07 तात्पर्यचन्द्रिका सप्तमोऽध्यायः

श्रीमद् भगवद्गीता

वेदान्ताचार्यविरचित  तात्पर्यचन्द्रिका

सप्तमोऽध्यायः

श्री भगवानुवाच

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः।

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु।।7.1।।

।।7.1।।षट्कसङ्गतिमाह प्रथमेनेति।परमेत्यादिना वक्तुमित्यन्तेन द्वितीयषट्कार्थ उक्तः। ततः परं प्रथमषट्कार्थः। प्रथमेनाध्यायषट्केनोक्तमित्यन्वयः।मामुपेत्य 8।16 इत्यादीनामर्थं दर्शयति परमप्राप्यभूतस्येति। तेन परिशुद्धजीवमात्रव्यावर्तनम्। परमप्राप्यत्वे हेतुः परब्रह्मत्वादिकम्।परं ब्रह्म परं धाम 10।12 इत्यादिकं वक्ष्यति। पुरुषोत्तमत्वप्रकरणादीनामर्थो निरवद्यत्वम्। एतेनाचिद्गता विकारादयः चिद्गताः क्लेशादयश्च परिहृताः।अहं सर्वस्य प्रभवः 10।8़ इत्यादेरर्थमाह निखिलेति। चिदचिदात्मकं सर्वं जगत्प्रतिनिमित्तोपादानभूतस्येत्यर्थः। एवं परमप्राप्यस्यैव कारणत्वप्रतिपादनाद्व्योमातीतमतन्निरस्तम्। निमित्तोपादानत्वोपयुक्तंमत्तः परतरम् 7।7 इत्याद्यभिप्रेतं सर्वज्ञत्वादिकम्।सर्वभूतस्य सर्वान्तर्यामितया सर्वशरीरकस्येत्यर्थः।सर्वं समाप्नोषि ततोऽसि सर्वः 11।40 इति हि वक्ष्यति।भूमिरापः 7।4 इत्यादिना विभूत्यध्यायादिना (10) च वक्ष्यमाणं महाविभूतित्वं नारायणशब्दनिर्वचनमपिपरमप्राप्यभूतस्य महाविभूतेरित्यादिना सूचितम्। एतदुक्तं भवति परत्वान्निरवद्यत्वात्पितृत्वाद्धितवेदनात्। अन्तरात्मतया दोषप्रतिक्षेपक्षमत्वतः। भोगलीलार्थनिस्सीमविभूतिद्वययोगतः। श्रीमत्वादप्युपास्योऽयं प्राप्यो नारायणः परः।। इति।प्राप्त्युपायभूतं तदुपासनमिति परमात्मोपासनमेव तत्क्रतुन्यायात्तत्प्राप्त्युपायः जीवज्ञानं कर्मानुष्ठानं च तन्निवर्तकत्वेन परम्परयोपाय इति भावः। अङ्गप्राप्त्रोर्वचनानन्तरमङ्गिप्राप्ययोः प्रतिपादनमिति सङ्गत्यभिप्रायेणाह इदानीमिति। पूर्वोक्तात्परिशुद्धात्मनो व्यावृत्तिं वक्ष्यमाणवैभवसङ्ग्रहं चाभिप्रेत्याह परब्रह्मभूतपरमपुरुषस्वरूपमिति एतेन तत्त्वपरेषु सामान्यब्रह्मशब्दस्य विशेषे स्थितिर्दर्शिता अथ मोक्षोपायपरेषु वेदान्तवाक्येषु वेदनोपासनादिशब्दानां विशेषपर्यवसानमाह तदुपासनं च भक्तिशब्दवाच्यमिति। एवं वाक्यद्वयेन षटुद्वयसङ्ग्रश्लोकावप्यर्थाद्व्याख्यातौ। तथाहिज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते। आत्मानुभूतिसिद्ध्यर्थे पूर्वषट्केन चोदिते। मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये। ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः गी.सं.2।3 इति।आत्मज्ञानपूर्वकेत्यनेन सुसंस्कृतशब्दो व्याख्यातः। बुद्धिविशेषसंस्कृतत्वं हि प्रागेवोपपादितम्।योगलक्षे आत्मानुभूतिसिद्ध्यर्थे इत्यत्र योगो विषयान्तरेभ्यश्चित्तवृत्तिनिरोधः तज्जन्यसाक्षात्कारस्त्विहात्मानुभूतिशब्देनोच्यत इत्यपौनरुक्त्यमित्यभिप्रायेणयाथात्म्यदर्शनमित्युक्तम्। तत्त्वयाथात्म्यशब्दविवरणंपरब्रह्मभूतेत्यादि। तत्त्वशब्दोऽत्र स्वरूपपरः। याथात्म्यं यथावस्थितः प्रकारः। भक्तेः कर्मानुष्टानसाध्यात्मदर्शनहेतुकत्वं अष्टादशे वक्ष्यत इत्याहतदेतदिति। ननु तमेव विदित्वाऽतिमृत्युमेति श्वे.उ.3।86।15 इत्यादिबलाद्वेदनमात्रेण मोक्षः प्रतीयते अस्तु वाउपासीत इति बलादुपासनरूपेण वेदनेन मोक्षः तथापि न भक्त्या मोक्ष इति क्वचिदपि श्रुतम्।कर्मसमुच्चयश्च श्रुतिसिद्धो दुस्त्यजः परमपुरुषविषयस्यैवोपासनस्य मोक्षसाधनत्वमित्यपि दुर्वचम् रुद्रेन्द्राद्युपासनस्यापि मोक्षसाधनत्वेनाथर्वशिरःप्रतर्दनविद्यादिषु श्रुतेरित्याद्याशङ्क्याऽऽह उपासनं त्विति। उपासनमेव न तु ज्ञानमात्रमित्येका प्रतिज्ञा तत्रापि भक्तिरूपापन्नं नोपासनमात्रमिति द्वितीया एवंविधमुपासनमेव न तु कर्मसमुच्चितमिति तृतीया तच्च परविषयमेवेति चतुर्थी। एषा तुपरमप्राप्त्युपायभूतमित्यनेन तत्क्रतुन्यायात्सूचिता।वेदान्तवाक्यसिद्धमिति एतच्चतुष्टयमपि वेदान्तवाक्यैरेव सिद्धम् न तु कल्प्यम् नाप्युपबृंहणसापेक्षमिति भावः। तत्र प्रथमां प्रतिज्ञां समर्थयते तमेवेत्यादिना अवगम्यत इत्यन्तेन। श्रोतव्यो मन्तव्यः बृ.उ.2।4।5 इत्येतयोस्तु रागप्राप्तश्रवणमननानुवादरूपत्वात्तत्परित्यागेन द्रष्टव्यः ৷৷. निदिध्यासितव्यः इति विध्यंश उपात्तः। ध्यानोपासनशब्दयोरत्रैकार्थ्यं दर्शयितुमुभयविशिष्टवाक्योपादानम्। द्रष्टव्यः ৷৷. निदिध्यासितव्यः इत्यनयोर्भिन्नार्थत्वप्रसिद्धेरेकवाक्यस्थयोरेकार्थत्वं पौनरुक्त्यादिदोषाच्च दर्शनं ध्यानं च पृथगेव विहितमिति शङ्कायां तयोरपि सामान्यविशेषन्यायविशेषेणैकार्थ्यमेवेति दर्शयितुं स्मृतिमात्रं दर्शनमात्रं च पृथक्सर्वग्रन्थिमोक्षहेतुतया वदतोरत एवैकार्थविषययोर्वाक्ययोरुपादानम्। एतदुक्तं भवति समानप्रकरणपठितविशेषे सामान्यशब्दानां पर्यवसानं न्यायसिद्धम् अतोऽत्र वेदनादिसामान्यशब्दानां ध्यानोपासनशब्दवाच्ये विशेषे पर्यवसानमभ्युपेयम् ध्यानं च तैलधारावदविच्छिन्नस्मृतिसन्ततिरूपमिति ।

