18 तात्पर्यचन्द्रिका अष्टादशोऽध्यायः

श्रीमद् भगवद्गीता

वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका

अष्टादशोऽध्यायः

अर्जुन उवाच

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन।।18.1।।

।।18.1।।कर्तव्यविशोधनप्रधाने अन्तिमेऽध्यायत्रिकेऽस्याध्यायस्य पश्चाद्भावित्वज्ञापनाय षोडशसप्तदशयोर्देवासुरविभागोक्त्यादिमुखेन हेयोपादेयविभजनपरतया प्रघट्टकैक्यमभिप्रेत्याऽऽह — अतीतेनेति।वैदिकस्य कर्मणः सामान्यलक्षणं प्रणवान्वयः? तत्र मोक्षाभ्युदयसाधनयोर्भेदस्तत्सच्छब्दनिर्देशत्वेनेति विभजमानस्वायमभिप्रायः — विशेषणादिसामर्थ्यलब्धोऽयं विभागः। ब्रह्मणः पारोक्ष्यात्तत् इति निर्देशः। तज्ज्ञाने तु सन्मात्रविवक्षया सच्छब्दः। क्रमादेते सात्त्विकराजसतामसा इति विभागस्तु कस्यचिदुत्प्रेक्षाकल्पितः — इति। एवमुक्तेष्वप्यर्थेषु मोक्षसाधनभूतांशस्वरूपशोधनमुत्तराध्यायेन क्रियत इति सङ्गत्यभिप्रायेणाऽऽह — अनन्तरमिति।ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयताऽन्तिमे। स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते [गी.सं.22] इति सङ्ग्रहश्लोके त्यागसन्न्यासैक्यतत्स्वरूपानुक्तिरीश्वरे कर्तृताबुद्धेः शेषतया तदुपन्यासादिति मन्तव्यम्। सत्त्वोपादेयत्वमत्र तात्पर्यवृत्त्याऽभिधीयत इत्यभिप्रायेणाऽऽहसत्त्वरजस्तमसां कार्यवर्णनेनेति।स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः [गी.सं.1] इति सङ्ग्रहारम्भोक्तप्रधानकर्तव्यपरोऽत्रशास्त्रसारार्थशब्दः इत्यभिप्रायेणाऽऽहसारार्थो भक्तियोग इति। स्वर्गादिसाधनानां यज्ञदानादीनां स्वरूपाविशेषेऽपि यद्योगान्मोक्षसाधनत्वं? तदिदानीं सविशेषं शोधयितुमर्जुनः पृच्छतीत्यभिप्रायेण प्रकृते प्रश्नं सङ्गमयति — तत्र तावदिति। सत्त्वविवृद्धितदुपायादिकथनं त्यागादिविशिष्टमोक्षसाधनकर्मार्थतया। सन्न्यासशब्दस्याश्रमविशेषादिरूढेस्त्यागमात्रेऽपि शक्तः पृथक्त्वैकत्वशङ्का। वादिविप्रतिपत्त्यादिभिः स्वरूपविशेषानिश्चयः। त्यागसन्न्यासयोर्विशेषतस्तत्त्वबुभुत्साहेतुमाह — त्यागसन्न्यासौ हीति। कर्मस्वरूपे स्वर्गापवर्गादिसाधारणे त्यागादिसंज्ञकविशेषणयोगादेव ह्यपवर्गसाधनत्वम्। अतः प्राप्ताप्राप्तविवेकेन विशेषणे तत्साधनत्वव्यपदेशः। संशयविपर्ययोपमर्दी विशेष इह तत्त्वशब्देन विवक्षित इत्याह — याथात्म्यमिति। पृथक्त्वं वेदितुमिच्छामीत्युक्ते निश्चितपृथक्त्वस्य तत्तत्स्वरूपजिज्ञासा प्रतीयते न च तद्युक्तं? पूर्वत्र पृथक्त्वनिश्चयहेत्वभावादुत्तरत्र चैकत्वस्यैव वक्ष्यमाणत्वात्। अतोऽयं प्रश्नोऽनुपपन्नः प्रतिवचनासङ्गतिश्चेत्यत्राऽऽह — अयमभिप्राय इति।तत्त्वं वेदितुमिच्छामि इत्येतदेव विवक्षितम् पृथक्त्वनिर्देशस्तु संशयकोट्यन्यतरोपक्षेपमात्रपरः।पृथक्त्वमस्ति चेत्तद्वेदितुमिच्छामि इति वा वाक्यावृत्तिरित्यभिप्रायेणाऽऽह — किमिति।

श्री भगवानुवाच

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।।18.2।।

 ।।18.2।।पृथक्त्वैकत्वतत्स्वरूपजिज्ञासया प्रश्नश्चेत् तत्र कस्मिन्नंशेकाम्यानाम् इत्यादिमतभेदोपन्यासस्य सङ्गतिः इत्यत्राऽऽह — अथेति।अयमभिप्रायः — न्यायतो ह्यत्र निर्णयः प्रतिपाद्यते सन्दिग्धे च न्यायावतारः सन्देहश्चात्र वादिविप्रतिपत्तिनिबन्धन इति न्यायविषयविशोधनाय विप्रतिपत्त्युपन्यासः — इति। एतेन कथितार्थयोरपि सन्न्यासत्यागशब्दयोर्विप्रतिपत्तिप्रशमनाय अस्मिन्नध्याये पुनः प्रश्न इत्यपि सूचितम्। एकत्वस्वीकारेण प्रतिवचनात् पृथकत्वप्रतिक्षेपोऽर्थसिद्ध इत्यभिप्रायेणाऽऽह — एकमेव स्वरूपमिति। स्वमतस्यनिश्चयं श्रृणु [17।4] इति वक्ष्यमाणत्वात्।कवयःविचक्षणाः इति पदद्वयं नार्थप्राशस्त्यार्थवक्तृगौरवपरम् अपितु विप्रतिपत्त्युपयुक्तवेदनमात्रपरमित्यभिप्रायेणाऽऽह — केचन विद्वांस इति। अनन्तरश्लोकेन भेदस्यएके? अपरे इति व्यक्तमुक्तत्वादिहापि तद्विवक्षेत्यभिप्रायेण — केचनेत्युक्तम्।काम्यानां कर्मणां न्यासम् इति विशेषणादितरेषामपरित्यागः प्रतीयते उत्तरत्र चसर्वकर्मफलत्यागम् इति विशेषणादत्र काम्यस्वरूपत्यागश्चेत्यभिप्रायेणाऽऽह — स्वरूपत्यागमिति। काम्यस्वरूपत्यागंवदतामयमभिप्रायः — न तावन्नित्यनैमित्तिकवत् अकरणे प्रत्यवायात्कर्मान्तरानर्हतापत्तिभयाद्वा काम्यमनुष्ठीयते। न च त्रिवर्गसाधनाय? तस्यापवर्गप्रत्यनीकत्वात्। न च तदेव कर्मापवर्गस्यापि स्वयं साधनम्? उपासनादिनैरर्थक्यप्रसङ्गात्। नच विनियोगपृथक्त्वेन विद्याङ्गतया तत्परिग्रहः? यज्ञादिश्रुतेर्नित्यनैमित्तिकमात्रविषयत्वेऽपि विरोधाभावात्। अत एव हिसर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् [ब्र.सू.3।4।26] इत्यधिकरणमाश्रमधर्मसापेक्षतापरं भाष्यते। तस्मात्स्वर्गादिसंज्ञनरकहेतवः काम्याः क्रिया मुमुक्षुभिर्नानुष्ठेयाः — इति।

सर्वकर्मफलत्यागमिति वदतांत्वयमाशयः — फलविरोधाद्धि काम्यानां त्यागः शङ्क्यते अतः फलमेव त्यज्यताम्? न च निष्फलानुष्ठानप्रसङ्गः? नित्यनैमित्तिकवदेव भगवत्प्रीतिमात्रार्थतया तदनुष्ठानोपपत्तेः। न चैवं न विधिःयो वा एतदक्षरं गार्ग्यविदित्वा जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि अन्तवदेवास्य तद्भवति [बृ.उ.3।8।10] इत्यादिनाऽक्षरशब्दनिर्दिष्टपरमपुरुषवेदनावेदनाभ्यामेव तस्यैव कर्मणो नित्यानित्यफलसाधनत्वश्रुतेः। अतो नित्यनैमित्तिकानामिव काम्यानामपि न स्वरूपत्यागः — इति।

विवादस्य भिन्नविषयत्वायोगादत्र त्यागसन्न्यासशब्दयोरेकार्थत्वावश्यम्भावात्पृथगर्थत्वशङ्कापरिहारोऽर्थलब्ध इत्याह — तत्रेति। एतेन सन्न्यासत्यागशब्दयोः पृथगर्थत्वमङ्गीकृत्य कस्यचित्काम्यस्वरूपप्रहाणविषयतया कस्यचित्तु नित्यनैमित्तिकफलोपेक्षार्थतां च वदन्तः प्रत्युक्ताः। नह्यत्र काम्येतरकर्मफलत्यागमित्युच्यते। ततश्च सङ्कोचकाभावात् त्रिविधमपि कर्म संगृह्णाति। तदिदमुक्तं — नित्यानां नैमित्तिकानां काम्यानां च सर्वेषां कर्मणामिति। नित्यानामपिप्राजापत्यं गृहस्थानाम् [वि.पु.1।6।37] इत्यादिना फलसंयोगोऽवगतः।

अत्र श्लोके त्यागसन्न्यासशब्दयोरर्थभेदव्युत्पादनपरतां निरसितुमैकार्थे प्रस्पष्टं हेतुद्वयमाह — तथेति। नह्यर्थद्वयविषयेऽत्र विमर्शे अन्यतरस्यैव निश्चय उपपन्न इत्यभिप्रायेणोक्तंत्यागशब्देनैवेति।परस्परपर्यायतादर्शनाच्चेति — अयमभिप्रायः — नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते [18।7] इति निषिद्ध एव हि सन्न्यासः।मोहात्तस्य परित्यागः [18।7] इति त्यागशब्देनानूद्य तामसत्वेन निन्द्यते? अन्यथा जरद्गवादिवाक्यवत्परस्परानन्वयप्रसङ्गात्। एवंभवत्यत्यागिनां प्रेत्य [18।12] इत्युक्त एवार्थःन तु सन्न्यासिनां क्वचित् [18।12] इति व्यतिरेकेण दृढीक्रियते। न च तदन्यविधिरन्याभावस्य व्यतिरेकः। अत इमौ शब्दावत्राप्येकार्थावित्यङ्गीकृतम् — इति प्रतिवक्त्रा भगवतेति शेषः।

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः।

यज्ञदानतपःकर्म न त्याज्यमिति चापरे।।18.3।।

।।18.3।।एवंकाम्यानाम् [18।2] इति श्लोकेन फलविरोधतदभावद्वारा विरोधो दर्शितः। अथत्याज्यं दोषवत् इति श्लोकेन स्वरूपतो दोषयोगतदभावाभ्यां प्रत्यवायत्वादिमुखेन विवादः प्रदर्श्यते — वैधहिंसाऽपि कापिलैर्निषिद्धत्वेन दोषतयाऽङ्गीक्रियते। यथोक्तमीश्वरकृष्णेनदृष्टवदानुश्रविकः स ह्यविशुद्धः क्षयातिशययुक्तः इति। उक्तं च पञ्चशिखाचार्यैः — स्वल्पः सङ्करः सुपरिहरः सप्रत्यवमर्शः इति। अतो वैधहिंसा पुरुषस्य दोषमावक्ष्यति? कतोश्चोपकरिष्यतीति तन्मतम्। अतःएके इति शब्देन सामान्यतो निर्दिष्टावादिनःदोषवत् इति हेत्वन्वयादिसामर्थ्याद्दोषाख्यदृष्टान्तोक्तिबलाद्वा विशेषतो व्यज्यन्त इत्याहकापिला वैदिकाश्च तन्मतानुसारिण इति। एतेन सर्वकर्मस्वरूपसन्न्यासवादिनां मतमपि वेदबाह्यत्वेन दर्शितम्।रागादिदोषवदिति — रागादयो दोषा बन्धका इति सर्वसैद्धान्तिकसम्मतत्वात्तदुदाहरणम् यद्वा कर्मैव रागादिदोषवत् अत एव बन्धकमित्यभिप्रायः। अस्यां योजनायामादिशब्दो हिंसादिकमपि संगृह्णाति।सर्वं यज्ञादिकं कर्मेति — कर्मशब्दोऽत्र सामान्यविषयोऽपियज्ञदानतपःकर्म न त्याज्यम् इति पक्षान्तरे विशेषणाच्छास्त्रचोदितविषयः तत्र च विशेषकाभावात्काम्यविषयत्वे पौनरुक्त्याच्च सर्वविषय इति भावः। सर्वैस्त्याज्यत्वे तद्विधायकस्य शास्त्रस्याप्रामाण्यप्रसङ्गात्मुमुक्षुणेति विशेषितम्। अपरशब्दोऽत्र स्वमतानुसारिविषयः।यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् [18।5] इति हि स्वमतं वक्ष्यत इत्यभिप्रायेणाऽऽहपण्डिता इति त्याज्योपादेयविभागतत्त्वविद इत्यर्थः।

निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम।

त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः।।18.4।।

 ।।18.4।।तत्र इति शब्दः प्रकृते विप्रतिपत्तिविषयतानुवादमुखेन न्यायप्रवृत्तिविषयसन्दिग्धताद्योतक इत्यभिप्रायेणाऽऽहएवं वादिविप्रतिपन्न इति।मे निश्चयम् इत्यनेन मतान्तरोत्थानशङ्काव्युदासायाऽऽहत्यागविषयं निश्चयं मत्तः शृण्विति। मत्तः भ्रमादिदोषरहितादित्यर्थः।त्यागो हि इत्यादिकं न वक्ष्यमाणसात्त्विकत्यागादित्रैविध्यविषयं? किन्तु सात्त्विकत्यागावान्तरभेदविषयंसम्प्रकीर्तितः इत्यस्य,प्रागुक्ततत्परत्वस्वारस्यात्। हिशब्देन श्रोतृसम्प्रतिपत्त्यादिप्रतीतेश्चेत्यभिप्रायेणाऽऽहत्यागः क्रियमाणेष्वेवेत्यादि।मयि सर्वाणि इत्येक एव श्लोकस्त्रिविधत्यागपर इति अत्र निष्फलानुष्ठानस्वरूपत्यागं? साङ्ख्यमतशङ्कां च प्रतिक्षेप्तुं त्रयाणां स्वरूपं विविनक्तिकर्मजन्यमित्यादिना।मदीयफलसाधनतयेत्यादि — स्वकीयप्रीतिसाधनतया स्वार्थमेव भगवान् प्रवर्तयतीति हि मुमुक्षोरनुसन्धानमिति भावः। स्वकर्तृत्वस्य तादधीन्यतदनुमतिसापेक्षत्वादिभिः सर्वेश्वरे कर्तृत्वानुसन्धानम्। कर्तृत्वत्यागस्तु अनेककर्तृके परप्रयुक्तस्वात्मकर्तृकत्वानुसन्धानमित्युत्तरत्र विशोधयिष्यते।

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्।

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्।।18.5।।

।।18.5।।एवं त्रिविधत्यागानुवादस्य स्वरूपत्यागव्यवच्छेदार्थतोच्यतेयज्ञदान — इत्यादिना। विविदिषाद्युत्पत्तेः प्राग्यज्ञादिकमनुष्ठेयं? पश्चात्तु परित्याज्यमित्याख्यातीति केचित् तन्मतव्युदासायाऽऽह — न कदाचिदपीति। स खल्वेवं वर्तयन्यावदायुषम् [छा.उ.8।15।1] इति श्रुत्यभिप्रायेणाऽऽह — अपित्वाप्रयाणादिति। तथा च सूत्रम्आप्रयाणात्तत्रापि हि दृष्टम् [ब्र.सू.4।1।12] इति।अहरहरिति चोदितकालोपलक्षणम्। ननु विद्यानिष्ठस्य किमर्थं कर्म न तावदारादुपकारित्वेन? समुच्चयादिपक्षानभ्युपगमात् नापि तत्त्वज्ञानार्थं? सपरिकरात्प्रमाणादेव तत्सिद्धेः न च तदनुस्मरणरूपोपासनार्थं? तस्यापि संस्कारपाटवादिसाध्यत्वात् न चान्यत्किञ्चित्कर्मसाध्यं मुमुक्ष्वपेक्षितं प्रयोजनं पश्यामःन च प्रयोजनमनुद्दिश्य मन्दस्यापि प्रवृत्तिः इत्यभिप्रायेणकुत इत्याकाङ्क्षाप्रदर्शनम्। चकारोऽनुक्तसमुच्चयार्थ इत्यभिप्रायेण प्रभृतिशब्दः।वर्णाश्रमसम्बन्धीनीति — नित्यनैमित्तिकानामपि स्वरूपत्याग इति यः फलः? स इह प्रतिक्षिप्यत इति भावः। यज्ञादीनां सन्निपत्योपकारद्योतनायोपकर्तव्यज्ञानस्वरूपपरोऽत्र मनीषिशब्द इत्यभिप्रायेणाऽऽह — मननशीलानामिति। मनस ईषिणो मनीषिण इति व्युत्पत्तौ फलितोक्तिरियम्। श्रवणानन्तरभावियौक्तिकमननव्यवच्छेदायाऽऽह — मननमुपासनमिति।पावनानि मनीषिणाम् इति समभिव्याहारसिद्धमुपकारप्रकारं व्यनक्ति — मुमुक्षूणामित्यादिना। प्रायणान्तमे ध्यायीत [प्रश्नो.5।1] इति प्रक्रम्य यः पुनरेतं(एतत्)त्रिमात्रेणोमित्यनेनैवाक्षरेण(परं पु) परमपुरुषमभिध्यायीत [प्रश्नो.5।5] इत्युपासनं यावज्जीवमनुष्ठेयमिति गम्यते। अतस्तदङ्गमपि यावज्जीवमनुष्ठेयम्। तच्च स खल्वेवं वर्तयन्यावदायुषम् इत्यादिभिर्वर्ण्यत इति भावः। उपासनवदुत्तराघनिवर्तकत्वाभावात्प्राचीनशब्दः।

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च।

कर्तव्यानीति मे पार्थ निश्िचतं मतमुत्तमम्।।18.6।।

 ।।18.6।।एवं पावनत्वोक्त्यात्याज्यं दोषवत् [18।3] इति पक्षः प्रतिक्षिप्तः।निश्चयं श्रृणु [18।4] इत्यादिनोक्त एवार्थःएतान्यपि इति श्लोकेन निर्दोषत्वाध्यवसायार्थं निगमनात्मना दृढीक्रियत इत्यपुनरुक्तिः। हेतुसाध्यभावेन पूर्वोत्तरग्रन्थौ सङ्गमयतियस्मादिति। मनीषिशब्दसूचितोपासनसमानयोगक्षेमताद्योतनाय अपिशब्द इत्याह — उपासनवदेतान्यपीति। परमात्मप्रीतिद्वारा कर्मणां पावनत्वादिसिद्ध्यर्थमाहमदाराधनरूपाणीति। सङ्गशब्दस्य फलत्यागोक्त्या पुनरुक्तिं परिहरतिकर्मणि ममतामिति।निश्चितमिति — नात्र पुनस्त्वया संशयितव्यमिति भावः।उत्तममिति — असर्वज्ञानामन्येषामेतद्विरुद्धं स्वरूपत्यागादिमतं सर्वमधमत्वादनादरणीयमिति भावः।

नियतस्य तु संन्यासः कर्मणो नोपपद्यते।

मोहात्तस्य परित्यागस्तामसः परिकीर्तितः।।18.7।।

 ।।18.7।।अथनियतस्य इत्यादिना मतान्तराणामधमत्वं स्वमतस्योत्तमत्वं च प्रपञ्च्यते। वर्णाश्रमप्रयुक्ततया दुस्त्यजत्वं नियतशब्देनाभिप्रेतमित्याह — नित्यनैमित्तिकस्येति। तुशब्दसहितः सन्न्यासशब्दोऽत्रत्याज्यं दोषवत् [18।3] इत्यत्र स्वरूपत्यागानुवादी? स एव हिमोहात्तस्य परित्यागः इत्युत्तरार्धेन निन्द्यत इत्यभिप्रायेणसन्न्यासस्त्याग इत्युक्तः। पावनत्वेनावश्यकर्तव्यत्वे शिष्टे पुनस्त्यागो नोपपद्यत इति शासनं प्राक्प्रपञ्चितदृष्टादृष्टानुपपत्तिस्मारणपरमित्यभिप्रायेणानुपपत्तिं विवृणोति — शरीरयात्रापीति। केवलाशनादिनाऽपि लौकिकदेहयात्रा सिद्ध्येदित्यत्राऽऽह — शरीरयात्रा हीति।पञ्चभूतात्मकैर्भोगैः पञ्चभूतात्मकं वपुः। आप्यायते इति स्मरणात्कथमाहारेण मनस आप्यायनमित्यत्राऽऽहअन्नमयं हीति। सात्त्विकाहङ्कारकार्यस्यान्नविकारत्वासम्भवादाप्यायनोक्तिः। स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः [छां.उ.7।26।2] इत्येतत् भिद्यते हृदयग्रन्थिः [मुं.उ.2।2।8] इत्यादिकया समानार्थया श्रुत्या दर्शनशब्देन विशेष्येत इत्यभिप्रायेणब्रह्मसाक्षात्काररूपमित्युक्तम्। विशदतमत्वात्साक्षात्कारोक्तिरिह भाव्या। सकृदनुष्ठितस्य विद्योपकारित्वशङ्कां परिहरन्निगमयति — तस्मादिति।नोपपद्यते इत्यस्य कारणाभावे कथं कार्यं स्यात् इति भावः। उक्तप्रकारेणापरित्याज्यत्वनियमवत्त्वं तस्येत्यनूद्यत इत्यभिप्रायेणाऽऽह — एवं ज्ञानोत्पादिन इति।त्याज्यं दोषवत् [18।3] इत्यनूदितस्य मतस्यैतद्दूषणमित्यभिप्रायेणाऽऽह — बन्धकत्वमोहादिति।

तत्र भवः [अष्टा.4।3।53] इत्यण्प्रत्ययेन तामसशब्दं निर्वक्ति — तमोमूल इति। सम्बन्धमात्रेऽपि तद्धितार्थे फलितविशेषोऽयम्। तामसबुद्धिमूलत्वेन सद्वारकं तमोमूलत्वं विवृणोतितमःकार्येति। नन्वत्र समभिव्याहृतमोहमूलत्वेनैव तमोमूलत्वे दर्शयितव्ये तमःकार्याज्ञानमूलत्वोक्तिः किमर्था तदर्थैव नह्युक्तस्यैव पुनश्शब्दान्तरव्यञ्जने प्रयोजनम्? अधिकबोधनं तु युक्तं? अविरुद्धं चेति। ननुप्रमादमोहौ तमसो भवतोऽज्ञानमेव च [14।17] इति श्लोके मोहशब्देन विपरीतज्ञानस्य पृथगुक्तत्वादज्ञानशब्देन ज्ञानाभाव उच्यत इति व्याख्यातम् इह पुनःअज्ञानं तु ज्ञानविरोधि विपरीतज्ञानम् इति कथमुच्यते इत्थं — ज्ञानाभावस्यापि वृत्तिहेतुत्वं विपरीतज्ञानद्वारेति प्रदर्शनार्थं श्लोकस्थमोहशब्दस्य प्रयोजनान्तरविवक्षया वा श्लोकस्थस्याज्ञानशब्दस्य मोहविषयत्वज्ञापनार्थं वेति। तामसबुद्धेः कर्मत्यागहेतुतां वक्ष्यमाणेन व्यनक्ति — तथा चेति। तत्त्वविदो न परित्यजन्तीत्यभिप्रायेण तामसनिर्देशफलितं निगमयति — अत इतिनित्यनैमित्तिकादेः इत्यादिशब्देन फलाभिसन्धिरहितकाम्यानामपि वक्ष्यमाणानां ग्रहणम्।विपरीतज्ञानेत्यनेनायथाज्ञानमूलाद्राजसत्यागाद्विशेषप्रदर्शनम्।अयथावत् [18।31] इति हि राजसबुद्धिर्वक्ष्यते।

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्।

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्।।18.8।।

।।18.8।।तदेवमन्तरङ्गतया स्वरूपशब्दव्यपदेश्यस्वरूपनिरूपकधर्मप्राणप्रदधर्मवैपरीत्याभावेऽपि निरूपितस्वरूपविशेषकधर्मवैपरीत्येन राजसीं बुद्धिं वक्ष्यमाणामनुस्मरन् राजसत्यागं विवृणोति — यद्यपीत्यादिना।दुःखमित्येव इत्यवधारणात्कायक्लेशभयात् इति चोक्तेरधर्मत्वमोहोऽत्र नास्तीति फलितम्।अर्थानामार्जने दुःखम् [म.भा.3।2।44] इत्याद्यनुसारेणाऽऽह — दुःखात्मकेति।मनसोऽवसादकरमिति — अनवसादो हि विवेकादिसाधनसप्तके गणित इति भावः। अन्तरङ्गबहिरङ्गविरोधे बहिरङ्गत्यागो युक्त इत्यभिप्रायेणाऽऽह — ज्ञानाभ्यास एवेति।यथोक्तान्यपि कर्माणि परिहास्य द्विजोत्तम। आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् इत्यनुवादवाक्यान्यस्य मूलम्।स कृत्वा राजसं त्यागम् इत्यनुवादविवक्षितमाह — अयथावस्थितेति। वक्ष्यमाणसात्त्विकत्यागफलमिह त्यागफलशब्देन विवक्षितम्? मुमुक्षुप्रकरणत्वात्कर्मत्यागे तत्साध्यस्वर्गादिफलस्य प्रसङ्गाभावाच्चेत्यभिप्रायेणाऽऽह — ज्ञानोत्पत्तिरूपमिति। दुःखात्मकत्वादिप्रयुक्तमनोवसादशङ्कां परिहरति — नहीति।फलसम्बिभत्सया हि इत्याद्युक्तक्रमेण कर्मभिः प्रसादितो भगवान्मनसो़ऽनवसादमेव करोतीत्यर्थः।

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः।।18.9।।

 ।18.9।।अथत्यागो हि [18।4] इत्यादिना स्मारितमेवोद्धृत्य सत्त्वकार्ययथावस्थितज्ञानमूलतया तस्यैव शास्त्रीयत्वं द्रढयति — कार्यमित्येव इति श्लोकेन।नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते [18।7] इति प्रक्रमादिहापि नियतशब्दः कर्मविशेषणमिति तदर्थमाहनित्येति। आहत्य कार्यत्वं हि प्रयोजनस्यैव। तदर्थतयैव हि साधनस्य कार्यता तस्मादफलस्य कथं कर्तव्यत्वं इत्यत्राऽऽह — मदाराधनरूपतया कार्यमिति। तदभिप्रेतमाहस्वयम्प्रयोजनमिति। कर्तृत्वत्यागोऽप्यत्रानुसन्धेयः। अत एव ह्यनन्तरश्लोकेत्यागी इति शब्दः सङ्गफलकर्तृत्वत्यागीति व्याख्यायते।

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते।

त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः।।18.10।।

 ।।18.10।।सत्त्वादिमूलशास्त्रीयत्यागयुक्तस्यवर्तते सात्त्विको भाव इत्युपेक्षेत तत्तदाउदासीनवदासीनः [14।23] इत्यादिप्रसिद्धं विकाराभावरूपं लक्षणमुच्यते — न द्वेष्टि इति श्लोकेन। तेनोक्तलक्षणत्यागस्य सत्त्वमूलत्वमप्युपपादितं भवति। तत्र हेतुकार्यक्रमौचित्येन भिन्नक्रमतयाख्याख्यातिसत्त्वसमाविष्ट इत्यादिना।धीर्धारणावती मेधा [अमरः1।5।2] इति नैघण्टुकाः। श्रुतिश्च — मेधा मनीषेमा विशतां समीची भूतस्य भव्यस्यावरुध्यै [आरण्य.5।42] इति। अत आचार्योपदिष्टेष्वर्थेषु अप्रच्युतेरन्यासङ्कराच्च फलितमाह — यथावस्थिततत्त्वज्ञान इति। अत्र शुभाशुभपर्यायकुशलाकुशलशब्दाभ्यां प्रतिषिद्ध्यमानद्वेषसङ्गहेत्वनुवाद इत्यभिप्रायेणानिष्टफलत्वाद्युक्तिः।त्यागी इत्युक्तस्य त्यागस्य हेतुतां विवृणोति — सर्वस्मिन्नित्यादिना। यथाऽन्यदीयेऽन्यकर्तृके कर्मणि स्वसम्बन्धविरहाद्बाधकाद्यभावनिश्चयेन द्वेषाद्यभावः? तथाऽत्रापीत्यभिप्रायः। अननुष्ठानदशायां हि हर्षद्वेषप्रसङ्गाभावात्क्रियमाणयोरित्युक्तम्। ननुकुशले नानुषज्जते इत्येतद्युक्तं?,स्वर्गादिनिस्सङ्गतामात्रेण काम्यानुष्ठानेऽपि तत्फलानन्वयशास्त्रात्न द्वेष्ट्यकुशलं कर्म इति तु विरुद्धं? फलसङ्गाभावे सत्येव निषिद्धानां फलान्वयात्? अन्यथा क्वचिदपि प्रत्यवायाभावप्रसङ्गात्। न हि नरकादिकं कस्यचिदिष्टं स्यात्। एवं दृष्टप्रत्यवायहेतुष्वप्यद्वेषो न युक्त इत्यत्र प्रामादिकविषयत्वेन परिहार उक्तः। नन्वधिकारिविशेषे बुद्धिपूर्वैरपि पापकर्मभिरलेपः किं न स्यात् इत्यत्राऽऽह — नाविरत इति। एतच्छ्लोकार्थं प्रकृतहेतुतया घटयन्परमप्रकृतं निगमयति — अत इति।

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।

यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते।।18.11।।

।।18.11।।नियतस्य [18।7] इत्यादिप्रतिपादितयुक्तिविवरणपूर्वकं फलत्यागेनोपलक्षणेन प्रागुक्तस्त्रिविधोऽपि सात्त्विकत्यागोनहि इति श्लोकेन निगम्यत इत्याह — तदाहेति। अत्रदेहभृता इति न प्राणिमात्रनिर्देशः? अनुपयोगात्। अतः कर्मस्वरूपत्यागाशक्यताहेतुरवयवार्थो विवक्षित इत्यभिप्रायेणाऽऽहध्रियमाणशरीरेणेति।शक्यम् इति त्यजनपरत्वान्नपुंसकत्वैकत्वे? सामान्यरूपविवक्षणाद्वा। देहभृत्त्वहेतुकमशक्यत्वं विवृणोतिदेहधारणार्थानामिति। तदनुबन्धिनोऽर्थार्जनादयो भवन्तु लौकिकानि किं शास्त्रीयैः इत्यत्राऽऽहतदर्थं चेति। श्रुतिस्वारस्यहेतुकां स्वरूपत्यागशङ्कां परिहर्तुंयस्तु इत्यादिकमुच्यत इत्यभिप्रायेणाऽऽहयस्त्विति।अभिधीयते इत्यस्य कैरित्याकाङ्क्षाशमनायत्यागेनैके इत्यादिश्रुत्युपपादनम्। प्रक्रान्तनिगमनपरत्वेन प्रदर्शनार्थतां द्रढयति — त्रिविध इति।

