता ।। १’एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः । नागपर्यङ्गमुत्सृज्य ह्यागतो मधुरां पुरीम्’ २‘अर्थो विष्णुरियं वाणी’ इत्यादिकमिह भाव्यम् । कतिपयहेयनिवर्तकतीर्थसेवादिव्युदासाय निखिलेति विशेषणम् । अत्र हेयशून्यत्वमर्थसिद्धम् । न हि परगतनिखिलहेयनिराकरणसमर्थः स्वगतं हेयं क्षमते । यद्वा हेयविरोधिस्वभावतया ३हेयशून्यमित्यर्थः । तदा निखिलशब्दः सर्वाचिद्गतं विकारादिकं सर्वचिद्गतं क्लेशादिकं च संगृह्णाति; कुमतिपरिकल्पितमंशभेदेनाकल्याणस्पर्शमपाकर्तुं कल्याणैतानशब्दः । अत एव ‘ज्ञानानन्दैकस्वरूपः’ इत्यनेनापौनरुक्त्यम् । अथवा सामान्यविशेषनिर्देशरूपत्वादपुनरुक्तिः । यद्वा ४कल्याणैकतानः५कल्याणगुणानामेवाश्रयभूत इति वक्ष्यमाणगुणप्रपञ्चस्य ६संग्रहः ।।

त्रिविधानां चेतनाचेतनानां पराधीनत्वादिसाम्यादेवंभूतं वस्त्वन्तरं नास्तीत्यभिप्रायेणाह‌‌‌‌– स्वेतरेति । एतेन ज्ञानभोगसाम्येऽपि सर्वप्रकारसमत्वनिषेधः।७‘नित्यं विभुं सर्वगतम्’ ८’विश्वमेवेदं पुरुषः’ इत्यादिप्रसिद्धं त्रिविधपरिच्छेदराहित्यं प्राधान्यतः पृथगाह–अनन्तेति । अनन्तं त्रिविधपरिच्छेदरहितम् । ‘अत्रैव देशेऽस्ति, अत्र तु नास्ति’ इति देशपरिच्छेदः; ‘अत्र कालेऽस्ति, अत्र तु नास्ति’ इति कालपरिच्छेदः; ‘इदम् इदं न भवति’ इति वस्तुपरिच्छेदः, अल्पवर्णस्वर्णवत् स्वरूपापकृष्टत्वादिकं वा । एवंविधपरिच्छेदत्रयराहित्यं नाम सर्वदेशसर्वकालव्यापित्व९सर्वान्तर्यामित्वरूपम् । वस्तुपरिच्छेदराहित्यं हि समस्तवस्तुसामानाधिकरण्ययोग्यत्वादिकम्; न पुनमर्थांविरुद्धविविधवस्तुतादात्म्यं स्वव्यतिरिक्तसमस्तवस्तुमिथ्यात्वं वा, १०उभयोरत्यन्तासंभावितत्वात् । विस्तरस्तु शतदूषण्यां कृतोऽस्माभिः । आनन्दस्य ज्ञानविशेषत्वात् ज्ञानानन्दशब्दयोः सामानाधिकरण्यमुपपन्नम् । तर्हिआनन्दशब्दस्य विशेष शब्दत्वात् १ ‘घटद्रव्यम्’ इत्यादिवत् ‘आनन्दज्ञानम्’ इति वक्तव्यमिति चेत्, तन्न; बहुलग्रहणेन सर्वोपपत्तेः । यद्वा आनन्दशब्दस्य अनुकूलवेदनीयेषु जडेष्वपि प्रयोगात्तद्विशेषणतया ज्ञानशब्दस्य पूर्वत्वोपपत्तिः । स्वरूपं प्रतीदं विशेषणद्वयं वा ।।

स्वाभाविकेति। स्वरूपापेक्षया गुणविग्रहादीनामपृथक्सिद्धिसाम्येऽपि विग्रहादिधारणनियमनादौ ज्ञानादिगुणगणापेक्षत्वप्रदर्शनाय उत्तरोत्तरसुग्रहत्वसिद्धये च प्रथमं गुणोक्तिः । समस्तगुणबुन्दप्रधानतया षाड्गुण्यस्य स्वरूपेणोपादानम्; इतरेषां च सौशील्यादीनां प्रभृतिशब्देन संग्रहणं कृतम् । २’तवानन्तगुणस्यापि षडेव प्रथमे गुणाः । यैस्त्वयेव जगत्कुक्षावन्येऽप्यन्तर्निवेशिताः’ इति ह्याहुः । संहृतिसृष्टिस्थितिहेतुभूतसंकर्षणादिव्यूहत्रये ज्ञानबलादि ३द्वन्द्वत्रिकस्य यथाक्रमं तत्तत्कार्य विशेषोन्मुखत्वेनाविर्भावविशेषात् ज्ञानबलेत्यादिक्रमविशेषः कृतः । स्वतः सर्वं सर्वथा ४सर्वदा साक्षात्करोति, तथा साक्षात्कृतं च सर्वं धारयति, धारयन्नेव नियच्छति, धारयन्नियच्छं५श्चाशिथिलो भवति, अघटितं च घटयति, तत्र च सहकारिनिरपेक्षो न ६केनचिदभिभूयते किंतु सर्वाभिभूर्भवति, इति च गुणक्रमपाठ ७विवक्षा। स्वाभाविकत्वमनन्याधीनत्वम् । मुक्तनित्ययोरपि हि तादृशं ज्ञानादिकं तदनुगुणपरमात्मसंकल्पाधीनम् । अनवधिकत्वमत्रोत्कृष्टावधिराहित्यम् । द्वाभ्यां विशेषणाभ्यां ८’परास्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रिया च’ इत्याम्नाते परत्वस्वाभाविकत्वे प्रतिगुणमन्विते प्रदर्शिते । असङ्ख्येयशब्देन महोदधिशब्देन च ‘यथा रत्नानि जलधेरसङ्ख्येयानि पुत्रक। ९तथा गुणा १०ह्यनन्तस्य असङ्ख्येया महात्मनः’ इत्यादि स्मारितम् । कल्याणशब्देन गुणनिषेधवचनानां हेयगुणविषयत्वमुत्सर्गा११पवादन्यायसिद्धं १२सूचितम्।।