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते।।7.2।।

7.2 ध्रुवा स्मृतिः  इत्यादिसिद्धम् सा च ध्रुवा स्मृतिः सर्वग्रन्थिविप्रमोक्षहेतुतया विहिता दर्शनं च तद्धेतुतया विहितम् न चेदमुपायद्वयं गुरुलघुतारतम्यात् फलस्य चाविशिष्टत्वाल्लघौ सति नियमेन गुरोरपरिग्रहेणानुपायत्वप्रसङ्गात् न च द्वारद्वारिभावः एकस्मिन्वाक्ये विशिष्टैकविधिसम्भवे पृथग्विधेः परिग्रहायोगात् न च दर्शने स्मृतिशब्देनोपचारे कश्चिद्गुणः अतो ध्रुवा स्मृतिरेव दर्शनशब्देन विशेषिता स्मृतेश्च दर्शनसमानत्वं नाम विशदतमतया दर्शनसमानाकारत्वमेव। भवति च स्मृतेर्भावनाप्रकर्षाद्दर्शनसमानाकारता भीरुकामुकादिषु। यथावृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम्। गृहीतधनुषं रामं पाशहस्तमिवान्तकम् वा.रा.3।14।15 इत्यादि। तथालीनेव प्रतिबिम्बितेव मा.मा.अं.5 इत्यादि। एवं च स्मृतिदर्शनशब्दयोरैकार्थ्ये सिद्धे द्रष्टव्यः ৷৷. निदिध्यासितव्यः इत्यनयोरेकवाक्यस्थयोरपि सामान्यविशेषरूपेणैकार्थ्यमेवेति।

अथ द्वितीयां प्रतिज्ञामुपपादयितुमाह पुनश्चेति। एतदुक्तं भवतिनायमात्मा इत्यादिना केवलश्रवणमनननिदिध्यासननिषेधः अत्यन्तनिषेधे त्वनेकप्रमाणविरोधात्। यमेवैषः इत्यादिनापि वरणीयत्वहेतुभूतस्वक्रियासाध्यो गुणविशेषो विधीयते ईश्वरस्वाच्छन्द्यमात्राभिधाने वैषम्यनैर्घृण्यादिदोषप्रसङ्गाच्छास्त्रानर्थक्याच्च। तथा सिद्धगुणाभिधानेऽपि शास्त्रानर्थक्यमेव विधेयान्तराभावात्। स च वरणीयताहेतुः साध्यो गुणो भक्तिरेव। प्रियतम एव हि वरणीयो भवति। परमात्मविषयप्रीतिमानेव च परमात्मना वरणीयः।प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः 7।17 इति स्ववचनादिभिस्तथावगतेः इति। तस्याश्च प्रीतेः स्वयमपि स्वावृतमत्वमुपायान्तरेष्वदृष्टपूर्वं दर्शयतिस्मर्यमाणेत्यादिना।तेषु तेष्वच्युता भक्तिरच्युताऽस्तु सदा त्वयि वि.पु.1।20।18 इत्यारभ्यया प्रीतिरविवेकानाम् वि.पु.1।20।19क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम्। क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् वि.पु.2।6।44 इत्यादिभिर्भगवद्भक्ते स्वादुतमत्वं सिद्धम्। स्मृतिः सन्तन्यते यत्रेति वा स्मृतेः सन्तानो यत्रेति वा स्मृतिसन्तानशब्देन प्रकृतं वेदनं विशेष्यते इति नपुंसकत्वोपपत्तिः। पुँल्लिङ्गतया वा पठितव्यम्। अस्त्वेवं तथापि भक्तेर्मोक्षोपायत्वं कथमित्यत्राह तदेव हीति। महनीयविषये प्रीतिरेव हि भक्तिरिति भावः। तत्र प्रमाणमाह स्नेहेति। महनीयविषये स्नेहपूर्वमनुध्यानमिति भाव्यम् अन्यथा स्नेहपूर्वस्वप्रियतमानुध्यानस्यापि भक्तित्वप्रसङ्गात्। एवं भक्तिरूपत्वानभ्युपगमे श्रुतिस्मृत्योः परस्परविरोधः।

अभ्युपगमे तदुपबृंहणीयत्वोपबृंहणत्वाभ्यां परस्परानुकूल्यमित्यभिप्रायेणाह अत इति। वेदनशब्दनिर्दिष्टस्य मुक्त्युपायस्य भक्तिरूपत्वादित्यर्थः। परमपुरुषव्यतिरिक्तोपायनिषेधमुखेन तज्ज्ञानव्यतिरिक्तोपायनिषेधः श्रुतौ सिद्धः। तद्भक्तिव्यतिरिक्तोपायनिषेधः स्मृतौ। तदेतद्भक्तिवेदनशब्दयोरैकार्थ्ये हि घटते। अन्यथा तु मिथो व्याघात इति। एवं प्रतिज्ञाद्वयं कण्ठोक्त्योपपादितम् अन्यत्प्रतिज्ञाद्वयं त्वर्थतः स्थापितम्। तथा हि वेदनव्यतिरिक्तनिषेधात्समुच्चयपक्षो निरस्तः। कर्मापेक्षणं त्वङ्गतयेति तत्तद्वाक्यार्थनिरूपणेन सिद्धं भवति। श्वेताश्वतरपुरुषसूक्तवाक्यविषययोरेकविषयतयोपादानात्सर्वशाखागतपुरुषसूक्तवाक्यैकार्थ्यं सर्वोपनिषदां दर्शितम्। तत्रच महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः श्वे.उ.3।12 इत्यादिबलात्पुरुषविषयत्वमेव व्यक्तम्। शिवादिशब्दास्तु शुद्धिगुणयोगादिना परमपुरुष एव मुख्याः। अथर्वशिरःप्रतर्दनविद्यादिष्वपि रुद्रेन्द्राद्यन्तर्यामिपरमपुरुषोपासनमेव विधेयमिति स्थापितं शारीरके।तत्रेति मध्यमषट्क इत्यर्थः।उपास्यभूतेत्यनेन प्रकृतसङ्गतिः सूचिता। उपास्यभूतः परमपुरुषो हि षष्ठाध्यायान्तिमश्लोकेमाम् 6।47 इति प्रसक्तः। एतेनस्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः। भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते गी.सं.11 इति सङ्ग्रहश्लोकोऽपि व्याख्यातः।।