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्।

भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्।।18.12।।

 ।।18.12।।लौकिकफलसाधनकर्मप्रक्रिययैव हि वैदिकानामपि फलसाधनत्वव्यवस्थापनम्। लौकिकानि च कर्माणि फलेच्छाभावेऽपि स्वशक्त्यनुरूपं फलन्ति। एवं वैदिकेष्वपीत्यभिप्रायेण शङ्कते — नन्विति। नन्वग्निहोत्रादीनां महायज्ञादीनां च विनियोगपृथक्त्वेन आश्रमाङ्गत्वस्वर्गाद्यर्थत्वाविरोधात् स्वर्गाद्यर्थतयाऽनुष्ठानं मा भूत्? आश्रमार्थतयाऽनुष्ठाने तु को विरोधः इत्यत्राऽऽह — नित्यनैमित्तिकानामपीति। बीजावापादिदृष्टान्तेनअकुशलम् [18।10] इत्युक्तस्य प्रामादिकस्यापि बन्धकत्वं सूचितम्। न हि भूमौ प्रमादनिपतितं बीजं न फलति ()। तस्मादमृतरसार्थिनो विषतरुबीजावापतुल्योऽयं कर्मकलाप इत्यभिप्रायेण फलितं स्वरूपत्यागमाह — अत इति।अमुमुक्षूणामिदमनिष्टत्वादित्रैविध्यम्? मुमुक्ष्वपेक्षया स्वर्गादेरप्यनिष्टत्वादित्यभिप्रायेण नरकस्वर्गादिकथनम्। कारीर्यादिसाध्यवृष्ट्यादिफलानां जीवद्दशाभावित्वस्थितेः।प्रेत्य इति प्रदर्शनार्थम् अन्यथा तस्मिन्नेव शरीरे त्यागिनामपि त्रिविधस्यापि फलस्य आरम्भानुमतिप्रसङ्गात्न तु सन्न्यासिनां क्वचित् इति व्यतिरेकोक्त्या तस्यापि बाधाच्चेत्यभिप्रायेणाऽऽहकर्मानुष्ठानोत्तरकालमिति। अत्राप्यनिष्टफलानन्वयः पूर्वोक्तरीत्या प्रामादिककर्मविषयो भन्तव्यः।,उक्तस्य चोद्यस्य प्रतिज्ञामात्रेणोत्तरमिदमुच्यते न तु कयाचिद्युक्त्येत्यत आह — एतदुक्तमिति। विनियोगपृथक्त्वं विनियोजकवाक्यपृथक्त्वेन ग्राह्यम्। विनियोगात् पृथक्त्वेन ज्योतिष्टोमादिषु पापक्षयादिनानाफलत्वं सिद्धम्।परिह्रियते — विरुद्धफलत्वचोद्यमिति शेषः। ननु तमेवं विद्वानमृत इह भवति। नान्यः पन्थाः [यजुस्सं.31।18तै.आ.3।1।3त्रि.म.ना.4।3चित्त्यु.12।713।1महाना.3] इति नियमनाद्वेदनमेव मोक्षसाधनतया विधीयते कर्म तु व्यवच्छिद्यते अतः कथं मोक्षाधिकारे विनियोगोक्तिः तत्राऽऽह — मोक्षविनियोगश्चेति।असिना जिघांसति अश्वेन जिगमिषति इत्यादिष्विवार्थस्वभावादिहापीष्यमाणधात्वर्थकरणतयाऽन्वयः। अतो वेदनोत्पत्तिद्वारेण परम्परया साधनत्वान्मोक्षविनियोगः। अव्यवहितसाधनविवक्षया तु नान्यः पन्थाः [श्वेता.3।86।15ना.प.9।1त्रि.म.ना.4।3महाना.3चित्त्यु.12।7] इत्यादिभिर्निषेध इति भावः। एवं परिप्रश्नाभिप्रेतमन्यधापि प्रतिवक्तुमुपक्रमत इत्यभिप्रायेण सङ्गत्यर्थमुक्तमंशं निगमनच्छाययाऽनुवदति — तदेवमिति।तत् — स्वरूपत्यागादेस्तामसत्वादित्यर्थः।एवं वर्णाश्रमादिनियतस्य दुस्त्यजत्वप्रकारेणेत्यर्थः। अस्मिन्नेव श्लोकेभवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् इति त्यागाभावविपर्ययस्य सन्न्यासशब्देनानुकथनात्त्यागसन्न्यासपृथक्त्वशङ्का च परिहृतेत्याह — स एव च त्याग इति।

पञ्चैतानि महाबाहो कारणानि निबोध मे।

सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्।।18.13।।

 ।।18.13।।अनिष्टमिष्टम् [18।12] इत्यादेरनन्तरं कारणपञ्चकोक्तेः का सङ्गतिः इत्यत्राऽऽह — इदानीमिति। साक्षात्प्रश्नविषये प्रत्युक्ते सतीत्यर्थः।भगवति पुरुषोत्तम इत्युमाभ्यां प्रागुक्तप्रकारेण सर्वान्तर्यामिणः तद्गतत्वतत्प्रयुक्तदोषाभावख्यापनम्।प्रकारमाहेत्यनेनातृतीयाध्यायादनुक्रान्तस्याकर्तृत्वानुसन्धानस्यात्रैव सहेतुकयथावस्थितस्वरूपशोधनमिति दर्शितम्। त्रिषु त्यागेषु प्रक्रान्तेषु अन्यतमस्य प्रकारशोधनमिति सङ्गतिः। त्रिविधेऽपि त्यागे सात्त्विकतया प्रक्रान्ते किमिति कर्तृत्वत्यागप्रकारमात्रोपपादनं इत्यत्राऽऽह — तत एवेति। इतिशब्दोऽत्र हेत्वर्थः। ऋत्विगादिषु कर्तृत्वेऽपि यजमानादेः कर्मणि फले च ममता दृश्यते तद्वदस्यापि किं न स्यात् अतः कर्तृत्वत्यागमात्रात्कथं कर्मणि फले च ममताबुद्धिनिवृत्तिः इत्यत्राऽऽह — परमपुरुषो हीति।हीति प्रमाणप्रसिद्धिसूचनम्।त्वं न्यञ्चद्भिरुदञ्चद्भिः कर्मसूत्रोपपादितैः। हरे विहरसि क्रीडाकन्दुकैरिव जन्तुभिःबालः क्रीडनकैरिव [म.भा.3।12।543।30।37]कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् [म.भा.2।38।23] इत्यादिप्रसिद्धमाह — स्वकीयेनेत्यादिना। करणाधिपाधिपो हि परमपुरुषः श्रूयते अतः करणानां जीवशेषत्वदशायामपि गजतुरगाद्यलङ्कारेषु राज्ञ इव परमपुरुषस्य शेषित्वं न निवर्तत इत्यभिप्रायेणाऽऽहस्वकीयैश्च करणकलेवरप्राणैरिति। सङ्कोचकाभावाद्दृष्टादृष्टफलप्रदानादिकमपि तस्य लीलेत्याहस्वलीलाप्रयोजनायेति।लोकवत्तु लीलाकैवल्यम् [ब्र.सू.2।1।33] इत्यादिभिरिदं मीमांसितमिति भावः। लीलादिप्रयोजनायेति पाठे तु आदिशब्देन कारुण्यादिमूलभक्तरक्षणादिग्रहणम्। ननु शास्त्रीयस्य कर्मणः परमपुरुषसमाराधनतयैव विधानात्फलपर्यन्तस्य तस्य तदीयता युक्ता लौकिकं तु कर्म न तथा शिष्टं? नापि तथाध्यक्षं? क्षुन्निवृत्त्यादेः फलस्य जीवगामित्वेनैवोपलम्भात्? अतो लौकिकानां फलानां जीवशेषत्वे तत्साधनस्यापि कर्मणस्तदर्थता युक्ता तस्मात्सिद्धये सर्वकर्मणाम् इत्यादिभिः सर्वविषयसङ्गत्यागाद्युपपादनमशक्यमिति तत्राऽऽह — अत इति।परमपुरुषस्यैवेति — षष्ठी स्वस्वामिभावाख्यसम्बन्धविशेषविश्रान्ता। यथा पञ्जरशकुन्तपोषणादिकं तत्सुखादिकं च सार्वभौमस्य शेषभूतं? तथाऽत्रापीति भावः।,साङ्ख्ये कृतान्ते इति न साङ्ख्यसिद्धान्तो विवक्षितः? तत्रेश्वरानभ्युपगमात् करणातिरिक्तस्य कर्तृत्वानभ्युपगमेनकर्ता करणं पृथग्विधम् इति कर्तृकरणविभागोक्त्यसम्भवात्? तस्य वेदविरुद्धत्वे तत्त्वोपदेशाय तदुपन्यासायोगात्? अविरुद्धत्वेऽपि वेदमूलत्वस्यैवाङ्गीकर्तव्यत्वे वेद एव विश्रमात्? अर्थौचित्याय च रूढिपरित्यागेन यौगिकार्थावलम्बनस्य सर्वसम्मतेः अतो वेदेष्वेव यथावस्थिततत्त्वनिर्णयाय प्रवृत्तो भागः साङ्ख्यकृतान्तशब्देन विवक्षित इत्यभिप्रायेण निर्वक्ति — सङ्ख्या बुद्धिरिति। प्रकरणानुरोधेन बुद्धिं विशिनष्टियथावस्थितेति। यदिहशङ्क्तरेणोक्तंपदार्थाः सङ्ख्यायन्ते यस्मिन् शास्त्रे तत्साङ्ख्यं वेदान्तः? स एव कृतान्तः? कृतस्य कर्मणोऽस्मिन्नन्तः इति तदसत्? वेदान्तेष्वपि कर्मान्वयस्य स्थापितत्वात्? रूढिपरित्यागे चावश्यम्भाविन्युचिततमयोगस्यैव ग्रहीतुं युक्तत्वात्। अन्तशब्दो निश्चयपरतया नैघण्टुकैः पठितः स एव बुद्धिपूर्वसम्पादिततया कृतशब्देन विशेष्यत इत्यभिप्रायेणअनुसंहिते निर्णय इत्युक्तम्। यद्वा निर्णयशब्दोऽत्र निर्णीतवस्तुपरः कृतान्तशब्दस्य सिद्धान्तपर्यायस्य तत्तदभ्युपगतार्थरूढत्वात्। अत एव हि — अनुसंहित इति विशेषितम्। न हि निर्णय एवानुसन्धातव्यः। अथवा प्राचां निर्णयः परैरनुसंहित इति भावः। निर्णायकशब्दपरो वाऽत्र निर्णयशब्दः। तदानींप्रोक्तानि इत्यनेन समन्वयः। सिद्धिशब्देन फलपर्यन्तत्वादिकमिहाविवक्षितम्यत्कर्म प्रारभते? ৷৷. ৷৷. पञ्चैते तस्य हेतवः [18।15] इति कर्मस्वरूपोपसम्पत्तेरेवानन्तरोक्तेरित्यभिप्रायेणाऽऽह — उत्पत्तय इति।मम कारणानि इत्यसम्भवान्मदीयानि कारणानीत्युक्तेरिह दैवशब्दनिर्दिष्टस्य स्वस्य स्वकीयत्वाभावेनानन्वयादुचितमन्वयमाह — मम सकाशादनुसन्धत्स्वेति। वक्ष्यमाणानां पञ्चानां यथादर्शनं विविक्ते हेतुभावे मनस्समाधानविधानार्थमिदमिति भावः। ष़ड्विंशकमनभ्युपगच्छतां पञ्चविंशकं च कर्तृत्वारोपमात्राधिकरणं प्रतिपादयतां प्रकरणमिदं विरुद्धमित्यभिप्रायेण यौगिकार्थपरत्वमुपपादयति — वैदिकी हीति। शरीरेन्द्रियप्राणजीवात्मोपकरणमिति बहुव्रीहिः। उपकरणं विवक्षितकार्यार्थतयोपात्तः परिकरः।

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्।

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्।।18.14।।
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः।

न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः।।18.15।।

।।18.14,15।।उक्तविवरणतया श्लोकद्वयस्यापुनरुक्तिं परमते विरोधं चाभिप्रेत्याऽऽह — तदिदमाहेति। तत् श्रुतिसिद्धम्? इदं विवक्षितमित्यर्थः। न्याय्यं न्यायादानपेतंधर्मपथ्यर्थन्यायादनपेते [अष्टा.4।4।92] इत्यनुशासनात्। न्यायशब्दश्चात्र अर्थान्तरानौचित्याद्व्युत्पत्त्यनुरोधाच्च शास्त्रमेवानुसन्धत्त,इत्यभिप्रायेणाऽऽह — शास्त्रसिद्ध इति। शास्त्रसिद्धेन सह लौकिकविवक्षायां तदन्यद्वेति वक्तव्यम्। विहिते निर्दिष्टे विपरीतशब्दश्च निषिद्धे स्वरसः कैमुत्येन च लौकिकं लभ्यमित्यभिप्रायेणाऽऽह — प्रतिषिद्धे वेति।सर्वस्मिन् कर्मणीति फलितोक्तिः। यथा शारीरमानसवाचिकेषु कर्मसु शरीरादीनां प्राधान्येन प्रतिनियतता न तथाऽमी पञ्च हेतवः अपितु प्रतिकर्म पञ्चाप्यपेक्षिता इत्यभिप्रायेण शारीरत्वाद्युक्तिः। पञ्चहेतुकेषु सर्वेषु कर्मसु प्राधान्यादेव हि शारीरत्वादिविभागः। यद्यपि जगत्सृष्ट्यादिषु परमात्मैव कारणं? तथापि क्षेत्रज्ञकर्तृकेषु परमात्मना स्वेच्छयैवमुपकरणीकृतान्येतानीत्यभिप्रायेण हेत्वन्तरोक्तिः।

अधिष्ठानं क्षेत्रमाहुः [म.भा.12।307।14] इति करालायाऽऽह वसिष्ठः तदनुसारेणाऽऽह — अधिष्ठानं शरीरमिति। श्रुतिश्च — मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना तदेत(तदस्या)दमृतस्याशरीरस्यात्मनोऽधिष्ठानम् [छां.उ.8।12।1] इति शरीरेऽधिष्ठानशब्दं प्रयुङ्क्ते।कृत्यल्युटो बहुलम् [अष्टा.3।3।113] इति कर्मार्थतया शरीरेऽधिष्ठानशब्दं व्युत्पादयति — अधिष्ठीयत इति। अधिष्ठातुर्जीवस्यापि परमात्माधिष्ठेयत्वात्तद्व्यवच्छेदायजीवात्मनेति विशेषितम्। जीवाधिष्ठेयस्यापि करणादेः पृथङ्निर्देशात्तत्सङ्कोचायाऽऽहमहाभूतसङ्घातरूपमिति।

विश्वकर्तुरिह दैवशब्देन पृथग्ग्रहणात् कर्तृशब्दस्य चात्रशास्त्रफलं प्रयोक्तरि [पू.मी.3।7।18] इति न्यायसूचनार्थत्वाच्चकर्ता जीवात्मेत्युक्तम्। ननु कर्तृत्वं हि ज्ञानचिकीर्षापूर्वकप्रयत्नयोगित्वं ज्ञानमात्रस्यात्मनो ज्ञातृत्वासम्भवात्तन्मूलं कर्तृत्वमपि न स्यादेवेत्यत आह — अस्य जीवात्मनो ज्ञातृत्वं कर्तृत्वं चेति।ज्ञोऽत एव [ब्र.सू.2।3।18] इत्यादिसूत्रग्रहणं? श्रुत्यादेरपि तत एवाकर्षणात्।

कर्मोत्पत्तिहेतूपन्यासात्करणशब्दोऽत्र कर्मेन्द्रियमात्रपर इत्यभिप्रायेणाऽऽहवागिति। यद्यपि ज्ञानेन्द्रियाणां तत्तद्विषयज्ञानोत्पादनद्वारा परम्परया कर्मणि हेतुत्वमस्ति? तथापि वस्तुमात्रेष्वालोचितेषु मनसा सङ्कल्प्यैव कर्मकरणान्मनसश्चान्यव्यापारव्यवधानाभावात् — समनस्कमित्युक्तम्। ज्ञानेन्द्रियस्यापि मनसः कर्मेन्द्रियप्रवृत्तिष्वपि साधारण्यात्कर्मेन्द्रियत्वोक्तिः।शरीरवाङ्मनोभिः इत्यत्रैवोक्तेः मनसः सङ्कल्पादिकर्मापेक्षया वा कर्मेन्द्रियत्ववादः। साङ्ख्यैरप्येवमेवोक्तं — बुद्धीन्द्रियाणि चक्षुश्श्रोत्रघ्राणरसनत्वगाख्यानि (स्पर्शनकानि)। वाक्पाणिपादपायूपस्थान्कर्मेन्द्रियाण्याहुः। उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात् [सां.का.2627] इति।कर्महेतुषूपादीयमानेषुपृथग्विधम् इति विशेषणं तदुपयुक्तव्यापाराख्यविधापरमित्याहकर्मनिष्पत्तौ पृथग्व्यापारमिति। वागादिष्वेकैकस्य वचनादानविहरणोत्सर्गानन्दसङ्कल्पादिक्रियाव्यापारो हि मिथो विलक्षणः। प्रयत्नमूला शरीरादिक्रियैव हि चेष्टेत्युच्यते अतोऽत्र कर्मणस्तदेव कारणमित्यात्माश्रयः स्यात् तत्राऽऽह — चेष्टाशब्देन पञ्चात्मा वायुरिति।अभिधीयत इति शब्देन प्रतिपादनमात्रं विवक्षितम्। अत्र तद्धेतावन्यस्मिन् लक्षयितव्ये वागादीनां करणादिशब्दैरुपात्तत्वात्प्राणसंवादादिषु करणानां शरीरस्य च स्थितिप्रवृत्तेः प्राणायत्तत्वश्रुतेः प्राणप्रवृत्तिनिमित्तचेष्टावाचिना शब्देन प्राणलक्षणाऽत्र युक्तेत्यभिप्रायेणाऽऽह — तद्वृत्तिवाचिनेति। चेष्टाशब्देनेति पूर्वेणान्वयः।

प्राणसंवादादिस्मारणेन प्राणलक्षणाया औचित्यं वृत्तेर्वैविध्यं च विवृणोति — शरीरेन्द्रियेति। पृथक्छब्दविविधशब्दयोः पौनरुक्त्यपरिहारायाऽऽहशरीरेन्द्रियधारकस्य प्राणापानादिभेदभिन्नस्येति। अधिष्ठानकर्तृकरणव्यापारापेक्षया शरीरेन्द्रियवर्गरूपविषयभेदेन च पृथक्त्वं प्राणादिवृत्तिभेदप्रतिनियतोच्छ्वासनिमेषोन्मेषादिव्यापारैर्वैविध्यं चेति भावः। पञ्चात्मशब्दोऽत्र पञ्चवृत्तित्वपरः तथा च सूत्रं — पञ्चवृत्तिर्मनोवद्व्यपदिश्यते [ब्र.सू.2।4।12] इति। पञ्चवृत्तित्वोक्तिश्च नागकूर्मकृकरदेवदत्तधनञ्जयरूपवृत्त्यन्तरपञ्चकस्यापि प्रदर्शिका। दैवं चैवात्र पञ्चमम् इत्यत्र दैवाख्यप्रधाननिर्धारणार्थमत्रेत्यनुवाद इत्याह — अत्र कर्महेतुकलाप इति। परमात्मनः पञ्चमतया परिगणने श्रुत्यर्थपाठादिक्रमासम्भवाद्वाचः क्रमवर्तित्वेन यथासम्भवं परिगणनेऽपिपञ्चमम् इति पूरणे निर्देशे प्रयोजनाभावात् यथा कठवल्ल्याम् — इन्द्रियेभ्यः परा ह्यर्थाः इत्युपक्रम्य महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः [1।3।1011] इतीन्द्रियादिसमस्तप्रवृत्तौ प्रधानहेतुः परमपुरुषो वशीकरणीयकाष्ठात्वेन निर्दिष्टः? तद्वदिहापीत्यभिप्रायेणाऽऽह — परमात्मान्तर्यामीति। ननुदैवं पुराकृतं कर्मदैवं दिष्टं भागधेयम् [अमरः1।4।28] इत्यादिषु प्राचीनकर्मरूपभोग्यपर्यायतया दैवशब्दं पठन्ति तस्य च हेतुत्वमुपपन्नम् अतः कथमत्र परमात्मेत्युच्यते इत्थं न हि प्रागेव विनष्टानां कर्मणां स्वरूपेण हेतुत्वं सम्भवति अतः कर्मजन्यादृष्टरूपपरमपुरुषसङ्कल्पस्यैव हेतुत्वं वक्तव्यं ततो वरं तस्यैव दैवशब्देन प्रतिपादनम् अस्ति च दैवशब्दस्य दैवतपर्यायतयाऽपि लोकवेदयोः प्रसिद्धिः यथा — सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते। वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम् [नृ.पु.18।33] इति। नह्यत्रार्थान्तरं सम्भवति। एवं श्रीमद्रामायणेऽपि — स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम्। अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते [वा.रा.2] इति। तथा सभापर्वणि — श्रूयतां परमं दैवं दुर्विज्ञेयं मयाऽपि च। नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः इति। तथा याज्ञवल्क्यप्रणीते योगशास्त्रे — आर्षं छन्दश्च मन्त्राणां दैवतं ब्राह्मणं तथा इति। उक्त एवार्थः पुनःआर्षं छन्दश्च दैवं च इत्यादिनाऽपि निर्दिश्यते। तत्रैव दैत्यमोहनार्थे प्रजापत्युपदेशानुवादेआत्मानं पूजयेन्नित्यं भूषणाच्छादनादिभिः। स्वदेह एव दैवं स्यादन्यद्दैवं न विद्यते [यो.या.] इति। तथा — दैवाधीनं जगत्सर्वं मन्त्राधीनं च दैवतम्। तन्मन्त्रं ब्राह्मणाधीनं तस्माद्विप्रा हि दैवतम्। [वि.सं.22] इति। अस्मिन्नपि शास्त्रेसाधिभूताधिदेवं माम् [7।30] इति प्रस्ताव्यअधिदैवं किमुच्यते [8।1] इति पृष्टमर्थंपुरुषश्चाधिदैवतम् [8।4] इति प्रतिवक्ति। छान्दोग्ये () च आदित्याख्यदैवतवर्तिनः पुरुषस्याधिदैवतमिति नामोच्यते — तस्योपनिषदहः [बृ.उ.5।5।3] इत्यधिदैवतं तस्योपनिषदहं [बृ.उ.5।5।4] इत्यध्यात्मम्। इति। एवमन्यत्रापि द्रष्टव्यम्। अन्यैरपि चात्र दैवशब्दश्चक्षुराद्यनुग्राहकादित्यादिविषयतया व्याख्यातः। वयं त्वादित्यादीनामप्यनुग्राहकं परमात्मानमिह दैवं ब्रूम इति विशेषः। प्रयुक्तं च स्तोत्रेप्रख्यातदैवपरमार्थविदां मतैश्च [स्तो.र.15] इति। लक्ष्मीकल्याणे च — धर्मे प्रमाणं समयस्तदीयो वेदाश्च तत्त्वं च तदिष्टदैवम् इति। तस्माद्देवशब्दोऽत्र देवतापर्यायः। स चात्र सर्वप्रवर्तकहेतुपरत्वाद्विशेषकाभावाच्च परदेवताविषय उचित इतिपरमात्मान्तर्यामी कर्मनिष्पत्तौ प्रधानहेतुरित्युक्तम्। यथाऽसौ सर्वेषामात्मा? न तथाऽस्य कश्चिदित्यतः परमात्मा। तथा शरीरादेः प्रवृत्तौ जीवः प्रधानहेतुः? तथा तस्याप्यसावित्यभिप्रायेणान्तर्यामित्वोक्तिः। तद्विवक्षामत्र पूर्वापराभ्यां स्थापयति — उक्तं हीत्यादिना। ननुस्वतन्त्रः कर्ता [अष्टा.1।3।5] इति कर्तृलक्षणमनुशिष्टम् इह च कर्तेति क्षेत्रज्ञ एव निर्दिष्टः अतः कारकान्तरप्रयोक्तृत्वं कारकान्तराप्रयोज्यत्वं च तस्याङ्गीकर्तव्यम्। तस्माद्दैवमप्यत्राधिष्ठानादिवत्तदपेक्षया गुणीभूतं वक्तव्यमित्यत्राऽऽह — परमात्मायत्तं चेति। उत्पन्नज्ञानचिकीर्षाप्रयत्नस्य हि पुरुषस्य कारकान्तरप्रयोक्तृत्वादिकम् ज्ञानाद्युत्पत्तिरेव तु परमात्मायत्तेति श्रुतिसिद्धत्वात्? जीवस्य परायत्तकर्तृत्वं स्वातन्त्र्यं चाविरुद्धमिति शारीरके स्थापितमिति भावः।इममभिप्रायमजानन्वायूदकादिवत्परमात्मनः प्रेरकत्वाच्चोदयति — नन्वेवमिति। ज्योतिष्टोमादिषु यदि परमात्मा प्रेरयति? तदा न जीवस्य किञ्चिद्विधेयं न हि प्रबलेन ह्रियमाणस्य गमनविधिः अथ निरुन्धे? तथापि न विधेयं न हि दुर्बलस्य प्रबलेन निरुद्धस्य गमनविधिः एवं यत्र परमात्मा प्रवर्तयति? तत्र निवृत्तेरशक्यत्वान्निषेधो निष्फलः यत्र तु न प्रवर्तयेत्? तत्र तु प्रवृत्तेरेवाशक्यत्वान्न निषेधापेक्षेति भावः। इयमत्र चार्वाकेतरसमस्तसिद्धान्तावलम्बिनी चोद्यकाष्ठा — निग्रहानुग्रहाम्नातपूर्वादृष्टप्रचोदितः। निग्रहानुग्रहाद्यर्ह इतीदं घटते कथम् इति। जीवस्य ज्ञातृत्वकर्तृत्वपारतन्त्र्याभावचोद्यवत् पारतन्त्र्येऽपि विधिनिषेधवैयर्थ्यप्रसङ्गचोद्यमपि पञ्चमवेदतदुपन्षिदोर्द्रष्टा भगवान्बादरायणः स्वयमेव परिजहारेत्याह — इदमपीति। विहितप्रतिषिद्धावैयर्थ्यादिहेतुभ्य एव चेतनेन कृतं प्रयत्नमपेक्ष्य परमात्मा उत्तरोत्तरेषु प्रवर्तयतीति सूत्रार्थः। तत्र सर्वप्रवृत्तिषु परमात्माधीनासु कथं कृतप्रयत्नापेक्षत्वमुच्यते वैयर्थ्यचोद्यस्य चावैयर्थ्यासिद्ध्यर्थतया परिहारे साध्याविशेषश्च स्यादिति शङ्कायां सूत्रस्याभिप्रायिकमर्थमाह — एतदुक्तमिति।अयमभिप्रायः — यत्तावदीश्वरस्य यन्त्रादिवत्त्वसङ्कल्पकल्पितप्रवृक्तिशक्तीनां करणकलेवराणां समर्पणं? यच्च भूतलादिवत्सर्वप्रवृत्तिनिवृत्त्यानुगुण्येन स्वरूपतः सङ्कल्पतश्च सर्वाधारतयाऽवस्थानं? यदपि करणकलेवराद्यधिष्ठानशक्तिप्रदानं? यच्च प्रवृत्त्यालम्बनबाह्यविषयपुरस्करणं? तत्सर्वं जीवस्य कर्तृत्वानुगुणं सर्वप्रवृत्तिनिवृत्तिसाधारणं चेति न तत्र चोद्यावकाशः। एतावतैव सर्वप्रवृत्तिनिवृत्तिसाधारणमुदासीनत्वं भगवत उच्यते। एवं लब्धशक्तेः पुरुषस्य प्रवृत्तिकाले यत्कार्यनिष्पत्त्यर्थमीश्वरस्यानुमन्तृत्वं? तदपि न जीवस्य कर्तृतां वारयति अपितूत्तम्नातीति न ततोऽपि विधिनिषेधवैयर्थ्यम्। नचैकस्मिन्नेव कर्मणि परमात्माख्यकर्त्रन्तरसाहचर्यं जीवस्यानियोज्यताकारणं? प्रत्येकमशक्येषु सम्भूय बहुभिरनुष्ठीयमानेष्वपि लोके विधिनिषेधतत्फलादिदर्शनात्प्रवृत्तिशक्तस्येच्छायामन्यैरनिवार्यत्वेन स्वातन्त्र्यादिसिद्धेः। एवंकार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः [3।5] इत्यादिष्वपि ज्ञानेच्छापुरस्कारेण प्रवर्तनादिच्छाविशेषादेश्च स्ववासनादिविशेषमूलत्वाज्जीवस्य कर्तृत्वं सुस्थितम्। अत एव ह्यत्र हेतुपञ्चके कर्तेति समाख्यासमाधिना कर्तृत्वेनैव जीवो निरूप्यते यत्तु करणकलेवरशक्तिज्ञानवाञ्छादिषु विषमप्रदानमहितप्रवृत्तावनिवारणमनुमननं प्रत्यवायजननं च? तदप्यनादिपूर्वकर्मवैषम्योपाधिकतया नेश्वरस्य वैषम्यनैर्घृण्यापादकम्। प्रवृत्तिवैषम्यस्यादृष्टवैषम्यमूलत्वेऽपि तदेवादृष्टं शास्त्रपुरस्कारेणास्य दृष्टादिकमारभते। तदप्येवमिति विधिनिषेधावकाशलाभः। न हि पूर्वं यज्ञादिकारणमदृष्टं कृतमिति तेनैवेदानीं यज्ञादिकं निष्पद्यते? शास्त्रजन्यबुद्ध्यादिसापेक्षत्वात्तस्य। एवं पापहेतुभूतमप्यदृष्टं स्वबुद्ध्यैव निवृत्तियोग्यतया शासनानर्हदशामापाद्य पापे प्रवर्तयति तदपि तथेति? अन्यथादृष्टमूलत्वाद्धिताहितप्रवृत्त्योर्न शास्त्रापेक्षेति वादिनः पूर्वादृष्टेऽपि तथा प्रसङ्गात्स्ववचनविरोधः। अथादृष्टमूलत्वे शास्त्रवैयर्थ्यप्रसङ्गः सार्थकं च शास्त्रं परैरभ्युपगम्यत इत्यदृष्टमूलत्वमेव नोपपद्येतेति मन्यसे तदपि न? लौकिकविधिनिषेधयोरपि तथा प्रसङ्गात्। तत्रापि हि सामग्रीवैचित्र्यमूलत्वे प्रवृत्तिनिवृत्त्यादिवैचित्र्यस्य किंगामानय इत्यादिनियोगेन अथ सोऽपि नियोगः स्वसामग्र्योपनीतः प्रवृत्तिनिवृत्तिसामग्रीमध्यमध्यास्त इति पश्यसि? एवं वैदिकनियोगोऽपीति सम्पश्येथाः। तर्हि लौकिकमपि नियोगं परित्यजाम इति चेत् — हन्त परस्परसंव्यवहारव्युत्त्पत्त्याद्यसम्भवाद्विलीनं लोकायतेनापीति मूकीभव। एवं सामान्यतः सर्वेषु अदृष्टवैषम्यमूलेष्वपि कर्मसु शास्त्रे सावकाशे तदेव शास्त्रमीश्वरबुद्धिविशेषं चेददृष्टमुपदिशति? तथाविधोऽयमीश्वरः प्रमाणबलादगवत इति न तत्र परिचोदनावकाशः। न चैष दोषः — यथोक्तमाचार्यैर्वादिहंसाम्बुवाहैः — वैषम्ये सति कर्मणामविषमः किं नाम कुर्यात्कृती किंवोदारतया ददीत वरदो वाञ्छन्ति चेद्दुर्गतिम् इति।तदयं चार्वाकेतरसमस्तसिद्धान्तनिष्ठानां साधारणपरिहारसारः — तत्तदिष्टादृष्टमूलशास्त्रवश्यदशान्वयात्। पुनस्तथातथा दृष्टसम्पत्तिरुपपद्यते।।पुमर्थसाधनत्वेन प्रतीतेः स्वेच्छया पुमान्। प्रवर्तेतेति तादर्थ्यात्सावकाशाऽत्र चोदना।। इति। अत्र करणकलेवरप्रदानादिसाधारणोपकारसापेक्षतया जीवकर्तृत्वस्य परापेक्षत्वंसन्नित्यन्तेनोक्तम्।कर्मनिष्पत्तये इत्यादिना तु प्रवृत्तिविशेषे जीवस्य स्वातन्त्र्यं दर्शितम्। तत्रापि परस्य किञ्चित्कारःतदन्तरवस्थित इत्यादिनोक्तः।तं — कृतप्रयत्नमित्यर्थः।