अथ कारणोपासनादिप्रकरणेष्वस्त्रभूषणाध्यायादिषु च प्रतिपन्नं विलक्षणविग्रहयोंगं दर्शयतिस्वाभिमतेति । अभिमतेऽप्यननुरूपत्वस्य अनुरूपेऽप्यनभिमतत्वस्य लोके दृष्टत्वात्तदुभयव्यवच्छेदाय स्वाभिमतानुरूपेत्युक्तम्।  एकरूपेत्यनेन व्यूहविभवाद्यवस्थास्वपि हेयप्रत्यनीकत्वानन्दावहत्वमूमुक्षूपास्यत्व प्राप्यत्वादिस्वभावापरित्यागोऽभिहितः । यद्वा व्यहादिपरिणामे सत्यपि परमव्योम१निलयस्य विग्रहस्य प्राचीनसंस्थानावस्थितिरुक्ता ।‘सावयवत्वादनित्यम्’ इत्यादीनां धर्मिग्राहकबाधादिभिराभासतामभिप्रेत्य अचिन्त्यत्वोक्तिः । एको दिव्यशब्दः संस्थानवैलक्षण्यपरः, परमव्योमवर्तित्वमात्रपरो वा; इतरस्त्वप्राकृतत्वपरः । विचित्रावतारयोगः, प्रतिक्षणमपूर्ववदनुभाव्यत्वम्, वटपत्रशयनविश्वरूपाद्यवस्थागतमाश्चर्यं च, अद्भूतशब्देन विवक्षितम् । नित्यत्वं २कालापरिच्छिन्नत्वम् । तथा चामानन्ति रहस्याम्नायविदः, ३’नित्यालिङ्गा स्वभावसंसिद्धिरिन्द्रियाकाराङ्गप्रत्यङ्गव्यञ्जनवती’ इति । श्रीपौष्करे च,४’५नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर । यस्यास्ति सत्ता हृदये तस्यासौ संनिधिं व्रजेत्’ इति । निरवद्यत्वं जरादिराहित्यम् । उत्तरोत्तरनिरवद्यशब्देषु पूर्वपूर्वेभ्यः सुग्रहत्वं विवक्षितम् । शुभाश्रयत्वभोग्यत्वाद्युपयुक्तमङ्गलगुणयोगो निरतिशयौज्ज्वल्येत्यादिनोक्तः । निरतिशयत्वं स्वापेक्षया उत्कृष्टराहित्यम्, अनुत्तमत्ववत् । तच्च प्रतिगुणमन्वेतव्यम् । औज्ज्वल्यं भास्वरत्वम् । सौन्दर्यम् ६अवयवशोभा । ७’सर्वगन्धः’ इति श्रुतिरनुकूलगन्धविषया; स्रक्चन्दनादि चात्र कृतकरमित्यभिप्रायेण सौगन्ध्यशब्दः । सौकुमार्यं महाबलत्वेऽपि८’पुष्पहासः इति नाम दुहानं मार्दवम्; यथोक्तम्, ९ ‘सुकुमारौ महाबलौ’ इति ! लावण्यं समुदायशोभा। यत्तदुच्यते भगवच्छास्त्रे,  १०’विश्वमाप्याययन्कान्त्या पूर्णेन्द्वयुततुल्यया’ इति । ११ ‘भूयिष्ठं तेज एवाद्भिर्बहुलाभिमृदूकृतम् ।चक्षुरानन्दजननं लावण्यमिति कथ्यते’ इति ह्याहुः । यौवनं कौमारानन्तर्योपलक्षणीयः स्वाभवविशेषः, न तु कौमारानन्तरभाविन्येव दशाः तद्यौवनस्यानादित्वात् देवादिषु च केषांचित् युवत्वेनैवोत्पत्तिदर्शनात् । आदिशब्देन शुभाश्रयप्रकरणेषूक्ताः सर्वे विग्रहगुणाः संगृहीताः ।।

एवं स्वरूपतद्गुणौ बिग्रहतद्गुणौ च प्रतिपाद्य, विग्रहाश्रितमाभरणवर्गमायुधवर्गं च दर्शयति-स्वोचिते त्यादिपदद्वयेन । पूर्वोक्तविलक्षणविग्रहविशिष्टं स्वरूपमिह स्वशब्दार्थः । अत्र १ ‘आयताश्च सुवृत्ताश्च वाहवः परिघोपमाः । सर्वभूषणभूषार्हा:’ इत्यादि भाव्यम् । किरीटहारादिरूपेण वैविध्यम् । एकजातीयेष्वपि मणिकाञ्चनादिद्रव्यविशेषवर्णसंस्थानादिविशेषविशिष्टव्यक्तिभेदाद्वैचित्र्यम् । अपरिमितेत्यसंख्येयत्वोक्ते: अनन्तत्वमाश्चर्यविशेषणम्। अनवधिकाश्चर्यरसावहत्वमनन्ताश्चर्यत्वम्; अथवा अनन्तानि आश्चर्याणि संस्थानविशेषसौगन्ध्यसुखस्पर्शत्वादीनि येषां भूषणानां तानि तथोक्तानि ।। नित्यनिरवद्यज्ञब्दौ पूर्ववत् ।अपरिमितत्वमसंख्येयत्वमेव, न तु ह्रस्वदीर्घादिपरिमाणविरहः। यद्वा अनन्तेत्यसंख्येयत्वम्, अपरिमितेति च विग्रहानुरूप   महत्त्वं, विविक्षितम् । भूषणायुधयोदिव्यत्वमप्राकृतत्वम् । पूर्वोक्तगुणविग्रहाभरणविशिष्टः ‘स्वानुरूप’ इत्यत्र स्वशब्दार्थः । असंख्येयेति । पञ्चायुधत्वप्रसिद्धिः प्राधान्यादिति भावः । अचिन्त्यशक्तीति । कुठारटङ्ककुद्दालादिभिः प्रत्येक कृच्छ्रसाध्यं । सालशैलवसुधातलविदारणम् एकेन हि महेषुणा कृतमिति भावः । निरतिशयकल्याणत्वं निरतिशयानन्दावहत्वम्, भूषणकोटावप्यनुप्रवेशात्; यद्वा लोके यान्यायुधलक्षणानि मङ्गलावहतया प्रसिद्धानि, तैः सर्वैः संपूर्णत्वम् ।।