अथ भजनीयतयामाम् 6।47 इति प्रस्तुतं स्वात्मानं भजननिर्वृत्तये यथावस्थितमुपदिशामीति भगवानुवाचमय्यासक्तमना इति।आसक्तः इत्यत्रोपासनार्थमाभिमुख्यमुपसर्गविवक्षितमित्याह आभिमुख्येनेति। तदेव सहेतुकं प्रपञ्चयति मत्प्रियत्वेत्यादिना। अहं प्रियः प्रीतिविषयो यस्य स मत्प्रियस्तस्य भावस्तत्त्वम्। यद्वा मम प्रियत्वातिरेकेण मत्प्रियत्वातिरेकेणेत्यर्थः।मद्विभूतिशब्देनात्र भगवदसाधारणपरिजनपरिबर्हभूषणादीनिगृह्यन्ते नतु विभूतिमात्रम् कदाचिदपि तद्विश्लेषायोगात्। यद्वा विभूतित्वेनाननुभवो विभूत्या विश्लेषः। स्वरूपादिभिरपि हि विश्लेषो यथाभिलषितानुभवाभाव एव।विशीर्यमाणस्वरूपतयेति कार्याक्षमत्वलक्षणशैथिल्येनेत्यर्थः। तेन चाप मनो विशेष्यते। पौनरुक्त्यप्रसङ्गं परिहर्तुंस्वयं चेत्युक्तम्।मदाश्रयः इत्यत्रअब्भक्षः इत्यादाविवावधारणं विवक्षितमिति दर्शयतिमदेकाधार इति मदनुभवैकधारक इत्यर्थः। योगोपकारकं भजनीयविषयतत्त्वज्ञानमिहोच्यते न तु योगस्य साक्षादनुष्ठानमित्यभिप्रायेणयुञ्जन् इति शत्रभिप्रेतमाहयोक्तुं प्रवृत्त इति। प्रारब्धापरिसमाप्तिरूपवर्तमाने प्रारम्भोऽत्र विवक्षित इति भावः। योगात्पूर्वमेव तत्त्वतो ज्ञातव्यत्वार्थंयोगविषयभूतमित्युक्तम्।असंशयं समग्रम् इत्युभयं क्रियाविशेषणम्। समग्रशब्दो निस्संशयत्वाय सर्वप्रकारविशिष्टत्वपर इति दर्शयितुंसकलपदम् विशेषदर्शनेन हि संशयनिवृत्तिः।तच्छृणु इति प्रतिनिर्देशवशादुत्तरश्लोकालोचनया उक्तिश्रवणयोरेकविषयत्वसिद्धेश्चात्रयथा इतिशब्दो ज्ञानपर इत्यभिप्रायेणयेन ज्ञानेनोक्तेन ज्ञास्यसीत्युक्तम्। उक्तेन वक्ष्यमाणवाक्यप्रतिपाद्येनेत्यर्थः। श्रूयमाणविषयस्यादृष्टचरत्वाच्छ्रोतुरवधानकरणं प्रथमश्लोकप्रयोजनमिति दर्शयति अवहितमना इति।।।7.2।।तच्छृणु इत्युक्तमर्थं पुनः सावधानत्वातिशयसम्पादनायाहमपि सर्वज्ञः सर्वशक्तिर्वक्ष्यामीति वदन्असंशयं समग्रं माम् 7।1 इत्युक्तमर्थं किञ्चिद्विशदयति ज्ञानं तेऽहम् इति श्लोकेन। ज्ञानविज्ञानशब्दयोः पौनरुक्त्यव्युदासाय उपसर्गसिद्धं विशेषं दर्शयति विज्ञानं विविक्ताकारविषयं ज्ञानमिति। अत्र ज्ञानविज्ञानशब्दाभ्यां तज्जनकवाक्यलक्षणा। श्रोतव्यत्ववक्तव्यत्वे वा तज्जनकवाक्यद्वारा तत्रोपचरिते।ज्ञानं ज्ञात्वेति ओदनपाकं पचतीतिवत्। एतेन विज्ञानशब्दस्यात्र निदिध्यासनविषयत्वं परोक्तं प्रत्युक्तम्। अर्थस्थितिपरिज्ञानं ह्यत्रयज्ज्ञात्वा इत्यादिनाऽपि व्यज्यते। अतः स्वरूपनिरूपकनिरूपितस्वरूपविशेषकधर्मविषयतया ज्ञानविज्ञानशब्दयोरपुनरुक्तिः। उभयलिङ्गतयोभयविभूतिविशिष्टतया च वक्ष्यमाणं विविक्तत्वं दर्शयति यथाऽहमिति। अनवधिकातिशयासङ्ख्येयकल्याणगुणगणश्चानन्तमहाविभूतिश्चेति पृथग्बहुव्रीहिभ्याम्ज्ञानं तु विज्ञानगुणोपपन्नं कर्माशुभं पश्यति वर्जनीयम् इत्यत्रापि विज्ञानशब्देनैतदेव विवक्षितम् अतिशयित विषयज्ञानस्यान्यानादरहेतुत्वात्।अशेषतः इत्येतस्यैव विवरणे ज्ञानप्रशंसारूपं चोत्तरार्धं व्याख्याति किं बहुनेति।इह भूयः इत्यस्यार्थोमयि पुनरिति। अवश्यज्ञातव्यसमस्ताकारविशिष्टमिहोपदिशामीत्युक्तं भवति।

मनुष्याणां सहस्रेषु कश्िचद्यतति सिद्धये।

यततामपि सिद्धानां कश्िचन्मां वेत्ति तत्त्वतः।।7.3।।

।।7.3।।पुनरपि प्रकारान्तरेण प्रशंसा क्रियत इत्यभिप्रायेणाह वक्ष्यमाणस्येति। मनुष्यशब्दोऽत्र न जातिविशेषाभिप्रायः देवादीनामप्यधिकारस्य शारीरके समर्थितत्वात्। अतः सिद्ध्यर्थयतनयोग्यमात्राभिप्राय इति दर्शयतिशास्त्राधिकारयोग्या इति। सिद्ध्यर्थयतनमात्रं प्रायेण सर्वसाधारणम् अतःसिद्धये इत्यस्यकश्चित् इत्युक्तविशेषान्वयायसिद्धिपर्यन्तमित्युक्तम्।मां वेत्ति इत्युक्तवेदनस्य तदधीनसिद्धिपर्यन्तयतनार्थत्वंयततामपि सिद्धानाम् इत्यनुवादेनाभिप्रेतमित्याहमां विदित्वा मत्तः सिद्धये यतत इति। प्राप्यस्यैव प्रापकत्वादिकमिह तत्त्वम्।तत्त्वतः इति विशिष्टं वेदनं सामान्यतोऽपि वेदनमात्रे सत्येव हि भवति अतोयततामपि सिद्धानां कश्चिन्मां वेत्तिमद्विधेषु कश्चिन्मां तत्त्वतो वेत्ति इति वाक्यद्वयं विवक्षितमित्यभिप्रायेणसिद्धिपर्यन्तं यतमानानामित्यादिवाक्यभेदः।कश्चिन्मां वेत्ति इत्यत्र कश्चिदेव वेत्ति न द्वाविति विवक्षा व्यासभीष्माद्यनेकदर्शनादयुक्ता। कश्चिद्वेत्त्येवेति विवक्षा चात्र निरर्थका दौर्लभ्यवचनविरुद्धा च अतोऽर्थस्वभावाद्वक्ष्यमाणसंवादाच्च फलितं दुर्लभत्वाभिप्रायं दर्शयति न कश्चिदिति।