तत्रैवं सति कर्तारमात्मानं केवलं तु यः।

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः।।18.16।।

 ।।18.16।।यद्येवं पञ्चानां हेतुत्वेऽप्यात्मैव कर्ता? तर्ह्यकर्तृत्वानुसन्धानं भ्रान्तिरूपमेव स्यात् विधिनिषेधादिसंरक्षणाय कर्तृत्वं तावद्दुस्त्यजम् न च सहकारिनिरपेक्षकर्तृत्वं प्रतिषिध्यत इति वाच्यं तस्य प्रसङ्गाभावेन प्रतिषेधायोगात्। न हि कश्चिद्देहेन्द्रियदण्डचक्रादिनिरपेक्षः करोमीति मन्यत इति शङ्कायां नियन्त्रन्तरनिरपेक्षस्वाभाविककर्तृत्वभ्रमस्य देहाद्यात्मभ्रमवतां चानेकाधीने कर्मण्यनन्याधीनत्वाभिमानस्य निवारणमकर्तृत्वानुसन्धानमित्युच्यतेतत्रैवम् इति श्लोकेन।परमात्मानुमतिपूर्वक इति सर्वनिर्वाहकप्रधानहेतुग्रहः।आत्मानमिति स्वात्मानमित्यर्थः। अत एव च कर्तृशब्दोऽत्र न पूर्ववद्धर्मिसमर्पकः इतरथा कर्मप्रारम्भहेतुमित्यध्याहारप्रसङ्गाच्चेत्यभिप्रायेणाऽऽह — केवलमात्मानमेव कर्तारमिति। तुशब्दोऽत्रावधारणार्थो व्याख्यातः। शङ्कानिवर्तकत्वेऽपि वा केवलशब्दोक्तव्यक्त्यर्थ एवकारः।नन्वत्र केवलशब्देन स्वाभाविककर्तृत्वानुवादमात्रं स्यादिति चेत् न चतुर्भिः सम्भूयकरणे प्रस्तुते तदवभिज्ञनिन्दायां तद्व्यवच्छेदार्थत्वस्वारस्यात्तस्यापेक्षितत्वाच्च। तत्र यत्परैरुक्तम् — आत्मनोऽविक्रियस्वभावत्वेनाधिष्ठानादिभिः संहतत्वानुपपत्तेः विक्रियावतो ह्यन्यैः संहननं? संहत्य वा कर्तृत्वं स्यात् नत्वविक्रियस्यात्मनः केनचित्संहननमस्तीति न सम्भूयकारित्वमुपपद्यते इति तदसत् स्वरूपोत्पत्त्यादिविकाररहितस्यात्मनःदारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि। प्रधानेऽवस्थितो व्यापी चेतनात्मात्मवेदनः इत्यादिभिः शास्त्रैर्द्रव्यान्तरेण संहननस्य ज्ञानचिकीर्षाद्याधारतया सहकारिभिः सम्भूयकर्तृत्वस्य च स्थापनात्। अन्यथाऽत्रापिपञ्चैते तस्य हेतवः [18।15] इति कर्तुरपि हेतुत्वेन परिगणनस्य भङ्गप्रसङ्गादिति।स दुर्मतिः इत्येतदुक्तस्यैवानुवादः अन्यथा पौनरुक्त्यादित्यभिप्रायेणाऽऽह — विपरीतमतिरिति। अकृतबुद्धिरिहाध्यात्मशास्त्रैरनिष्पादितबुद्धिः तदाह — अनिष्पन्नेति।यः पश्यति? न स पश्यति इति व्याघातात् सदपि दर्शनमयथाभावेनासङ्कल्पतया निन्द्यत इत्यभिप्रायेणाऽऽह — न यथावस्थितमिति। बाह्येषु यथावस्थितिदर्शनसम्भवात्प्रहृतविषये नियच्छतिकर्तारमिति। स्वभावार्थशास्त्रप्राप्तव्यतिरिक्तेषु न प्रवर्तेत अवश्यकर्तव्येषु स्वभावादिप्राप्तेष्वपि स्वस्मिन्नधिष्ठानादिषु च यथांशं कर्मबन्धनमस्य प्रवर्तेतेति हृदयम्।

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते।

हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते।।18.17।।

 ।।18.17।।दुर्मतिप्रसङ्गे कस्तर्हि सुमतिः इति बुभुत्सायामेवंविधाकर्तृत्वानुसन्धानस्य प्रयोजनमुच्यते — यस्येति श्लोकेन। भावोऽत्राभिप्रायः अर्थान्तरानन्वयात्। स च प्रकरणात् समभिव्याहाराच्च विशेष्यते — कर्तृत्वविषयो मनोवृत्तिविशेष इति।अहंकृतः इत्यत्र कर्त्रर्थत्वानन्वयात्कर्मार्थत्वेऽपि मनोवृत्तिविशेषस्याहमभिमानविषयत्वायोगात्तन्मूलत्वमात्रमिह विवक्षितमित्याहअहमभिमानकृत इति। अत्राहंशब्देनाहमभिमानलक्षणा वा। यद्वाअहंकृतः इतिभुक्ता ब्राह्मणाः इतिवत्कर्तरि क्तः अहमभिमानकृत इति फलितोक्तिः। ननु आत्मनोऽहमर्थत्वात्कथमहमभिमानवर्जनम् तत्राऽऽह — अहं करोमीति। सावधारणमिदं योज्यम्? अन्यथा साक्षात्कर्तृत्वविरोधात्। एवं कर्तृत्वत्यागे कण्ठोक्ते परिशेषात्तेनार्थसिद्धः फलसङ्गत्यागोबुद्धिर्यस्य न लिप्यते इत्यनूद्यत इत्याहअस्मिन्निति। नाविरतो दुश्चरितात् [कठो.1।2।23] इत्यादिप्रतिषिद्धवैधेतरहननव्युदासाय शास्त्रोपक्रमादिसिद्धमनुकृष्याऽऽहयुद्धे हत्वापीति। न हन्ति — हननाभिमानजन्यादृष्टवत्तया तत्फलसम्बन्धयोग्यहन्त्रन्तरविलक्षण इत्यर्थः। अन्यथाहत्वाऽपि न हन्ति इति व्याघातात्।,यत्तु परैरत्रोक्तम् — आत्मनो हननकर्तृत्वाभावात्तत्कार्यणाधर्मफलेन न सम्बध्यत इत्युच्यते इति तदसत्?यस्य नाहंकृतो भावः इति विशेषणवैयर्थ्यात् अविदुषोऽन्यस्यापि तन्मते कर्तृत्वाभावात्तस्मिन्नपि च कर्मफललेपस्य मिथ्यात्वाभ्युपगमात्।कथं भीष्मम् [2।4] इत्यादेः प्रश्नस्य केमुत्येन प्रतिक्षेपार्थम्इमाँल्लोकान् इति सामान्येनोच्यत इत्यभिप्रायेणाऽऽह — न केवलमिति। अत्रन हन्ति इत्यस्यन निबध्यते इति व्याख्यानमिति योजना समीचीने गत्यन्तरे सम्भवति न युक्ता। अतःयस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते इत्यनयोर्हेतुसाध्यभावेनावस्थितयोः फलमपि हेतुसाध्यभावेनन हन्ति न निबध्यते इत्यनूद्यत इत्याह — तत इति।न निबध्यते इत्यनेन कर्मसाध्यमोक्षविरोधिफलानन्वयो विवक्षित इत्यभिप्रायेणाऽऽह — तत्फलं नानुभवतीति। एतेन क्रियाकाले नाहङ्कारः क्रियोत्तरकाले मया कृतमिति प्रतिसन्धानालेपः?न हन्ति न निबध्यते इत्युभाभ्यामैहिकामुष्मिकप्रत्यवायप्रतिषेधः इति योजनान्तरं निरस्तम्।

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना।

करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः।।18.18।।

 ।।18.18।।एवं सात्त्विकत्यागो विशोधितः अथ तदर्थंनित्यसत्त्वस्थः [2।45] इत्यादिभिर्बहुधा प्राक्प्रसक्तसत्त्वोपादेयता निरवशेषं विशोध्या तत्र मध्ये कर्मचोदनाप्रकारादिकथनं कथं सङ्गच्छते इत्यत्राऽऽह — सर्वमिति। कर्मचोदनाप्रकारोक्तिस्तदनुबन्धिषु ज्ञानादिषु गुणतस्त्रैविध्यं प्रपञ्चयितुमित्यर्थः।कर्तव्यकर्मविषयमित्यादि ज्ञानज्ञेयज्ञातृशब्दाः सामान्यविषया अपि कर्मचोदनात्रैविध्यार्थत्वाद्विशेषपरा इति भावः। एतेन ज्ञानशब्दस्यात्र शास्त्रपरत्वव्याख्या निरस्ता। प्रवर्तकवचनरूपचोदनास्वरूपविलक्षणानां ज्ञानादीनां कथं चोदनाभेदत्वोक्तिः इत्यत्राऽऽह — बोधबोद्धव्यबोद्धृयुक्त इति। ज्ञानादीनां चोदनानुबन्धित्वमात्रेण विधाशब्दोक्तं प्रकारत्वमित्यर्थः। एवंत्रिविधः कर्मसङ्ग्रहः इत्यत्र हेतुद्वयसहितस्वरूपेण त्रैविध्यम्।अनुक्तविषयत्रैविध्यान्तरोक्तिशङ्काव्युदासाय त्रिष्वन्यतमं विविच्यत इत्याह — तत्रेति। सङ्ग्रहशब्दस्य कर्मणि व्युत्पत्तिमाह — संगृह्यत इति। कर्मैव सङ्ग्रह इति कर्मधारयः? कर्मणो वा सङ्ग्रहः। व्रीहिभिर्यजेत [आप.श्रो.6।31।24]दध्ना जुहोति [आप.श्रौ.6।25।10] इत्यादिप्रतिपादितं क्रियाकरणमिह करणशब्देनोच्यते। फलापेक्षया तु कर्मण एव करणत्वादित्यभिप्रायेणाऽऽहसाधनभूतं द्रव्यादिकमिति। आदिशब्देन जात्यादिग्रहणम्। नन्वत्र ज्ञायतेऽनेनेति ज्ञानं? तदेव करणमित्युच्यते ज्ञानादित्रयमेव हि करणकर्मकर्तृशब्दैर्विवृतमिति युक्तम् अत एव हिज्ञानं कर्म च कर्ता च इत्यनन्तरानुवादसङ्गतिरिति चेत् — मैवं? शब्दस्वारस्याभावात्? उक्तमात्रस्य च शब्दान्तरेण पुनरभिधाने प्रयोजनाभावात् उक्तावान्तरविभजनस्य तु विवेकोपयुक्तत्वादिति भावः। कर्तृकरणसमभिव्याहारात्कर्मशब्दोऽपि कारकविशेषविषय इति शङ्कामपाकरोतिकर्म यागादिकमिति। क्रियास्वरूपं हि गुणतस्त्रिविधं विभजिष्यत इति भावः। नियोज्यावस्थतयापरिज्ञाता इति निर्दिष्ट एवानुष्ठात्रवस्थतया पुनः कर्मशेषतया तत्प्रकारत्वेनकर्ता इति व्यपदिश्यत इत्याह — कर्ता अनुष्ठातेति।

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः।

प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि।।18.19।।

 ।।18.19।।ज्ञानं ज्ञेयं परिज्ञाता [18।18] इत्युक्ता एव पदार्थाःज्ञानं कर्म च कर्ता च इत्यनूद्यन्ते। ज्ञातृत्वकर्तृत्वयोरवस्थाभेदमात्रत्वात् ज्ञानोक्त्यैव ज्ञातुरपि सिद्धेरिहानुक्तिः ज्ञेयशब्दस्य च कर्मविषयत्वात्। करणं तु कर्मानुप्रविष्टत्वान्न पृथग्विभजिष्यते। गुणसङ्ख्यानशब्देन साङ्ख्यराद्धान्तविवक्षायां प्रमाणाभावात्प्रकृते चानुपयोगात् गुणस्वरूपगणने च ज्ञानादेरनुप्रवेशाभावात्गुणकार्यगणन इत्युक्तम्।यथावच्छृणु यथावछ्रवणयोग्यमवधानं कुर्वित्यर्थः।यथावत् इति विवक्षितं प्रकारमाहगुणतो भिन्नानीति।

सर्वभूतेषु येनैकं भावमव्ययमीक्षते।

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्।।18.20।।

 ।।18.20।।सात्त्विकज्ञानादिकथनं कर्तृत्वे गुणपारतन्त्र्यज्ञापनार्थम् सर्वभूतशब्दभिप्रेतमनात्मविद्भिरनुसंहितं बाह्यवैचित्र्यमाह — ब्राह्मणेत्यादिना। ज्ञानशब्दस्यात्र प्रकृतकर्मचोदनानुबन्धिकर्मानुष्ठानदशाभाविज्ञापनपरत्वात्कर्माधिकारिष्विति भूतानि विशेषितानि। भावशब्दोऽत्र पदार्थपर्यायः।एकमिति जात्यैक्यविवक्षयोच्यते आत्मबहुत्वस्य प्रागेव समर्थितत्वात्? अद्वैतदर्शनं सात्त्विकज्ञानमिति परोक्तस्य निर्मूलत्वात्?नानाभावान् [18।21] इति च अनन्तरं बहुत्वोक्तेः? साम्यानुसन्धानप्रपञ्चनस्यात्र प्रत्यभिज्ञानात्? कर्तेति प्रकृतप्रत्यगात्मविषयत्वौचित्येन परमात्मपरत्वायोगाच्चेत्यभिप्रायेणाऽऽहआत्माख्यमिति।सितदीर्घेत्यादिना गवामनेकवर्णानां क्षीरस्य त्वेक(क्षीरस्याप्येक)वर्णता [अ.बिन्दू.19] इत्यादिश्रुतिसूचनम्। अत्र सर्वभूतशब्देन ब्राह्मणत्वादिजातिग्रहणाद्गुणाद्यवान्तरविभागपरोऽविभक्तशब्द इति च भावः। केनाकारेणैकत्वम् इत्यत्राऽऽहज्ञानाकार इति। प्रतिषिद्ध्यमानस्य व्ययस्य प्रसञ्जकमाहव्ययस्वभावेष्वपीति। प्रागुक्तं फलादिसङ्गरूपविकृतिराहित्यमप्यविकृतत्वपरेणाव्ययशब्देन संगृहीतमित्याहफलादिसङ्गानर्हं चेति। सङ्गोऽत्र सम्बन्धः अनुभव इत्यर्थः। इच्छापरत्वेऽपि भोगोऽर्थसिद्धः। कर्मचोदनानुबन्धिज्ञानफलत्वात्कर्माधिकारवेलायामित्युक्तम्।मयेदं कर्तव्यं इत्यनुसन्धानदशायामित्यर्थः। येन ज्ञानेनेक्षते विषयीकरोतीत्यर्थः।

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्।

वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्।।18.21।।

।।18.21।।पृथक्त्वेन च पृथग्विधान् पृथक्त्वेन विशेषितानित्यर्थः। पृथक्त्वादिशब्दानां पुनरुक्तिपरिहारायाऽऽहब्राह्मणाद्याकारपृथक्त्वेनेतिसर्वेषु भूतेषु इति विशिष्टानुवादः तत्रभावान् इति विशेष्यनिष्कर्ष इत्यभिप्रायेणाऽऽहआत्माख्यानपि भावानिति। जातिभेदविशेष्यभेदगुणादिभेदपरतया पृथक्त्वनानात्वपृथग्विधशब्दानामपुनरुक्तिः। उक्तव्यतिरेकपरतया फलादिसंयोगयोग्यत्वोक्तिः।ज्ञानं वेत्तीति कर्तृत्वोपचारः।

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्।

अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्।।18.22।।

 ।।18.22।।कार्यशब्दोऽत्र नोत्पत्तिमात्रपरः? स्वकर्तव्यविषयत्वात् एकशब्दश्च सङ्गानर्हत्वाय फलद्वारा परिमितपरः तस्यापि हेतुः प्रागुक्तपरिमितशक्तीनामाराधनत्वमित्यभिप्रायेणाऽऽहएकस्मिन् कर्तव्ये कर्मणि प्रेतभूतगणाद्याराधनरूपेऽत्यल्पफल इति। कर्मस्वरूपकार्यमात्रस्यापि सङ्गयोग्यत्वाभावः तत्रापि फलविवक्षायामाहकृत्स्नफलवदिति कृत्स्नफलहेतुभूतकर्मणीवेत्यर्थः। कार्यभूतस्य ज्ञानस्य सङ्गस्य वा कारणमात्रनिषेधायोगात् प्रेक्षावत्सङ्गहेतुरिह प्रतिषिध्यत इत्याहवस्तुत इति।अहैतुकम् इति पाठेऽपि हैतुकादन्यत्वविवक्षयाऽयमेवार्थो ग्राह्यः।पूर्ववदेवेति? राजसवदित्यर्थः।एकस्मिन्कार्ये सक्तमहेतुकम् इत्यनेनैवाल्पफलत्वसिद्धेः खद्योतप्रकाशवत्स्वरूपत एवाल्पत्वं स्वारसिकमल्पशब्देन विवक्षितमित्यपुनरुक्तिरित्यभिप्रायेणअत्यल्पफलं च प्रेतभूताद्याराधनरूपविषयत्वादल्पं चेत्युक्तम्।सत्त्वात्सञ्जायते ज्ञानम् [14।17] इति पूर्वोक्तं तु राजसतामसज्ञानयोरज्ञानत्वविवक्षया। उक्तं हिएतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा [13।11] इति।

नियतं सङ्गरहितमरागद्वेषतः कृतम्।

अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते।।18.23।।

 ।।18.23।।अधिकार्यंशेनेति — अविभक्तत्वविभक्तत्वादिविशेषितकर्माधिकारिस्वरूपानुसन्धानेनेत्यर्थः। विशिष्टे कर्मणि विशेषणतयाऽधिकारिणोंऽशत्वोक्तिः। यद्यपि सङ्गशब्दो विभज्य फलसङ्गकर्तृत्वत्यागप्रतिपादने विशेषविषयः? तथापिसङ्गरहितम् इत्यत्र सङ्कोचकाभावादपेक्षितत्वाच्च कण्ठोक्तफलप्रेप्सातिरिक्तसामान्यविषय इत्याहकर्तृत्वादिसङ्गरहितमिति। आदिशब्देन ममता गृह्यते।मुक्तसङ्गोऽनहंवादी [18।26] इत्यादिकथितः कर्तृधर्म इह तद्द्वारा कर्मविशेषणत्वेन योजितः। ब्रह्मणि रागात्संसारद्वेषाच्च क्रियमाणस्य कर्मणः कथमरागद्वेषतः कृतत्वं इत्यत्राऽऽह — कीर्तिरागादकीर्तिद्वेषाच्चेति। सङ्गशब्दपुनरुक्तिश्चानेन परिहृता। अकारस्यासमस्तत्वविवक्षया वा फलितत्वोक्तिविवक्षया वान कृतमित्युक्तम्।तपो दम्भेन चैव यत् [17।18] इत्याद्युक्तप्रतिषेधार्थमिदमित्यभिप्रायेणाऽऽह — अदम्भेनेति।कार्यमित्येवेति सात्त्विकत्यागस्मारणम्।

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः।

क्रियते बहुलायासं तद्राजसमुदाहृतम्।।18.24।।

।।18.24।।कामेप्सुना इत्यनेनअफलप्रेप्सुना [18।23] इत्युक्तविपरीतोक्तं व्यनक्ति — फलप्रेप्सुनेति। सम्बन्धसामान्यषष्ठ्याऽत्र समासः। अत्र विकल्पाद्यसम्भवात्वाशब्दश्चार्थ इत्युक्तम्। प्रवृत्तिप्रधानरजोमूलतयाऽनुपयुक्तप्रयासमिश्रणाद्बहुलायासत्वम्। तत्र च सर्वत्र स्वयमेव हेतुरित्यभिमानः साहङ्कारशब्देन विवक्षितः। तत एव बहुलायासपदं च सप्रयोजनमित्यभिप्रायेणाऽऽहबहुलायासमिदं कर्म मयैवेति।

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्।

मोहादारभ्यते कर्म यत्तत्तामसमुच्यते।।18.25।।

।।18.25।।क्षयशब्देन तादात्विकार्थव्ययदोषविवक्षणादुपसर्गशक्त्या चानुबन्धशब्द एतत्सम्बन्धितया पश्चाद्भाविदुःखपर इत्याहकृते कर्मणीति। हिंसा स्वविषया परविषया चेत्यभिप्रायेणतत्र प्राणिपीडेति। सामान्योक्तिः। दैवप्रतिसम्बन्धिनः पौरुषस्य पुरुषसम्बन्धिदृष्टसामग्रीसमवधानरूपतामाहआत्मनः कर्मसमापनसामर्थ्यमिति। भविष्यतोऽनुबन्धादेः साक्षात्कारासम्भवाद्युक्तिभिरागमैश्च अपरामर्शोऽत्रानवेक्षणमित्याहअविमृश्येति। अनुबन्धाद्यज्ञानस्य प्रागुक्तत्वात्प्रक्रान्ताकर्तृत्वज्ञानप्रत्यनीकोऽत्र मोहशब्दार्थ इत्याह — परमपुरुषेति।

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।

सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते।।18.26।।

 ।।18.26।।अनहंवादी इत्यनेन कर्तृत्वाभिमानरूपसङ्गस्य पृथङ्निषेधात्मुक्तसङ्गः इत्यत्र सङ्गशब्दः सङ्कुचितविषय इत्याह — फलसङ्गरहित इति। तत एव कर्मणि स्वकीयतानुसन्धानरूपसङ्गोऽपि प्रतिषिद्धः। अहंवदनशीलोऽहंवादी? तदन्योऽनहंवादी? तत्र मनःपूर्वा हि वागित्यभिप्रायेणाऽऽहकर्तृत्वाभिमानरहित इति। कर्तृत्वस्य विविच्यमानत्वात्तदुपयुक्ता धृतिरिह विवक्षितेत्याहआरब्ध इति। प्रयत्नरूपस्योत्साहस्य कर्तृशब्देनैव सिद्धत्वाद्राजसादिकर्तृसाधारण्याच्च विशेषविवक्षामाह — उद्युक्तचेतस्त्वमिति।मुक्तसङ्गः इत्यनेन स्वर्गादिफलसङ्गनिवृत्तेरुक्तत्वात्सिद्ध्यसिद्ध्योर्निर्विकारः इत्यस्य दृष्टफलविषयतामाहयुद्धादाविति। मुक्तसङ्गत्वफलं वा निर्विकारत्वम्।

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः।

हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः।।18.27।।

 ।।18.27।।कर्मफलप्रेप्सुः इत्यनेनानुश्रविकस्वर्गादिफलार्थी त्वस्याभिधानात्रागी इत्यानुषङ्गिकदृष्टफलसङ्गविवक्षामाहयशोर्थीति। अपात्रव्ययादिराहित्यस्य गुणत्वात्कर्मापेक्षितेति विशेषितम्।काममात्मानं भार्यां पुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम् [आ.ध.2।4।9।11] इत्याद्युक्तविपरीतस्वभावताऽत्र हिंसात्मकशब्देन विवक्षितेत्याहपरान्पीडयित्वेति। कर्तृत्वोपयोगायतैः कर्म कुर्वाण इति फलितोक्तिः। एवंकर्मापेक्षितशुद्धिरहित इत्यपि न हि दर्शनस्पर्शनादियोग्यशुचित्वमात्रेण कर्मण्यतानिष्पत्तिरिति भावः।

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः।

विषादी दीर्घसूत्री च कर्ता तामस उच्यते।।18.28।।

।।18.28।।अवधानाभावादेःप्राकृतः इत्यादिना सिद्धेरयुक्तशब्देन अनर्हत्वं विवक्षितमित्याहशास्त्रीयेति। अशुचिशब्दनिर्दिष्टाद्राजसस्यायोग्यत्वादधिकमयोग्यत्वमिह विवक्षितमित्याहविकर्मस्थ इति। एवं हि तस्यायोग्यतातिशयः यथा शैवान्पाशुपतान् स्पृष्ट्वा लोकायतिकनास्तिकान्। विकर्मस्थान् द्विजाञ्छूद्रान् सचेलो जलमाविशेत् इति शास्त्राध्ययनतदर्थोपदेशादिजनितसात्त्विककर्मानुष्ठानानुगुणविशेषराहित्यं प्राकृतशब्देन विवक्षितमित्याहअनधिगतविद्य इति। पूज्येष्वपि त्वरितावश्यकर्तव्ययथोचितप्रणामाद्यारम्भविपरीतं स्तिमितस्वभावत्वमिह स्तब्धशब्दार्थ इत्याहअनारम्भशील इति। गूढविप्रियकृत्त्वं शठत्वं तच्च प्रकरणाच्छास्त्रोदिततामसकर्मद्वारेत्याह — अभिचारादिकर्मरुचिरिति। पुनरुक्तिपरिहाराय मायाप्रतारणादिलौकिककर्मद्वारा नैकृतिकत्वमाह — वञ्चनपर इति।श्वः कार्यमद्य कुर्वीत [म.भा.12।321।73] इति न्यायाच्छास्त्रीयेषु त्वरितेन भवितव्यम् तद्वैपरीत्यमिहालस्यं? तत्रानारम्भस्य स्तब्धशब्देनोक्तत्वात्आरब्धेष्विति विशेषितम्।विषादी इत्यत्र धातोरेवावसादार्थत्वादुपसर्गेण तत्प्रकर्षः? प्रत्ययेन ताच्छील्यं च विवक्षितमित्याहअतिमात्रावसादशील इति। अवसादश्च लक्षितो वाक्यकारेणदेशकालवैगुण्याच्छोकवस्त्वाद्यनुस्मृतेश्च तज्जं दैन्यमभास्वरत्वं मनसोऽवसादः इति। प्रारब्धकर्मणां शीघ्रमसमापनरूपमन्दप्रवृत्तित्वादेरलसादिशब्देन निर्दिष्टत्वादवयवशक्तेः शाठ्यादिसमभिव्याहारस्य चानुगुणदीर्घसूत्रत्वं विशिनष्टिअभिचारादिकर्म कुर्वन्परेषु दीर्घकालवर्त्यनर्थपर्यालोचनशील इति।सूत्र सूत्रेण(वेष्टने) [धा.पा.10375] इति धातुः? सूत्रणं चिन्तनं ताच्छील्यार्थप्रत्ययः दीर्घसूत्रणाद्दीर्घसूत्री। निरपराधशकुन्तादिग्रहणार्थदीर्घसूत्रकर्तृसमानतया दीर्घसूत्रीत्यौपचारिकग्रहणं तु मन्दमिति भावः।

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं श्रृणु।

प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय।।18.29।।

।।18.29।।ज्ञानत्रैविध्यमुक्तम् पुनर्बुद्धित्रैविध्यं वक्ष्यते तत्र पर्यायतया पुनरुक्तिशङ्कां परिहर्तुमुक्तस्य विशेषविषयतामनुवदतिएवं कर्तव्यकर्मविषयज्ञान इति। प्रकृतोपयुक्तमनन्तरं प्रस्तूयत इति सङ्गत्यभिप्रायेणाऽऽहइदानीमिति। ज्ञानत्रैविध्यं पूर्वोक्तं? पुनरिह त्रैविध्यकथनं किमर्थम् इति शङ्कायामनुष्ठानदशाभाव्यनुसन्धानाद्विलक्षणस्तद्धेतुतया ततः पूर्वभाविशास्त्रादिजन्योऽध्यवसाय इह बुद्धिशब्दार्थ इत्याहसर्वतत्त्वसर्वपुरुषार्थनिश्चयरूपाया इति। एतेनज्ञानं बुद्धेर्वृत्तिः? बुद्धिस्तु वृत्तिमती इति परोक्तं (शं.) निरस्तम्। तदेव व्यनक्ति — बुद्धिर्विवेकपूर्वकं निश्चयरूपं ज्ञानमिति।विवेकपूर्वं पक्षान्तरप्रतिक्षेपपर्यन्तविचारपूर्वमित्यर्थः। प्रस्तुतत्रिविधानुष्ठानोपयुक्तप्रकारेण त्रिविधाया धृतेः साधारणं रूपमाह — आरब्धाया इति। अयमपि सङ्कल्पदार्ढ्यादिरूपो बुद्धिस्वभावविशेष एव। गुणतो विभक्ते वाच्ये? वचने चासङ्कीर्णस्वरूपेऽन्वयात्ित्रविधपृथक्त्वशब्दयोरपुनरुक्तिमाहत्रिविधं भेदं पृथक्त्वेन प्रोच्यमानमिति। एवं बुद्ध्यादिकार्यकात्स्न्र्यपरस्यअशेषेण इत्यस्य श्रवणेऽन्वयादपुनरुक्तिःयथावच्छृण्विति दर्शिता। सावधानं संशयविपर्ययरहितं श्रृण्वित्यर्थः। दिग्विजये मानुषदैवधनवच्छमादिधनं च जेतव्यमिति सम्बुद्धेर्भावः।

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।

बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी।।18.30।।

 ।।18.30।।कार्याकार्यशब्दाभ्यां पुनरुक्तिशङ्कापरिहारायप्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत्। निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् [म.भा.12।217।23] इत्याद्यनुसारेण प्रवृत्तिनिवृत्तिशब्दयोः प्रधानकर्मविषयत्वमाह — अभ्युदयसाधनभूत इत्यादिना। राजसतामसबुद्ध्योःअयथावत् इत्यादिविशेषणादिहार्थतस्तन्निवृत्तेर्विवक्षितत्वज्ञापनाय यथावस्थितत्वोक्तिः। कार्याकार्यशब्दयोरिह प्रकृतप्रधानकर्मेतिकर्तव्यताभूतदृष्टादृष्टव्यापारपरत्वमाह — सर्ववर्णानामित्यादिना। तत्र सूक्ष्मधीवेद्यत्वायदेशकालावस्थाविशेषेष्विति विशेषितम्। स्मर्यते हि — शरीरं बलमायुश्च वयः कालं च कर्म च। समीक्ष्य धर्मविद्बुद्ध्या प्रायश्चित्तानि निर्दिशेत् इतिदेशं कालं तथाऽऽत्मानं इत्यादि च। अत्र शक्याशक्ययोरपि कार्याकार्यशब्दाभ्यामेव ग्रहणम्। भयाभययोः स्वरूपज्ञानस्य सर्वसाधारणत्वादिह तन्निमित्तज्ञानं विवक्षितम् तच्च प्राकरणिकविशेषविषयमाह — शास्त्रान्निवृत्तिर्भयस्थानमिति। बिभेत्यस्मादिति भयम् सर्वप्रशासितुरीश्वरादेव हि तत्त्वविदां भयमभयं च नहि तत्प्रेरणमन्तरेण केनचिद्बाधितुमबाधितुं वा शक्यम्। ततस्तदाज्ञानुवृत्त्यतिवृत्ती एव भयाभयनिमित्तमिति भावः। बन्धमोक्षसद्भावज्ञानस्यापि साधारण्याद्बन्धस्य मिथ्यात्वादिवादो मोक्षस्य पाषाणवद्भावादिमतं च याथात्म्यशब्देन व्युदस्तम्।वेत्तीति कर्तृत्वोपचारः स्वाच्छन्द्येन विषयीकरोतीत्यर्थः।,

यया धर्ममधर्मं च कार्यं चाकार्यमेव च।

अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी।।18.31।।

 ।।18.31।।धृतिसाधनं धर्म इति व्युत्पत्त्या धर्मशब्दस्य प्रवृत्तिनिवृत्तिसाधारण्यादुभयप्रसङ्गाच्च — पूर्वोक्तं,द्विविधमित्युक्तम्।

अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता।

सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी।।18.32।।

 ।।18.32।।तामसी इत्यनेनैव तमोमूलत्वसिद्धेःतमसाऽऽवृता इत्यनेन तादात्विकतमोनिरुद्धप्रसरत्वं विवक्षितमित्याह — तमसाऽऽवृता सतीति।सर्वार्थान् इत्यनेन सिद्धसाध्यरूपसमस्तानुक्तसङ्ग्रहमाह — सन्तं चार्थमसन्तमसन्तमित्यादिना। एतेन बाह्यानां कुदृष्टीनां च मतं तामसमिति दर्शितम्। उक्तं च मनुना — या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः [मनुः12।95] इति। अत्र राजसतामसबुद्ध्योरियान्विशेषः — असमग्रवेदनमन्यथावेदनं च राजस्यांयथावन्न जानाति इति व्याख्यानात् तामस्यां तु सर्वं विपरीतं मन्यते?सर्वार्थान् इत्युक्तेरित्येके। अन्ये त्वाहुः — प्रकारान्यथात्वं प्रकार्यन्यथात्वं च विशेषः। यद्यपि उभयत्राधिष्ठानभूते धर्मिण्यतद्धर्म एवाध्यास्यते तथापि स्वरूपनिरूपकधर्मवैपरीत्ये तामसता यथा शुक्तिरजतभ्रमे निरूपितस्वरूपविशेषकधर्मवैपरीत्ये तु राजसता यथा पीतशङ्खभ्रम इति।

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः।

योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी।।18.33।।

।।18.33।।राजसधृतौ त्रिवर्गोक्तेरपवर्गसाधनभूतो योग इह विवक्षितः? स चानन्योपासनमेव प्रागनुशिष्टमित्याह — योगो मोक्षसाधनभूतं भगवदुपासनमिति। फलान्तरसङ्गोऽत्र व्यभिचारः योगस्य तन्निरोधकरणं स्वरूपतः फलतश्च महानन्दरूपत्वेनेत्याह — योगेन प्रयोजनभूतेनेति। योगाव्यभिचारोक्तिसामर्थ्याद्यथासम्भवमुपकारविवक्षया — योगोद्देशेन प्रवृत्ताः तत्साधनभूता इत्युक्तम्। मानसी क्रिया तावत्साक्षात्करणं प्राणक्रियापियत्र मनस्तत्र वायुर्यत्र वायुस्तत्र मनः इत्यन्योन्यपरिष्वङ्गात् यथोच्यतेपुनर्वायुपथं प्राप्य मनो भ्रमति वायुवत् इति तथा प्राणायामप्रक्रियया य योगविरोधिक्लेशपापादिजयहेतुत्वात्। बाह्येन्द्रियक्रिया तुस्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत्। स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते [वि.पु.6।6।2] इत्यादिभिरुत्थानकालभावियोगाङ्गनिषेवणरूपेण प्रत्याहारे निरुध्यमानरूपेण वा।

यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।

प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी।।18.34।।

।।18.34।।प्रसङ्गशब्दोऽत्र न प्रासङ्गिकत्वार्थः? तदनुपयोगात्। धृतेः स्वव्यापारविषयत्वाय प्रकृतप्रक्रियानुसाराय च धर्मादिशब्दैस्तत्तत्साधनलक्षणोक्ता। सामान्यस्यापि फलशब्दस्यात्र सात्त्विकफलादपवर्गात्सङ्कोचायाऽऽह — फलाकाङ्क्षीत्यत्रापीति। लाक्षणिकप्रयोगाभिप्रेतं विवृण्वन् शब्दतोऽर्थतश्च फलितमाह — अत इति।

यया स्वप्नं भयं शोकं विषादं मदमेव च।

न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी।।18.35।।

 ।।18.35।।स्वप्नशब्दोऽत्र सुषुप्तेरप्युपलक्षक इत्यभिप्रायेणाऽऽह — निद्रामिति। दैवागतोन्मादादिव्यवच्छेदाय दुर्नीतिमूलत्वं मदस्याऽत्र दर्शयति — विषयानुभवजनितमिति। अस्वाधीनानां स्वप्नादीनां कथं पुरुषेण धारणं इति शङ्कायामत्राऽपि हेतुलक्षणा पूर्ववदित्याह — स्वप्नमदावुद्दिश्येति। स्वप्नमदयोः सुखाभिमानास्पदतया भयादेः पृथक्कृत्य व्याख्यानम्। धारणमेवात्र योक्तव्यत्वसूचनायन विमुञ्चति इत्युच्यत इत्यभिप्रायेणाऽऽह — न विमुञ्चति धारयतीति। न चात्र भीरोर्धृतिर्विरुद्धेति वाच्यम्? आगाम्यनवेक्षणेन दुर्मतेस्तद्धेत्वनुवर्तनपरत्वात्। भयदायिविषयो दुर्मानमूलप्रबलविरोधादिः शोकदायी तु क्रोधादिमूलबन्धुवधादिः? विषाददायी तु वृथावित्तव्ययादिः। दुर्मेधाः — दुर्मेधस्त्वादित्यर्थः।

सुखं त्विदानीं त्रिविधं श्रृणु मे भरतर्षभ।

अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति।।18.36।।

।।18.36।।अनन्तरग्रन्थसङ्गत्यर्थं तुशब्दद्योतितं व्यनक्ति — पूर्वोक्ता इति। भरतर्षभशब्दोऽत्र प्रकृष्टसात्त्विकसुखसङ्गयोग्यताज्ञापनार्थः।इदानीमिति — साधनभेदस्योक्तस्य साध्यभेदाकाङ्क्षावसर इत्यर्थः। आपातमधुरत्वाभावात्सात्त्विकस्याभ्याससापेक्षत्वं लोकेऽप्याभ्यासिकी क्षुद्रा प्रीतिरस्ति तद्व्युदासायक्रमेण निरतिशयामित्युक्तम्। रतिम् — अत्यन्तादरमित्यर्थः। दुःखशब्दस्याऽत्र सङ्कोचकाभावात्कृत्स्नविषयत्वोक्तिः।

यत्तदग्रे विषमिव परिणामेऽमृतोपमम्।

तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्।।18.37।।

।।18.37।।अभ्याससापेक्षत्वदुःखान्तहेतुत्वयोः प्रयोजकरूपमनन्तरमुच्यत इत्यभिप्रायेणाऽऽह — तदेव विशिनष्टीति।यत्तत् इति तच्छब्दशिरस्केण यच्छब्देनानुवादः श्रुत्यादिप्रसिद्धतरत्वद्योतनाय।तत्सुखम् इति प्रीत्यतिदेः।विषमिव इत्यनेन आपातप्रातिकूल्यमात्रं विवक्षितमित्याह — दुःखमिवेति। अनेन मन्दमतीनां,जिहासास्पदत्वं दर्शितम्। न हि सुखं नाम किञ्चिद्वस्तु विषवदमृतवच्च परिणमते अतस्तदुपचरितमाह — अभ्यासबलेन विविक्तात्मस्वरूपाविर्भाव इति। बुद्धेरात्मीयत्वादिमात्रोक्तेरफलत्वात्आत्मविषयेत्युक्तम्। बुद्धेरयोग्यविषयसंसर्गरूप कालुष्यनिवृत्तिर्हि प्रसाद इत्यभिप्रायेणाऽऽह — निवृत्तसकलेतरविषयत्वमिति। जरामरणादिनिवर्तकत्वाद्भोग्यतमत्वेन हातुमशक्यत्वाच्चामृतोपमत्वम्। परशेषतैकरसस्वस्वरूपस्य यथावदाविर्भावे परमात्मानुभवसुखस्यान्तर्नीतत्वादिह पृथगनुक्तिः।

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्।

परिणामे विषमिव तत्सुखं राजसं स्मृतम्।।18.38।।

 ।।18.38।।विषयाणां तत्तदिन्द्रियार्थानामन्नपानादीनामित्यर्थः।सुखतानिमित्तक्षुदादौ निवृत्ते इति राजससुखस्य दृष्टप्रातिकूल्यनिदानोक्तिः। यदुक्तं भगवता पराशरेण — अग्नेः शीतेन तोयस्य तृषा भक्तस्य च क्षुधा। क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः [वि.पु.1।17।64] इति।क्षुत्तृष्णोपशमं तद्वच्छीताद्युपशमं सुखम्। मन्यते बालबुद्धित्वाद्दुःखमेव हि तत् पुनः।।इति। दृष्टसुखतानिमित्तनिवृत्तौ उपेक्षणीयतामात्रव्यावृत्त्यर्थं दुःखोदर्कत्वंपरिणामे विषमिव इत्यनेन व्यज्यते। पारदारिकरसादीनि हि भयादिभूयिष्ठक्षणिकक्षुद्रतरसुखान्यनन्तरकालभाव्यतिघोरनिरतिशयदुःखाय भवन्तीत्यागामिकं विषत्वमाह — निरयादिनिमित्तत्वादिति।

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः।

निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्।।18.39।।

 ।।18.39।।अनुबध्यत इत्यनुबन्धो विपाकः? मोहनशब्दस्यात्र भावार्थानन्वयात्करर्णार्थत्वमाह — मोहहेतुरिति। निद्रादिजन्यसुखस्य विपरीतज्ञानहेतुत्वाभावात्मोहोऽत्र यथावस्थितवस्त्वप्रकाश इत्युक्तम्। राजससुखस्य विपाके मोहहेतुत्वं? तामससुखस्य तु तदानीमपीति लोकसिद्धमित्यभिप्रायेणोक्तं विवृणोति — निद्रादयो हीति।स्पष्टमिति — न युक्त्यागमसापेक्षमित्यर्थः। अलसस्य प्रवृत्त्यभावमात्रं दृश्यते? न ज्ञानाभाव इत्यत्राऽऽह — आलस्यमिन्द्रियव्यापारमान्द्यमिति। ततः किं इत्यत्राऽऽह — इन्द्रियेति। करणव्यापारतारतम्यानुगुणं हि कार्यतारतम्यम्। ज्ञानस्य मान्द्यं चाल्पविषयत्वम्। तच्च विषयान्तरप्रकाशाभावगर्भमिति भावः। प्रमादस्य स्वरूपेणैवापेक्षिताज्ञानरूपतामाहकृत्यानवधानरूप इति। एवमालस्यप्रमादयोरज्ञानानुविद्धत्वं दर्शितं तद्धेतुत्वं तु कथमित्यत्राऽऽह — ततश्चेति। ज्ञानस्यापटुत्वं हि क्रमादत्यन्ताज्ञाने विश्राम्यतीति भावः। निद्रायाः सुखहेतुत्वमायासविश्रमहेतुत्वादिभिः? विच्छेदकेषु रोषाच्च लोकसिद्धम्? इन्द्रियव्यापारमान्द्यस्याप्यङ्गसङ्क्षोभादिनिवृत्तिद्वारा अनवधानस्य तु बुद्धेरेकाग्रताकल्पनरूपप्रयासनिवृत्त्येति। सुखाभासप्रसङ्गेनाकालनिद्रादिकं नोपादेयमित्युक्तं भवति। स्मरन्ति च — यामद्वयं शयानस्तु ब्रह्मभूयाय कल्पते इत्यादि। आहुश्चायुर्वेदविदः — अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता। सुखायुषी पराकुर्यात्कालरात्रिरिवापरा इति। गुणकृतविभागप्रकरणतात्पर्यमनुष्ठानपर्यवसानरूपप्रयोजनेनोपसंहरति — अत इति।

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः।

सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्ित्रभिर्गुणैः।।18.40।।

।।18.40।।प्राकृतगुणातीतशुद्धसत्त्वमयभगवत्प्राप्तिलक्षणमोक्षात् प्राङ्नियतदेशकालफलभोगैरुच्चावचैः सर्वैरपि क्षेत्रज्ञैरुक्तस्य त्रिगुणस्य निश्शेषदुस्त्यजत्वमुखेन गुणकार्यप्रकरणं निगम्यते — न तदस्ति इति श्लोकेन। गुणत्रयप्रकरणं तु नात्रोपसंहृतम्? अनन्तरमपिस्वभावप्रभवैर्गुणैः [18।41] इत्युक्तेः।दिवि देवेषु इति सत्त्वोत्तरदेशाधिकारिणामुपलक्षणम्। तत्तुल्यतयापृथिव्याम् [7।9] इत्यत्रापिमनुष्यादिष्विति राजसतामसाधिकारिविवक्षाख्यापनम्।हिरण्यगर्भो भगवान् [वि.पु.6।7।56]आब्रह्मस्तम्बपर्यन्ताः [वि.ध.104।23] इत्याद्यनुसारेण बहुवचनाभिप्रेतमाह — ब्रह्मादिष्विति। गुणप्रकरणात् सत्त्वशब्दस्य गुणविशेषार्थताभ्रमव्युदासाय प्राणिशब्दः। समुदायरूपेणापि निर्धार्यमाणेषु तत्रापि गुणनिर्मुक्तं न किञ्चित्सत्त्वमित्यभिप्रायेण जातशब्दः। जातमिति वा व्यस्तम् — आसंसारं जन्मप्रभृति गुणबद्धताद्योतनार्थम्।

ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप।

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः।।18.41।।

।।18.41।।एवं सर्वेषां संसारिणां गुणत्रयवश्यत्वमुक्तम् अथ तत्तद्गुणतारतम्यवद्देहयोगिनामधिकारिणां यथाधिकारं शास्त्रैर्विभक्तानि कर्मादीनि विविच्यन्ते। तस्य परमप्रस्तुतेन सङ्गत्यर्थमध्यायारम्भप्रक्रान्तं प्रदर्शयति — त्यागेनेत्यादिना।सन्न्यासशब्दार्थादनन्य इति — श्रुतावपि हि त्यागेनैके [महाना.8।14कैवल्यो.2] सन्न्यास योगात् [मुण्डको.3।2।6] इत्युभावेकविषयाविति भावःएवम्भूतस्येति — त्रिविधत्यागयुक्तस्येत्यर्थः।वृत्त्या सहेति कृषिगोरक्ष्यादीनि हि वक्ष्यमाणानि [18।44] जीविकाविशेषा इति भावः।

अत्रब्राह्मणक्षत्ित्रयविशाम् इति समासो द्विजत्वे सति वेदाधिकारात्। प्राचीनकर्मानुरूपं सत्त्वादिगुणवृद्धिः प्रागेव प्रपञ्चिता? अतस्तद्धेतुकं कर्मात्र तत्तद्गुणप्रचुरपुरुषासाधारणधर्मतया स्वभाव इति दर्शितम्। एतेनकर्मवश्या गुणा ह्येते सत्त्वाद्याः पृथिवीपते [वि.पु.1] इति वचनादौपाधिकानां गुणानां चात्र स्वाभाविकतोक्तिशङ्काऽपि निरस्ता। गुणविभागप्रकारो ब्राह्मपुराणादिषु प्रपञ्चितः। तस्यायं सङ्क्षेपः — तमः शूद्रे रजः क्षत्त्रे ब्राह्मणे सत्त्वमुत्तमम् इति। अस्यार्थं वदन्प्रकृतं विवृणोति — रजस्तमोभिभवेनोद्भूतः सत्त्वगुण इति। उत्तमशब्दस्यरजः क्षत्त्रे इत्यादिष्वप्यन्वयमाहक्षत्ित्रयस्येत्यादिना।अल्पोद्रिक्त इति शूद्राद्व्यवच्छेदाय। अतीन्द्रियाणां गुणानामपि शास्त्राधीनविभागत्वात्कर्मप्रविभागे गुणानां कर्तृत्वाद्यसम्भवाच्चगुणैः सहेत्युक्तम्। गुणापेक्षया शास्त्रेण विभक्ततया गुणप्रविभक्तत्वोपचारादयमेवार्थ उचित इति भावः। कैर्विभक्तानीति शङ्कायांशास्त्रैरिति शेषपूरणम्। स्वरूपविभागस्य शास्त्राधीनत्वाभावादसङ्कीर्णबोधनं विवक्षितमित्याह — प्रतिपादितानीति। विभज्य प्रतिपादनं विवृणोति — ब्राह्मणादय इति। कर्मशब्द एव सामान्यतो वृत्तिमपि संगृह्णाति? तादर्थ्याद्वा तदाक्षेप इत्यभिप्रायेणाऽऽहवृत्तयश्चेति। जीवनोपाया इत्यर्थः।

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च।

ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्।।18.42।।

।।18.42।।शमो दमः इत्यादौ पूर्वं व्याख्यातनामपि गुणानां पुनर्व्याख्यानं वर्णानुबन्धेन विधानेऽवान्तरविशेषशङ्कापाकरणार्थंब्राह्मं कर्म इत्युक्तकर्मत्वसिद्धये? नियतनादिरूपेण पुरुषव्यापारसाध्यत्वज्ञापनार्थं च। अतः शौचावपि तदापादनं ग्राह्यम्। अस्ति मतिरस्येत्यास्तिकः तद्भाव आस्तिक्यं तच्चाप्रामाणिकेषु भवद्दोषाय प्रत्यक्षादिसिद्धे तु नासावतिशयः शास्त्रीयेष्वपि क्वाचित्कसंशयादौ कुदृष्टित्वप्रसङ्गः अतोवैदिकार्थस्य कृत्स्नस्येत्युक्तम्। सहपठितविज्ञानादेर्भेदज्ञापनाय सत्यतानिश्चयस्य प्रकृष्टत्वोक्तिः। तद्विवृणोति — केनापीति।वैदिकस्य कृत्स्नस्येत्युक्तं कुदृष्ट्याद्यनमतवैदिकार्थसङ्ग्रहव्युदासाय प्राधान्येन सङ्कलय्य व्यनक्ति — भगवानित्यादिना। अत्र विशेषणानां प्रागेव व्याख्यातत्वादेह सर्ववेदसारतयोद्धृतस्यार्थस्य तदुपबृंहणेऽस्मिंञ्छास्त्रे तथात्वेनैव प्रस्पष्टतामाह — वेदैश्चेति। निखिलवेदवेदान्तवेद्य इत्युक्तार्थक्रमानुसारेण विप्रकीर्णवाक्योद्धारक्रमः। श्लोकार्थं निगमयति — तदेतदिति। ब्रह्मणः कर्म ब्राह्मम् ब्रह्मशब्दोऽत्र ब्राह्मणजातिपर इत्यभिप्रायेणाऽऽह — ब्राह्मणस्येति।

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्।।18.43।।

।।18.43।।शूरं भीरुं कविं जडम् इति भीरुप्रतियोगिनि शूरशब्द इत्यभिप्रायेणाऽऽह — निर्भयप्रवेशसामर्थ्यमिति। मानसशारीरसंवलनमिदम्। प्रविष्टस्य परैः परिभवे प्रवेशोऽपि दोषः स्यात्? अतस्तत्परिहाराय तेज इहोक्तमित्याहपरैरनभिभवनीयतेति। दाक्ष्याद्धृतेर्विशेषोविघ्नोपनिपातेऽपीति दर्शितः। प्रवृत्तिसामर्थ्यात्प्रवृत्तापरित्यागो ह्यन्य एव।युद्धे चापि इत्यत्रापिशब्दद्योतितं तीव्रं पलायननिमित्तमाहआत्ममरणनिश्चयेऽपीति। अत्रेश्वरभावशब्देन दुष्टनिग्रहशिष्टानुग्रहशक्तिर्विवक्षितेत्यभिप्रायेणाऽऽह — स्वव्यतिरिक्तेति।सकलजनेति स्वराष्ट्राद्यवच्छिन्नविषयम्।

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्।

परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्।।18.44।।

 ।।18.44।।रूढिं व्युत्पत्तिं चानुसृत्य फलतः स्वरूपतश्च कृषिं दर्शयति — सस्योत्पादनं कर्षणमिति। एवं वाणिज्यव्याख्यानेऽपि ग्राह्यम्। गौः रक्ष्या यत्र? तत्कर्म गोरक्ष्यमित्यभिप्रायेणाऽऽहपशुपालनमिति। रक्ष्यमिति भावार्थं वा? रक्षणमित्यर्थः। गौरक्ष्यमिति वा पाठः। गा रक्षतीति गोरक्षः? तस्य कर्म गौरक्ष्यं पशुपालनं वणिजः कर्म वाणिज्यमितिवत्। एवं विशः कर्म वैश्यंगुणवचनब्राह्मणादिभ्यः कर्मणि च [अष्टा.5।1।124] इति ष्यञ्प्रत्ययः।

शास्त्रान्तरानुसारेण परिचर्यायाः प्रकृतत्रितयानुबन्धित्वमाह — पूर्ववर्णत्रयेति। ननु षट्कर्मा ब्राह्मणः? त्रिकर्माणौ क्षत्ित्रयवैश्यौ? शूद्रस्यापिभार्यारतिः शुचिर्भृत्यभर्ता श्राद्धक्रियान्वितः (क्रियारतः — क्रियापरः)। नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् [या.स्मृ.1।5।121] इत्यादयो धर्मा विधीयन्ते तत्कथमिह तत्कर्मणामियत्तानिर्देशः इत्यत्राऽऽह — तदेतदिति। प्रदर्शनीयानुदाहरतियज्ञादयो हीति। प्रदर्शनार्थत्वे हेत्वन्तरमाह शमदमादयोऽपीति। शमादीनां मोक्षार्थिवर्णत्रयसाधारण्येन कथं ब्राह्मणस्यैव तदुक्तमित्यत्राऽऽहब्राह्मणस्य त्विति।स्वभावप्रभवैः [18।41 इति पूर्वोक्तानुविधानात्सहजत्वविवक्षयात्र स्वभावजशब्द इत्यभिप्रायेणाऽऽह — सत्त्वोद्रेकस्य स्वाभाविकत्वेन शमदमादयः सुखोपादाना इति। वर्णान्तरगुणसम्भेदं निर्वहति — क्षत्ित्रयवैश्ययोरिति। न तत्कर्मेत्युक्तमिति तत्कर्मेति नोक्तमित्यन्वयः। उक्तानां वृत्तीनां प्रदर्शनार्थत्वाय चतुर्णां वृत्त्यंशं विविच्य विविनक्तिब्राह्मणस्य तु वृत्तिरित्यादिना। शूद्रधर्मो वृत्तिश्च याज्ञवल्क्येन स्मर्यते — शूद्रस्य द्विजशुश्रूषा तयाऽजीवन्वणिग्भवेत्। शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितमाचरन् [1।5।120] इति मनुस्तत्र विशेषमाह — विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते [10।123] इति तदिदमभिप्रेत्याऽऽह — शूद्रस्य तु कर्तव्यं वृत्तिश्च पूर्ववर्णंत्रयपरिचर्यैवेति।

नन्विदमयुक्तंभार्यारतिः इत्यादेरुक्तत्वात्मां हि पार्थ व्यपाश्रित्य इत्यारभ्यस्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् [9।32] इति च स्वयमेवाऽऽहवसन्ते दीक्षयेद्विप्रम् इत्यारभ्यहेमन्ते शूद्रमेव च। स्त्रियं च वर्षाकाले तु पञ्चरात्रविधानतः इति भगवत्समाराधनार्थं दीक्षा च विहिता तथाब्राह्मणैः क्षत्ित्रयैर्वैश्यैः शूद्रैश्च कृतलक्षणैः। अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु।।सात्त्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः [म.भा.66।3940] इति दीक्षितशूद्रादेर्भगवदर्चनादिकं स्पष्टमुक्तम्। तथा युगधर्मान् प्रक्रम्योच्यते — कृतं नाम युगं पूर्वं यत्र धर्मः सनातनः। कृतमेव न कर्तव्यं यस्मिन् काले नरोत्तम। ब्राह्मणाः क्षत्ित्रया वैश्याः शूद्राश्च कृतलक्षणाः। कृते युगे समभवन् स्वकर्मनिरताः सदा।।एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः। पृथग्धर्मास्त्वेकवेद्या धर्ममेकमनुव्रताः।।चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना। अकामफलसंयोगात् प्राप्नुवन्ति परां गतिम्।।[वि.ध.108।19] इति।

श्रीसात्त्वते च — अष्टाङ्गयोगयुक्तानां हृद्यागनिरतात्मनाम्। योगिनामधिकारः स्यादेकस्मिन् हृदयेशये।।व्यामिश्रयागयुक्तानां विप्राणां वेदवादिनाम्। समन्त्रे तु चतुर्व्यूहे ह्यधिकारो न चान्यथा।।त्रयाणां क्षत्ित्रयादीनां प्रपन्नानां च तत्त्वतः। अमन्त्रमधिकारस्तु चतुर्व्यूहक्रियाक्रमे।।सक्रिये मन्त्रचक्रे तु वैभवीये विवेकिनाम्। ममतासन्निरस्तानां स्वकर्मनिरतात्मनाम्।।कर्मवाङ्मनसैः सम्यग्भक्तानां परमेश्वरे। चतुर्णामधिकारो वै वृत्ते दीक्षाक्रमे सति [7।8।9।10।11] इत्यधिकारविशेषनियमः कृतः। सप्तमे च व्रतविधानपरिच्छेदेदानार्चने तु शूद्राणां व्रतकर्मणि सर्वदा। असिद्धान्नं तु विहितं सिद्धं वा ब्राह्मणेच्छया।।स्वकर्मणा यथोत्कर्षमभ्येति च तथार्चनात्। तस्मात्स्वेनाधिकारेण कुर्यादाराधनं सदा।।सर्वत्राधिकृतो विप्रो वासुदेवादिपूजने। यथा तथा न क्षत्त्राद्यास्तस्माच्छास्त्रार्थमाचरेत्।।नयेन्नक्ताशनैर्भक्त्या दिनान्येतानि मौद्गल। व्रताद्यन्ते तु विहितं परिपीडं हि तस्य वा।।[7।53।54।55।56] इति व्रतविशेषक्रमो दर्शितः। मौद्गलेति भगवच्छास्त्रे शूद्रनाम। परिपीडमुपवासः। तथा मन्त्रेषु चैवं नियमोऽन्यत्र कृतः।वौषट्स्वाहावषट्कारनिष्ठानां तु प्रतिक्रिया। नमस्कारेण विहिता इति। तथा नारदीये श्रीमदष्टाक्षरकल्पे — न स्वरः प्रणवोऽङ्गानि नाप्यन्यविधयस्तथा। स्त्रीणां तु शूद्रजातीनां मन्त्रमात्रोक्तिरिष्यते [ना.अ.क.1।120] इति।

एवमेकादशीव्रतादयोऽपि सर्वसाधारणाः पुराणादिषु पठ्यन्ते। तथान्येऽपि वर्ज्यावर्ज्यनियमाः कतिकति धर्मशास्त्रादिषु कथ्यन्ते। यथा — कपिलाक्षीरपानेन ब्राह्मणीगमनेन च। शूद्रे वेदाक्षरेणैव निष्कृतिर्न विधीयते (वेदाक्षरविचारेण शूद्रस्य नरकं ध्रुवम्)।।[पा.स्मृ.1।74]हृत्कण्ठतालुगाभिस्तु यथासङ्ख्यं द्विजातयः। शुध्येरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततःतेषां स एवाचमनकल्प अधिक अहरहः()। केशश्मश्रुलोमनखवापनम् इत्यादि। तस्मात्जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम्। देवताराधनं चैव स्त्रीशूद्रपतनानि षट् इत्यादिकं विहितव्यतिरिक्तवर्णत्रयशुश्रूषाविरुद्धविषयमिति योज्यम्। अपि च — न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः [वि.सं.24।10] इत्यादिवचनाज्जयाख्यसंहितादिषु भागवतानां चतुर्णां समत्ववचनाच्च भगवत्परिचर्यावशाद्वर्णत्रयपरिचर्यानिवृत्तिरपि सम्भवेत्। अतः कथंशूद्रस्य तु कर्तव्यं वृत्तिश्च पूर्ववर्णत्रयपरिचर्यैव इति भाषितम्। अत्र ब्रूमः — यद्यपि विहितव्यतिरिक्तविषयाः सर्वनिषेधाः विशिष्टसंस्कारगुणविशेषादिमतां च शूद्राणामपि धर्मविशेषा विहिताः? तथापि ते सर्वे वर्णत्रयपरिचर्याख्यप्रधानधर्माविरोधेन तन्नियुक्तैः शूद्रैः तत्परिचर्याभावनयैवानुष्ठेयाः। अत एव ह्यत्रोच्यते,परिचर्यात्मकं कर्म इति। अन्यथा परिचर्येत्येव वक्तव्यम् नच निष्प्रयोजनाधिकग्रहणं युक्तम्।

आमनन्ति चरहस्याम्नायविदः — ज्ञानज्ञापनसम्प्रेषणकर्मा ब्राह्मणः? ज्ञानपरित्राणकर्मा क्षत्ित्रयः? ज्ञानबीजवर्धनकर्मा वैश्यः? ज्ञानपर्युत्थानकर्मा शूद्रः? कृतयुगस्यान्ते त्रेतायुगस्यादौ ब्राह्मणक्षत्ित्रयवैश्यशूद्रा भिद्यन्ते? तेषां भिन्नानां दृष्टिः न तथा भवति? पथ्या रसना न तथा भवन्ति पुष्पफलमोषधिवनस्पतयो न तथा दधते तां दृष्ट्वा ब्राह्मणक्षत्ित्रयवैश्यशूद्राणामसूया प्रादुर्बभूव — शूद्रः प्रथमजातिर्न वः पर्युत्थास्यामीति? वैश्यो द्वितीयजातिर्न वो बीजानि वर्धयिष्यामीति? क्षत्ित्रयस्तृतीयजातिर्न वः परित्रास्य इति। तान् ब्राह्मण इत्याह। आस्थिता यूयं न वो वक्ष्यामि इति। अत्र पर्युत्थानं परिचर्या। एवं शूद्रः साधुः इत्यादिप्रकरणान्तराणि च द्रष्टव्यानि। एतेनन शूद्रा भगवद्भक्ताः इत्यादिस्तुतिवाक्येन वर्णत्रयपरिचर्यादिनिवृत्तिप्रसङ्गोऽपि प्रत्युक्तः? भगवदेकान्तशूद्रस्यैव पर्युत्थानविधेः। भगवद्भक्तिस्तुतिपरत्वादेव हिसर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने [वि.सं.24।10] इति व्यतिरेकनिन्दा। किं तर्ह्यत्र स्तुतिनिन्दालम्बनम् आन्तरः सत्त्वादिगुणोन्मेषः। यदपेक्षया ब्राह्मणादेरेव ब्रह्मण्यादिकं श्रुत्यादिषु कीर्त्यते — मौनं चामौनं च निर्विद्याथ ब्राह्मणः [बृ.उ.3।5।1] इति।विष्णुं क्रान्तं (विष्णुक्रान्तं) वासुदेवं विजानन्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी [शा.उ.4म.भा.13।16।2]चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः इत्यादि।

यत्तु शारीरसत्त्वादिगुणतारतम्यनिबन्धनं जातिरूपं ब्राह्मण्यादिकं? तस्यान्तरसत्त्वोन्मेषादावप्यनुवृत्तेराशरीरपातं जातिनियमः स्थित एव। तदनुबन्धिनश्च धर्मास्तत एवावतिष्ठन्ते। अत एव हि विदितब्रह्मविद्योऽपि विदुरः स्वस्य तद्वचनेऽनधिकारमाह — शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे [म.भा.5।41।5] इति। शमादिगुणपौष्कल्ययोगिनि तु शूद्रादौ स्त्रीधर्मिण्यां जनन्यामिवावज्ञानादिनिवृत्तिमात्रविशेषापेक्षया जातिसामान्यवीक्षणप्रतिषेध इति। यथा स्मरन्ति — एतैः समेतः शूद्रोऽपि वार्धके मानमर्हति इति। अत एवभक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्तते। तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् [गा.रु.पू.ख.219।7।8] इत्यादिकमनुपप्लवपर्यन्ततयाऽपि निर्व्यूढम्। साम्योक्तिरपि सर्वोत्कर्षफलादिसाम्यविषया अपशूद्रनयाद्यविरोधश्च। उक्तं चाचार्यैर्भागवतत्वेन शूद्रस्योत्कर्षे ब्राह्मणस्यापि तेनैवोत्कर्ष इति पुनर्वैषम्यमिति सर्वं समञ्जसम्। अतः सुष्ठूक्तं — शूद्रस्य वृत्तिकर्तव्ययोरैक्यम् इति। ,

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु।।18.45।।

।।18.45।।वर्णधर्मविभागो मोक्षशास्त्रे किमर्थं इत्यत्राऽऽह — स्वे स्वे कर्मणीति। संसिद्धिशब्दस्यात्र परमपदप्राप्तिविषयत्वं प्रकरणात्सिद्धम्।शाश्वतं परमव्ययम् [18।56] इति हि वक्ष्यति। यद्वा सिद्धिशब्दःनैष्कर्म्यसिद्धिम् [18।49] इति वक्ष्यमाणविषयः। तत्पर्यवसानज्ञापनायात्र परमप्राप्यग्रहणम्। ननु स्वकर्मनिरतस्यापि शूद्रस्य कथं परमपदप्राप्तिः तस्य मोक्षसाधनविद्यायामनधिकारः शारीरके अपशूद्राधिकरणे शिक्षितः। सत्यं? भवान्तराधिकारद्वारा परम्परया परमपदप्राप्तेर्विवक्षितत्वान्न विरोधः। विदुरादिवज्जातिस्मरेषु जन्मान्तरप्रारब्धपरविद्याप्रतिसन्धायिषु स्वकर्मणामकरणनिमित्तप्रत्यवायपरिहारार्थत्वं साक्षात्संसिद्धियोग्यत्वं द्रष्टव्यम्। यथोक्तं भगवता शौनकेन — धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते। वर्णावरत्वे सम्प्राप्ताः संसिद्धिं श्रमणी यथा [वि.ध.102।30] इति। ननु परिमितफलप्रदानसमर्थेन्द्राद्याराधनरूपाणां तत्तद्वर्णाश्रमकर्मणां कथं परमपदप्राप्तिहेतुत्वं इत्यत्रोत्तरंस्वकर्मनिरत इति।यथा इत्यस्य प्रतिनिर्देशत्वात्तच्छब्दः प्रकारपरामर्शीत्याह — तथा शृण्विति।

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः।।18.46।।

 ।।18.46।।सर्वकारणभूतः सर्वान्तर्यामी परमात्मा स्वसृज्यत्वशरीरभूतेन्द्रादिवाचकैः शब्दैराम्नायत इति तत्समाराधनत्वात्संसिद्धिसाधनत्वं वर्णाश्रमधर्माणामुपपन्नमित्युच्यतेयतः प्रवृत्तिः इति श्लोकेन। प्रवृत्तिशब्दस्यात्र चेष्टामात्रपरत्वव्युदासायाऽऽहउत्पत्त्यादिकेति। चेतनाचेतनवाचिभूतशब्दसमन्वितः प्रवृत्तिशब्दोऽत्र विशेषकाभावात्सर्वविधव्यापारसङ्ग्राहक इति भावः। सर्वविधकारणत्वोपयुक्त आकार उच्यतेयेन सर्वमिदं ततम् इति। ततं नियन्तृत्वेनेति हृदयम्।तम् इति परोक्षतया निर्दिष्टःकथं मामिति व्याख्यायते इति शङ्कायांयतः इत्यनुवादस्य प्राप्त्यर्थं पुरोवादं स्मारयति — मत्त एवेति। कारणत्वसर्वाधिकत्वसर्वव्यापित्वसर्वनियन्तृत्वादिषु यथासम्भवं वचनानि योज्यानि।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्।।18.47।।