पूर्व स्वरूपनिरूपकतया सामान्यतोऽभिहितां श्रियं विभूतिमध्येऽपि स्थितां विशेषतो दर्शयन्नर्थात्तत्स्वरूपादिकमप्याह-स्वाभिमतेति । स्वरूपं स्वासाधारणधर्मविशिष्टं श्रियो दिव्यात्मस्वरूपम् ।। रूपं दिव्यविग्रहः । रूपानन्तरो गुणशब्दस्तद्गत निरतिशयौज्ज्वल्यसौन्दर्यादिपरः । विभवशब्दः परिजनपरिबर्हादिपरः । परत्वसौलभ्यौपयिकगुणवर्गद्वयम्    ऐश्वर्यशीलपदाभ्यामुपलक्षितम् । ततश्चादिशब्दः प्रत्येकमन्वयात् ज्ञानशक्त्यादिकं वात्सल्यादिकं च संगृह्णाति । ऐश्वर्यशीलादयः अनवधिकातिशयाश्च असंख्येयाश्च कल्याणाश्च गुणा, इति विशेषणसमासः । एवंविधगुणानां गण इति षष्ठीतत्परुषः । ऐश्वर्यशीलादेर्गणविशेषणत्वानौचित्यात्, अनवधिकातिशयत्वस्यापि गणविशेषणत्वे प्रत्येकगुणानामुत्कर्षस्याशाब्दत्वात्, गुणविशेषणतयैव समासः उचितः । स्वरूपम्, रूपम्,    तद्गुणः, विभव: ऐश्वर्यादिगुणग्णश्चइति द्वन्द्वः । स्वरूपादिपञ्चकं भगवदभिमतानुरूपं नित्यं निरवद्ययस्याः । स्वाभिमतेत्यादिगुणगणेत्यन्तेनोक्ता । स्वरूपम्, रूपम्, तद्गुणः, विभवः, ऐश्वर्यम्, शीलम् इत्यादिगुणगण इति योजनायां स्वरूपरूपयोरपि गुणानुप्रवेशप्रसङ्गः । स्वरूपादेः सर्वस्य परमात्माभिमतत्वं व्यक्तम्।स्वरूप्स्य नित्यत्वं निर्विकारतया सर्वकालवर्तमानत्वम् । निरवद्यत्वं पूर्वं परमात्मस्वरूपे प्रतिपादितप्रकारम्, तद्वत् पितृत्वप्रयुक्तकादाचित्कोष्मलत्वादिराहित्यं वा । अनुरूपत्वं तु यथाप्रमाणं प्राग्देव कल्याणैकतानत्वादिकम् ।     शान्तानन्त’ इत्यादिकमिह भाव्यम् । रूपस्य नित्यत्वमवतारादिदशायामपि परमपदनिलयभगवदेकासनस्थितस्य तथावस्थितत्वम् । अनुरूपत्वं च,    ‘अस्या देव्या ।यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् । रामस्य च यथारूपं तस्येयमसितेक्षणा’    ‘विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम्’ ।इत्यादि प्रतिपादितम् । विग्रहगुणानां नित्यत्वं नाम औज्ज्वल्यादेः कदाचिदप्यपकर्षाद्यभावः। निरवद्यत्वं च दुष्प्रेक्षतादिराहित्यम् । अनुरूपत्वं,    ‘घनकनकद्युती युवदशामपि मुग्धदशाम् इत्याद्युक्तप्रकारम् । विभवस्यानुरूपत्वं,    ‘देवतिर्यङ्मनुष्येषु पुन्नामा भगवान् हरिः । स्त्रीनाम्नी    ‘लक्ष्मीर्मैत्रेय नानयोर्विद्यते परम्’ इत्यादिभिरनुसंन्धेयम् । अनवधिकातिशयत्ववचनादीश्वरव्यतिरिक्ताशेषगोचरस्यापि तदैश्वर्यस्य ईश्वराभिमतत्वान्न द्वैराज्यादिदोषः।  ‘अस्येशाना जगतो विष्णुपत्नी’ इति विष्णुपत्नीत्ववेषेण हि सर्वस्य जगत इयमीष्टे ।    ‘ईश्वरीं सर्वभूतानाम्’ इत्यत्र तु, यद्यपि सर्वभूतानामिति प्रतिसम्बन्धिनिर्देशात् स्त्रीप्रत्ययानुसारेण ईश्वरपत्नीति विवक्षा न शक्या।।तथापि वाक्यान्तरबलादर्थस्य तथात्वसिद्धिः । निरद्यत्वं भगवदैश्वर्यैकरसत्वं वा निग्रहादि प्रसङ्गाभावो वा । प्रतिकुल    दण्डकत्वं हि पुंस्त्वानुरूपं तद्वल्लभस्यैव भागः । शीलस्य नित्यत्वं महत्त्वे सत्यपि मन्दैः सह नोरन्ध्रसंश्लेषे कदाचिदपि स्वोत्कर्षप्रकाशनाभावः । निरवद्यत्वं तत्र विप्रलम्भाभिप्रायादिविरहः । अनुरूपत्वम्, अनवधिकातिशयत्वं च,    तूल्यशीलवयोवृत्ताम्’ इत्याद्युक्तप्रकारम्। एवं श्रियः पृथङ्नि त्यस्वरूपगुणविभवैश्वर्यशीलादिप्रतिपादने ज्ञानादिगुणवदपृथक्सिद्धशक्तिमात्रत्वम् व्यूहविशेषत्वम्, स्वरूपैक्यम्    अन्यदपि, वदन्तो निरस्ताः। शक्तित्ववादास्तु पत्नीत्वेन कार्योपयुक्तविशेषणत्वाभिप्रायाः । प्रयुज्यते हि शास्त्रेषु सर्वत्र स्त्रीपुंसात्मकेषु द्वन्द्वान्तरेष्वपि स्त्र्यंशे शक्तिशब्दः । एकत्ववादास्तु समस्तप्रपञ्चप्रतियोगिकैकशेषित्वाश्रयत्वेन, विशिष्टैक्येन, आत्महविः प्रत्युद्देश्यै    कदेवतात्वादिवेषेण वा, निर्वाह्याः । अत एव हि    त्र्यापकावतिसंश्लेषादेकतत्त्वमिवोदितौ इत्युच्यते। उक्तं च श्रीराममिश्रैः षडर्थसंक्षेपे  ‘उभयाधिष्ठानं चैकं शेषित्वम्’ इत्यादि । एवंविधाया भगवत्याः, श्रियो वल्लभः प्रियतमः । श्रीः वल्लभा यस्येति वा । न चाभिमतशब्दपुनरुक्तिः, प्रत्येकममुदायविषयतयाभिमतत्वातिशयव्यञ्जनपरत्वादिति।।