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च।

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा।।7.4।।

।।7.4।।अथभूमिः इत्यादिनानत्वहं तेषु ते मयि 7।12 इत्यन्तेन स्वयाथात्म्यमुपदिश्यते। तत्र प्रथमं कार्यकारणरूपाचिद्विलक्षणत्वं तच्छेषत्वादिमुखेन दर्शयति। भूम्यादीनां प्रकृतिकार्याणामत्र प्रकृतित्वेन उच्यमानत्वाद्व्यष्टिसृष्ट्यपेक्षया प्रकृतित्वमिह विवक्षितमित्यभिप्रायेणाह अस्येति। केचिदाहुः अष्टौ प्रकृतयः गर्भो.3 इति श्रुतेरिह भूम्यादिशब्दैस्तन्मात्राणि गृह्यन्ते मनश्शब्देन मनसः कारणभूतोऽहङ्कारः अहङ्कारशब्देन त्वहङ्कारवासनास्पदं अव्यक्तं मूलकारणमिति। एवं समस्तपदमुख्यार्थभङ्गक्लेशाद्व्यष्ट्यपेक्षया प्रकृतित्वं वरमिति भावः। यद्वा प्रकृतिशब्देन मूलप्रकृतिरेवोच्यते द्रव्यैक्यात्सैवाष्टधाऽवस्थितेत्युच्यते एषा हि पूर्वमेका पश्चादष्टधा परिणता। अत्र स्वोपदेश प्रवृत्तस्यप्रकृतेरष्टविधत्वोपदेशो न सङ्गतः नच स्वकीयत्वात् तत्सङ्गतिः तथात्वेनेतः प्रागनुपदिष्टत्वात्। अतः प्रत्यक्षादिसिद्धपृथिव्याद्याकारपरिणता प्रकृतिरिहानूद्यते स्वस्य तद्विलक्षणत्वतच्छेषित्वतन्नियामकत्वादिसिद्ध्यर्थंमे इति तस्याः स्वकीयत्वं विधीयत इत्यभिप्रायेणोक्तं मदीयेति।विद्धि इति पृथिव्यादीनामितरेतरवैषम्यार्थं भोग्यत्वसिद्ध्यर्थमनुक्तानां तन्मात्राणां कार्यविशेषप्रदर्शनार्थं चगन्धादिगुणकेत्युक्तम्। एतेन भूतोक्तिस्तन्मात्रोपलक्षणार्थेत्यपि दर्शितम्। तदभिप्रायेणआकाशादीत्यादिशब्दोऽपि पठ्यते। तन्मात्राणां भूतानामप्यनतिविप्रकर्षात्सङ्ख्यानिवेशः। मनश्शब्दः करणभूतेन्द्रियवर्गोपलक्षणार्थ इति दर्शयितुंमनःप्रभृतीन्द्रियरूपेणेत्युक्तम्। बुद्ध्यहङ्कारशब्दयोरत्र ज्ञानगर्वाद्यर्थान्तरभ्रमव्युदासाय तत्त्वविशेषविषयत्वं ज्ञापयतिमहदहङ्काररूपेणेति। एवं समष्टिव्यष्टितत्त्वमखिलमुक्तं भवति। अत्र सम्बन्धसामान्यविहितापि षष्ठी स्वस्वामिलक्षणसम्बन्धविशेषपर्यवसिता।

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।

जीवभूतां महाबाहो ययेदं धार्यते जगत्।।7.5।।

।।7.5।।एवमचिद्विलक्षणत्वं प्रतिपादितम् अतथाभूताज्जीवादपि विलक्षणत्वं प्रतिपाद्यतेअपरेयम् इति श्लोकेन। अपरा अनुत्कृष्टा अप्रधानभूतेत्यर्थः। तुशब्दोऽत्यन्तवैलक्षण्यपरः।इतः पराम् इत्येतावतैव स्वरूपभेदे सुवचेऽप्यन्यशब्दो वैजात्यद़ृढीकरणार्थ इत्यभिप्रायेणअचेतनाया इत्यादिकमुक्तम्। भोक्ता भोग्यम् श्वे.उ.1।12 इत्यादिश्रुत्यनुसारेण भोक्तृत्वभोग्यत्वाभ्यां परत्वापरत्वे दर्शिते।इदं जगत् इति प्रमाणसिद्धनिर्देशासङ्कोचात् कृत्स्नमित्युक्तम्। तत्रइदम् इति पराक्त्वनिर्देशेन सूचितमचेतनत्वम्। इदं च धारणं जागरादिषु सङ्कल्पत इति प्रत्यक्षादिसिद्धम् अन्यदाऽपि स्वरूपतो धारणमिति।

एतद्योनीनि भूतानि सर्वाणीत्युपधारय।

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा।।7.6।।

।।7.6।।एवं समष्टिदशोक्ताएतद्योनीनि इत्यर्धेन तु व्यष्टिरुच्यते।अहं कृत्स्नस्य इति तु समष्टिव्यष्ट्योः सङ्कलितयोः कार्यत्वादिकथनम्सर्वाणि भूतानि इति चिदचिन्मयकार्यनिर्देशात्। एतच्छब्दः प्रस्तुतप्रकारप्रकृतिपुरुषपरामर्शी न तु प्रकृतिमात्रपर इति दर्शयति एतच्चेतनेत्यादिना। एतेन स्वरूपतो निर्विकारस्यापि चेतनस्य देवादिशरीरेन्द्रियतदधीनज्ञानक्रियाभोगादिविशिष्टवेषापेक्षया तत्पूर्वाचित्कल्पावस्थस्य प्रकृतित्वमुपपन्नमिति सूचितम्। व्याख्येये मदीयानीत्येतन्न दृश्यते तत्कथमत्र निर्दिश्यते इत्यत्राह मदीयप्रकृतिद्वययोनीनीति। शब्दाप्रयोगेऽपि वाक्यार्थसिद्धावितिशब्दः स्वकीयत्वपरामर्शार्थ इति भावः। भगवदभिप्रायस्थवचनरूपत्वादत्र मदीयशब्दोक्तिः।तथेत्यस्य तथासतीत्यर्थः। तस्यैव विवरणंप्रकृतिद्वयेत्यादि। पूर्वोक्तशेषित्वादिसमुच्चयार्थो वा तथाशब्दः। प्रभवप्रलयशब्दावत्रोत्पत्तिलयस्थानपरौ। ननु अजामेकां श्वे.उ.4।5 नित्यो नित्यानां श्वे.उ.6।13प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि 13।19 इत्यादिषु सत्सु कार्यविषये कृत्स्नशब्देन प्रकृतिद्वयस्यापि सङ्ग्रहः कथमवगम्यते इत्यत्राह चिदचित्समष्टीति। प्रकृतिपुरुषयोः परमात्मनि प्रलयश्रुतिबलात्तयोस्तस्मादुत्पत्तिरपि श्रुतिसिद्धैव स्यादित्यभिप्रायेणोपादत्ते महानिति। प्रकृतिपुरुषयोः परमात्मनि लयो नाम क्षीरे नीरस्येव विभागानर्हः संश्लेषविशेषः। तेन द्रव्यस्वरूपस्य नित्यत्वात्अजां इत्यादेरविरोधः। उक्तार्थे स्मृतिमुदाहरति विष्णोरिति। परतोदिते परत उदित इत्यर्थः। आर्षः सन्धिभेदः यद्वा स्मृतिरपीयं प्रलयपरैव तत्प्रकरणस्थत्वात्।दो अवखण्डने इत्यत्र दिते इति निष्ठान्तं पदम् पृथग्भूते इत्यर्थः। तेन प्रलयदशायामपि प्रधानपुरुषेश्वराणां मिथः स्वरूपभेदोऽस्त्येवेत्युक्तं भवति। अदिते वा इति पदच्छेदः अपृथग्भूते इत्यर्थः। तेन विभागानर्हः संश्लेष उक्तो भवति प्रलयप्रकरणस्थत्वादत्रापि पूर्वोत्तरोपादीयमानस्मृतिसमानार्थत्वाभिप्रायाच्च। स्वाभिमतार्थे स्फुटार्थं वचनमुदाहरति प्रकृतिरिति।