 ।।18.47।।एवं वर्णाश्रमधर्माणां स्वरूपेणापरित्याज्यत्वं परप्राप्तिसाधनत्वप्रकारश्च दर्शितः। अथ तेषामेवदैवमेवापरे यज्ञम् [4।25] इत्याद्युक्तप्रधानधर्मयोगेन नियमविशेषादियोगेन कर्मयोगान्तर्भूतानां ज्ञानयोगाधिकारिणामप्यपरित्याज्यत्वं प्रागुक्तं [3।35] प्रत्यभिज्ञाप्यते — श्रेयान् स्वधर्मः इत्यादिभिः। अत्र स्वधर्मशब्दो न वर्णाश्रमनियतधर्मपरः? तथा सति परधर्मशब्देन वर्णान्तरादिधर्मोपादानप्रसङ्गात् नच तद्युक्तं? तस्य निषिद्धत्वेनाधर्मतया स्वधर्मस्य तत्र प्रशस्यतमत्वलक्षणश्रेयस्त्ववचनायोगात्। नहि पापात्पुण्यं श्रेय इति कथ्यते अत एव वेदबाह्यधर्माद्वैदिकस्य धर्मस्य श्रेयस्त्वमुच्यत इत्यपि न योज्यम् क्षत्ित्रयस्यार्जुनस्यश्रेयो भोक्तुं भैक्षम् [2।5] इत्युक्तब्राह्मणधर्मभूतप्रव्रज्याप्रतिषेधोऽयमिति चेत्? न तत्प्राप्तौ निषेधायोगात् अप्राप्तौ पापत्वादेव दत्तोत्तरत्वात्। आपत्स्वनन्तरा च वृत्तिर्दुस्त्यजा। अतोऽत्र स्वधर्मपरधर्मशब्दौ प्राग्वत्कर्मयोगज्ञानयोगविषयौ व्याख्यातौ।एवम् इत्यारभ्यस्वधर्मः इत्यन्तमेकं वाक्यम्? अन्यथोत्तरग्रन्थानन्वयप्रसङ्गात्। स्वशब्दस्य जातिविवक्षाव्युदासायाऽऽहस्वेनैवेति।स्वभावनियतं कर्म इत्यनन्तरोक्त्यनुसारेण कर्मविषयः स्वधर्मशब्दः प्रकरणान्निष्कामकर्मविषयः। तत्रस्वेनैवोपादातुं योग्य इत्युक्तं विवृणोतिप्रकृतीति। विगुणशब्दस्य त्याज्यत्वशङ्कापरत्वमाहविगुणोऽपीति। गत्यन्तराभावादमुख्यत्वकल्पत्वेनानुमतोऽपीत्यर्थः। स्वशब्दनिर्दिष्टात्कर्मयोगार्हादन्योऽत्र परः स च ज्ञानयोगार्ह इत्यभिप्रायेणाऽऽहइन्द्रियजयेति। सप्रमादस्य स्वनुष्ठितत्वं कथं स्यात् इत्यत्राऽऽह — कदाचिदिति।

स्वभावनियतम् इत्यत्र जातिनियतत्वशङ्काव्युदासायाऽऽह — तदेवेति। यथा विषतरुनिम्बतिन्तिण्यादिजातानां जन्तूनां स्वभावनियता आहारा इति भावः। किल्बिषशब्दोऽनिष्टतमत्वद्योतनाय संसारशब्देन तत्फलपर्यन्ततया व्याख्यातः। ज्ञानयोगनिष्ठासम्भावितनिषेधाय वा? विशेषनिषेधः शेषाभ्यनुज्ञापर इत्यभिप्रायेण वाऽऽह — ज्ञानयोगस्येति। अर्थान्तरपरत्वशङ्काव्युदासाय आदरातिशयविवक्षया? पुनरुक्तिपरिहाराय चतृतीयाध्यायोक्तं (35) स्मारयतीत्युक्तम्।

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।

सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः।।18.48।।

 ।।18.48।।सहजत्वेन वासनानियतत्वादित्यर्थः। ततः कथं त्याज्यत्वाभावः इत्यत्राऽऽहसुकरमिति। दोषशब्देन पापविवक्षा न युक्ता? विहिते तदयोगात् तथा चन त्यजेत् इति न युक्तं? पापांशस्य सर्वैः परित्याज्यत्वात् अतः कायक्लेशादिमात्रगर्भत्वमिह सदोषत्वमित्युच्यते। तावन्मात्रेऽप्यलसानां त्याज्यताबुद्धिः स्यादित्यभिप्रायेणाऽऽहसदुःखमपीति। एतेन कापिलमतान्वारोहेणसदोषमपि इत्यनुवाद इति व्याख्यान्तरं निरस्तम्। मुमुक्षोः कथं शास्त्रीये श्रेयस्त्वेन चोक्ते क्षुद्रक्लेशासहत्वेन त्याज्यताबुद्धिः अतः प्रसङ्गाभावात् प्रतिषेधो न युक्त इत्यत्राऽऽह — ज्ञानयोगयोग्योऽपीति। अपिशब्दोऽन्यस्य कैमुत्यज्ञापनार्थः। अक्लेशोपायदर्शने स्वाधिकारमप्रतिसन्धाय तत्र प्रवृत्तिः स्यादिति ततो नियम्यत इत्यर्थः। सदुःखत्वनिर्दुःखत्वलक्षणवैषम्यमन्वारुह्याप्रमादत्वादिभिर्नियम उक्तः। अथ सदुःखत्वमपि द्वयोः समानमित्युच्यतेसर्वारम्भा हि इत्यर्धेन।कर्मारम्भाः ज्ञानारम्भाश्चेत्यनेन सर्वशब्दस्यात्र प्रकृतशास्त्रीयकात्स्न्र्यपरत्वमाह। दुःखसाम्ये सति किमन्यतरनियमेन कथं च न तत्तस्य हेतुः इत्यत्राऽऽह — इयानिति। कर्मारम्भेषु कायक्लेशमात्रं? ज्ञानारम्भेषु त्वत्यासन्नत्वेऽपि कफोणिगूढायमानप्रत्यग्विषयान्वेषणेन इन्द्रियमनोनियमनप्रयासो दुःखात्मक इति भावः।

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः।

नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति।।18.49।।

।।18.49।।सर्वत्रासक्तबुद्धिः इत्युक्तेऽपि पुनःविगतस्पृहः इत्येतत्फलसङ्गनिवृत्तिरूपत्यागसहपठितकर्तृत्वत्यागविषयत्वौचित्यात् स्वप्नादिष्वपि स्वात्मनि कर्तृत्वानुसन्धानप्रसङ्गनिवृत्तिरूपत्यागकाष्ठाविवक्षयेत्याहआत्मकर्तृत्वे विगतस्पृह इति।सन्न्यासेनाधिगच्छति इति न ज्ञानयोगादिपरं?कर्म न त्यजेत् इति प्रकृतानन्वयात्? अध्यायारम्भोक्तसन्न्यासविषयत्वौचित्याच्चेत्यभिप्रायेणाऽऽहएवं त्यागादनन्यत्वेन निर्णीतेनेति। अत्र नैष्कर्म्यसिद्धिशब्दो न मोक्षविषयःसिद्धिं प्राप्तः इत्यादिना पुनः कर्तव्यविधानात्? नापि ज्ञानयोगमात्रविषयः?परमाम् इति विशेषणान्नैष्कर्म्यशब्दमात्रेण च तद्विवक्षोपपत्तेः। अतोऽत्र ज्ञाननिष्ठाफलप्रारम्भो विवक्षित इत्यभिप्रायेणाऽऽहपरमां ध्याननिष्ठामिति।नैष्कर्म्यसिद्धिम् इति समासवशात्परमत्वविशेषणशक्त्या वा सिद्धिं,विवृणोति — ज्ञानयोगस्यापि फलभूतामिति। उक्तार्थपरत्वमुत्तरग्रन्थानुगुण्येनाऽऽह — वक्ष्यमाणध्यानयोगावाप्तिमित्यादिना। निर्गतकर्मा निष्कर्मा? तस्य भावो नैष्कर्म्यमिति व्युत्पत्तिं व्यनक्तिसर्वेन्द्रियकर्मोपरतिरूपामिति।

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।

समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा।।18.50।।

।।18.50।।सिद्धिं प्राप्तः इत्यस्योक्तानुवादतां सप्रकारहेतुनिर्देशेनाऽऽहआप्रयाणादिति। सिद्धिं प्राप्तस्य ब्रह्मप्राप्त्यभिधानात्तद्व्यतिरिक्तविषयत्वज्ञापनायध्यानसिद्धिमित्युक्तम्।यथा इत्यस्यानन्तरग्रन्थानुसारेण पुरुषव्यापारोपादेयप्रापकप्रकारपरतामाह — येन प्रकारेण वर्तमान इति। मे निबोध मत्तो निश्चयेनावधारयेत्यर्थः। परमे फले ह्युपायो नितिष्ठति अतस्तदेवोपायपर्यवसानभूमितया निष्ठेत्युच्यत इत्यभिप्रायेणाऽऽह — तदेव ब्रह्म विशेष्यत इति। ज्ञानशब्दस्यात्रानन्तरोच्यमानध्यानविश्रान्तिमाह — ध्यानात्मकस्येति।

बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।

शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च।।18.51।।

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।

ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः।।18.52।।

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्।

विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते।।18.53।।

।।18.51,52,53।।बुद्धिशब्दोऽत्र प्रस्तुतब्रह्मशब्दाभिप्रेतविषयबुद्धिगोचरः? तस्याः शुद्धिश्चासमग्रविषयत्वसंशयविपर्ययरूपदोषराहित्यमित्याहयथावस्थितात्मतत्त्वविषययेति।धृत्या इति पूर्वोक्तसप्रकारसात्त्विकधृतिपरामर्शमाहविषयविमुखीकरणेनेति। अत्र धृत्या मनोनियमनं कर्मोक्तम् अपि च पूर्वमेव त्यक्तविषयस्य कोऽसौ तदानीन्तनस्त्यागः इत्यत्राऽऽहअसन्निहितान् कृत्वेति। विषयसन्निधिर्हि विजितेन्द्रियमपि क्षोभयेदिति भावः।रागद्वेषौ व्युदस्य इति वैषयिकरागद्वेषयोर्व्युदासस्यापि तादात्विकविषयत्वायवैराग्यं समुपाश्रितः इत्यनेन पुनरुक्तिपरिहाराय चाऽऽहतन्निमित्ताविति। एतेन विषयासन्निधानफलप्रदर्शनम्। यद्वा विप्रकृष्टेष्वपि सूक्ष्मसङ्गो निरोद्धव्य इति भावः।,विविक्तत्वं रहितत्वम् तत्प्रकृतोपयोगेन विशिनष्टि — सर्वैर्ध्यानविरोधिभिर्विविक्ते देश इति।लघ्वाशी इत्यनेन पूर्वोक्तंनात्यश्नतः [6।16] इत्यादिकं स्मार्यत इत्यत्राऽऽहअत्यशनानशनरहित इति।धृत्याऽऽत्मानं नियम्य च इत्यादिनायतवाक्कायमानसः इत्यस्य पुनरुक्तिपरिहारायाहध्यानाभिमुखीकृतकायवाङ्मनोवृत्तिरिति। कायस्याभिमुखीकरणं स्थिरासनादिपरिग्रहः वाचस्तु प्रणवादिव्यतिरिक्तवर्जनम् मनसस्तु शुभाश्रयालम्बनम्। उक्तानां ध्यानयोगशेषत्वमाहएवम्भूतः सन्निति। नित्यशब्दविवक्षितमाहआप्रयाणादहरहरितिरागद्वेषौ व्युदस्य इति वैषयिकरागद्वेषयोर्व्युदासोक्तेःवैराग्यं समुपाश्रितः इत्येतदाभिमानिकविषयम्? तत्र सम्यगुपाश्रयणं पूर्वसिद्धस्यापि सम्यगवस्थापनमित्यभिप्रायेणविरागतां वर्धयन्नित्युक्तम्। एवमहङ्कारादिविमोचनेऽपि द्रष्टव्यम्।

शरीरमनःप्राणादिबलानां योगविरोधित्वाभावात्वासनाबलमिति विशेषितम्। दर्पोऽत्राहङ्कारबलहेतुकोऽङ्गीकर्तव्यानङ्गीकारः। योगित्वशान्तत्वादिनिमित्तोऽपि दर्पस्त्याज्यःहृष्टो दृप्यति दृप्तो धर्ममतिक्रामति [आ.ध.सू.1।13।4] इति स्मरणात्। मनोवाक्कायव्यापारनिवृत्त्यादेरुक्तत्वाच्छान्तशब्दोऽत्र शमहेतुविशेषपर इत्यत्राऽऽहआत्मानुभवैकसुख इति। इन्द्रियव्यापारोपरतिः क्रोधादिनिवृत्तिश्च बाह्यसुखनिस्स्पृहत्वात्? तच्च प्रभूतात्मस्वसुखलाभादिति भावः। उक्तेषु सर्वेषु ध्यानयोगस्याङ्गित्वमाहएवम्भूतो ध्यानयोगं कुर्वन्निति। ध्यानमेवात्र योगः? ध्यानेन वा योगः। अनन्तरश्लोकार्थपरामर्शेन ब्रह्मशब्दस्यात्र शुद्धात्मविषयतामाहसर्वबन्धेति।

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति।

समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्।।18.54।।

।।18.54।।एवं कर्मयोगादिसाध्यप्रत्यगात्मानुभवस्य परभक्त्यधिकारापादकत्वमुच्यतेब्रह्मभूतः इति श्लोकेन। तदभिप्रायेण परशेषतैकस्वभावत्वस्याप्याविर्भाव उक्तः। योगसाध्यं ब्रह्माख्यमिह ब्रह्मत्वमित्यभिप्रायेणापरिच्छिन्नज्ञानाविर्भावोक्तिः। शेषत्वस्य स्वरूपानुबन्धित्वं प्रागेवोक्तमित्याहइतस्त्वन्यामिति।रागादिदूषिते चित्ते नास्पदी मधुसूदनः [वि.ध.9।10] इत्याद्युक्तपरभक्त्यनर्हतानिवृत्तिःप्रसन्नात्मा इत्युच्यत इत्याह — क्लेशकर्मादिभिरकल्मषस्वरूप इति। आदिशब्देन विपाकाशययोर्ग्रहणं? तयोरपि कालुष्यरूपत्वात्क्लेशकर्मविपाकाशयैः [पा.यो.1।24] इति सन्नियोगशिष्टत्वाच्च। अविद्यास्मितादयः पञ्च क्लेशाः? कर्म पुण्यपापरूपं? जात्यायुर्भोगाः विपाकाः? आशयाः संस्काराः।यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते [6।22] इति प्रागुक्तंन शोचति इति परामृष्टम्। तथायं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः [6।22],इत्युक्तंन काङ्क्षति इति स्मारितम्। अत्रन प्रहृष्यति इति पाठान्तरमप्रसिद्धत्वादनङ्गीकृतम्। तत्रात्मानुभवसुखेन बाह्यवैतृष्ण्यं तावज्जायते? परमात्मनस्तु प्रत्यगात्मनोऽप्यधिकसुखतया श्रुतत्वात्तदनुबुभूषास्थायिनीत्यभिप्रायेण मद्व्यतिरिक्तशब्दः।,शोककाङ्क्षानुदयहेतुःसमः इत्युच्यते इत्यभिप्रायेण — अनादरणीयतायां सम इत्युक्तम्। तुल्यानादर इत्यर्थः। परावरतत्त्वविवेकफलमन्यानादरसाम्यं व्यनक्ति — निखिलमिति।वस्तुजातमित्यनेन ब्रह्मादिस्तम्बपर्यन्तानामेव मेर्वपेक्षया माषसर्षपादीनामिवावान्तरोत्कर्षस्यानादरयोग्यत्वं सूचितम्।तृणवदिति — नहि रत्नपर्वतमारुरुक्षोः पलालकूटे सङ्गः स्यादिति भावः। अत्र मच्छब्देन परभक्त्युत्पत्तिविवृद्ध्यर्थतया पूर्वत्र शास्त्रान्तरेषु च प्रपञ्चितानामुपासनदशायामनुसन्धेयानां चाकाराणामभिप्रेतत्वमाहमयि सर्वेश्वर इत्यादिभिः।सर्वेश्वर — इति ईशितव्यस्य बद्धस्य किं तथाभूतैः ईशितव्यान्तरैरिति भावः।निखिलजगदुद्भवस्थितिप्रलयलील इति — कारणं तु ध्येयः [अ.शिखो.3] इति हि श्रुतिरिति भावः। यद्वा करणकलेवरप्रदानादिभिर्महोपकारके चतुर्विधहेतुभूते तस्मिन् तिष्ठति सृष्टिसंहारकर्मतयैवावस्थितः कोऽन्यः समाश्रयणीय इति भावः।निरस्तसमस्तहेयगन्ध इति — नह्यस्मिन्यथावत्प्रतीते वस्त्वन्तरेष्विवावज्ञावैमुख्यादिकारणमस्तीति भावः।अनवधिकेत्यादि एकैकगुणप्रकर्षोऽपि चित्ताकर्षकः किमुतैवं सम्भूत इति भावः। यद्धि परं सुलभं च तदेव ह्याश्रयणीयमिति सौलभ्योपयुक्तगुणानामप्यत्र सङ्ग्रहः।लावण्यामृतसागर इति शुभाश्रय विग्रहगुणोपलक्षणम्।

श्रीमतीति — श्रीर्हि सर्वेषामाश्रयणीया? साप्येनं नित्यमाश्रितेति हृदयम्। श्रीयते श्रयते चेति श्रीशब्दो निरुक्तः। मतुम्नित्ययोगे। श्रुतिश्च — ह्रीश्च(श्रीश्च)ते लक्ष्मीश्च पत्न्यौ [यजुस्सं.31।22] इत्यादिका। स्मर्यते च — नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी। यथा सर्वगतो विष्णुस्तथैवेयं ৷৷ [वि.पु.1।8।17] इति। एतेनोपास्यत्वप्राप्यत्वादिकं सर्वं सपत्नीकस्येति ज्ञापितम्। आमनन्ति च रहस्याम्नायविद इममेवार्थं — नित्यसन्निहितशक्तिः इति।पुण्डरीकनयन इत्यवयवसौन्दर्योपलक्षणम्। तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम (सः) एष सर्वेभ्यः पाप्मभ्यः उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद [छा.उ.1।6।7] इति सर्वपापविमोक्षकामस्योपासनार्थतया पुण्डरीकाक्षत्वमप्युपदिष्टम्।चक्षुषा तव सौम्येन पूताऽस्मि [वा.रा.3।34।13]यं पश्येन्मधुसूदनः इत्यादिषु च तद्वीक्षणस्य पावनतमत्वमुच्यत इति भावः। भक्त्युत्पत्त्यादौ सर्वमिदमेकतः? स्वामित्वं चैकतः? नचासावेकोनसर्वस्वामीत्यभिप्रायेणाऽऽह — स्वस्वामिनीति।

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः।

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्।।18.55।।

।।18.55।।तत्फलमाहेति — अव्यवहितं व्यवहितं चेति शेषः। पूर्वग्रन्थोक्तजगत्कारणत्वलक्षितसर्वेश्वराख्यधर्म्यभिप्रायेणयः इत्यस्यार्थमाह — स्वरूपत इति। विधिनिषेधरूपशोधकवाक्यावसितसर्वविद्यानुसन्धेयस्वरूपनिरूपकधर्मयोगःस्वभावत इति निर्दिष्टः। स्वरूपनिरूपकधर्माभावे अनिरूपितस्वरूपतया निस्स्वभावमेव वस्तु स्यात्। स्वरूपशब्दः स्वरूपनिरूपकधर्मपरः? स्वभावशब्दस्तु सौलभ्यपर इति केचित्। यावच्छब्दो हि प्रकर्षनिकर्षपरामर्शयोग्याकारविषयो युक्त इत्यभिप्रायेणाऽऽहगुणतो विभूतितोऽपीति।यावांश्चाहमिति गुणशब्दोऽत्र निरूपितस्वरूपविशेषकज्ञानशक्त्यादिसमस्तधर्मविषयः।यावान्यश्च इत्यनयोर्व्युत्क्रमेण व्याख्यानं बुद्ध्यारोहक्रमप्रदर्शनार्थम्।तत्त्वतः इत्यस्ययावान्यश्च इत्यत्रानपेक्षणात्अभिजानाति इत्यत्र संशयादिव्युदासाय तदपेक्षणाच्चतत्त्वतोऽभिजानातीति योजितम्।

मां तत्त्वतोऽभिजानाति इत्युक्तस्यैवमां तत्त्वतो ज्ञात्वा इत्यनुभाषणमुपायभूतस्यापि स्वादुतमतया सुदुर्लभत्वेनादरातिशयार्थम्।तत्त्वतो ज्ञात्वा इत्यनेनैव आनन्तर्यसिद्ध्यर्थहेतुपौष्कल्यज्ञापकानुवादस्य सिद्धत्वात्?तदनन्तरम् इत्यनेनैव प्रवेशस्यानन्तर्यकण्ठोक्तेः?भक्त्या त्वनन्यया [11।54] इत्यादौ प्रवेशेऽपि हेतुतया भक्तेरेव प्रागुक्तत्वाच्चततो भक्तितो मां विशते इत्येवान्वयो दर्शितः।प्रवेष्टुम् इति प्रागुक्तैकार्थ्यज्ञापनाय पदसिद्धये चप्रविशतीत्युक्तम्। यथावज्ज्ञानमपि काष्ठाप्राप्तभक्तेः। अन्योन्याश्रयणं च भक्तेः पूर्वभेदात्परिहृतम्। सैव तु तथाविधावस्था साक्षान्मोक्षसाधनमित्याहतत्त्वत इत्यादिना।,दर्शनशब्देनानुभाषणात्तत्त्वतोऽभिजानाति इत्यस्य साक्षात्कारपरत्वं व्यञ्जितम्।परभक्त्याऽपि तत्त्वज्ञानमेव साध्यं? तदेव तु साक्षान्मोक्षसाधनमिति कुदृष्टिमतमपाकरोतिअत्रेति। एवकारेण दर्शनव्यवच्छेदः। यद्यप्यत्र भक्तिशब्दो व्यवहितः? तत्त्वज्ञानं त्वव्यवहितं? तथापि व्यवहितपरामर्श एव युक्तः अन्यथातत्त्वतो ज्ञात्वा इत्यादिना पुनरुक्तिप्रसङ्गात्। अत्र दर्शनजनकभक्त्यनुवादे प्रयोजनाभावात्सैव तदुत्तरावस्था परामृश्यत इति भावः। प्रागुक्तं हेतुमाहभक्त्या त्वनन्ययेति।अयमभिप्रायः — उपक्रमन्यायात्पूर्वं प्रबलं? स्पष्टास्पष्टयोश्च स्पष्टानुसारेणान्यद्गमयितव्यम् — इति।

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः।

मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्।।18.56।।

।।18.56।।पूर्वत्र ज्ञाननिष्ठोक्ता? अनन्तरं कर्मनिष्ठोच्यत इति शङ्काव्युदासाय पूर्वत्रापि कर्मनिष्ठायामेवावान्तरविशेषविपक्तिमनुवदन् सङ्गतिमाह — एवमिति। विपाकोऽत्र पूर्वश्लोकद्वयोक्तपरभक्तिपरज्ञानपरमभक्तिपर्यन्तः। विहितकर्मणां पूर्वमुक्तत्वात्सर्वकर्माण्यपीति निषिद्धानुष्ठानं भगवदनन्यतास्तुत्यर्थमुपक्षिप्यत इति स्वैराभिलाषिशङ्करादिमतमपाकरोतिइदानीं काम्यानामपि कर्मणामिति। सर्वशब्दोऽत्र शास्त्रीयेष्वेवानुक्तसङ्ग्रहणार्थ इति भावः। तदेव विवृणोतिन केवलमित्यादिना। पूर्वश्लोकस्थप्राप्यमेवात्रापि सविशेषणपदशब्देन निर्दिष्टमित्यभिप्रायेण निर्वक्तिपद्यत इति।

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः।

बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव।।18.57।।

।।18.57।।उक्तं परमपुरुषार्थसाधनत्वमनन्तरोपायानुशासनहेतुरित्याहयस्मादेवमिति। चेतश्शब्दसाफल्याय तदभिप्रेतं चेतसो भगवति कर्मसन्न्यासकरणत्वं येन प्रकारेण? तमाहआत्मनो मदीयत्वमन्नियाम्यत्वबुद्ध्येति। अत्र चेतश्शब्दस्यैव तात्पर्यं प्राचीनसविशेषणनिर्देशेन स्थापयतिउक्तं हीति। अध्यात्मचेतसा? परशेषत्वादिविशेषितयथावस्थितात्मगोचरबुद्ध्येत्यर्थः। सर्वशब्देन स्वरूपकात्स्न्र्यवदनुबन्धिकात्स्न्र्यमपि प्रागुक्तप्रकारेणाभिप्रेतमित्याहसकर्तृकाणि साराध्यानीति। बुद्धियोगशब्देन मुमुक्षोरसाधारणं कर्तृत्वानुसन्धानादिकं सर्वं प्रत्यभिज्ञाप्यत इत्याहइममेव बुद्धियोगमिति।

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि।

अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि।।18.58।।

।।18.58।।मच्चित्तः सर्वदुर्गाणि इत्यत्र मच्चित्तशब्देन पूर्वश्लोकोक्तस्यैवानुवादात्तत्र च बुद्धिविशेषविशिष्टकर्मविधिपरत्वादुत्तरेष्वपि ग्रन्थेषु युद्धाख्यस्वधर्मप्रोत्साहनस्यैव स्फुटत्वादिहापि तद्विवक्षामाह — एवं मच्चित्तः सर्वकर्माणि कुर्वन्निति। मच्चित्तत्वमात्रस्य विधेयत्वे अनन्तरं युद्धनिवृत्त्यध्यवसायप्रतिक्षेपो न सङ्गच्छत इति भावः। दुर्गशब्दस्य गिरिवनजलादिदुर्गेषु प्रसिद्धिप्रकर्षात्क्षत्ित्रयस्य चार्जुनस्य युयुत्सोस्तन्निस्तारापेक्षासम्भवात्तद्विषयत्वशङ्कामप्यपाकर्तुं पूर्वापरानुरोधेनसांसारिकाणीति विशेषितम्।मत्प्रसादात् इत्यनेन व्युत्पत्त्यनुशासनश्रुतिस्मृत्यादिविरुद्धापूर्वादिकल्पनाव्युदासः? स्वस्य फलप्रदाने प्रतिबन्धनिवृत्त्यादिमात्रसाकाङ्क्षत्वं च सूच्यत इत्यभिप्रायेणाऽऽहमत्प्रसादादेवेति। एवं नित्यनैमित्तिककाम्यरूपाणां कर्मणां बुद्धिविशेषनियमादियोगेन कर्मयोगशब्दितानां परम्परया परिपूर्णभगवत्प्राप्तिपर्यन्तं विपाकमुपपाद्य सर्वथा कर्मयोग एव ते कर्तव्य इति निगमितम्।,अथ तदकरणे प्रत्यवायमाह — अथ चेत् इत्यर्धेन। हितवचनानादरस्य निमित्तभूतमहङ्कारविशेषमाहअहमेव कृत्याकृत्यविषयं सर्वं जानामीति भावादिति।न श्रोष्यसीति — श्रूयमाणेऽपि श्रुतफलनिवृत्त्यभिप्रायम्।विनङ्क्ष्यसि इत्यनेनानादिकालमनुवृत्तस्यात्मनाशस्योत्तरकालेप्यनुवृत्तिर्विवक्षितेत्यभिप्रायेणाऽऽहनष्टो भविष्यसीति।बुद्धिनाशात्प्रणश्यति [2।63] इति प्रागुक्तप्रत्यभिज्ञापनमिति भावः। अश्रवणादिनिदानमाप्तान्तरादिसम्भवमपाकुर्वन्विनङ्क्ष्यसि इत्यस्य शापवचनतुल्यताव्यावृत्त्यर्थं स्वस्यैवाप्ततमत्वकथनेन स्वोपदिष्टस्यार्थस्थितिरुपतायामभिप्रायमाहनहि कश्चिदिति। अन्ये हि वक्तारो मया वाचिताः परिमितविषयं किञ्चिद्वदन्ति अहं तु सर्वस्याधिकारिणः सर्वविधहिताहितवेदा यानि च परोक्तानि शास्त्राण्यनुक्तानि च च्छन्दांसि? तान्यपि मदाज्ञारूपतयैव प्रमाणभूतानीति भावः।

यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे।

मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति।।18.59।।

।।18.59।।एवमश्रवणफलभूतयुद्धनिवृत्तेर्विनाशहेतुत्वमुक्तम् अथ युद्धनिवृत्तेरेवाशक्यत्वमुच्यते? किञ्च भवतु कर्मयोगो मया कर्तव्यः युद्धव्यतिरिक्तं किमपि कर्मयोगान्तरमुपाददानस्य मे विनाशो न स्यादिति,शङ्कामपाकरोतियद्यहङ्कारं इति श्लोकेन। अहङ्कारं युद्धनिवृत्त्यानुगुण्येन विशिनष्टिआत्मनि हिताहितेति। अहङ्काराश्रयणफलमाहमन्नियोगमनादृत्येति।न श्रोष्यसि इत्यस्यैवायमर्थः।एषः इत्यनेन परामृष्टमाह — स्वातन्त्र्यव्यवसाय इति। स्वातन्त्र्याभिमानगर्भस्तन्मूलो वा व्यवसायः स्वातन्त्र्यव्यवसायः। तदुभयंमन्यसे इत्यनेन अहङ्कारमाश्रित्य इत्यनेन च सूचितम्। प्रकृतिर्नियोक्ष्यतीत्ययुक्तम्? अचेतनत्वात्तस्याः? चेतनव्यापारत्वाच्च नियोगस्येति शङ्कामुपालम्भाभिप्रायेण परिहरति — मत्स्वातन्त्र्योद्विग्नं त्वामिति। मदुक्तकरणे सर्वज्ञस्य मे सर्वं भरः स्यात् मन्नियोगातिक्रमे तु मय्युदासीने प्रकृतिपरतन्त्रस्त्वमहितेष्वेव प्रवृत्स्यसीति भावः।

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा।

कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्।।18.60।।

।।18.60।।पुनरुक्तिपरिहारायाऽऽह — तदुपपादयतीति। प्रकृतेः प्रेरकत्वप्रकारमवान्तरव्यापारेण दर्शयतीत्यर्थः।प्रकृतिः इति निर्दिष्ट एवायमर्थः स्वभावशब्देनानूदितः। स्वभावशब्दश्चस्वभावप्रभवैर्गुणैः [18।41] इत्यत्र व्याख्यातः। प्रकृतिशब्दस्यात्र देहाद्याकारपरिणतप्रकृतिविषयत्वेऽपि स्वभावशब्दः पूर्वोक्तार्थ एव।शौर्यं तेजः इत्यादिकं स्मारयतिस्वभावजं हीति।स्वेन क्षत्ित्रयासाधारणेनेत्यर्थः। शौर्यं निर्भयप्रवेशसामर्थ्यं तेन तन्मूलं कर्मात्र वासनावशाद्रुचिविषयतया बन्धकत्वेनोक्तम्। मदुक्तानादरे प्रकारान्तरेणापि करिष्यस्येवेत्यपिशब्दार्थः। तदभिप्रायेणाऽऽह — त्वमेवेति।परैर्धर्षणमसहमान इति विशेषणं अवशस्य कथं कर्मकर्तृत्वमिति शङ्कापरिहारार्थम्। अमर्षचिकीर्षादिस्पर्धकगुणपारवश्यं कर्तृत्वस्योपयुक्तमेवेति भावः।कर्तुं नेच्छसि यन्मोहात् इति वाक्यान्तर्वाक्यनिवेशो हास्यकरुणरसावेशेन? तद्विविनक्तियदिदानीमिति। प्राप्तावसरे धर्मयुद्धानुष्ठानं परित्यज्यातिक्रान्तावसरे परपरिभवव्रीडितोगतजलसेतुबन्धं करिष्यसीति वर्तमानभविष्यद्व्यपदेशयोस्तात्पर्यमिति भावः।न श्रोष्यसि [5।188] इतिवदुपदिष्टस्य चित्तानारोह इह मोहशब्देन विवक्षित इत्याह — अज्ञानादिति।