अथ नित्यपरिजनविशिष्टतां दर्शयति स्वसङ्कल्पेति । स्वरूपं धर्म्यंशः । स्थितिः अप्रच्युततयावस्थानम् । प्रवृत्तिः व्यापारः । नित्यानां स्वरूपस्थित्योः परमात्मसंकल्पानुविधायित्वं नाम तन्नित्येच्छासिद्धत्वम् । तच्चानिच्छासम्भवे निवर्तयितुं शक्यतामात्रम् । तेषु त्वनिच्छायाः कदाचिदप्यभावात् स्थितेः सदातनत्वम् । इदं च परमात्मसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तित्व बद्धमुक्तप्रकृतप्राकृतकालादिष्वपि भाव्यम् । तच्च सर्वं प्रपञ्चयिष्यते । शेषता शेषवृत्तिरित्यर्थः । अशेषशेषता    यथाभिमताकारता। अत्र    ‘शरा नानाविधाश्चापि धनुरायतविग्रहम् । अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहा;    ‘निवासशय्यासनपादुका इत्यादि द्रष्टव्यम् । एकैककृतस्यैव हि कैङ्कर्यस्य मिथः सर्वार्थतयाऽनुसन्धानात्    सर्वेऽप्यस्य सर्वकैङ्कर्यकारिणो भवेयुः । यद्वा स्वरूपस्थितिप्रवृत्तिभेदा एव अशेषशब्देन संगृह्यन्ते; तेषामशेषाणां परमात्मानं प्रति शेषता शेषभावः । एवमुक्तप्रकारायां    शेषतायामितरपरित्यागेन तदेकावलम्बिनी प्रीतिरेव रूपं स्वरूपं स्वभावो वा येषां ते अशेषशेषतैकरतिरूपाः । ते च सर्वे नित्याः । स्वरूपनित्यत्वस्य सर्वात्मसाधारणत्वात् मूक्तवत्कदाचिदाविर्भूत    स्वरूपत्वमिह नित्यशब्देन व्युदस्यते, नित्यासंकुचितज्ञानादिगुणा इत्यर्थः । तत एव निरवद्या: क्लेश कर्मस्वातन्त्र्याभिमानादिदोषात्यन्ताभाववन्तः । एषां ज्ञानस्य निरतिशयत्वं परमात्मज्ञानतुल्यत्वम्। क्रियाया निरतिशयत्वं स्वच्छन्दानन्तकैङ्कर्यात्मकत्वम् । ऐश्वर्यस्य निरतिशयत्वं परमात्मकैङ्कर्योपयोगिस्वेच्छागृहीतशरीरेन्द्रियादिनियमने निर्विघातत्वम् न तु सर्वविषयत्वम् ।  “जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च’ इति न्यायात् । अत्र निरतिशयज्ञानक्रियैश्वर्यादिनन्तो गुणगणो येषामिति विग्रहः । ते च अपरिमिताः असङ्ख्येयाः सूरयः ।   ‘सदा पश्यन्ति सूरयः, तद्विप्रासो विपन्यवो जागृवाँसः समिन्धते’ इत्याद्यनुसन्धानेनाह–अनवरताभिष्टुतचरणयुगल इति । विपन्यवः विशेषेण स्तुतिशीलाः ।    ‘पण व्यवहारे स्तुतौ च । पन| च।’ अभिष्टुतेत्यभिर्विशब्दार्थः । स्तुतिशीलत्वादनवरतत्वोक्तिः ।।