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय।

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव।।7.7।।

।।7.7।।मत्तः परतरम् इत्यत्र पूर्वोक्तस्यैवार्थस्य व्यतिरेकेण दृढीकरणमात्रपरत्वे मन्दप्रयोजनत्वम् अहं परतर इत्येवंरूपेण पूर्वमनुक्तेश्च तद्व्यतिरेकनिषेधोऽपि नातीवोचितः। अतोऽनुपदिष्टापूर्वार्थपरत्वमेव शब्दस्य सम्भवदपरित्याज्यमित्यभिप्रायेणाह यथेति। पूर्वश्लोकस्थतथाशब्दोऽत्रानुषक्तः ततश्चानन्तमहाविभूतियोगोऽनन्तगुणयोगे दृष्टान्तित इत्यभिप्रायेणाह तथा ज्ञानशक्तीति।शेषित्वेनेत्यन्तमर्थस्थितिप्रदर्शनम्कारणतया शेषितया चेति परतरत्वप्रकारकथनमित्यपुनरुक्तिः। नन्वहमेवेत्यवधारणमशक्यम् स्वस्मात्परतरनिषेधेऽपि समनिषेधाप्रतीतेरित्यत्राह मत्तोऽन्यदिति। मद्व्यतिरिक्तमिति। अयमभिप्रायः मत्तः इति पञ्चमीन परतरं इत्यनेनान्विता तथा सत्यन्यशब्दानन्वयप्रसङ्गात् अतोमत्तोऽन्यत्परतरं नास्ति इत्यन्वये अहमेव परतर इति फलितम् ततश्च समाभ्यधिकदरिद्रत्वमुक्तं भवति इति।ज्ञानबलादिगुणान्तरयोगि किञ्चिदपीत्यनेन ब्रह्मेशानादयोऽधिकारिणः परिशुद्धात्मानश्च क्रोडीकृताः। एवंभूमिरापः 7।4 इत्यादिना निरपेक्षप्रकृतिपरिणामवादः केवलचेतनसन्निधिमात्र परिणामित्वं प्रकृतिपुरुषयोरीश्वरं प्रत्यशेषत्ववादश्च निरस्तः।मत्तः परतरम् इत्यनेन तु त्रिमूर्त्यैक्यसाम्योत्तीर्णव्यक्त्यन्तरप्रवाहेश्वरपक्षाः प्रतिक्षिप्ताः।अथ पूर्वोक्तसर्वोपादानत्वप्रसक्तसविकारत्वपरिहारार्थं पृथक्सिद्धप्रकृतिपुरुषादिवादनिरासार्थं च सर्वाधारत्वमुखेन सर्वशरीरित्वमुच्यतेमयि इत्यर्धेन।सर्वमिदम् इत्यनेन सर्वावस्थसमस्तचिदचिद्वस्तुसंग्रह इत्यभिप्रायेणोक्तं चिदचिद्वस्तुजातमित्यादि। सूत्रमणिगणदृष्टान्तसामर्थ्यात्प्रोतम् इत्यनेन चानुप्रवेशाश्रयाश्रयि भावप्रतीतेः। शरीरलक्षणमपि सूचितमित्यभिप्रायेण मच्छरीरभूतमित्यादिकमुक्तम्। एकस्यैव सर्वाधारत्वमनुप्रविष्टस्य गूढत्वमाधेयभूतप्रकृत्याद्यधीनस्थितिविरहश्च सूत्रदृष्टान्तसिद्धः। प्रोतशब्देन सूत्रवद्बहिर्व्याप्त्यभावप्रतीतिव्युदासायाह आश्रितमिति। अत्र सुबालोपनिषद्वाक्योपादानमन्तर्यामिणो नारायणत्वव्यक्त्यर्थमन्तर्यामिब्राह्मणानुक्ततत्त्वान्तरसङ्ग्रहार्थं च।

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः।

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु।।7.8।।

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ।

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु।।7.9।।

बोजं मा सर्वभूतानां विद्धि पार्थ सनातनम् ।

बुद्धिपुद्धिमतामस्मि तेजस्तेजस्विनामहम् ।।7.10।।

बलं बलवतां चाहं कामरागविवर्जितम्।

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ।।7.11।।

।। 7.8,9,10,11  एवंभूमिरापः 7।4 इत्यादिना भेदश्रुत्यर्थ उपबृंहितःमयि सर्वम् 7।7 इति तु घटकश्रुत्यर्थः अथ तदुभयनिर्वाहिताभेदश्रुत्यर्थोपबृंहणं क्रियत इत्यभिप्रायेणाह अत इति। केचित्मयि सर्वमिदम् इत्यस्य रसादिधर्मविशिष्टे मयि प्रोतमित्यर्थः तद्विवरणंरसोऽहम् इत्यादि इति व्याचख्युः तत्परिहारायाह सर्वस्य परमपुरुषशरीरत्वेनेति। परोक्ते त्वाधाराधेयभाववैपरीत्यादिदोष इति भावः। प्रकारवाचिशब्दानां प्रकारिणि पर्यवसानस्वाभाव्यं जातिगुणादिशब्देष्वपि सामान्यतः सिद्धमिति दर्शयितुं प्रकारत्वोपादानम्।अभिधानं मुख्यवृत्त्या बोधनम्। यद्यपि रसादिशब्दा लोके निष्कर्षकाः प्रयुज्यन्ते व्यधिकरणतया चात्रावादिद्रव्योपादानम् तथापि रसादीनां परमात्मशरीरभूतद्रव्यप्रकारत्वेन परमात्मनः प्रकारित्वाद्रसादिशब्दानां चात्र तत्समानाधिकरणतया प्रयोगात्तत्र निष्कर्षकत्वं नास्तीत्यभ्युपगन्तव्यम्। द्रव्योपादानं तु तत्रतत्र द्रव्ये प्रधानभूतरसगन्धादिप्रकारीभूतोऽहमिति ज्ञापनार्थम्। द्रव्यप्रकाराणां च तत्प्रकारत्वं काठिन्यवान् (न्येन)यो बिभर्ति वि.पु.1।14।28 इत्यादिषु प्रयुक्तमिति भावः। रसस्य पृथिव्यां वृत्तौ सत्यामप्यपां रूपादिगुणान्तरसद्भावेऽपिरसोऽहमप्सु इति विशिष्योपादानं तेजस्तत्त्वादब्रूपपरिणामस्य पूर्वतत्त्वानुत्पन्नरसप्रधानत्वात्। अन्यत्र चआत्तगन्धा तदा (ततो) भूमिः प्रलयत्वाय कल्पते वि.पु.6।4।14 इत्यादिना च पृथिव्यादीनां गन्धरसाद्यधीनत्वमुक्तम्। एवमुत्तरत्रापि प्राधान्यतो विशेषनिर्देशे यथोचितं भाव्यम्।प्रभा स्वाश्रयातिरिक्तप्रसारितेजोद्रव्यविशेषः। प्रभयैव चन्द्रसूर्यौ जगदुपकारहेतुभूताविति तौ तत्प्रधानौ। सर्वेषां वेदानां बीजत्वादिना तेषुप्रणवः प्रधानभूतः।पौरुषं पुरुषस्य भावः यतः पुरुषबुद्धिरित्येके सन्तानपरम्पराहेतुभूतं रेत इत्यपरे यद्वा पौरुषं सामर्थ्यं कर्तृत्वशक्तिरित्यर्थः तयैव हि कर्तुरात्मनः कारकान्तरेभ्यः प्राधान्यम्। नृषु जीवेष्वित्यर्थः। यद्वा पौरुषं पुंस्त्वम् स्त्रीनपुंसकव्यावृत्तः सत्त्वादिस्वभावविशेषः। नृशब्दश्च पुरुषपर्यायः। पुण्यो गन्धः तुलस्यादिगन्धः सुरभिगन्धमात्रं वा तद्योगेन हि पृथिवी सत्त्वोन्मेषस्य सुखस्य वा हेतुर्भवति। विभावसुरत्राग्निः। तत्र च तेजो दाहकत्वशक्तिः। भूतशब्देनात्र शरीरिणो गृह्यन्ते। सर्वशब्देनात्र ब्रह्मशर्वादीनामपि सङ्ग्रहः। तेषु जीवनं प्राणनम् प्राणस्थितिहेतुर्वा। येन सर्वाणि भूतानि जीवन्ति भूतेषूपजीवनीयं वा रूपम्।सर्वभूतानां सनातनं बीजं प्रकृतितत्त्वम्। अथवा प्रधानधर्मनिर्देशप्रकरणत्वाद्बीजशब्दोऽत्रोपादानत्वाख्यस्वभावपरः। सर्वेषां परिणामिद्रव्याणां स्वकार्यपरिणामसामर्थ्यमित्यर्थः। अथवा बीजं प्ररोहकारणं जङ्गमस्थावरभूतानां तत्तदुपादानद्रव्यम्। बुद्धिः अध्यवसायः ज्ञानमात्रं वा। तेजस्विनः प्रतापशीलाः तेषां तेजः अनभिभवनीयत्वं पराभिभवसामर्थ्यं वा। तेजोऽभिमान इति केचित् प्रागल्भ्यमित्यपरे। बलं धारणादिशक्तिः। कामरागवशात् स्वकार्ये प्रवृत्तस्य बलस्य परपीडादिहेतुत्वाद्धर्मोपयुक्तशरीरादिधारणमात्रादिविषयत्वायकामरागविवर्जितम् इत्युक्तम्। काम इच्छायाः काष्ठा प्राप्तदशा। राग इच्छा। यद्वा कामशब्दः काम्यपरः तद्विषयो रागः कामरागः भूतेषु देवमनुष्यादिरूपेणावस्थितेषु जन्तुषु। धर्माविरुद्धः कामः स्वदारप्रीत्यादिः।अथरसोऽहम् इत्यादिसामानाधिकरण्यं सहेतुकमुपपादयति एत इति। न चायं तदधीनसामर्थ्यप्रदर्शनार्थोराजा राष्ट्रम् इत्यादिवदारोपः मुख्यसम्भवे वृत्त्यन्तरायोगादिति भावः।एत इत्यनेनेश्वरव्यतिरिक्तैरशक्यक्रियत्वमभिप्रेतम्।सर्व इत्यनेन ब्रह्मरुद्रादिभिरन्यैश्च क्रियमाणानामपि ब्रह्मादिशरीरपरमात्माधीनसृष्टत्वम्अहं कृत्स्नस्य 7।6 इति पूर्वोक्तं स्मारितम्। वक्ष्यमाणराजसतामसेभ्यो वैलक्षण्यार्थमुक्तंविलक्षणा इति।मत्त एव पृथग्विधाः 10।5 इति च वक्ष्यते। एतेनन विलक्षणत्वादस्य ब्र.सू.2।1।4 इत्यधिकरणार्थोऽपि स्मारितः।मत्त एवोत्पन्ना इत्यादि तत्तद्वस्त्वनुरूपं यथासम्भवं सामानाधिकरण्यहेतुः। गुणजातिशरीरेष्वनुगतः सामानाधिकरण्यहेतुरपृथक्सिद्धिरिति प्रदर्शनायोक्तंमय्येवावस्थिता इति।