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।

भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया।।18.61।।

।।18.61।।उक्तार्थस्थापनाय त्वय्युदासीने कथमहं प्रवर्तेय तथात्वे वा कथं तव सर्वहेतुत्वं इति चोद्यम्ईश्वरः इति श्लोकेन परिह्रियत इत्याह — सर्वं हीति। उक्तं स्वभावपारतन्त्र्यमपि मत्प्रयुक्तम् मम च साधारणकारणत्वान्न कश्चिद्विरोध इति भावः। ईश्वरशब्दस्यात्रेन्द्रादिशब्दवत् अर्वाचीनेश्वरविषयरूढिशङ्कापरिहाराय यौगिकमर्थमन्वर्थसमाख्यया स्थापयतिसर्वनियमनशीलो वासुदेव इति।सापेक्षनिरपेक्षयोर्निरपेक्षसम्प्रत्ययः इति न्यायादीश्वरत्वस्य सर्वविषयत्वं सिद्धम्। तस्य च व्याप्तिमूलत्वं वासुदेवशब्देन दर्शितम्। वक्तृविषयत्वज्ञापनाय वासुदेवशब्दः। सर्वेश्वरेणमया इति ह्यधस्ताद्दर्शितम्। सर्वव्याप्तस्य हृद्देशे विशेषस्थितिवचनं किमर्थं इत्यत आह — सकलप्रवृत्तिनिवृत्तिमूलज्ञानोदयप्रदेश इति। एतेन हृदयस्थितेःभ्रामयन् इत्यत्रोपयोगो दर्शितः।,कथमित्युपकरणाभिप्रायम्मायया इति हि तदुत्तरम्।किं कुर्वन्निति — ईश्वरशब्देन नियन्तृतैकनिरूपणीयतया प्रतिपन्नोऽसौ कीदृशं नियमनं कुर्वन्नित्यर्थः।यन्त्र इत्यादिभ्रामयन् इत्यन्तमेकं वाक्यं प्रश्नवाक्यादाकृष्टेन तिष्ठतिनाऽन्वेतव्यम्। प्रागुक्तसर्वपरामर्शेन यन्त्रमायादिशब्दानामर्थं विवृणोति — स्वेनैव निर्मितमित्यादिना। भूतशब्देन? हृत्प्रदेशनिर्देशेन? पुरुषप्रवृत्तिविशेषानुगुण्यात्? अर्थस्वभावेन च यन्त्रशब्दोऽत्र देहेन्द्रियसङ्घातविशेषविषयः। महतः परमव्यक्तशब्देन निर्दिष्टम्? तत्रैव च शरीरं रथमेव च [कठो.3।3] इति रथाख्ययन्त्रत्वेन रूपितमिति ज्ञापनाय — देहेन्द्रियावस्थं प्रकृत्याख्यमित्युक्तम्। तथा च श्रूयते — सर्वाजीवे सर्वसंस्थे भ्रमन्ते (बृहन्ते) तस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे। पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति [श्वे.उ.1।6ना.प.9।5] इति। एतेनयन्त्रारूढानीव(शां.)इतीवशब्दलोपेन व्याकुर्वन्तो निरस्ताः।स्वकीयेति — आदौगुणमयी मम माया [7।14] इति ह्युक्तम्। श्रुतिश्च अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः [श्वेता.4।9] मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् [श्वेता.4।10] इति। जीवस्य कर्तृत्वादिभङ्गपरिहारायगुणानुगुणमित्युक्तम्। नहि जीवमीश्वरो भूतावेशन्यायेन प्रवर्तयति? अपितु सत्त्वादिगुणमयान् भावान् पुरस्कृत्य पूर्वसिद्धवासनाविशेषजनितसङ्गद्वारेणेति न विरोधः। भ्रामयन्? भ्रमयन्नित्यर्थः। तत्र प्रवृत्तिहेतुतया मोहनमन्तर्नीतं? न तु शाब्दमित्याह — प्रवर्तयन्निति। अत्र शब्देन परोक्षव्यपदेशेनापि वक्ता वासुदेवो निर्दिष्ट इतीममर्थं प्रागुक्तेन द्रढयितुमाह — पूर्वमपीति। य आत्मनि तिष्ठन् [श.ब्रा.14।5।30] इत्यादिनिर्दिष्टोऽन्तर्यामी सौबालिक्यामुपनिषदि नारायण इति विशेषितः स एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः [सुबालो.7] इति।

तमेव शरणं गच्छ सर्वभावेन भारत।

तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्।।18.62।।

 ।।18.62।।स्वतन्त्रे स्वमायया प्रेरयति? परतन्त्रस्तां कथं निस्तरेत् इत्यत्रोत्तरंतमेव शरणम् इति श्लोक इत्याह — एतन्मायानिवृत्तिहेतुमाहेति।यस्मादेवम् — अन्यथाऽपि बुद्ध्या निवर्तितुमशक्यत्वादित्यर्थः? सर्वस्येश्वराधीनत्वादिति वा।तमेव इत्यनेन मायां कोऽन्यो निवर्तयितुं शक्नोतीति सूचितमित्याह — सर्वस्य प्रशासितारमिति। अत्यन्तस्वतन्त्रः स एव हीदानीं रथिनस्तव सारथित्वेन परतन्त्रः प्रशास्तीत्यभिप्रायेणआश्रितवात्सल्येनेत्यादिकमुक्तम्। एवमनुवर्तनीयत्वाय परत्वं सौलभ्यं च दर्शितम्। भावशब्दोऽत्र मनोवृत्तिपर इत्याहसर्वात्मनेति। सर्वप्रकारेणेति वाऽर्थः। तेनवासुदेवः सर्वम् [7।19] इत्युक्तप्रक्रिययाऽन्तर्यामित्वेनोपदेष्टृत्वेन प्राप्यत्वप्रापकत्वादिभिश्चैक एवावस्थित इत्यनुसन्धानं वा विवक्षितम्। अत्र शरणशब्द उपदेशादिमुखेन गोप्तृविषयः तेनैव द्वारेणोपायपरो वा। यथोपदिष्टकरणमेवात्र शरणागतिरित्यभिप्रायेणाऽऽह — सर्वात्मनाऽनुवर्तस्वेति।न श्रोष्यसिन योत्स्ये इत्युक्तनिषेधपरत्वादनुवर्तनमेवात्र शरणागतिरिति दर्शयितुं प्रकृतेन विपर्यये प्रत्यवायेन योजयति — अन्यथापीति। प्रकृतोपयोगेनानुवृत्तिं विशिंषन् विवक्षितमुपसंहरति — अतस्तदुक्तप्रकारेणेति। स्ववर्णाश्रमानरूपतदाज्ञानुवर्तनमेव हि तत्प्रीणनमिति भावः।

उक्तानुवृत्तिं प्रसादहेतुतयोत्तरार्धेन योजयति — एवं कुर्वाणस्तत्प्रसादादिति।मत्प्रसादात् [18।5658] इत्युक्त एवार्थःतत्प्रसादात् इत्यत्र निर्दिष्टः। तत्रोक्तं सर्वदुर्गतरणमिह परा शान्तिः। शान्तेश्चात्र परत्वं निवृत्तजातीयकारणसामानाधिकरण्यविरहेणापुनरङ्कुरत्वमित्यभिप्रायेणाऽऽहसर्वकर्मेति। सर्वकर्मबन्धोपशमपरशान्तिशब्देन अनिष्टनिवृत्तिरुक्ता।स्थानं प्राप्स्यसि इति इष्टप्राप्तिरुच्यते। शाश्वतशब्देन ब्रह्मादिस्थानव्यवच्छेदः। मूलप्रकृतिः सूक्ष्मावस्था? मुक्तप्राप्यस्थानमिति केचित् सत्यलोकादिष्वेव वैष्णवस्थानमिति चापरे तत्स्थानशब्दस्य मुख्यार्थस्वीकाराय? वादिक्षेपाय चाप्राकृतस्थानं श्रुतिभिरुपपादयति — यदभिधीयत इति। अधीतवेदानां सम्प्रतिपत्त्यतिशयार्थंश्रुतिशतैरित्युक्तम्। एतेन कारणश्रुतीनां एकमेवाद्वितीयम् [छां.उ.6।2।1] इत्यादीनां स्रक्ष्यमाणकार्यप्रपञ्चमात्रप्रलयपरत्वं बहुश्रुत्यविरोधाय दर्शितम्।तद्विष्णोः इति वाक्यं प्रत्येकं सदापश्यदनेकसूरिविशिष्टविधिपरं? कृत्स्नस्याप्राप्तत्वात्।विष्णोः इति वैयधिकरण्याच्च नात्र स्वरूपपरता युक्ता।यत्र पूर्वे साध्याः सन्ति इत्यत्राप्यनवच्छेदान्नित्यं सन्तीति सिद्धम्। अत्र चशाश्वतं स्थानम् इति निर्दिष्टं परमात्मन एव स्थानमिति प्रकरणान्तरे व्यक्तम्।रम्याणि कामचाराणि (दिव्यानि कामचारीणि) विमानानि सभास्तथा। आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदकाः। एते वै निरयास्तात स्थानस्य परमात्मनः [म.भा.12।198।411] इति। आह च भगवान् पराशरः — एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये। तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः [वि.पु.1।6।39] इति।

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु।।18.63।।

।।18.63।।एवमर्जुनस्य युद्धे प्रोत्साहनव्याजेन सर्वाध्यात्मशास्त्रार्थजातमुपदिश्य सर्वासु निष्ठासु नित्यकर्मणो दुस्त्यजतयाऽन्तेऽपि युद्धकर्तव्यत्वमेव स्थापितम्। अथस हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने [अनुगी.1।12] इति प्रत्यभिज्ञापयिष्यमाणप्रकारेण श्रोतव्यान्तराभावज्ञापनाय प्रक्रान्तनिष्ठात्रयं पुष्कलोपदिष्टतया यथाधिकारमनुष्ठेयत्वेन निगम्यतेइति ते ज्ञानमाख्यातम् इति श्लोकेन। वाच्यवचनयोः सम्यक्त्वं पौष्कल्यं च इतिकरणेन विवक्षितमित्यभिप्रायेणाऽऽह — इत्येवमिति। तेयच्छ्रेयः स्यात् [2।7] इत्यादिवादिने प्रपन्नाय शिष्यायेत्यर्थः। अत्र लौकिकप्रमाणप्रसिद्धविषयेभ्य आयुर्धनुर्गान्धर्ववेदार्थनीतिशास्त्रादिजन्येभ्योज्ञानेभ्यः प्रकृष्टातीन्द्रियपारलौकिकस्वर्गादिपुरुषार्थतदुपायविषयं वेदाख्यशास्त्रमूलं विविधज्ञानं गुह्यशब्देन विवक्षितम्। गुह्यतरशब्देन तु वेदान्तनिष्पाद्यं तदुपबृंहणभूतैतच्छास्त्रविशोधितं मुमुक्षुभिर्यथाधिकारमनुष्ठेयव्यवहिताव्यवहितसमस्तमोक्षोपायज्ञानं प्रदर्श्यते। तत्र त्रिवर्गमात्रसक्तेभ्यो गोपनीयतया गुह्यतरत्वोक्तिरित्यभिप्रायेणाऽऽह — मुमुक्षुभिरधिगन्तव्यं ज्ञानं सर्वस्माद्गुह्याद्गुह्यतरमिति।नन्वेतच्छास्त्रोक्तेष्वेव गुह्यगुह्यतरविभागः स्यात् तत्राप्यन्तिमाध्यायोक्तमेव गुह्यतरतयाऽत्र निगम्यत इति शङ्कामपाकरोतिकर्मयोगविषयं ज्ञानयोगविषयं भक्तियोगविषयं चेति।विमृश्यैतदशेषेण यथेच्छसि तथा कुरु इत्यनन्तरवाक्यपरामर्शस्वारस्याद्गीताशास्त्रोक्तं कृत्स्नमिह गुह्यतरशब्देन विवक्षितमिति गम्यते। तदवान्तरतारतम्ये तु सर्वगुह्यतममित्यनन्तरश्लोके वक्ष्यत इति भावः।आख्यातम् इत्यनेन वक्तव्यान्तराभावो व्यञ्जित इत्यभिप्रायेणाऽऽहसर्वमाख्यातमिति। मया स्वतः सार्वज्ञादिगुणयोगादाप्ततमेन हितैषिणा चेत्यर्थः।अशेषेण विमृश्य इत्यनेन विवक्षितमाहस्वाधिकारानुरूपमिति। सहसैव पूर्वपूर्वपरित्यागो न युक्त इति भावः।यथेच्छसि तथा कुरु इत्येतन्न युद्धकरणाकरणविषयम्? निष्ठात्रयेऽपि नित्यनैमित्तिकानां वर्णाश्रमानुबन्धिकर्मणामवश्यानुष्ठेयत्वोक्तेः?यद्यहङ्कारमाश्रित्य [18।59] इत्यादिश्लोकाभ्यामर्जुनेन युद्धस्य दुस्त्यजतां वदतो भगवतस्तन्निवृत्तिविवक्षानुपपत्तेश्च। अतोऽत्र तत्तदधिकारानुरूपमुपदिष्टेषु शास्त्रार्थपर्वसु बुद्धिमत्तरस्त्वं कर्मज्ञानभक्तिषु कर्मण्यस्मिन्ममेदानीमधिकार इति परामृश्य तस्मिन् पर्वणि परिगृहीतस्ववर्णाश्रमधर्म एव वर्तस्वेत्युच्यत इत्यभिप्रायेणाऽऽह — कर्मयोगं ज्ञानयोगं भक्तियोगं वा यथेष्टमातिष्ठेति। एतेनकर्मज्ञानयोगयोरिदं निगमनम्सर्वगुह्यतमम् इत्यादिनाभक्तियोगनिगमनम् इति कैश्चिदुक्तो विभागो निरस्तः।

सर्वगुह्यतमं भूयः श्रृणु मे परमं वचः।

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्।।18.64।।

।।18.64।।अविशेषेण त्रिविधेऽपि हि निगमिते त्रयाणामप्यन्यापेक्षया गुह्यतरत्वे चोक्ते त्रिष्वेतेषु व्यवहिताव्यवहितोपायविभागेन गुह्यतमाध्यवसायार्थं? पुनः प्राधान्यात्तत्रैव शास्त्रतात्पर्यातिशयद्योतनायसर्वगुह्यतमम् इत्यादिश्लोकद्वयेन भक्तियोगरूपशास्त्रसारार्थः प्रतिसन्धाप्यते। तदभिप्रायेण हिशास्त्रसारार्थ उच्यते [गी.सं.22] इति संगृहीतम्। विवृतं चाध्यायादौ। अत्रसारार्थशेषतया सारतमं प्रपदनं चरमश्लोकेन प्रतिपाद्यते इति सोऽपिशास्त्रसारार्थः इत्यनेनैव क्रोडीकृतः।सर्वगुह्यतमम् इत्यत्र योगविभागवतासप्तमी शौण्डैः [अष्टा.2।1।40] इत्यनेन समासमभिप्रेत्यसर्वेष्वेतेष्विति सप्तमीनिर्देशः। गुह्यतमशब्दप्रत्यभिज्ञानाद्भूयश्शब्दस्वारस्यात्मन्मना भव इति श्लोकस्य चाल्पान्तरस्य पूर्वोक्तस्यैव पाठात्स एव भक्तियोग इह शास्त्रान्ते शास्त्रसारत्वज्ञापनायोद्ध्रियते? नत्वर्थान्तरमित्यभिप्रायेणाऽऽहगुह्यतमम् इतिपूर्वमेवोक्तमिति। अत्र वाच्यस्य गुह्यतमत्वमेव वचस्युपचरितमित्याहभूयोऽपि तद्विषयमिति। श्रवणमात्रावृत्तेःश्रृणु इत्यनेनैव साध्यत्वाच्छुतार्थविषयत्वपरोऽत्र भूयश्शब्दः। व्यवधाननैरपेक्ष्येण गुह्यतमनिष्कर्षार्थतया पुनर्वचनं सार्थमिति भावः। वचसः परमत्वोक्तिः नातःपरं वक्तव्यमस्ति इति निगमनाभिप्राया। यद्वा वाच्यस्य परमत्वात्तद्वचसोऽपि तदुच्यतेयस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन इति भगवद्योगश्च सर्वेभ्यो यज्ञादिभ्यः परमः? परान्तर रहितश्चोच्यते तथाइज्याचारदमाहिंसादानस्वाध्यायकर्मणाम्। अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् [या.स्मृ.1।1।8] इति। आत्मा ह्यत्र सर्वान्तरात्मा। उपच्छन्दनस्तुत्यादिशङ्कापरिहारायइष्टोऽसि इत्यादिकम्। इष्टः प्रीतिविषय इत्यर्थःप्रियोऽसि [18।65] इत्यनन्तरवत्। दृढमिष्टः अत्यर्थं प्रियः।प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः [7।17] इत्यादिभिः प्रागुक्तज्ञानिवदतिदृढमिष्टोऽसि यथा गुह्यतमं प्रकाशनीयं? तथा प्रीतिविषयोऽसीत्यर्थः। इष्ट इति यतः? ततस्ते हितं वक्ष्यामीति वा।,

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे।।18.65।।

।।18.65।।मन्मना भव इत्यस्याव्यवहितफलसाधनतया गुह्यतमाङ्गिस्वरूपपरत्वं दर्शयितुं तत्स्वरूपं तावत्प्रमाणतः शिक्षयतिवेदान्तेष्विति।वेदाहम् इत्यादिपुरुषसूक्तवाक्योपादानमुपनिषदन्तराणां तदनुवर्तित्वज्ञापनार्थम्?नान्यः पन्थाः इति हि तत्साध्योपायान्तरव्यवधानशङ्कानिरासार्थम्। अत्र चअतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः [15।18] इति वक्तुश्च वासुदेवस्य तत्प्रतिपाद्यत्वात्मन्मना भव इति विहितस्य महापुरुषोपासनत्वज्ञापनार्थं च। वेदनं ह्यत्रोक्तम्? न तु भक्तिरित्यत्राऽऽह — ध्यानोपासनादिशब्दवाच्यमिति। आदिशब्देन तत्तत्स्मृत्युक्तभक्तिसेवादिशब्दग्रहणम्। समानप्रकरणस्थाभ्यां ध्यानोपासनशब्दाभ्यां वेदनं हि विशेष्यते। अन्यथा गुरुलघुविकल्पाद्यनुपपत्त्या ध्यानादिविधिवैयर्थ्यप्रसङ्ग इति भावः। विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारदर्शनाच्च वेदनमुपासनं इत्येव व्यक्तमुपपादितं शारीरकभाष्यादिषु।

किञ्च द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [बृ.उ.2।4।54।5।6] इत्युक्त्वा तान्येव दर्शनादीन्यनुवदन्ती श्रुतिः विज्ञानशब्देन निदिध्यासनमनुवदति — आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन [बृ.उ.2।4।5] इति। एवं तस्मिन् दृष्टे परावरे [मुं.उ.2।2।8] इति वाक्यैर्दर्शनं न साक्षात्प्रत्यक्षरूपं?,गुरुलघुविकल्पाद्यनुपपत्तेरेव। न चाधिकारिभेदेन तत्सम्भवः? व्यवस्थापकाभावात्। न च द्वारिद्वारभावकल्पना शक्या? ध्रुवानुस्मृतेर्दर्शनस्य चाविशेषेणाव्यवहितसाधनत्वश्रुतेः। अत ऐकार्थ्येऽत्यवश्यम्भाविन्यन्यतरस्यौपचरिकत्वमन्तरेण तदसम्भवात्? निष्प्रयोजनस्योपचारस्यायोगात्? स्मृतिशब्देन च प्रत्यक्षस्योपचारेऽतिशयासिद्धेः? विपर्यये तु दर्शनसमानाकारत्वलक्षणवैशद्यविधानेन सप्रयोजनत्वाच्च।

स्वप्नधीगम्यम् इत्याद्युपबृंहणाभिप्रेतवैशद्यविशिष्ट स्मृतिरेव तस्मिन् दृष्टे निचाय्य तं [कठो.1।3।15] द्रष्टव्यः [बृ.उ.2।4।54।5।6] इत्यादिभिर्विधीयतं इत्यभिप्रायेणाऽऽहदर्शनसमानाकारमिति।स्मृतिसन्तानमिति — तेन स्मृतिः सन्तन्यते यत्रेति वा स्मृतेः सन्तानो यत्रेति वा व्युत्पत्त्या नपुंसकत्वमत्र ज्ञातव्यम्। ततश्चित्तैकाग्र्यशब्दार्थः। तेन तन्मूलज्ञानलक्षणया तैलधारावदविच्छिन्नत्वं सूचितम्। वेदनं वा सामान्यरूपमत्रान्यपदार्थः। तत्रवेदनम् इति पाठे तदेव विशेष्यम्। वेदनध्यानोपासनादि इति पाठे तु स्मृतिसन्तानस्य विशेष्यत्वात्तस्यैव भक्तिरूपत्वायाऽऽह — अत्यर्थप्रियमिति। इह अव्यवहितमोक्षोपायोपदेशदशायामित्यर्थः। वेदान्तविहितस्यापि अर्जुनेनाविदितत्वात्तं प्रतिमन्मना भव इति विधिरेवेत्याह — विधीयत इति।

मद्भक्तशब्दार्थमाह — अत्यर्थमत्प्रिय इति। अत्यर्थमहं प्रीतिविषयभूतो यस्य सोऽत्रात्यर्थमत्प्रियः।प्रियो हि ज्ञानिनोऽत्यर्थमहम् [7।17] इति ह्युक्तम्। विधेयस्य कर्तव्यस्य वैशिष्ट्याभिप्रायेण कर्तरि विशेषणमित्याह — अत्यर्थमत्प्रियत्वेन निरतिशयप्रियामिति।मद्याजी मां नमस्कुरु इत्युभाभ्यां अङ्गिकोटिनिर्देशेनान्तरङ्गपरिकरयोग उपलक्ष्यत इति दर्शयितुमाह — तत्रापीति। यजिनाऽत्राविवक्षितज्योतिष्टोमादिप्रतीतिव्युदासाय धातुशक्तिं स्मारयति — यजनं पूजनमिति। फलितमाह — अत्यर्थप्रियेति। भक्त्यनुप्रवेशेन स्वरूपानुरूपत्वद्योतनाय? सारतमत्वसिद्ध्यै सारार्थग्राहकभगवच्छास्त्रादिचोदितां प्रक्रियां स्मारयति — आराधनं हीति। अन्तःकरणवृत्तिविशेषपर्यवसानायाऽऽहनमो नमनमिति। एतेन प्रणिपातमात्रपरत्वव्युदासः। त्रिविधा हि प्रणतिः शास्त्रेषु शिष्यते। मद्भक्तपदानुषङ्गविशेषितं तदभिप्रेतमाह — मयीति। आत्मात्मीयं सर्वं भगवत एवेत्यनुसन्धानादतिमात्रप्रह्वीभावः।

एवं वर्तमान इति — एतेनात्यर्थप्रियत्वाद्यनुवादमात्रत्वं विवक्षितं? न तद्व्यतिरेकेण स्वात्माधारत्वम्? अवधारणेनाव्यवधानं विवक्षितम्।सत्यम् इति प्रतिज्ञाविशेषणं? न तु प्रतिज्ञातस्योक्तिरित्याह — एतदिति।वास्तोष्पते प्रतिजानीह्यस्मान् [ऋक्सं.5।4।21।1] इत्यादिष्विवोपसर्गस्य गत्यभावविषयमविवक्षितार्थत्वं निराकरोति — प्रतिज्ञां करोमीति।द्यौः पतेत्पृथिवी शीर्येद्धिमवाञ्छकलीभवेत्। शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् इत्यादिभगवद्वाक्यानुसारेणाभिप्रेतमाहनोपच्छन्दनमात्रमिति। अत्र प्रियवचनेन प्ररोचनरूपार्थवादत्वं त्वया न शङ्कनीयमित्यर्थः। एवं वर्तमानस्य स्वप्राप्तौ स्वप्रीतिलक्षणद्वारमुपक्षिप्योपच्छन्दनशङ्काऽपाक्रियतेप्रियोऽसि मे इत्यनेनेत्याह — यतस्त्वमिति। साध्यमपि ज्ञानित्वं सिद्धवत्कृत्वाप्रियोऽसि इति तत्फलोक्तिरित्यभिप्रायेणप्रियो हि ज्ञानिनोऽत्यर्थम् [7।17] इति सामान्येन प्रागुक्तप्रयोजकग्रहणम्। एतेन भूयश्शब्दस्योक्तार्थपरत्वं दर्शितम्। उक्तासम्भवशङ्कापरिहाराय लोकदृष्टमीश्वराभिप्रायं चानुसृत्योपात्तवचनार्थमाह — यस्येति। तत्फलितमाह — इति तद्वियोगमिति। हेतुवाक्यार्थं साध्येन सङ्गमयति — अतः सत्यमिति।प्रतिज्ञातमिति भावे निष्ठा।

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।।18.66।।

 ।।18.66।।एवं विस्तरेण सङ्ग्रहेण चोक्तानां कर्मयोगादीनां त्रयाणां साधारणं सारतमानुसन्धानविशेषमुद्धृत्य तत एवमामेवैष्यसि [18।65] इत्युक्तेष्टप्राप्तेः प्रतिबन्धकीभूतानिष्टानां निवृत्तिरुच्यते — सर्वधर्मान् इति श्लोकेन। तदाह — कर्मयोगेत्यादिना। सर्वशब्देन प्रकृतत्रिकमविशेषाद्गृह्यते। कर्मयोगादीनां धृतिसाधनत्वलक्षणधर्मशब्दवाच्यत्वमाह — परमनिश्श्रेयससाधनभूतानिति। यथायोगं परम्परया साक्षाच्चेति शेषः। तत्साधकत्वप्रयोजकमाह — मदाराधनत्वेनेति। त्रिवर्गवैमुख्यहेतुमाह — अतिमात्रप्रीत्येति।यथेच्छसि तथा कुरु [18।63] इति पूर्वोक्तोपजीवनेनाऽऽह — यथाधिकारं कुर्वाण इति। क्रमात्सर्वं ह्यस्यानुष्ठेयं स्यादिति च भावः।कुर्वाण एवेत्यनेन स्वरूपत्यागादिपक्षास्तामसत्वादिभिर्निन्दिता इति स्मारितम्। परित्यागशब्दविवक्षितमाह — उक्तरीत्येति। अध्यायारम्भविशोधितप्रकारेणेत्यर्थः।फलकर्मकर्तृत्वादिपरित्यागेनेति कर्मत्यागः स्वकीयताभिमानत्यागः। भक्तियोगेऽपि ऐश्वर्यादिफलान्तरं त्याज्यमेव मोक्षाख्यफलस्यापि हि सर्वशेषिभगवच्छेषत्वधिया स्वशेषताधीः परिहार्या। आदिशब्देन कञ्चुकभूतेन्द्रादीनामाराध्यत्वाभिमानः संगृहीतः। कर्मणि कर्तृत्वं स्वकीयताबुद्धिरादिशब्देन संगृह्यते।परित्यागेन परित्यज्येति विशेषेण सामान्यावच्छेदः। अन्यत्र स्वात्मनि कर्तृत्वं? ततोऽन्यस्मिन्निन्द्रादावुपास्यत्वं? तदुभयान्यस्मिन् स्वर्गादौ प्राप्यत्वं? तेभ्यो व्यतिरिक्ते कर्मणि उपायत्वं चाभिमत्य ह्यनधीतवेदान्ताः प्रवर्तन्ते न तथा त्वयाऽनुसन्धेयम् एतत्सर्वमेकस्मिन्मय्यनुसन्धत्स्वेतिमामेकं शरणं व्रज इत्यस्याभिप्रायः तदाह — मामेकमेवेत्यादिना। अत्र कर्तृत्वादिषु चतुर्षु प्रत्येकं समुदायतः एकोपाधिना शरणशब्दवाच्यत्वासम्भवात्कर्तृत्वादिकंमामेकम् इत्यनेनाभिप्रेतमनूदितम्।उपायम् इति तु शरणशब्दार्थोक्तिः।कर्तारं कर्तुः प्रयोजकतयाऽन्तर्यामित्वेन? अनुमन्तृतया च अवस्थितमित्यर्थः। तदनुसन्धानात्स्वकर्तृत्वाभिमानत्यागः। कर्मणां देवतान्तरशेषत्वस्वशेषत्वधीत्यागार्थमाह — आराध्यमिति।अहं हि सर्वयज्ञानां भोक्ता च [9।24]स्वकर्मणा तमभ्यर्च्य [18।46] इत्यादिकं ह्युक्तम्।प्राप्यम् साक्षात्परम्परया चेति शेषः। ते स्वर्गादिफलत्यागः। त्रिविधत्यागार्थमनूदितमाकारत्रयमुक्तम् अत्र शरणशब्देन विधित्सितमाह — उपायमिति। स हि सर्वेषु शास्त्रेषु प्रीतः फलं ददातीति प्रागेव निर्णीतम्। स्वसाध्यनश्वरयज्ञोपासनधात्वर्थेषु कालान्तरभाविफलसाधनत्वबुद्धिं परित्यज्य सिद्धे स्थायिनि सर्वज्ञे सत्यसङ्कल्पत्वमहोदारत्वादिगुणशालिनि सकलशास्त्रार्थसमाराध्ये फलप्रदत्वमनुसन्धत्स्वेति स्वरूपत्यागादिपक्षे प्रकरणवैघट्यमाह — एष एवेति।सुदृढमुपपादितमिति — अयमभिप्रायः — एतच्छ्लोकापातप्रतीत्या कूटयुक्तिभिश्च यथा वर्णाश्रमधर्मस्वरूपत्यागादिपक्षो नोदेति? तथोपपादितम् — इति।

अहम् उक्तप्रकारेणाराधितः फलप्रदानौपयिकसार्वज्ञसर्वशक्तित्वपरमकारुणिकत्वादिगुणगणविशिष्ट इति भावः। अनुष्ठितोपायावस्थाविशेषविषयोऽत्रत्वा इति निर्देश इत्याह — एवं वर्तमानमिति। अव्यवहितोपायस्यापि सर्वधर्मशब्देनोपादानात्मामेवैष्यसि [18।65] इत्यनन्तरोक्तत्वाच्चमत्प्राप्तिविरोधिभ्य इत्युक्तम्। अत्र प्रतिबन्धनिवृत्तिरेवोपायसाध्या? भगवत्प्राप्तिस्तु स्वरूपाविर्भावलक्षणा स्वत एव स्यादित्यभिप्रायः। अत्र सर्वशब्दविवक्षितमाहअनादिकालेत्यादिना। ननु त्रिष्वपि योगेषु निगदितेषु सर्वगुह्यतमे च शास्त्रसारार्थे पुनर्विविच्य प्रदर्शिते ततोऽप्युपरि त्रयाणां साधारणानुसन्धानस्य प्राक्प्रपञ्चितस्यैवात्र पुनः प्रतिपादने किं प्रयोजनं नचायमर्थान्तरपरः श्लोकः? अप्रतीतेः? सङ्ग्रहादिषु तथानुक्तेश्च। शास्त्रादावप्युक्तम्। भाष्येऽपि — तमुवाच [2।10] इतिश्लोके परमात्मयाथात्म्यतत्प्राप्त्युपायभूतकर्मयोगज्ञानयोगभक्तियोगगोचरंनत्वेवाहं जातु नासम् [2।12] इत्यारभ्यअहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः इत्येतदन्तं वच उवाचेत्यर्थः — इति। अपिचात्रमा शुचः इत्येतन्न प्रथमोत्पन्नास्थानस्नेहादिमूलशोकप्रतिक्षेपार्थं? तस्य पूर्वमेव निश्शेषक्षालितत्वात् अतो यथामा शुचः सम्पदं दैवीमभिजातोऽसि [5।16] इत्यत्राव्यवहितप्रस्तुतोपाधिकशोकापनोदनार्थत्वं? तथाऽत्रापीति युक्तम्। न तु सूक्ष्मधियः क्षत्ित्रयस्य धार्मिकाग्रेसरस्यार्जुनस्य सर्वज्ञप्रदर्शितेषूपायेष्वज्ञानादनर्हत्वात्प्रधानांशानिश्चयाद्वा शोकोऽयम्। फलसंशयोऽपिमामेवैष्यसि इत्यादिना निश्शेषनिर्मूलितः।