स्तुतिविषियत्व     प्रसक्तमैश्वर्यादेरियत्तारूपं परिच्छेदमपाकरोति–वाङ मनसेति । एतेन    ‘यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्’    ‘सो अङ्ग वेद यदि वा न वेद’    ‘यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह’ इत्यादीनां वाङ्मनसयोरवेद्यत्वार्थतां वदन्तो निररताः। तथा सति  ‘तद्विजिज्ञासस्व’    ‘मनसा तु विशुद्धेन’    ‘ब्रह्मवित्’    ‘आनन्दं ब्रह्मणो विद्वान्’ इत्यादिभिः, ‘यतो वाचो निवर्तन्ते’ इत्यत्र यच्छब्दादिभिश्च, विरोधप्रसङ्गः ।विरोधपरिहाराय मुख्यवृत्तिनिषेधविषयतया व्यवस्थाप्यत इति चेत्, आगतोऽसि पन्थानम्; विषयव्यवस्था तुयथाप्रमाणमस्माभिः क्रियत इति विशेषः । वाङ्मनसेत्यादिकं परमव्योमविशेषणतया केचिद्व्याचक्षते, श्रीवैकुण्ठगद्ये तथोक्तेः वयं तु अत्रैव षष्ठाध्याये’योगिनामपि’ इति श्लोके’वाङ्मनसापरिच्छेद्यस्वरूपस्वभावम्’ इति परमात्मविशेषणत्वेनैवाभिधानात्, कुमतिनिरासार्थमपेक्षितत्वाच्च अत्रापि तथा विवक्षामाचक्ष्महे ।।

स्वोचितेत्यादि । अत्राप्यनन्ताश्चर्यशब्दः पूर्ववत् । विभवशब्देन वाहनरत्नादि    संग्रहः । अनन्तपरिमाणत्वं तिर्यगूर्ध्वादिदेशापेक्षया, अधस्तात् प्रकृत्यवच्छिन्नत्वात् । अनन्तशब्दावृत्तिः प्रत्येकमानन्त्ये तात्पर्यातिरेकात् । नित्यत्वं प्राकृतव्योमवल्लयरहितत्वम् । निरद्यत्वं शुद्धसत्त्वमयत्वेन रजस्तमस्तत्कार्यराहित्यम् । अक्षरत्वम् अंशतोऽपि सृष्टिसंहारविरहः । परमशब्देन परनिर्दिष्टप्रक्रियया प्राकृतव्योमव्यवच्छेदः । एतेन    ‘तदक्षरे परमे व्योमन्’ इत्यादिश्रुतिसूचनम् । एवं नित्यविभूतियोग उक्तः ।।

अथ लीलाविभूतियोगप्रतिपादनमुखेन    ‘यतो वा इमानि इत्यादि    वाक्यैः    ‘जन्माद्यस्य यतः’ इति सूत्रेण च, निरूपितं जिज्ञास्यब्रह्मलक्षणयोगं दर्शयति–विविधेति । शब्दस्पर्शादिरूपेण- दिव्यादिव्यादिभेदेन चात्र भोग्य वैविध्यवैचित्र्ये । ‘इमानि’ इत्यादिश्रुत्या हस्तप्रसारणेन तत्तत्प्रमाणसिद्धसमस्तकार्यप्रकारनिर्देशात् बहुवचनासङ्कोचाच्च भोक्तृणां ज्ञानसुखादितारतम्यहेतुभूतं देवादिरूपेण वैविध्यम्, तदवान्तरविधाभूत ब्राह्मणादिरूपेण वैचित्र्यं च, दर्शितम् । यद्वा विविधशब्द एव सावान्तरभेदं समस्तं वैविध्यं संगृह्णाति । विचित्रशब्दस्त्वा   श्चर्यपरत्वेनान्याशक्यत्वपरः,  ‘मेघोदयः’ इत्यारभ्य ‘विष्णोर्विचित्राः प्रभवन्ति मायाः’ इत्यादिवत् । ज्ञानसुखादितारतम्याभावेन परमव्योम्नि भोक्तृवैविध्याभावात् परभोग्यतैक रसानां नित्यसूरीणां पृथगुक्तत्वाच्च तत्र भोक्तृवर्गानुक्तिः । भोगोपकरणभोगस्थानान्यत्राप्यर्थसिद्धानि । एवंविधायाश्च विषम सृष्टेर्विचित्रानादिचेतनकर्मप्रवाहमूलत्वाल वैषम्यादिदोषः। निखिलशब्देन कतिपयसृष्ट्यादिनिमित्तोपादानभूतचतुर्मुखादिव्यावर्तनम् । उदयशब्देनसद्वारकाद्वारकसमस्तसृष्टिसंग्रहणम् । एवं विभवशब्देन विष्ण्ववतारान्तर्यामित्वादिकृतविविधस्थितिसंग्रहः । लयोऽपि नित्यनैमित्तिकादिरूपः । निखिलसृष्ट्यादिष्वन्यतमस्यैव ब्रह्मलक्षणत्वे संभवत्यपि, उपात्तव्यतिरिक्तयोः किमन्यः कर्तेति शङ्काव्यावर्तनाय सृष्ट्यादित्रयोपादानम् ।    जगद्गतानां त्रयाणामुदयविभवलयानामेतद्गतलीलात्वेन व्यपदेशादुपादानत्वं सूचितम् । जगदाकारेण    जायमानत्वादीन्यस्य लीलाः,    ‘बहुस्यां प्रजायेय’ इति हि जगत्कारणस्य तस्य संकल्पः । सूक्ष्मचिदचिद्विशिष्टस्यैवोपादनत्वात् बालस्येव युवत्वादिप्राप्तौ न स्वरूपतो विकार इति निर्विकारत्वश्रुत्यविरोधः ।अवाप्तसमस्तकामस्य कथं जगद्व्यापार इतिशङ्कांपरिहरतालीलाशब्देननिमित्तत्वमपि तस्यैवेति सिद्धम् । एतेन निमित्तोपादानभेदं वदन्तो निरस्ताः । न च लोके निमित्तोपादानभेददर्शनमात्राद्विरोधः, लौकिककारणविलक्षणत्वाच्छ्रुतिसिद्धस्य ब्रह्मणः । अन्ततो वैशेषिकादिभिरपि घटेश्वरगतसंयोगविभागद्वित्वपृथक्त्वादिकार्येष्वीश्वरस्यैव निमित्तत्वम् उपादानत्वं च अभ्युपगतमिति न कश्चिदस्मिन्मते दोषः । तथा    बुद्धिपूर्वकस्वसुखोत्पादनादावपि द्रष्टव्यम्।।