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये।

मत्त एवेति तान्विद्धि नत्वहं तेषु ते मयि।।7.12।।

।।7.12।।रसोऽहम् 7।8 इत्यादेः प्रदर्शनार्थत्वंये च इत्यस्योपसंहारतां च दर्शयति किं विशिष्येति।तत्तद्धेतुत्वेनेति समष्टिदशाया अपि सङ्ग्रहः। अयं च देहत्वादिविभागोऽनुभूयमानप्रकारानुवादियच्छब्दाभिप्रेतः। सात्त्विकतादिकं देहादिषु प्रत्येकमन्वितम्। अपि चप्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता इत्यादयः सात्त्विका भावाः।अतुविष्टिः परितापश्च क्रोधो मोहस्तथा क्षमा इत्यादयो राजसाः।अविक्तस्तथा मोहः प्रमादः स्वप्नतन्द्रिता इत्यादयस्तामसाः। एते चान्यत्र प्रपञ्चिता इहाभिप्रेताः।मत्त एव इत्यवधारणेन निमित्तोपादानैक्यं सात्त्विकत्वादिना वैचित्र्यशक्तितत्तदुचितानेकनिमित्तत्वादिप्रतिक्षेपश्च कृतः। कारणत्वेन सह सामानाधिकरण्यनिबन्धननियमनगर्भं शरीरत्वेन तादधीन्यमपि सप्तम्या विवक्षितमिति दर्शयितुंमच्छरीरतया मय्येवावस्थिता इत्युक्तम्।नत्वहं तेषु इत्यत्र व्याप्तिप्रतिक्षेपभ्रमनिरासायाहनाहमिति। किमर्थमिदमप्रसक्तं प्रतिषिध्यत इत्याशङ्क्याहअन्यत्रेति। तुशब्दोऽत्र शङ्कानिवृत्त्यर्थः। सर्वोपकारनिषेधे तदुत्पादनादिवैयर्थ्यपरिहारायतथाविध इत्युक्तम्। अभिप्रेतमुपकारान्तरमहंशब्दाभिप्रेतपरिपूर्णत्वमुखेन दर्शयतिकेवलेति।

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्।

मोहितं नाभिजानाति मामेभ्यः परमव्ययम्।।7.13।।

।।7.13।।एवं स्वयाथात्म्यमुपदिष्टम् अथत्रिभिः इत्यादिना प्रकृत्यास्य तिरोधिमुपदिशतिअत्र माम् इत्यनेन।भूमिरापोऽनलः 7।4 इत्यारभ्योक्तं यथावस्थितस्वरूपं गुणमयभावेभ्यः परत्वप्रदर्शनायानूदितमिति दर्शयितुमाहतदेवमिति। उत्पत्तिप्रलययोरविरोधं सर्वेषु कल्पेषु तस्यैव कारणत्वं चाभिप्रेत्योक्तंकाले काल इति।त्रिभिर्गुणमयैरेभिः इति पदत्रयेण दुःखमिश्रत्वनश्वरत्वसातिशयत्वादीनि विवक्षितानि। रजस्तमोमिश्रत्वाद्दुःखमिश्रत्वम्। सुखदुःखमोहात्मका हि त्रयो गुणाः। कार्यत्वादनित्यत्वमिन्द्रियपरिच्छिन्नत्वात्क्षुद्रत्वमिति भावः।मामेभ्यः परमव्ययम् इति तु त्रिभिर्निखिलदुःखप्रत्यनीकस्वरूपत्वनिरतिशयानन्दत्वनित्यत्वान्यभिप्रेतानीति दर्शयतिएवम्भूतमिति। कारणत्वेन पितृत्वाद्धितैषिणं शेषित्वेन शेषभूतानामुज्जीवनमप्यात्मलाभं मन्वानं सर्वज्ञत्वसर्वशक्तित्वादिभिरनिष्टनिवर्तनेष्टप्रापणयोरन्यनिरपेक्षं चेतिएवम्भूतशब्दाभिप्रायः। दुःखमिश्रत्वादिविशिष्टतया प्रस्तुता एव भावाःएभ्यः इत्यवधित्वेन परामृश्यन्त इति प्रदर्शनायत्रिभ्य इत्यादिकमुक्तम्।एभ्यः परम् इत्यत्र तमसः परस्तात् य.सं.31।18 इत्यादिष्विव देशादिविवक्षाव्युदासायोत्कृष्टत्वोक्तिः।तत्तद्भोग्यताप्रकारैश्चेति समुद्रे गोष्पदमस्तीतिवत्। श्रूयते हि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितम् छां.उ.8।1।3 इति। शब्दस्पर्शादिरूपेण प्राकृता भावा भोग्याः। परमात्मा तु ज्ञानशक्त्यादिगुणगणैः स्वरूपसमवेतैः शब्दादिविसजातीयानुकूल्यप्रकारैरप्राकृतैश्च शब्दादिभिः प्राकृतैश्च तैरेव स्वपर्यन्तताबोधादप्राकृतकल्पैः प्रत्येकं भोग्यतायामनवधिकातिशयपरत्वविशिष्ट इति भावः। एवं निर्दिष्टभोग्यतमस्वरूपस्याविकारित्वेन कालावच्छेदव्युदासपरोऽव्ययशब्द इत्यभिप्रायेणाहसदैकरूपमिति।तैरेवेति उक्तदोषत्रययुक्तैरेवेत्यर्थः।त्रिभिरिति गुणाः परस्परन्यूनाधिकाभावेन अवस्थिता अप्यविनाभूताः। ततश्च गुणत्रयमयानां भावानां दुःखमिश्रत्वमवर्जनीयमिति भावः।निहीनतरैरिति कर्मानुरूपगुणत्रयमयभोगास्तत्कर्मानुरूप्येण क्षुद्रा इति भावः।क्षणध्वंसिभिरिति कर्मावसाने क्षणान्तरं स्थातुं न प्रभवन्तीति भावः। ननु सत्त्वेन कथं मोहः इत्थं यथा विषसम्पृक्तेऽप्यन्ने मधुनिषेको मन्दस्य भोजनाभिलाषमुत्पादयति तथा तत्तत्कर्मानुरूपानर्थपर्यवसितसुखलवहेतुत्वेन युक्तं सत्त्वस्यैव मोहहेतुत्वमिति। सर्वशब्दोऽत्र देवजात्यनुप्रविष्टब्रह्मरुद्रादेः सङ्ग्रहपरः। इदंशब्दोऽनुभूयमानभोक्तृवर्गवैचित्र्याभिप्रायः। जगच्छब्दश्चाचिद्विशिष्टचेतनवाचीत्यभिप्रायेणदेवेत्यादिकमुक्तम्।ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा। विष्णुमायामहावर्तमोहान्धतमसावृताः वि.पु.5।30।17 इत्यादिकमत्रानुन्धेयम्।