अतः परिशेषाद्दीर्घकालनैरन्तर्यादरसेवनीयोपायदौष्कर्यात् फलविलम्बाद्वा शोकोऽयं सम्भवेदिति तथाविधशोकप्रशमनपरेणानेन श्लोकेन भवितव्यमित्युक्तार्थान्तरारुचेरुचितं स्वारसिकत्यागशब्दार्थमर्थान्तरमाह — अथवेति। अत्रसर्वपापविनिर्मुक्तेत्युपायविरोधिसर्वविषयम्। पापनिर्मोक्षादत्यर्थभगवत्प्रियत्वम्।नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते [पां.गी.40] इति ह्युच्यते।विघ्नायुतेन गोविन्दे नृणां भक्तिर्निवार्यते इत्याद्यनुसन्धानेनाऽऽह — तदारम्भविरोधिपापानामानन्त्यादिति।जन्मान्तरसहस्रेषु [पां.गी.40] इत्याद्यनुसारेणपरिमितकालकृतैरिति पाठे विलम्बाक्षमत्वं सूचितम्।अपरिमितकालकृतैरिति पाठे तु अपिशब्दोऽध्याहर्तव्यः। तेनोपायस्य दुस्सम्पादत्वव्यञ्जनम्।शोकमपनुदन्निति शोकापनोदनायेत्यर्थः।मन्मना भव मद्भक्तः [18।65] इति पूर्वश्लोके भक्तियोगस्य प्रकृतत्वात्तदारम्भविरोधित्वेन शोकनिमित्तपापविषयोऽत्र सर्वपापशब्दः। तत्तन्निराकरणायोक्तधर्मवर्गविषयः सर्वधर्मशब्दः यस्यैतत्सङ्ग्रहशासनं धर्मेण पापमपनुदति [महाना.17।6] इति। बहुवचनेन सर्वशब्देन च वैविध्यमानन्त्यं च पापेषु धर्मेषु च व्यज्यते।

तदिदमाह — भक्तियोगारम्भविरोधीत्यादिना।कृच्छ्रचान्द्रायणेत्यादिना सम्प्रतिपन्नपापनिर्बहणोदाहरणम्। अग्निष्टोमादयोऽपि विनियोगपृथक्त्वेन अनेकफलसाधका इति प्रागेवोक्तम्। आदिशब्देन कर्मयोगावान्तरभेदतयादैवमेवापरे यज्ञम् [4।25] इत्यादिभिः प्राक्प्रपञ्चितानामनुक्तानां च ग्रहणम्। एवं ज्ञानयोगोऽप्यादिशब्देन सङ्गृहीतः? तस्यापि भक्तियोगारम्भविरोधिपापनिबर्हणत्वेन प्रागेव प्रपञ्चनात्।परिमितकालवर्तिनेत्येकशरीराभिप्रायः। अतिदुष्करानुष्ठानमूलानेकजन्मसंसिद्धि साध्यत्वनिश्चयादेव ह्यस्य शोकः।सर्वधर्मान्परित्यज्य इति स्वरूपत्याग एवास्यां योजनायाम्। न च तावता नित्यनैमित्तिकलोपपप्रसङ्गः? दुरनुष्ठानप्रायश्चित्तादिविषयत्वोक्तेः। तुल्यन्यायतया तु नित्यनैमित्तिकेष्वपि यानि दुरनुष्ठानानि? तत्रैवं स्यात्? शक्तमधिकृत्यैव शास्त्रप्रवृत्तेः? अशक्तस्याकरणे दोषाभावात् अनुकल्पमात्रशक्तौ च तस्यैवानुष्ठेयत्वात्? इह च मुख्याशक्तस्य सर्वप्रकारमुख्यानुकल्पतया एकस्यैव भगवत्प्रपदनस्य विधानाच्छक्ताशक्ताधिकारिभेदाच्च मुख्यानुकल्पयोः सर्वत्र फलाविशेषोपपत्तेः। अत एव गुरुलघुविकल्पानुपपत्तिप्रसङ्गाभावः यथाप्रणवं वा त्रिरभ्यसेत्स्मरेद्वा विष्णुमव्ययम् इति। यथा चमान्त्रं भौमं तथाऽऽग्नेयं वायव्यं दिव्यमेव च। वारुणं मानसं चेति स्नानं सप्तविधं स्मृतम् इति विष्णुचिन्तनमेवावगाहनादिष्वसमर्थस्यापि तत्फलसाधकतया विधीयते? तथेहापीति न कश्चिद्दोष इति। अत्र दुष्करतया चिरकालसाध्यतया चाल्पशक्तिना परिमितकालवर्तिना च दुरनुष्ठानानां धर्माणामर्थसिद्ध एव त्यागो भगवदेकोपायतावरणविधेरुपकारित्वेन विधिच्छाययाऽनूद्यते यथा निदिध्यासनोपकारितया रागप्राप्ते श्रवणमनने श्रोतव्यो मन्तव्यः [बृ.उ.2।4।54।5।6] इति। तदेकोपायतावरणविधानं च तदन्योपायपरित्यागविशिष्टविषयम् तेन तत्फलसाधनत्वेन चोदितानामन्यदेवताविषयाणां भगवति च धर्मान्तराणां त्यागः सङ्गृह्यते। अर्थसिद्धे च देवतान्तरधर्मनिषेधे तत्सिद्ध्यर्थं नात्र व्यधिकरणसमासः समाश्रयणीय इत्यभिप्रायेणसर्वान् धर्मानिति दर्शितम्।

ननु शक्तमधिकृत्य निषेधे शास्त्रवैयर्थ्यम्? अशक्तं प्रति तु न विध्यपेक्षेति चेत्? न अशक्तं प्रत्येव ब्रह्मास्त्रबन्धादाविवोपायान्तरपरिग्रहस्य तद्विरोधित्वज्ञापनेनापेक्षितत्वात्। यद्वा यदर्थं शरणव्रज्याऽनुष्ठिता? तदर्थोपायान्तरशक्तेः पश्चात्कुतश्चिद्धेतुवशात्सम्भवेऽपि तदर्थं तदुपादानस्याकर्तव्यताज्ञापनेन सार्थम्। अत्रअहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः इति फलस्य भगवदेकाधीनतया तदेकप्रपदनमेकं फलतयाऽनुष्ठेयं शिष्टं? सर्वधर्मपरित्यागस्य तु वाक्यात्तच्छेषत्वं सिद्धम्? फलवत्सन्निधौ चाफलं तदङ्गम्। तत्र पूर्वसिद्धाकारपरामर्शे अधिकारकोटौ निवेशः अन्यथा तु लिङ्गात्तदेकशरणव्रज्योपयोगिरूपे विश्रान्तिः। तदेकोपायताध्यवसायो हि तदन्योपायपरिग्रहेण विरुद्धः। अतस्त्यागस्यावहन्तेः शेष्यपेक्षिततण्डुलोपयोगिरूपे पर्यवसानवत्तदेकप्रपदनविरोधिधर्मत्यागे पर्यवसानादतत्फलार्था नामविरोधिनां नित्यादीनां त्यागोऽस्य नापेक्षित इति वर्णाश्रमाद्यनुबन्धिस्वतन्त्रविधिप्राप्तास्तद्वदेवावतिष्ठन्ते। न च तेऽपि प्रपदनस्याङ्गान्यङ्गिनो वा? तथा नियोगाभावात्? अशक्तं प्रति दुष्करकर्माङ्गकप्रपदनविधानासम्भवात्? अतदङ्गस्यापि यज्ञादेरन्यार्थमाश्रमाद्यर्थं चानुष्ठानोपपत्तेः। सर्वशब्दनिर्दिष्टप्रत्यनीकतया वामामेकम् इत्येकशब्दः। ततश्च भगवत्प्रपदनमेकमेव सर्वप्रायश्चित्तं स्यादित्युक्तं भवति। शरणागतिस्वभावात्तु तदन्योपायपरित्यागः सिद्ध्येत्। यथा लक्षयन्ति — अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम्। तदेकोपायतायाच्ञा प्रपत्तिः शरणागतिः इति। शरणशब्दोऽत्रोपायपर्यायः। यथोक्तं प्रपत्तिप्रकरणेउपाये गृहरक्षित्रोः शब्दः शरणमित्ययम्। वर्तते साम्प्रतं त्वेष उपायार्थैकवाचकः [अहि.सं.36।33] इति। पठन्ति च — शरणं गृहरक्षित्रोरुपाये च निगद्यते इति। उपायत्वं च कारुण्यादिगुणविशिष्टस्योपायस्थानेऽवस्थाय तत्कार्यकरणादित्यभिप्रायेण परमकारुणिकत्वादिगुणोक्तिः।एकम् इति नैरपेक्ष्यपरं वा। तत्सिद्ध्यर्थमपिमाम् इत्यनेनाभिप्रेततया कारुण्यादिग्रहणम्।परमकारुणिकमिति — वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् [ ] इत्यादिभिः कृपायाः पारम्यं? ततः शरण्यत्वं च सिद्धम्। तस्यासङ्कोचमाह — अनालोचितविशेषाशेषलोकशरण्यमिति। सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् (बृहत्) [श्वे.उ.3।17] इति श्रुतिः।सर्वलोकशरण्याय [वा.रा.6।17।15] इति रावणावरजवाक्यम्। स्ववाक्यं चविभीषणो वा सुग्रीव यदि वा रावणः स्वयम् [वा.रा.6।18।34] इति। विशेषशब्दोऽत्र जातिवर्णविद्यावृत्तगुणसंस्कारभूतभाव्युपकारादिपरः। उक्तगुणाविनाभूतं गुणान्तरमाह — आश्रितवात्सल्यजलधिमिति।विदितः स हि धर्म(सर्व)ज्ञः शरणागतवत्सलः [वा.रा.5।21।19] इति ह्युक्तम्।दोषो यद्यपि तस्य स्यात् [वा.रा.6।18।3] इत्यादिप्रक्रियया दोषानादराय वात्सल्योक्तिः। गत्यर्थानां बुद्ध्यर्थतया प्रयोगाद्व्रजतिधातुः पूर्वयोजनायामनुसन्धानमात्रपरतया व्याख्यातः। इह तु रक्षिष्यतीति महाविश्वासपूर्वकविशिष्टाध्यवसायलक्षणबुद्धिविशेषनिरूढपदेन व्याचष्टे — प्रपद्यस्वेति।

अहं त्वेति — सर्वज्ञः सर्वशक्तिरहम् अल्पज्ञमल्पशक्तिं च त्वामित्यर्थः।मा शुचः — एकेन सुकरेणाविलम्बेनाशेषपापनिवृत्तिसिद्धेरनन्तैर्दुष्करैर्विलम्ब्यकारिभिः प्रत्येकपापनिबर्हणैरिदानीं भक्तियोगारम्भार्हतासम्पादनस्याशक्यतानिमित्तशोकं मा कृथा इत्यर्थः। एवं सकलाभिमतसाधनतया भगवच्छास्त्रादिषु प्रसिद्धं भगवत्प्रपदनमिह प्रकृतभक्तियोगारम्भविरोधिपापनिबर्हणरूपोदाहरणविशेषे प्रदर्शितम्।सुदुष्करेण शोचेद्यो येन येनेष्टहेतुना। स स तस्याहमेवेति चरमश्लोकसङ्ग्रहः। अतएवात्रत्यभाष्यग्रन्थस्य गद्यस्तुतेश्चाविरोध इति। यदिहशङ्करेणोक्तं — मन्मना भव इति श्लोकेन सर्वकर्मयोगनिष्ठायाः परमं रहस्यमीश्वरशरणतामुपसंहृत्याथेदानीं कर्मयोगनिष्ठाफलं सम्यग्दर्शनं सर्ववेदान्तसारं विहितं वक्तव्यमित्याह — सर्वधर्मानिति इति। अयमपिसर्वार्थान् विपरीतांश्च [18।32] इत्यस्योदाहरणविशेषः? कर्मयोगनिष्ठायाः पृथक्त्वेन भक्तियोगनिष्ठायाः प्रदर्शितत्वादत्रैवशरणं व्रज इति कण्ठोक्तिदर्शनेन पूर्वत्र तदुपसंहारवाचोयुक्तेरसङ्गतत्वात्।

यच्चात्रमामेकं सर्वात्मानं समं सर्वभूतस्थमीश्वरमहमेवेत्येवमेकं शरणं व्रज न मत्तोऽन्यदस्तीत्यवधारय इत्युक्तम् अत्र तावन्न शब्दस्यैवं शक्तिः न च तदुपरोधेन लाक्षणिकार्थस्वीकारे हेतुं पश्यामः? प्रत्युतअहं त्वा सर्वापापेभ्यो मोक्षयिष्यामि इत्यादिस्वारस्याद्राघवविभीषणादिवच्छरण्यशरणागतयोर्गोप्तृत्वरक्षितव्यत्वलक्षणो भेदः प्रतीयते। शास्त्रान्तराणि चैतदविरोधेन पूर्वमेव स्थापितानि। यच्चात्रसर्वधर्मान् परित्यज्य इत्यनेन सर्वकर्मस्वरूपसन्न्यासविधिः इति? इदमप्यध्यायारम्भोक्ततामसत्यागस्वीकरणम्। एतन्निराकरणायैव सात्त्विकस्त्यागोऽत्र भाष्ये (रा.) दर्शितः। ननु कर्माधिकृतेष्वेवायं सात्त्विकराजसतामसरूपस्त्यागविकल्पः? सर्वकर्मसन्न्यासिनां तत्त्वविदां मोहदुःखमूलत्यागासम्भवात् सात्त्विकत्यागोऽपि कर्मनिष्ठमधिकृत्यैवोच्यत इति तत्रैवास्माभिर्वाख्यातमिति चेत्? तदसत् सामान्यतस्त्यागसन्न्यासरूपविषयत्वात्प्रश्नस्योत्तरस्यापि सामान्यविषयत्वं प्रतीयते? ज्ञाननिष्ठानामपि नित्यनैमित्तिककर्मस्वरूपपरित्यागस्य प्रागेव दूषितत्वाच्च। यच्चानुगीतायामुच्यते — नैव धर्मी न चाधर्मी न चापि हि शुभाशुभी। यः स्यादेकासने लीनस्तूष्णीं किञ्चिदचिन्तयन् [4।7म.भा.13.प.] इति?ज्ञानं सन्न्यासलक्षणम् (सन्न्यासमित्येके) [34।12] इत्यादि च।

यच्च श्रीमतिभागवते पुराणे — तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम्। प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च।।मामेकमेव शरणमात्मानं सर्वदेहिनाम्। याहि सर्वात्मभावेन यास्यसि ह्यकुतोभयम् (मयाऽस्या ह्यकुतोभयः) [11।12।1415] इति। यच्चान्यत्रत्यज धर्ममधर्मं च त्यज सत्यानृते अपि। उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज [म.भा.12।329।40सन्न्यासो.2।12] इति। एवमीदृशानि वचनानि सात्त्विकत्यागोक्तप्रक्रिययैव नेतव्यानि। समाधिदशातत्परेषु तु वचनेषु न कश्चिद्विरोधः।त्यज धर्ममसङ्कल्पादधर्मं चाप्यहिंसया। उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् [म.भा.12।329।40] इत्यादिषु च सात्त्विक एव धर्मत्यागस्तत्तद्वचनोक्त इति सुव्यक्तम्।

मामेकम् इत्यत्र च निर्विशेषचिन्मात्रैक्यादिविवक्षां श्रृण्वन्तो बाला अपि परिहसेयुः। भाष्योक्तस्त्वेकशब्दार्थो वचनस्वारस्यपूर्वापरशास्त्रान्तरसङ्गतः। एकशब्दश्चात्यन्तपृथग्भूतेष्वपि दृश्यते।अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम्। क्षमं मम सहानेन नैकत्वमनया सह [ ] इति। तथाक्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्। वानराणां नराणां च कथमासीत्समागमः [वा.रा.5।35।2] इति प्रश्नेरामसुग्रीवयोरैक्यं देव्येवं समजायत [वा.रा.5।35।51] इत्यादिषु। या तुसर्वधर्मान्परित्यज्य इत्यत्र विरोधिधर्ममात्रत्यागविषयत्वेन यादवप्रकाशादीनां योजना न तत्रार्थविवादः। सर्वधर्मानवश्यकरणीयानपि परित्यज्येति स्तुतिरूपयोजना तु,अपिशब्दाध्याहारादिभिरयुक्ता। अनियतधर्मपरित्यागोऽत्र विवक्षित इतिनारायणार्यव्याख्यायामपि नानुष्ठानविरोधः।अपिचात्रादितः प्रभृति सम्मृशामः — प्रथमे तावदध्यायेऽर्जुनस्यास्थानस्नेहकारुण्यादिभिः शास्त्रोल्लङ्घनप्रसङ्गेप्सुनोपक्षिप्तपूर्वपक्षबुद्धिप्रशमनाय द्वितीयेनाध्यात्मशास्त्रमवतारितमित्येतावति सर्वेषामविवादः।

द्वितीयाध्यायोक्तस्य योगादेरपि भगवानेवाराध्य इत्यत्रापि न विप्रतिपत्तिः। व्रीह्यादिविषयैः प्रोक्षणावघातादिशास्त्रार्थैरपि हि स एवाराध्यते। स तु तत्र न साक्षाद्विषय इति प्रकरणादिबलात्? साक्षाद्भगवद्योगिनश्चयोगिनामपि सर्वेषां मद्गतेनान्तरात्मना [6।47] इत्यादि प्रस्तुत्य प्रतिपादयिष्यमाणत्वाच्च समर्थितम्।

तृतीये योगाख्योपायांशभूतयोः क्रियायोगबुद्धियोगयोः विमर्श इत्येतदपिज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् [3।3] इत्यधिकारिभेदवर्णनेन निरस्तम्। न चदूरेण ह्यवरं कर्म [2।49] इति प्रतिपादनात्तुल्यकक्ष्यत्वानुपपत्तिरिति वाच्यं? तस्य तत्प्रकरणनिन्द्यकाम्यकर्मविषयत्वस्थापनात्।यस्त्वात्मरतिरेव स्यात् [3।17] इत्यादिश्लोकद्वये दृष्टानुश्रविकविषयवितृष्णस्य परमात्मैकरतेः पुरुषस्य कृत्यानुष्ठाने प्रयोजनाभावोऽकृत्यकरणे प्रत्यवायाभावश्च प्रतिपाद्यत इति यदुच्यते? तदप्ययुक्तं? नाविरतो दुश्चरितात् [कठो.2।23] इत्यादिविरोधोपपादनात्? तत एवहत्वाऽपि स इमाँल्लोकान् [18।17] इत्यादेरपि वक्ष्यमाणस्यात्रोदाहृतस्यान्यविषयत्वस्थापनात्। अथ चेत्समाधिदशायां कर्तव्यान्तराभावोऽस्मिन् श्लोकद्वये विवक्षित इत्यभिप्रायः? तदा तु मुक्तदशायामिव विरोधाभावादभ्यनुजानीमः। उक्तं च समाधिदशाविषयत्वं षष्ठे तैरेव। तथाहि — यं सन्न्यास इति प्राहुर्योगं तं विद्धि पाण्डव [6।2] इति श्लोकेसमाधिवेलायामेव कर्मसन्न्यासः कार्यः? नान्यथेति यावत् इत्युक्तम्।आरुरुक्षोर्मुनेर्योगम् [6।3] इत्यत्र चैवं व्यञ्जितं — यस्य वशिनो योगेन सकलकर्मकालो व्याप्तः? तस्य कर्मपरित्यागो युक्तः? नान्यस्य इति। एतदेव तृतीयचतुर्थपञ्चमेष्वपि भगवता प्रतिपादितमित्यनुसन्धातव्यम्। तृतीये तावत्यस्त्वात्मरतिरेव स्यात् इत्यत्र? चतुर्थेऽपियोगसन्न्यस्तकर्माणम् [4।41] इत्यत्र? पञ्चमे चसर्वकर्माणि मनसा सन्न्यस्यास्ते [5।13] इत्यत्र? तेनात्मरतीनां वशिनां योगारूढानामेव कर्मसन्न्यासो युक्तः तेषामपि लोकविख्यातानां सर्वलोकादर्शभूतानां विदुषामात्मानुग्रहाभावेऽपि लोकानुग्रहार्थं कर्मयोग एव युक्त इति भगवदभिप्रायो ग्राह्य इति निगमितम्। यत्पुनर्निषिद्धानुष्ठाने प्रत्यवायाभावात्तदकरणे प्रयोजनं नास्तीति? एतत्तु तस्यामवस्थायाम् अप्रसक्तोपन्यासः।

यत्तुकर्मणैव हि संसिद्धिमास्थिता जनकादयः [3।20] इत्यत्र राज्ञामुपन्यासस्तद्वृत्तान्तानामेव लोके प्रसिद्धत्वादिति? अत्रायमेव भाव उचितः। यत्त्वनन्तरं पक्षान्तरमुक्तम्एवं परम्पराप्राप्तमिमं राजर्षयो विदुः [4।2] इति लिङ्गाद्राज्ञामेवायं योगिनां कर्मापरित्यागोपदेशः? नान्येषाम् इति? तन्मन्दम्? अन्येषामपि कर्मस्वरूपापरित्यागस्य सर्वत्र सुस्पष्टत्वात् अत एव हि चतुर्थे स्वयमेवोक्तम्। इह केचित्राजर्षयो विदुः इत्यभिधानात्पूर्वस्मिन्नध्याये निदर्शनार्थं जनकोपन्यासात्? नवमेऽध्यायेराजविद्या राजगुह्यम् [9।2] इति वक्ष्यमाणत्वाच्च राज्ञामेवास्मिन् भगवदुपदिष्टे योगेऽधिकारः? नान्येषामिति मन्यन्ते तदयुक्तं? नवमेऽध्यायेस्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् [9।32] इति सर्वाधिकारस्य वक्ष्यमाणत्वात्। तस्मात्प्रदर्शनार्थं राज्ञां प्रवृत्तिविशेषाद्युपन्यासः? नान्यथेत्यभ्युपगन्तव्यमिति।

यत्तु पञ्चमेसन्न्यासः कर्मयोगश्च निश्श्रेयसकरावुभौ [5।2] इत्युक्तसन्न्यासकर्मयोगाभ्यामनन्तरंसाङ्ख्ययोगौ पृथग्बालाः [5।4] इत्याद्युक्तसाङ्ख्ययोगयोरर्थान्तरत्वोपपादनं? तदपि मन्दं?ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् [3।3] इति प्रागुक्तप्रत्यभिज्ञानात्। न च प्रसिद्धिविरोधः? अस्मिन् शास्त्रे तयोरेवमेव प्रसिद्धेः। न चनिश्श्रेयसकरावुभौ इत्युक्तेन पुनरुक्तिः? सङ्ग्रहविस्तररूपत्वादिना तत्परिहारात्? सर्वत्र चैवं सर्वैरभ्युपगमात्। यदपिपण्डिताः समदर्शिनः [5।18] इत्यत्र सर्वत्राहिंस्यताबुद्धिरनुग्राह्यताबुद्धिः सर्वेषां,भूतानामीश्वरानुग्राह्यताबुद्धिरीश्वरविभूतित्वबुद्धिश्च समदर्शनमभिप्रेतमिति? तावति न विवादः। यत्तु तत्रानन्तरमुक्तंन पुनर्हिंसानुग्रहेषु फलसाम्यबुद्धिः ब्राह्मण्यादिविशेषतिरस्कारो वा। कुत एतत् शास्त्रान्तरानुसारात्प्रमाणान्तरानुसाराच्च इति? अयमप्यात्मव्यतिरिक्तमिथ्यात्वादिवादिनां मतस्योपालम्भः? न पुनः स्वतः परस्परसमानानां आत्मनामौपाधिकसत्यवैषम्यवादिमतस्य? विषमदेहानामपि स्वरूपसाम्यदर्शने शास्त्रान्तरप्रमाणान्तरविरोधाभावात्? प्रत्युत तत्संवादाच्चेति।

षष्ठोक्तयोगस्य विषयविशेषादिकं तत्रैव सुस्पष्टमुपपादितम्। दुरपह्नवं च तैरपि योगिनां वैविध्यम्। अत एव हियोगिनामपि सर्वेषाम् [6।47] इति श्लोके व्याचख्युःयोगिनश्चित्तालम्बनवैचित्र्याद्बहुविधाः। तेषु मय्यर्पितचित्तो मामेव श्रद्धया भजते? स मे युक्ततमो मत इति ह्याह इति। योऽस्माभिरिह सङ्क्षेपविस्तराभ्यामुपन्यस्तो योगः? स सर्वेभ्यो योगेभ्यः श्रेष्ठतमो मत इति च।शब्दब्रह्मातिवर्तते [6।44] इत्येतदपि त्रिवर्गातिलङ्घनविषयमेवाभ्युपगन्तव्यम्। अत्र वेदद्वारा तत्फलविवक्षायां लक्षितलक्षणासङ्कोचादिर्महान् क्लेशः। भाष्योक्तप्रक्रिया तु श्रृङ्गग्राहिकया विवक्षितं वक्तीति विशेषः।तपस्विभ्योऽधिको योगी [6।46] इति श्लोके यदुक्तम् — अत्र तपश्शब्देन वानप्रस्थधर्माणां परिग्रहः ज्ञानशब्देन ब्रह्मचारिधर्माणां? कर्मशब्देन गृहस्थधर्माणाम् इति? अयं विभागो निर्मूलः सर्वेष्वाश्रमेषु स्वाश्रमाविरोधिनां तपोज्ञानकर्मणां सम्भवाद्यथाश्रुतविरोधाभावाद्वानप्रस्थादिलक्षणायाः प्रयोजनाभावाच्च।

सप्तमोक्तचेतनाचेतनरूपप्रकृतिद्वयस्यापि ब्रह्मस्वरूपादत्यन्तभेदोऽस्माभिस्तत्रतत्र समर्थितः। अपरप्रकृतेरष्टधाविभागश्च यथाश्रुत एवोपपन्न इति स्थापितम्। यच्चरसोऽहमप्सु [7।8] इत्यादिसामानाधिकरण्यनिर्वाहायोक्तंसमस्तकल्याणगुणसमष्टिविग्रहोऽहम्? अतो मदंशाः सर्वे सर्वत्र कल्याणगुणा इत्यभिप्रायेणाऽऽह इति तत्र तावद्रासिदकल्याणगुणसमष्टिर्न भगवत्स्वरूपं? नचाप्राकृतस्य विग्रहस्य प्राकृतरसादिमयत्वम् अतः परिशेषाद्रसादीनामेव विग्रहत्वमुक्तं स्यात् तत्र समष्टिव्यष्टिभावेनांशत्वोक्तिर्निष्फला। तस्मात्तदुत्पत्तितादधीन्यादिभिरेव सामानाधिकरण्यगमनिका समीचीना। भेदाभेदनयेन कल्याणगुणतादात्म्यविवक्षायामकल्याणैरपि सर्वात्मनस्तस्य तादात्म्यात् समस्तहेयास्पदत्वादिदोषप्रसङ्गः। एवमुत्तरेष्वपि सामानाधिकरण्येषु भाव्यम्।

अष्टमे चकिं तद्ब्रह्म [8।1] इत्यादिप्रश्नानामेकाधिकारिवेद्यविषयत्वं तत्रैवास्माभिर्निराकृतम्। ब्रह्मायुर्दिवसकल्पना पौरुषाहोरात्रकल्पनामूलमहाकल्पप्रक्रियोपन्यासश्च स्मृत्यन्तरानुसारेणास्माभिरप्यभ्युपगमाद्धिरण्यगर्भदिवसावसाने महाप्रलयवादिनामयमुपालम्भः।यद्गत्वा (यं प्राप्य) न निवर्तन्ते तद्धाम परमं मम [15।6] इत्यस्य परमव्योमविषयतायां सिद्धान्तविरोधाभावेऽप्यत्र परिशुद्धात्मविषयत्वे युक्तयस्तत्रैवावस्थापिताः। यत्पुनःअग्निर्ज्योतिः [8।24]धूमो रात्रिः [8।25] इत्यत्राग्निधूमशब्दाभ्यामहोरात्रैकदेशभूतः कालविशेषो लक्ष्यत इति तदसत्? तत्तच्छब्दैरत्र देवयानपितृयानाख्यगतिद्वयप्रत्यभिज्ञानात्?नैते सृती [8।27] इति निगमनात्?यत्र काले [8।23] इत्युपक्रमस्थकालशब्दस्य कालाभिमानिदेवतातिवाहिकभूयस्त्वविवक्षया स्थापितत्वाच्च। अतःउदगयनपूर्वपक्षाहःपूर्वाह्णसन्निपाते ब्रह्मविद्भिर्योगिभिरपुनरावृत्तये प्रयातव्यम् इति नियमनमशक्यम्। दक्षिणायनापरपक्षापराह्णरात्रिषु प्रयातानां योगिनां चान्द्रमसज्योतिः प्राप्य पुनरावृत्तिप्रतिपादनमुत्तरेण श्लोकेन कृतमित्यप्यसत्निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च [ब्र.सू.4।2।19]अतश्चायनेऽपि दक्षिणे [ब्र.सू.4।2।20] इत्यधिकरणाभ्यां दक्षिणायनरात्रिमृतस्यापि योगिनस्तैत्तिरीयोक्तप्रक्रियया चन्द्रसायुज्यपूर्वकं परब्रह्मप्राप्त्यपुनरावृत्त्योः समर्थितत्वेनास्य श्लोकस्य साक्षात् योगिव्यतिरिक्तधूमादिमार्गोचिताधिकारिविषयत्वव्यवस्थापनात्। यच्च कथं पुनरग्निज्योतिर्धूमशब्दयोर्यथोक्तकालविशेषपरत्वमवगम्यते इति परिचोदनापूर्वकमुक्तं? श्रुतिषु च स्मृतिषु च समस्तासूदगयनपूर्वपक्षाहःपूर्वाह्णानां सामान्यतो दैवकर्माङ्गत्वोपदेशात्प्रयाणकालानुस्मरणस्यापि दैवत्वाविशेषात् शास्त्रान्तरेष्वनयोर्दैवकर्मत्वेन दक्षिणायनादिषु वर्जनप्रसङ्गात् इति।

यत्पुनःअसमाहितचित्तानामपि सुकरं सुखावगमं क्षिप्रं फलं प्रति भगवत्प्रपत्तिप्रकारं वक्तुं भगवानुवाच इति नवमारम्भे व्याख्यातम्? तदपि पूर्वोक्तज्ञानिसाध्यानन्यभजनस्यैव प्रपञ्चनपरत्वप्रतीतेरपाकृतम्। यच्चज्ञानयज्ञेन चाप्यन्ये [9।15] इति श्लोके प्रकल्पितंसाङ्ख्ययोगाभ्यां समुच्चिताभ्यामुपासनमेकत्वेन उपासनं? विकल्पिताभ्यामुपासनं पृथक्त्वेनोपासनं? बुद्धियोगो वाऽत्र ज्ञानशब्देन विवक्षितः तत्राप्ययमर्थःकेचित्कर्मयोगबुद्धियोगाभ्यां समुच्चिताभ्यामुपासते केचित्केवलेन कर्मयोगेन अपरे केवलेन बुद्धियोगेनेत्येवं बहुधोपासते इति। अत्र साङ्ख्ययोगादिप्रसञ्जकं न किञ्चिद्दृश्यते।अहं क्रतुः [9।16] इत्याद्यनन्तरविवरणग्रन्थानुसारेण एकत्वपृथक्त्वयोरुपास्यविषयत्वं सुस्पष्टम्।अनन्याश्चिन्तयन्तो माम् [9।22] इत्यादौ तु नचावश्यम्भाविने योगक्षेमायापि मद्भक्तैरेकान्तिभिर्देवतान्तराणि धर्मान्तराणि वापेक्षणीयानीत्यादिकं सर्वमङ्गीकृतमस्माभिः।

दशमे चविस्तरेणात्मनो योगं विभूतिं च [18] इत्यत्र योगशब्दस्य भगवत्कर्मयोगविषयतया व्याख्यानमयुक्तम्?पश्य मे योगमैश्वरम् [11।8]एतां विभूतिं योगं च [10।7] इत्यादिप्रत्यभिज्ञाविरोधात्? अनन्तरमस्मिन्नध्याये तद्विस्तरादर्शनाच्च।

मत्कर्मकृत् [55] इत्याद्येकादशाध्यायान्तिमश्लोकस्तदुत्तरमित्यपि दूरव्यवधानात्तत्रापि विस्तरादर्शनाच्च निरस्तम्। विभूतिविशेषाणां कृत्स्नस्य च जगतः स्वरूपैकदेशत्वेनांशतया सामानाधिकरण्यवर्णनमपि प्रागुक्तसदोषत्वादिप्रसङ्गप्रक्रियया परास्तम्। एवं श्रीविश्वरूपविग्रहस्यावयवत्वेन विश्वस्य वर्णनमपि प्राकृताप्राकृतविभागादवधूतम्।द्वादशोक्तस्याक्षरोपासनस्य भगवदुपासनाद्भेदः स्ववाक्यस्वारस्यपुरुषोत्तमत्वादिप्रकरणान्तरैकरस्यादिभिः साधितः। यत्पुनः — भेदव्यपदेशास्तु कथञ्चिदवस्थाभेदमाश्रित्य नेतव्याः अवस्थाभेदश्चात्र निर्विशेषनिखिलवस्तुमात्ररूपता? आविर्भूतसमस्तकल्याणगुणसमष्टिरूपता च विवक्षिता — इति तदेतदनेकविषयव्याघातविसंस्थूलमाकुमारमपहास्यम्। अन्यत्र च दूषणप्रपञ्चनादिहोपरम्यते।