एवं ब्रह्मलक्षणयोगात् नारायणस्यैव परब्रह्मत्वं दर्शयन्, सद्ब्रह्मात्मादिसामान्यशब्दानां नाराणाख्यविशेषपर्यवसानं च सूचयन्,    ‘नारायण परं ब्रह्म’ इति श्रुत्यनुकारिणः    ‘नारायणः परं ब्रह्म गीताशास्त्रे समीरितः’ इति  गीतार्थसंग्रहश्लोकस्य प्रपञ्चनमिह क्रियत इति च ज्ञापयन्, उक्तैः प्रकारैः समाख्यात्रयमस्यैव संगतमिति चोदाहरन्, उक्तेष्वर्थेषु वा समाख्यात्रयं प्रमाणयन्, ‘परं ब्रह्म परंधाम । पवित्रं परमं भवान्’   ‘प्रथितः पुरुषोत्तमः    ‘एष नारायणः श्रीमान्’ इत्यमीषां कृष्णैकविषयत्वं च दर्शयन्, अभेदश्रुतीनां भेदश्रुतीनां घटकश्रुतीनां कारणशोधकोपासनश्रुतीनां च निष्कृष्टमर्थं संगृह्णाति परं ब्रह्म पुरुषोत्तमो नारायण इति । सर्वसामानाधिकरण्यंसर्ववैलक्षण्यं च सर्वान्तर्यामित्वेनोपपन्नमिति पदत्रयाभिप्रायः । अत एव अत्र प्रपञ्चबाधभेदाभेदादिना सामानाधिकरण्यं वदन्तो निरस्ताः ।       ‘एको ह वै नारायण आसीन्न ब्रह्मा नेशानः’ इत्यारभ्य,      ‘तत्रब्रह्मा चतुर्मुखोऽजायत ।यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै’ इत्याद्युक्तकरणकलेवरप्रदानहितोपदेष्टृत्वादिकमभिप्रेत्याह-ब्रह्मादि स्थावरान्तमखिलं जगत् सृष्ट्वेति । ब्रह्मसृज्यस्य स्थावरपर्यन्तस्य जगतः परमात्मसृज्यत्ववचनात् ब्रह्मादिकञ्चुकितः परमात्मा तत्तत्सृजतीति सिद्धम् ।।

अथ स्वेच्छयावतारं तत्प्रयोजनं च    वक्तुमनवतारदशायां    तत्प्रयोजनानिर्वृत्ति दर्शयति स्वेनेत्यादिना अगोचर इत्यन्तेन । अगोचरत्वम् अव्यक्तत्वात् । यथोच्यते–   ‘यैर्लक्षणैरुपेतो हि हरिरव्यक्तरूपधृत् ।    तैर्लक्षणैरुपेता हि व्यक्तरूपदशा युवाम्’ इति । ब्रह्मादिदेवेति वचनात्    ‘तदुपर्यपि बादरायणः संभवात्’ इत्यधिकरणेऽर्थित्वसामर्थ्याभ्यां समर्थितं ब्रह्मरुद्रेन्द्रादिदेवजातीनामपि परमात्मोपासनाधिकारित्वं सूचितम् । स्वप्रयोजनाभावे कथं प्रवर्तेतेत्यत्राह–अपारेति । स्वार्थनिरपेक्षया परदुःखासहिष्णुतया, महत्त्वाप्रतिरुद्धया मन्दैः सह निरन्तरसंश्लेषरसिकतया, स्वाभाविकेन परदोषतिरस्कारिणा संबन्धविशेषेण, पिशाचगोपालगोपिकादिभ्यः स्वात्मसमर्पणे कृतेऽपि कियदृत्तमिति भावयता महौदार्येण च, प्रेरितोऽवतरतीत्यर्थः । अस्त्रभूषणाध्यायोक्तं विग्रहं  समस्ताः शक्तयश्चैतनृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत्’ इति परामृश्य,    ‘समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया’ इत्युक्तप्रकारेणावतारविग्रहस्याप्य -प्राकृतपरमपदनिलयविग्रहांशविशेषत्वं दर्शयितुं, स्वमेव रूपम् इत्यादि    उपन्यस्तम् ।    ०’नैष गर्भत्वमापेदे न योन्यामवसत्प्रभुः’    ‘न तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसंभवा    ‘न भूतसंघसंस्थानो। देहोऽस्य परमात्मन.’ इति चोच्यते ।     ‘अजोऽपि सन्’ इत्यादि वक्ष्यमाणमनुसंदधान आह-। स्वस्वभावमजहदेवेति ।    ‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत’    ‘संभवामि युगे युगे !    इत्यादिवीप्सार्थम्,  ‘बहुनि मे व्यतीतानि जन्मानि’    इत्याद्यर्थं च भावयन्नाह तेषुतेषु लोकेष्ववतीर्यावतीर्येति ।    ‘स उ श्रेयान्भवति जायमानः    ०‘यस्यावताररूपाणि समर्चन्ति दिवौकसः ।। अपश्यन्तः परं रूपम्’ इत्यादिकं स्मारयितुम् अवतीर्यावतीर्य तैस्तैराराधितः इत्युक्तम् । तत्तदिष्टानुरूपम्| इति वचनात् फलप्रदाने वैषम्यदोषः परिहृतः ।       ‘तस्मिन्प्रसन्ने किमिहास्त्यलभ्यम्’ इत्यादि चात्रानुसंधेयम्।।