दैवी ह्येषा गुणमयी मम माया दुरत्यया।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते।।7.14।।

।।7.14।।उक्तायामर्थस्थितौ मोह एवायं न घटत इति शङ्कायांदैवी इत्यादिकमवतारयति कथमिति।सर्वस्येति सत्त्वोत्तरतया तत्त्वज्ञानप्रच्युतिरहिताया देवजातेरिति भावः। उत्कृष्टापकृष्टसन्निधावुत्कृष्टग्रहणशीलताभोक्तृवर्गस्येत्यनेन सूचिता। हिशब्दोऽत्र दुरतिक्रमत्वहेत्वर्थः। देवेन निर्मिता दैवीति तद्धितार्थः।दिवु क्रीडा इत्यादिधातौ देवशब्दनिष्पतिः एतेनदेवात्मशक्तिम् श्वे.उ.1।3 इति श्रुतिसूचनम्।दैवी मम इति शब्दाभ्यां मायाप्रवर्तकस्य देवस्य मायिनश्च कृष्णस्य भेदभ्रमव्युदासायमयैवेत्युक्तम्। नहि स्वच्छन्देनाघटितघटनासमर्थेनेश्वरेण लीलार्थं प्रवर्तिता माया अनीश्वरैः सर्वभूतैरपि लङ्घितुं शक्यत इतिसर्वैरित्यस्य भावः। अत्ययशब्दस्यात्र नाशार्थत्वव्युदासायाह दुरतिक्रमेति। दुःखेनातिक्रमणीया भगवत्प्रपत्तिरहितैर्लङ्घयितुमशक्यैव। मायाशब्दस्य पराभिमतमर्थं दूषयिष्यन् स्वाभिमतमर्थं तावदाहअस्या इति। सत्येष्वेवासुरराक्षसास्त्रादिषु मायाशब्दप्रयोगो न मिथ्यात्वनिबन्धन इति भावः।

यथा चेतितेन मायासहस्रम् इत्यत्र न मिथ्यार्थविषयत्वमुत्प्रेक्षितुमपि शक्यम् मिथ्याभूतस्य शस्त्रनिषूदनीयत्वाभावादिति भावः। आदिशब्देनमायया सततं वेत्ति प्राणिनां च शुभाशुभम्देवमायेव निर्मिता इत्यादिप्रयोगसङ्ग्रहः। अपिच दण्डनीतौ सामाद्युपायचतुष्टयादन्ये मायोपेक्षेन्द्रजालरूपा अमुख्यास्त्रय उपाया उपदिष्टाः तत्र माया अन्यथाभूतस्य वस्तुनोऽन्यथाकरणशक्तिः। इन्द्रजालं तु तथाप्रतिभासनशक्तिरिति विभागः। तस्मात्सत्यविषय एव मायाशब्द इत्यभिप्रायेणाह अत इति। मायाशब्दप्रयोगस्य सत्यविषयत्वादित्यर्थः। ननु मिथ्याभूतार्थप्रदर्शकेषु तत्सम्बन्धान्मायाविशब्दः प्रयुज्यते अतो मायाशब्दो मिथ्यार्थेऽपि प्रयुक्त इत्यत्राहऐन्द्रजालिकेति। असत्यत्ववदसत्योत्पादकत्वमपि न मायाशब्दप्रवृत्तिनिमित्तमिति दर्शयितुंपारमार्थिक्या एवेत्युक्तम्। भ्रान्तिज्ञानमपि स्वरूपतः सत्यम् आरोपितस्तु विषयो मिथ्येत्युच्यते। तथाप्यन्ततो मिथ्यार्थसम्बन्धो निमित्तमित्यत्राहतथेति। मन्त्रौषधादेर्मिथ्यार्थस्य च सन्निधाने किं विशेषनियामकं इत्यत्राहसर्वेति। न ह्येकशक्त्यैव निर्वाहे सम्भवत्यनेकशक्तिकल्पना युक्तेति भावः। मिथ्याभूतेष्वेवार्थेषु मायेयमिति प्रयोगो भवति तत्र च विचित्रकार्यकरत्वाभावान्मिथ्यात्वमेव निमित्तमाश्रयणीयमित्यत्राहतत्रेति। अयं भावः यत्र सम्बन्धाद्गुणयोगाद्वा प्रयोगो दुर्निर्वहः तत्र हि शक्त्यन्तरकल्पनागौरवं सह्यम् सम्भवति चात्र परम्परया सम्बन्धः मायाकार्यज्ञानविषयत्वात्। न मिथ्यात्वे प्रवृत्तिनिमित्ततया स्वीकृतेऽस्त्रादिषु तत्सम्बन्धगन्धः। मिथ्यार्थस्य च गुणाभावादेव तद्गुणयोगो दूरनिरस्तः। अपिच मिथ्याभूतेषु शुक्तिकारजतादिषु तत्प्रयोगाभावान्मिथ्यात्वविशेषे निष्कृष्यमाणे अस्मदुक्त एव विशेषेऽन्तर्भवतीति।त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते। ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम्योगनिद्रा महामाया इत्यादिष्वपि भगवतो विचित्रकार्यविशेषोपयोगितया वा प्रकृतितत्त्वाभिमानिदेवतात्वादिरूपेण वा मायेत्युक्तम्। अतो युक्तं विचित्रकार्यकरत्वमेव मायाशब्दप्रवृत्तिनिमित्तमिति। श्रुतावपि विचित्रसृष्ट्युपादाने प्रकृतौ सत्यायामेव मायाशब्दः प्रयुक्त इत्याह एषेति। महेश्वरशब्दस्यात्र रुद्रविषयत्वभ्रमव्युदासाय भगवच्छब्दः। श्वेताश्वतरोपनिषदपि पुरुषसूक्तप्रत्यभिज्ञानमहापुरुषशब्दसत्त्वप्रवर्तकत्वादिभिर्भगवद्विषयतयैव प्रतीयते। महेश्वरशिवादिशब्दास्तु तस्मिन्नवयवशक्त्या गुणयोगेन वा प्रवृत्ताः रुद्रस्यान्यत्र कार्यत्वकर्मवश्यत्वसम्प्रतिपत्तेरिति भावः। मायां तु प्रकृतिं विद्यात् श्वे.उ.4।10 इति न तत्र प्रकृत्यनुवादेन मायात्वं विधीयते किन्तु मायाशब्दार्थानुवादेन प्रकृतित्वमिति वाक्यस्वारस्यावगतम्। पूर्वत्र अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः श्वे.उ.4।9 इत्यभिहिते केयं मायत्याकाङ्क्षायां प्रवृत्तत्त्वादिति भावः। अस्मिन्प्रकरणे मायाशब्दप्रयोगनिदानमत्रोपयुक्तं विचित्रकार्यं दर्शयतिअस्या इति। तदेतदखिलमभिप्रेत्य भगवद्यामुनमुनिभिरुक्तंस्वयाथात्म्यं प्रकृत्याऽस्य तिरोधिः शरणागतिः गी.सं.11 इति। चोद्यपरिहारतां दर्शयन्नुपसंहरति अत इति।प्रकृत्यास्य तिरोधिः शरणागतिः इति संग्रहश्लोके तन्निवृत्त्यर्थमित्यध्याहर्तव्यमिति दर्शयन्ननन्तरग्रन्थमवतारयति मायाविमोचनेति। यच्छासनादलङ्घनीयं निगलनं तन्निवृत्तिरपि तेनैव कार्या नत्वन्येनेतिमामेव इत्यवधारणाभिप्रायं व्यञ्जयतिसत्यसङ्कल्पमिति। नहि बन्धविषय एव हि सङ्कल्पः सत्यः अपितु मोक्षविषयोऽपीति स एव प्रपदनीय इति भावः। शक्तस्यापि निर्घृणस्य प्रपत्त्या न किञ्चित्प्रयोजनमित्यत उक्तंपरमकारुणिकमिति। कारुणिकस्यापि लोकवत्परिग्राह्यापरिग्राह्यविभागे किमस्यासह्यापराधशालिनो जनस्य तत्प्रपत्त्या इत्यत्रोक्तम्अनालोचितेत्यादि। वायसशाखामृगविभीषणद्रौपदीप्रभृतिषु चैतत्स्पष्टम्।यदि वा रावणः स्वयम् वा.रा.6।18।34 इति च तदुक्तिः।एताम् इत्यस्याभिप्रेतमाह मदीयां गुणमयीमिति। अपीति शेषः। उपासनप्रकरणत्वाद्वक्ष्यमाणार्तादिचतुष्टयसाधारणत्वाच्चोपासनाङ्गभूता प्रपत्तिरत्रोच्यत इत्यभिप्रायेणाहमायामुत्सृज्येति।