त्रयोदशे क्षेत्रज्ञविषये वक्तव्यं सर्वं पूर्वमेवोक्तम्।यतश्च तत् [13।4] इति पाठोऽप्रसिद्धः। तथापाठेऽपि ज्ञानपरामर्शोऽस्वरसः। क्षेत्रस्य नित्यत्वेनाहेतुकत्वाद्धेतुर्न निर्दिष्ट इत्युक्तमिति चेत्? सत्यमुक्तं? दुरुक्तं तु तत्?महाभूतान्यहङ्कारः [13।6] इत्यादिना वक्ष्यमाणस्य क्षेत्रस्याव्यक्तव्यतिरिक्तस्य समस्तस्यानित्यत्वसम्प्रतिपत्तेः?तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम। अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्रलीयते [वि.पु.] इत्यादिभिर्नित्यस्याप्यव्यक्तस्थ परब्रह्मण्येकीभावपृथग्भाववचनाच्च। यच्चब्रह्मसूत्रपदैश्चैव [13।5] इत्यत्रोक्तं — क्षेत्रादितत्त्वव्यवस्थापनपराणि पञ्चशिखादिप्रणीतानि सूत्रपदानि इति? तदप्यनादेशिकं? पञ्चशिखादिग्रन्थे ब्रह्मसूत्रप्रसिद्ध्यभावात्। यत्तुमद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते [13।19] इति निगमनाद्भगवानेवज्ञेयं यत्तत् प्रवक्ष्यामि [13।13] इत्यत्र ज्ञेयत्वेनोक्त इति तन्न?इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः [13।19] इति निगमितानां त्रयाणामेतच्छब्देनानुवादात्? तत्र क्षेत्रज्ञज्ञानवत्कर्मवश्यक्षेत्रज्ञज्ञानस्यापि मोक्षोपयोगित्वोपपत्तेः? क्षेत्रादिज्ञानरूपस्यापि शास्त्रार्थस्य सर्वप्रशासितुर्भगवतः समाराधनरूपत्वेनमदभक्त एतद्विज्ञाय [13।19] इत्यनेन विरोधाभावाच्च।

यदपि चतुर्दशेमम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् [14।3] इत्यत्र परावरप्रकृत्योर्जीवाव्यक्तसंज्ञयोरंशोमिलितो गर्भ इत्युक्तं? तत्र ब्रह्मशब्देनाव्यक्तस्य निर्दिष्टत्वात्तत्र तदंशाधानवचनस्य प्रयोजनाभावात्?क्षेत्रक्षेत्रज्ञसंयोगात् [13।27] इत्युक्तस्य चात्र प्रत्यभिज्ञानात्? गर्भशब्देन चेतनविवक्षैव युक्ता।सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते। ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत [14।11] इति श्लोके प्रकाशज्ञानशब्दयोः बाह्यान्तरेन्द्रियवृत्तिविषयतया व्यवस्थापनमशक्यं? विपरिवर्तेऽपि विरोधभावाद्वक्ष्यमाणराजसतामसज्ञानव्यवच्छेदार्थं प्रकाशशब्दप्रयोगोपपत्तेश्च। रजःकार्यश्लोके लोभप्रवृत्तिर्लोभोद्भव इति समस्ततया व्याख्यानमयुक्तं? तथाऽनध्ययनात्?अप्रकाशोऽप्रवृत्तिश्च [14।13] इति तमःकार्यश्लोके सत्त्वकार्यप्रकाशनिषेधवद्रजःकार्यप्रवृत्तिनिषेधस्यापि पृथगुपन्यासात्तत्प्रतियोगितया प्रवृत्तेरिह पृथङ्निर्देशोपपत्तेः?आरम्भः कर्मणाम् [14।12] इत्यस्य तु गोबलीवर्दन्यायेन निर्वाहात्।

पञ्चदशेऽपिप्रपद्येयतः प्रवृत्तिः [15।4] इति पाठोऽप्रसिद्धः। यदपिममैवांशो प्रवृत्तिः [15।4] इति पाठोऽप्रसिद्धः। यदपिमैवांशो जीवलोके जीवभूतः सनातनः [15।7] इत्यत्र संसारिव्यतिरिक्तः सर्वेश्वरस्यैव कश्चिदंशो जीवशब्दार्थतया प्रथमं व्याख्यायि तत्र यद्यपि अर्थविरोधो नास्ति? तथापि विभूतिप्रकरणमध्यपाठादन्तर्यामिणस्तुसर्वस्य चाहं हृदि सन्निविष्टः [15।15] इत्यनन्तरमेव वक्ष्यमाणत्वात्? परमात्मांशविशेषे च जीवशब्दस्य प्रसिद्धिप्रकर्षाभावात् मानवादिशास्त्रान्तरप्रसिद्धेरपिजीवभूतां महाबाहो [7।5] इति स्वशास्त्रप्रसिद्धेर्बलवत्त्वेन स्वीकर्तुमुचितत्वात्विषयानुपसेवते [15।9] इत्यत्र च प्रतिकूलोदासीनभोगेभ्यः सङ्कोचस्य क्लिष्टत्वादुत्क्रमणाद्युक्तेः? हृदयव्याप्तेरन्तर्यामिणः स्वारस्यादिन्द्रियाधिष्ठानेश्वरशब्दादेश्च तत्तन्नियन्तरि संसारिण्यप्युपपत्तेः?आत्मन्यवस्थितम् [15।11] इत्यत्र चात्मशब्दस्य नानार्थस्य प्रकरणोचितार्थपरिग्रहोपपत्तेः? भवदुक्ता द्वितीयैव योजना भाष्यकृदभिमता समीचीनेति मन्यामहे।वेदैश्च सर्वैरहमेव वेद्यः [15।15] इत्यादौ वेदवेदान्तशब्दयोर्वक्तव्यं प्रागेवोक्तम्।कूटस्थोऽक्षरः [15।16] इत्यस्य जीवभूतपरप्रकृतिव्यतिरिक्ते मुक्ते वृत्तिश्च साधुतरा।

यत्तु षोडशे प्रोक्तं — प्रकारान्तरेणार्जुनस्य शोकमपनेतुं देवप्रकृतीनां रूपं तेषां परमकल्याणप्रत्यासक्तेरर्जुनस्य दैवप्रकृतित्वमासुरप्रकृतीनां रूपं? तन्निमित्तता च सकलस्यानर्थजातस्योक्तम् — इति। तदयुक्तं? शास्त्रारम्भेऽर्जुनस्य स्वप्रकृत्यनिर्धारणमूलशोकप्रसङ्गाभावात्? अत्र तत्प्रसङ्गे तदपनोदनस्यापि प्रासङ्गिकस्य युक्तत्वात् अतःतस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ [16।24] इति निगमनानुसारेण भगवद्यामुनेयोक्तप्रक्रियया शास्त्रवश्यतैवाध्यायप्रधानार्थः।

सप्तदशे श्रद्धात्रैविध्यं शास्त्रीयेतरविषयमित्ययुक्तम् अनन्तरम्?अशास्त्रविहितम् [17।5] इति पृथगभिधानात्। न च तत्र श्रद्धात्रैविध्यमपि समुच्चेतुं शक्यं? तदनुक्तेस्तत्क्लृप्त्यनुपपत्तेश्च। तत्सदिति निर्देशः [17।23] इत्यत्र मुमुक्षूणां यज्ञादिषु किञ्चिदङ्गं तेषां वीर्यातिशयार्थमुपदिश्यत इत्ययुक्तम्? अमुमुक्षूणामपि तदविरोधाद्विशेषकाभावाच्च। अतोलक्षणं शास्त्रसिद्धस्य त्रिधा [गी.सं.21] इत्ययमेवार्थ उचितः। अष्टादशे त्यागस्वरूपादिविवेके नातीव विरोधः? चरमश्लोके वक्तव्यं तु सर्वं सक्तमस्माभिः। एवमन्येष्वपि भूतेषु भविष्यत्सु च श्रीमद्गीताभाष्येषु भगवद्यामुनाचार्यभाष्यकारमतानुसारेण दिङ्मोहः प्रशमयितव्यः। क्षुद्रस्खलितेष्वदूरविप्रकृष्टयोजनाभेदेषु चोदासितव्यमित्यलमतिप्रसङ्गेन।पिशाचरन्तिदेवगुप्तशङ्करयादवप्रकाशभास्करनारायणार्ययज्ञस्वामिप्रभृतिभिः स्वं स्वं मतमास्थितैः परश्शतैर्भाष्यकृद्भिः अस्मत्सिद्धान्ततीर्थकरैश्च भगवद्यामुनाचार्यभाष्यकारादिभिरविगीतपरिगृहीतोऽयमत्र सारार्थः — भगवानेव परं तत्त्वम्? अनन्यशरणैर्यथाधिकारं तदेकाश्रयणं परमधर्मः इति।

इदं ते नातपस्काय नाभक्ताय कदाचन।

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति।।18.67।।

।।18.67।।एवं स्वोपदेशेन प्रतिष्ठिततत्त्वहितज्ञानस्य अर्जुनस्य कर्तव्यविशेषोपदेशव्याजेन सम्प्रदायविधिसिद्ध्यथमस्मिन् शास्त्रेऽनधिकारिणस्तावद्व्यनक्ति — इदं ते इति श्लोकेन।इदम् इति सामान्येन निर्दिष्टं पूर्वापरग्रन्थस्थैः पदैर्विवृणोति — इद ते परमं गुह्यं शास्त्रं मयाऽऽख्यातमिति। अत्र तेशब्दःइति ते ज्ञानमाख्यातम् [18।63] इति श्लोकादाकृष्टः श्लोकस्थस्य तु तेशब्दस्यत्वयेति व्याक्रिया। अतपस्कशब्देन तपःप्रारम्भमात्रे कृतेऽपि श्रवणानधिकारित्वं विवक्षितमित्याह — अतप्ततपस इति।यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ [श्वे.उ.6।23सुबालो.16।2यो.शि.2।22शाट्याय.37] इति श्रुत्यनुसारेणाऽऽह — त्वयि वक्तरि मयि चाभक्तायेति। अभक्तत्वे विशेषसङ्कोचकाभावात्।मद्भक्तेष्वभिधास्यति [18।68] इत्यनन्तरं भक्तावादरदर्शनाच्च।

कदाचन इत्यनेन तपसि सम्यगनुष्ठितेऽपीति विवक्षितमित्याह — तप्तपसे चाभक्तायेति। प्रत्येकपरिहरणीयत्वाय च नञ्प्रयोगावृत्तिः। उत्तरोत्तरतीव्रत्वतात्पर्येण क्रमविशेष इत्यभिप्रायेणाऽऽह — भक्तायाप्यशुश्रूषव इति। अत्रापि सङ्कोचहेत्वभावात् पूर्ववत्।प्रब्रूहि तं श्रद्दधानाय मह्यम् [कठो.1।1।13] इति श्रुत्या च शुश्रूषाप्राधान्यमवगतम्? मामभ्यसूयति मह्यमभ्यसूयतीत्यर्थः।क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः [अष्टा.1।4।37] इति कर्मत्वस्यापि सिद्धत्वात् द्वितीयाऽत्रानपोदिता। मां प्रत्यसूयतीत्युक्तं भवति। विषयतो लक्षणतश्च असूयां व्यनक्तिमत्स्वरूप इत्यादिना।माम् इति सप्रकारपरामर्श इति भावः।

प्रक्रमानुरोधेननचाभ्यसूयवे इति वक्तव्ये प्रक्रमभङ्गेन विरूपवाक्यकरणं केनाभिप्रायेणेत्यत्राऽऽह — असमानेति। असूयकायानृजवे [मुक्तिको.1।51]असूयकाय मां मादाः [मनुः2।114] इत्यादिभिरसूयामात्रवते प्रवचनं निषिद्धम्। भगवत्यभ्यसूयावते तु प्रवचनमत्यन्तपरिहरणीयमिति भावः।न च ৷৷. वाच्यम् इत्यनेनानधिकारिषु प्रवचने प्रत्यवायः सूचितः। अत्रमेधाविने तपस्विने वा इत्यनयोर्विकल्पोऽन्यत्र दृष्टः? भक्तादेस्तु न तथा अतो भक्त्यादिरहिताय न मेधाविने नापि तपस्विने वाच्यम्। सर्वगुणयोगेऽपि भगवत्यभ्यसूयावते न वाच्यमित्युक्तं भवति।

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।

भक्ितं मयि परां कृत्वा मामेवैष्यत्यसंशयः।।18.68।।

।।18.68।।अथाधिकारिविशेषेष्ववश्यवक्तव्यत्वं तेषु वचनस्यापवर्गाख्यफलपर्यवसानं चोच्यतेय इदम् इति श्लोकेन।मद्भक्तेषु इत्यनेनैवातपस्कत्वादिदोषा दूरोत्सारिताः? स्थितमनसां तेषां तदसम्भवात्।श्रावयेच्चतुरो वर्णान् [म.भा.12।327।48] इत्येतावता सर्वेषु वक्तव्यम्? तेष्वेव मद्भक्ता एव श्रवणाधिकारिण इत्युक्तं भवति। अत्रअभिधास्यति इत्यर्थश्रावणपर्यन्तमित्याह — व्याख्यास्यतीति। यद्वृत्तवशात्सः इत्यध्याहृतम्। योग्येषु व्याख्यानमपि कर्मयोगादिकोटौ? भक्तियोगाङ्कुरे वा निविष्टं परभक्तिं जनयतीतिभक्तिं मयि परां कृत्वा इत्युच्यते।मामेव इत्यवधारणेन मद्गीताव्याख्यायिनो न क्षुद्रफलेषु सङ्गं जनयामीत्यभिप्रेतम्। फलितमाह — न तत्र संशय इति।असंशयः इति संशय एव वा निषिध्यते।

न च तस्मान्मनुष्येषु कश्िचन्मे प्रियकृत्तमः।

भविता न च मे तस्मादन्यः प्रियतरो भुवि।।18.69।।

 ।।18.69।।स्वशास्त्रव्याख्यानस्य स्वप्राप्तिसाधनत्वे द्वारमुच्यते — न च तस्मात् इति श्लोकेन। प्रियकृत्तमत्वप्रियतरत्वयोर्हेतुकार्यभावेनभविता इत्युपात्तक्रिययैवान्वये सम्भवत्यपि कालत्रयवर्तिनिषेधेऽर्थगौरवेण तात्पर्यसिद्ध्यर्थंमनुष्येष्वितः पूर्वमित्याद्युक्तम्। ननु शास्त्रस्याधिकारी अपेक्षितः? अतः स तावद्वक्तव्यः अनधिकारी तु तत एवार्थात् व्युदस्यते प्रधानतमादधिकारिणोऽनन्तरं वा व्यवच्छेद्यतयाऽनधिकारी वक्तव्यः इह तु तद्वैपरीत्ये किं निबन्धनं इत्यत्राऽऽह — अयोग्यानामिति तत्कथनस्य — अयोग्यान्प्रति कथनस्येत्यर्थः।अनिष्टतमत्वात् अनिष्टतमत्वज्ञापनार्थमित्यर्थः। योग्यानामकथनस्यानिष्टत्वंप्रोवाच तां तत्त्वतो ब्रह्मविद्याम् [मुं.उ.1।2।13] इति ब्रह्मविद्याप्रवचनस्य वैधत्वात्। प्रोवाच प्रब्रूयादित्यर्थः।छन्दसि लुङ्लङ्लिटः [अष्टा.3।4।6] इति विधानात्। अन्यथा स गुरुमेवाभिगच्छेत् [मुं.उ.1।2।12] इति प्रथमेन वाक्येनानन्वयात्।

अध्येष्यते च य इमं धर्म्यं संवादमावयोः।

ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः।।18.70।।

 ।।18.70।।एवमुपदेष्टुः फलमुक्तम् अथ शब्दतोऽर्थतश्च गुरुसकाशादध्येतुः फलमुच्यते — अध्येष्यते इत्यादिना श्लोकद्वयेन।श्रृणुयात् इति परैरधीयमानपाठश्रवणमात्रं वा।अध्येष्यते इति — नहि सर्वज्ञस्य भगवतो भविष्यद्भारतनिबन्धावेक्षणेन स्वसंवादाध्ययनभावित्वोक्तिः अपितु भूतावेक्षणेन। महाभारतं हि धृतराष्ट्राद्युत्पत्तेः प्रागेव भगवत्प्रसादलब्धदिव्यचक्षुषा भगवता व्यासेन निबद्धम्। अनुज्ञातं च शिष्येभ्यः तैश्चनारदो श्रावयद्देवानसितो देवलः पितृ़न्। गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः [म.भा.1।1।78] इति मानुषव्यतिरिक्तेषु लोकेषु प्रकाशितम्। मानुषे तु लोके जनमेजयपुरस्कारेण प्रकाशिष्यते। तदपेक्षयोक्तम् — अध्येष्यते इति। उपनिषत्सारत्वादध्ययनोक्तिः। कथितं चाश्रमवर्णने कविभिःअनवरताधीतभगवद्गीतम् इति।श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप [4।33] इति यः प्रथमषट्के ज्ञानयज्ञोऽभिहितः? नासावत्र विवक्षितः अपितु भक्तियोगप्रकरणेज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते [9।15] इति यो भगवदनुसन्धानविशेषरूपो ज्ञानयज्ञ उक्तः? स एवात्र शास्त्रसारभूतो विवक्षित इत्यभिप्रायेणाऽऽह — अस्मिन् यो ज्ञानयज्ञ इति। विधिजपोपांशुमानसानां ज्ञानयज्ञो मानसत्वाद्विशिष्टः।एतदध्ययनमात्रेणेति — अयमभिप्रायः — योऽश्वमेधेन यजते। य उ चैनमेवं वेद [अ.मे.2]यं यं क्रतुमधीते तेनतेनास्येष्टं भवति [आर.2] इत्यादिषु यथा,तत्तत्क्रत्वध्ययनस्य तत्तुल्यफलता? तथात्रापि ज्ञानयज्ञवद्भगवत्प्रीतिजनकत्वं तद्गीताध्ययनस्य — इति।

श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः।

सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्।।18.71।।

 ।।18.71।।श्रद्धावाननसूयश्च इति चकारादत्रानुषक्तानामपि प्रागुक्तानां प्रणिपातपरिप्रश्नसेवानां ग्रहणम्।श्रृणुयात् इत्यनेन आचार्यसकाशादिति गम्यते। श्रूयते हि — तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् [मुं.उ.1।2।12] इति। आचार्याद्ध्येव विद्या विदिता साधिष्ठं प्रापत् [छां.उ.4।9।3] इति। एतेन स्वयं ग्रन्थनिरीक्षणमन्यायेनान्यस्माद्ग्रहणं च व्यवच्छिद्यते।सोऽपि इति विलम्बः सूच्यते। तेनभक्तिविरोधिभ्यो मुक्त इत्युक्तम्। अन्यथा विध्यन्तरवैयर्थ्यादिप्रसङ्ग इति भावः। अर्थज्ञानादिमतश्च कैमुत्यमपि शब्देन व्यञ्जितम्। प्रवचनपठनयोर्मोक्षैकान्तफलस्य पूर्वमुक्तत्वात् सहभावेनाग्र्यप्रायन्यायाच्छ्रवणेऽपि तादृशफलं भगवदभिप्रेतं स्वीकर्तुमुचितम्। नरककल्पस्वर्गादिप्राप्तेरनभिमतत्वान्मद्भक्तानांलोकान्समूहानित्युक्तम्। अत्र पाठश्रवणादिप्रीतो भगवान् स्वभक्तान् प्रापयति। भगवद्भक्तानां प्राप्तिर्हि योगोपदेशादिद्वारा मोक्षाय स्यात्।

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।

कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय।।18.72।।

।।18.72।।अथार्जुनस्य विदिताशयोऽपि भगवानादरेणाविस्मरणायोपदेशसाफल्यं जिज्ञासमान इव पृच्छति — कच्चिदिति। एतदिति अर्थपर्यन्तत्वाच्छ्रुतमित्यर्थः। धीपर्यन्तं मत्कथितमेतत्किं निरर्थकमित्यभिप्रायेणैतच्छब्द इत्याह — मया कथितमेतदिति। अज्ञानसम्मोहः कच्चित्प्रणष्ट इति श्रुतफलानुयोगः। अज्ञानहेतुकं भ्रान्तिज्ञानमिहाज्ञानसम्मोहः। येनाज्ञानेन मूढ इत्यस्याज्ञानसम्मोह इति प्रतिनिर्देशे तेनाज्ञानेन जनितसम्मोह इत्यन्वयो भाव्यः।

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।

स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव।।18.73।।

 ।।18.73।।अथ कृतज्ञतांशं व्यञ्जयन्नर्जुनः श्रुतफलसिद्ध्या प्रतिवक्तिनष्टो मोहः इति। अर्जुनेनास्यार्थस्येतःपूर्वमनवगमाद्वाक्येन प्रथमं स्मृतेरनुदयात्तन्मूलभूतशब्दजन्योऽनुभव इह स्मृतिशब्देन लक्ष्यत इत्याह — स्मृतिर्यथावस्थिततत्त्वज्ञानमिति।स नो देवः शुभया स्मृत्या संयुनक्तु इत्यस्य मन्त्रस्यस नो बुद्ध्या शुभया संयुनक्ति(क्तु) [श्वे.उ.3।4] इति शाखान्तरे पाठदर्शनात्स्मृतिबुद्धिशब्दावदूरविप्रकर्षेणेकार्थौ युक्ताविति भावः। निवर्त्यमोहस्वरूपं चोपदेशस्यामूलचूडपरामर्शेन व्यनक्ति — अनात्मनीत्यादिना। प्रकृतिविलक्षणत्वं स्वप्रकाशत्वादिभिः विकाराद्यभावात्तत्स्वभावरहितता। स्वस्थः प्रकृतिस्थ इत्यर्थः। उपदेशवचनस्य स्वरूपेणाननुष्ठेयत्वात्तेन तत्प्रतिपाद्यं लक्ष्यत इत्याह — यथोक्तं युद्धादिकमिति।

एवं चाभिप्रायः — आदिशब्देन भक्तियोगपर्यन्तग्रहणम्। अननुष्ठानं तु स्मृतिभ्रंशादिति हि वक्ष्यति — यत्तु तद्भवता (यत्तद्भगवता) प्रोक्तं पुरा केशव सौहृदात्। तत्सर्वं पुरुषव्याघ्र भ्रष्टं मे नष्टचेतसः [अ.गी.1।6] इति। प्रतिवक्ष्यति च भगवान् — श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्। धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान्। अबुद्ध्या माग्रहीर्यत्त्वं तन्मे सुमहदप्रियम् [अ.गी.1।910]स हि धर्मः सुपर्याप्तो ब्रह्मणः परिवेदने [अ.गी.1।12] इति।

सञ्जय उवाच

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।

संवादमिममश्रौषमद्भुतं रोमहर्षणम्।।18.74।।

 ।।18.74।।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय [1।1] इति प्रश्ने कृत्स्नं सङ्गमयतीत्याह — धृतराष्ट्रायेति।महात्मनः इत्युक्तं व्यनक्ति — तत्पदद्वन्द्वमाश्रितस्येति।कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः इति ह्यन्यत्रोक्तम्। अत्रचशिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् [2।7] इति। अद्भुतत्वातिशयाद्रोमहर्षणत्वम्।यथोक्तमश्रौषमिति — यथा ताभ्यामुक्तं? तत्र ममाश्रुतांशो नास्तीत्यर्थः। एतेन यथार्थदर्शित्वं व्यञ्जितम्। यद्वा यथा तव मयोक्तम्? एवमेव श्रुतवानस्मि? ततश्च यथादृष्टार्थवादित्वं व्यञ्जितं भवति।

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्।

योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्।।18.75।।

।।18.75।।मन्दस्य मोहनकालुष्यनिवृत्तिलक्षणप्रसादस्यात्राभावात्व्यासानुग्रहेणेत्युक्तम्। देवैरप्यदृश्यस्य श्रीविश्वरूपस्य दर्शनार्थं दूरस्थवाक्यश्रवणार्थं च अनुग्रहावान्तरव्यापारमाह — दिव्यचक्षुश्श्रोत्रलाभादिति। अतीन्द्रियादिग्रहणसामर्थ्यादिमात्रेणात्र दिव्यत्वम्। एतदिति नपुंसकनिष्पत्तये योगशब्दं विशेषणीकरोति — योगाख्यमिति।परं ब्रह्म इत्यकर्मणि योग्यताभिप्रायम्। तथाभूतमपि हि मया श्रुतमिति व्यासमाहात्म्यव्यञ्जनम्।योगेश्वरात् इत्यत्र योगशब्दः कल्याणगुणयोगपरःएतां विभूतिं योगं च [10।7] इति प्रागुक्तवदित्याह — ज्ञानेति। स्वयमेव कथयतः? न तु परैर्वाचयत इत्यर्थः। तेन वक्तृवैलक्षण्योक्तिः। यथापञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् [म.भा.12।348।68] इति।साक्षाच्छ्रुतवानहमिति — न तु विवस्वदर्जुनादितच्छिष्यद्वारेत्यर्थः। यद्वा दूरस्थोऽपि प्रत्यक्षं श्रुतवानिति।

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्।

केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः।।18.76।।

।।18.76।।अद्भुततरत्वमाह — राजन् इत्यादिना श्लोकद्वयेन। पुण्यं श्रवणमात्रेणापि ज्ञानयज्ञादिवत्पावनम्। अद्भुतं शब्दतोऽर्थतश्च आश्चार्यावहम्।

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।

विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः।।18.77।।

।।18.77।।तच्च रूपमित्येतत्सर्वजनप्रत्यक्षवसुदेवतनयरूपाद्व्यवच्छेदार्थमित्याह — अर्जुनाय प्रकाशितमैश्वरं रूपमिति।संस्मृत्य इत्यस्य समानकर्तृकत्वाय हृष्यामीति समभिव्याहारानुसारेण — हृष्यत इत्युपात्तम्। दृष्टं च फलं महत्तरमित्यस्य श्लोकस्य भावः।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।18.78।

 ।।18.78।।सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्य सहसा साक्षादुत्तरं वक्तुमशक्नुवन्अर्धोक्ताः कुरुपाञ्चालाः इति मत्वा गूढाभिसन्धिः संवादाद्भुतत्वादिकमुक्तवान् तावताऽप्यजानतः सर्वात्मनाऽन्धस्य साक्षादुत्तरमाहेत्याह — किमत्र बहुनेति। अनभिप्रायज्ञस्य ते भगवताऽर्जुनायाध्यात्मोपदेशवैश्वरूप्यप्रकाशनादिभिः पाण्डवविजयसूचकैरलम् सूचितमेव स्पष्टं वदामीत्युच्यत इति भावः। यत्र यस्मिन् पक्ष इत्यर्थः। योगेश्वरशब्दस्यकथयतः स्वयम् इत्यत्राप्ततमत्वाय प्रागुक्तादर्थादर्थान्तरकथनम्? अनेकार्थसम्भवात् प्रकरणानुगुण्येन तत्तद्विशेषपरिग्रहोपपत्तेश्च। ईश्वरशब्दस्य नियन्तव्यसाकाङ्क्षतया योगशब्देन नियन्तव्यविशेषसमर्पणं च युक्ततमम् अतो विवक्षितविजयाद्यनुगुणमर्थमाह — कृत्स्नस्येत्यादिना। तत्र फलितमाह — स्वसङ्कल्पेति। अवस्थान्तरेऽपि श्यामभूतः अतः कृष्णशब्दोऽत्रावतारदशायामपि योगेश्वरत्वेनाजहत्स्वस्वभावत्वसूचनार्थ इत्यभिप्रायेणाऽऽह — वसुदेवसूनुरिति। पार्थसम्बन्धविशेषोऽप्यनेन सूचितः। अत एव हि पार्थशब्द एवं व्याख्यायते — तत्पितृष्वसुः पुत्र इति।विसृज्य सशरं चापम् [1।47] इति प्रागुक्तावस्थाव्यतिरेकपरोऽत्र धनुर्धरशब्दः भगवदनुशिष्टयथोक्तकरणार्थतया गाण्डीवाख्यधनुर्ग्रहणद्योतनार्थः। तत्र विशिष्टोपकरणविशेषवीर्यादिविशेषोऽप्यन्तर्नीतः।पार्थस्य च महात्मनः [18।74] इति प्रागुक्तमहामतित्वं पार्थशब्देन सूचितमित्याह — तत्पदद्वन्द्वैकाश्रय इति। नह्यसौ त्वत्पुत्रवत्कृष्णमभ्यर्थ्य निस्सारान्परिकरत्वेन परिजग्राहेति भावः।तत्र इति सामान्यनिर्देशः प्रत्यक्षपारुष्यपरिहारार्थः। श्रीः राज्यादिभोग्यसमृद्धिरूपा। विजयः शत्रुनिरासः।तत्र ध्रुवः इति विपरिणामः। भूतिः ऐश्वर्यम्?विभूतिर्भूतिरैश्वर्यम् [अमरः1।1।38] इति पर्यायपाठात्। तेनास्य पुरुषस्य प्रभुत्वादिशक्तियोगो विवक्षितः। उत्पन्नायाः समृद्धेरुत्तरोत्तराभिवृद्धिरूपमवनं भूतिः? नीतिः अर्थशास्त्रजन्यकर्तव्यनिश्चयः? तच्चोदिता धर्माविरुद्धा वा वृत्तिः पटुप्रज्ञैरवहितैरपि युष्माभिश्चतुर्भिरप्युपायैरकम्पनीयो नयो ध्रुवशब्दाभिप्रेत इत्याह — निश्चलेति।मतिर्मम इत्यस्यान्वयार्थमितिशब्दोऽध्याहृतः। ममैव मतिःविद्या (श्रृणु) राजन्न ते विद्या मम विद्या न हीयते। विद्याहीनस्तमोध्वस्तो नाभिजानासि केशवम्। [म.भा.5।69।2]मायां न सेवे भ्रदं ते न वृथा धर्ममाचरे। शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् [म.भा.5।69।5] इति। अतस्ते ध्रुवा नैवं मतिः? मम त्वेवं समीचीना मतिः सञ्जातेति भावः।

कृष्णस्तत्त्वं परं तत्परमपि च हितं तत्पदैकाश्रयत्वं

शास्त्रार्थोऽयं च षट्कैस्त्रिभिरिहं कथितस्तत्र पूर्वत्र षट्के।

भक्त्यर्थस्वात्मदृष्टेः करयुगलदशा मध्यमे भक्त्युपायः

स्वोक्तानुष्ठानवृत्तिं द्रढयितुमखिलं प्रोक्तमन्तेऽप्यशोधि।।1।।

अध्यायैः शिष्यमोहस्तदुपशमविधिः कर्मयोगोऽस्य भेदा-

स्तत्सौकर्यादियोगस्तदुचितमहिमा भूतिकामादिभेदः।

भक्तिस्तन्मूलभूमा भजनसुलभता भक्तिशैघ्र्यादि जीव-

त्रैगुण्यं शासिताज्ञा तदधिगमपरः सारवर्गश्च गीताः।।2।।৷৷

इत्यादिः सर्वयोगो भगवति परमैकान्त्यसम्प्रीतियुक्तम्।

येषामन्योन्ययोगो भवति च कलया नित्यनैमित्तिकानां

त्रिष्वप्येतेषु योगं परममितफलं वक्तुमन्यत्प्रसक्तम्।।3।।

शुद्धादेशवशंवदीकृतयतिक्षोणीशवाणीशता प्रज्ञातल्पपरिष्कृतश्रुतिशिरःप्रासादमासेदुषी।

नित्यानन्दविभूतिसन्निधिसदासामोददामोदर-

द्वित्रालिङ्गनदौर्ललित्यललितोन्मेषा मनीषाऽस्तु मे।।4।।

तत्त्वं यत्प्रणवे धनञ्जयरथेऽप्यग्रे दरीदृश्यते

तच्चित्तो भुवि वेङ्कटेश्वरकविर्भक्तोऽनुकम्प्यः सताम्।

तत्तादृग्गुरुदृष्टिपातमहिमग्रस्तेन यच्चेतसा

गीताविष्णुपदी यतीश्वरवचस्तीर्थैरवागाह्यत।।5।।

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीभगवद्रामानुजविरचितश्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायां अष्टादशोऽध्यायः।।18।।

श्रीमते निगमान्तमहादेशिकाय नमः।।
तृतीयषट्कं संपूर्णम्
शास्त्रं च समाप्तम्

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.