एवमवतारसामान्यं तत्प्रयोजनं च दर्शितम् । अथ तद्विशेषं प्रस्तुतान्वितं दर्शयति-भूभारावतारणेत्यादिना ।       भूभारावतारणं व्याजमात्रम् । सर्वसमाश्रयणीयत्वं तु साक्षादुद्देश्यम् । दुष्कृद्विनाशस्य साधु परिमाणाख्यमहाप्रयोजनानुषङ्गिकत्वात् भूभारावतारणापदेशेन इत्युक्तम् । अस्मदादीनामपि अयोगिनामित्यर्थः । समाश्रयणीयत्वं विवृणोति—सकलेति ।       ‘यन्न देवा न मुनयो न चाहं न च शंकरः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम्’ इत्यादिप्रतिपादितप्रकारेण महायोगिनां परिशुद्धेन मनसापि दुग्रहः सौलभ्यातिरेकात्       मनुष्याणां तत्राप्यागोपालमवधीरितविरुद्धाविरुद्ध   विभागानां मांसचक्षुषा ग्राह्योऽभूदिति भावः। एवमवतरणनयनविषयत्वयोर्न केवलमाराध्यत्वमेव प्रयोजनम्, किन्तु तदनुभवोऽपीत्यभिप्रायेणाह-परावरेति । पराः उपसनसमर्था ब्रह्मरुद्रभीष्माक्रूरादयः । अवरास्तु आभीरप्रभृतयः । निखिलजन इति स्त्रीपुंसादिविभागोऽपि नास्तीत्यभिप्रेतम.    पुंसां दृष्टिचित्तापहारिणम्’ इतिवत् । दिव्यचेष्टितानि नवनीतनटनादीनि । एवं विशेषणद्वयं साधुपरित्राण प्रकारविशेषतयाभिहितम् । अथ साधुपरित्राणानुषङ्गिकं दुष्कृद्विनाशनप्रकारं प्रपञ्चयति–पूतनेतिभगवतो बलभद्रस्याप्येतदंशरूपत्वात् प्रलम्बमुष्टिकादिहननमप्येतत्कर्तृकतयोपात्तम् । पुनः साधुपरित्राणान्तर्गतां भोग्यतां दर्शयति–अनवधिकेति । प्रियतमस्वरूप   दर्शनं धारकम्; तच्चेष्टितदर्शनं पोषकम्; तेन सहालापादिः भोगप्रकारः; इति नयनविषयत्वचेष्टितालोकनादिविभागनिर्देशाभिप्रायः । दया स्वार्थनिरपेक्षा परदुःखनिराकरणेच्छा; सौहार्दं हितैषित्वम् अनुरागः प्रीतिः । एवं साधुपरित्राणं  तदौपयिकं दुष्कृद्विनाशनं चोक्तम् । अथ धर्मसंस्थापनम् आराध्यस्वरूपप्रदर्शनेन देशकालविप्रकृष्टानामपि परम्परयानुग्राहकेणोपदेशेन च दर्शयति-निरतिशयेत्यादिना वाक्यशेषेण । एतच्चाखिलं    ‘परित्राणाय’ इति श्लोके    व्याख्यास्यते । तत्र हि साधूनां लक्षणस्वभावादिकमुक्त्वानन्तरमेवमुक्तम्‘मत्स्वरूपचेष्टितावलोकनालापादिदानेन तेषां परित्राणाय, तद्विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मदाराधनरूपस्य आराध्यस्वरूपप्रदर्शनेन स्थापनाय च, देवमनुष्यादिरूपेण युगे युगेसंभवामि’ इति ।    उपदेशतो धर्मस्थापनं व्यासादिमुखे   नापि कर्तुं शक्यम् । आराध्याकारप्रदर्शनेन स्थापनं तु स्वेनैवावश्यकर्तव्यमिति भावः । बाह्यान्तरकरण    ग्राह्यगुणवर्गद्वयप्रदर्शनतया सौन्दर्यसौशील्ययोर्ग्रहणम् । परमभागवतान् कृत्वेति भगवद्भक्तिरूपपरधर्मनिष्ठान् कृत्वेत्यर्थः ।।

एवं प्राचीनभगवच्चरितस्य श्रीमद्गीतार्थोपदेशेन संगतिः प्रदर्शिता । पाण्डुतनययुद्धप्रोत्साहनव्याजेन इति तु भारतकथासंगतिः । अत्र व्याजशब्देन    ‘अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थ प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम्’ इत्यत्र ‘उद्दिश्य’ इति पदस्याभिप्रायो विवृतः । ‘परमपुरुषार्थ’ इत्यादिना शास्त्रस्य परमप्रयोजनाभिधानम् । तेनात्र     भूमविद्यायामिवात्मानुभवोक्तिरप्यैश्वर्योक्तिवद्भगवदनुभवापेक्षया    निकृष्टपर्वज्ञापनायेति सूचितम् । मोक्षसाधनतया इति साध्यसाधनभावनिर्देशेन संसार्यात्मन एव नित्यमुक्तिं वदन्तो निराकृताः । वेदान्तोदितं वेदान्तविहितम्, न तु वेदान्तोत्पादितमित्यर्थः । एतेन अविधेयज्ञानवादिनो निरस्ताः । वेदान्तोदितस्यार्थस्योपबृंहणमत्र क्रियत इति भावः ।  स्वविषयमिति मोक्षार्थोपासनवाक्यानामनन्यपरतया साक्षात्परमपुरुषाराधनविषयत्वमेव । अथर्वशिरः प्रतर्दनविद्यादिषु रुद्रे न्द्रादिभिः स्वस्य मुमुक्षूपास्यत्व   वचनेऽपि रुद्रेन्द्राद्यन्तर्यामिभूतः परमात्मैवोपास्य इति    शास्त्रदृष्टया तूपदेशो वामदेवदत्’ इति सूत्रकारैरेव प्रतिपादितमिति भावः । एतेन वेदान्तोदितमाहात्म्यवादिनो भगवतः    ‘स्वगुणाविष्क्रियादोषो नात्र भूतार्थशंसिनः’ इति सूचितम् । स्वविषयम् इति भक्तियोगस्य सिद्धरूपपरमप्रतिपाद्यानुबन्धित्वं दर्शितम् ।       प्रधानविधेयांशनिष्कर्षाय भक्तियोगम् इत्युक्तम् । ज्ञानकर्मानुगृहीतत्वं ज्ञानकर्मसाध्यत्वम् ।       एतेन समुच्चयादिपक्षा निरस्ताः । वैराग्यस्य       संंग्रहश्लोके पृथगुक्तस्यापि निष्ठाद्वयानुप्रविष्टत्वादिहानुक्तिः । एवमुपायोपेयात्मकमुभयमपि शास्त्रप्रतिपाद्यमिति संग्रहश्लोकतात्पर्यमुक्तं भवति । मोक्षसाधनतया वेदान्तोदितं भक्तिभक्तियोगम् इति वचनात् उपासनस्यार्वाचीनब्रह्मप्राप्त्यादिसाधनत्वंवाक्यार्थज्ञानमात्रस्य मोक्षसाधनत्वं च वदन्तः प्रयुक्ताः । ज्ञानध्यानादिसामान्यवचसां भक्तिरूपविशेषे पर्यवसानमिति च भावः । एतच्चाखिलमुत्तरत्र व्यक्तं भविष्यति।

एवं शास्त्रं संगमय्य, शास्त्रोपोद्धातं संगमयितुं पाण्डुतनय इत्यादिना सूचितं    पूर्ववृत्तान्तं प्रकटयन् सारथित्वेनावस्थायाचार्यकृत्यकरणे    प्रतारकत्वशङ्कां च वारयति-तत्रेति । तत्र प्रथमं भक्तियोगमवतारयितुमेवं चकारेत्यर्थः; यद्वा तत्र युद्धे प्रारब्धे इत्यन्वयः; भक्तियोगावतरणव्याजभूतप्रोत्साहनविषयभूते    युद्धे प्रारब्धे इत्यर्थः । भगवतोऽवतारदशायामपि पूर्णत्वस्वाच्छन्द्यादिक वात्सल्यादिमूलसारथ्याद्यपकृष्टकर्मानुष्ठानस्य गुणरूपत्वादिकं च प्रदर्शयितुं स भगवान् इत्याद्युक्तम् । स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरः इति चतुर्भिः पदैः स्वरूपगुणवैलक्षण्यविभूत्यादिप्रतिपादनेन परत्वसंग्रहः । सवेश्वरेश्वरः इत्यनेन    ‘सर्वेश्वरेश्वरः कृष्णः’ इत्यादिवचनोक्तं स्वाच्छन्द्यं जगत्कुटम्बित्वं च ज्ञापितम् । जगदुपकृतिमर्त्य आश्रितवात्सल्यविवशः इति सौलभ्यसंग्रहः । अविप्रलम्भकत्वं चानेन व्यञ्जितम्;     ‘जगतामुपकाराय’,     ‘जगदुपकृतिमर्त्यं को विजेतुं समर्थः’ इत्यादिकमिह स्मारितम् । जगदुपकृतिमर्त्यत्वेऽप्युत्कृष्टचरितं परित्यज्य निकृष्टसारथ्यादिकृत्यंं  किमर्थं कुरुते इत्यत्रोक्तम्-आश्रितवात्सल्यविवशः इति । पार्थ रथिनमात्मानंच सारथिमिति-अपकृष्टं पार्थमुत्कृष्टकृत्येस्वयमेवावस्थाप्य आत्मानमुत्कृष्टं निकृष्टकृत्ये चकारेति भावः । पार्थशब्देन    वात्सल्यौपयिकलौकिकसम्बन्धविशेषोऽपि सूचितः; पितृष्वसा हि पृथा भगवतः । सर्वलोकसाक्षिकमिति–न चासौ निकृष्टकृत्यं सापत्रपो रहस्ये कृतवान्; अत इदमपि आश्रितवात्सल्यस्य नैरपेक्ष्यस्य अर्थापह्नवाद्यसंभवस्य च । लिङ्गमिति भावः । यद्वा सर्वेषां     स्वसमाश्रयणेन पुरुषार्थलाभाय स्वस्य शास्त्रंकसमधिगम्यमाश्रितपारतन्त्र्यं सर्वलोकप्रत्यक्षं चकारेति भावः ।।

अथ    ‘त्वां शीलरूप’ इत्यादिक्रमेणानन्यसाधारणशील रूपचरितपरमसत्त्वप्रबलशास्त्रदेवता पारमार्थ्यवेदिशान्तनवसञ्जयादिवचनैरप्यासुरप्रकृतीनां यथावदवगन्तुमशक्यतां प्रदर्शयन्, गीतोपनिषत्प्रस्तावनार्थ प्रथमश्लोकमवतारयति- एवमिति; श्रियः पतिरित्यादिना पूर्वोक्तप्रकारेणेत्यर्थः। सर्वात्मनेति–न केवलं चक्षुषा, परत्रेह च हितमजानता मनसापीत्यर्थः । एवंविधमान्ध्यं सुयोधनविजयाभिलाषेण    प्रश्ने हेतुः ।    अत्र ‘मामकाः’ इति प्रथमोक्त्या ममकारेण,  ‘यत्र योगेश्वरः’ इत्यादि – प्रतिवचनप्रक्रियया च, सूचितं प्रष्टुरभिप्रायं दर्शयितुं सुयोधन इत्यादिकमुक्तम् । सञ्जयमिति–व्यासप्रसादलब्धसकलभारतसमरवृत्तान्तसाक्षात्कारं    ‘शुद्धभावं गतो भवत्या शास्त्राद्वेद्मि जनार्दनम् । इत्यादिवादिनम्; एवं यथार्थदर्शित्वयथादृष्टार्थवादित्वाभ्यामाप्ततमतया निर्णीतमिति भावः। पप्रच्छ, समरवृत्तान्तमिति शेषः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.