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।

माययापहृतज्ञाना आसुरं भावमाश्रिताः।।7.15।।

।।7.15।।ये प्रपद्यन्ते 7।14 इतिविशेषनिर्देशप्रतिक्षेपाभिप्रायेणाशङ्कते किमितीति। सुकृतित्वदुष्कृतित्वभेदः साक्षाच्छङ्कोत्तरम् तत्तारतम्यकथनं त्वत्यन्तहेयात्यन्तोपादेयाकारभेदज्ञापनार्थमित्यभिप्रायेणाहदुष्कृतिन इति। उत्तरश्लोकस्थचतुर्विधपदमत्रापि चतुर्विधपुरुषनिर्देशवशादाकृष्य दर्शितम्। मूढत्वादिविशेषणानामेकस्मिन्नेव समुच्चयः किं न स्यात् इति शङ्काव्युदासाय पदचतुष्टयव्याख्या मूढत्वापहृतज्ञानत्वयोर्मध्ये काचिदवस्था नराधमशब्देन विवक्षितेत्यभिप्रायेणाह सामान्येनेति। उपनिषदर्थनिश्चयाभावेऽपि सर्वलोकप्रसिद्धीतिहासपुराणादिभिः सामान्यज्ञानम्। सुमेरुप्रभृतिष्विव सुलभत्वापरिज्ञानादौन्मुख्यानर्हत्वम्। उत्पन्नस्यैव हि ज्ञानस्यापहारः स हि विचित्रमोहजनकतया मायाशब्दवाच्याभिः कुदृष्टिबाह्यप्रसूतकूटयुक्तिभिरेवेत्यभिप्रायेणाहमद्विषयमिति।आसुरं भावमाश्रिताः इत्येतदनपहृतज्ञानविषयमित्याहसुदृढमुपपन्नमिति। निपुणतमप्रतिपादितप्रक्रियया प्रमाणतर्कैरबाध्यत्वेन निश्चितमित्यर्थः। असुरसम्बन्धी भाव आसुरो भावः असुरा हि भगवन्तमतिशयितशक्तिं जानन्त एव द्वेषमाचरन्ति। वक्ष्यते चासुरप्रकृतीनां भावः षोडशे।द्विविधो भूतसर्गोऽयं दैव आसुर एव च। विष्णुभक्तिपरो देवो विपरीतस्तथाऽऽसुरध।।वि.ध.109।74 इति न्यायाच्चायमासुरो भावो भगवति द्वेष एवेत्यभिप्रायेणद्वेषायैव भवतीत्युक्तम्। एषामुत्तरोत्तरेषां ज्ञानांशेनातिशयादुत्कृष्टतमत्वभ्रमः स्यादिति तन्निरासायाह उत्तरोत्तरा इति।विदुषोऽतिक्रमे दण्डभूयस्त्वम् गौ.ध.2।12।6 इति न्यायेन ज्ञानप्रकर्ष एवात्र पापिष्ठतमत्वे हेतुः ज्ञानातिशयेऽपि वैमुख्यं च प्राचीनपापातिशयादेवेति भावः।

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।

आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ।।7.16।।

।।7.16।।चतुर्विधा भजन्ते इत्यत्र भजनपर्यवसिता प्रपत्तिर्विधित्सिता पूर्वश्लोके तन्निषेधादत्र तद्विधानस्यैवोचितत्वादित्यभिप्रायेणशरणमुपगम्येत्युक्तम्। सुकृतित्वाविशेषे कथमधिकारिभेद इत्यत्रोक्तंसुकृततारतम्येनेति। तारतम्यं विवृणोतिसुकृतगरीयस्त्वेनेति। विश्वासादेः साधारणत्वेऽपि प्रपत्तेर्वैशिष्ट्यं फलेच्छाभेदात्। आर्तशब्दोऽत्रार्तिमूलपूर्वस्थितिशैथिल्यपर इत्यभिप्रायेणाहप्रतिष्ठाहीन इति। आर्तस्य हि परभजनमार्तिनिवृत्त्यर्थमेवेत्यभिप्रायेणाहभ्रष्टैश्वर्यः पुनस्तत्प्राप्तिकाम इति। पाठक्रमादप्यर्थक्रमस्य प्रबलत्वाज्जिज्ञासोः प्रागेवार्थार्थिन उपादानम्। आर्तात्तस्य विशेषं दर्शयतिअप्राप्तेति। अर्थशब्दोऽत्रार्थनीयभोगविशेषपरः। फलद्वारा ह्यधिकारिभेदोऽभिधीयते फलं चार्तस्यार्थार्थिनश्चैश्वर्यमेकमेव। यदा पुनस्तदवान्तरभेदेन भेदक्लृप्तिः तदा भेदान्तरमपि वक्तुं शक्यमित्यत्राहतयोरिति। प्रसिद्धेनावान्तरभेदेन विशेषव्यपदेशमात्रमिति भावः। जिज्ञासुशब्देन ज्ञानार्थिमात्रं किं न गृह्यते। भगवन्तमेव वा जिज्ञासुः भक्तिश्रद्धारहितः कुतूहलमात्रेण भगवन्तं जिज्ञासमानो वा यथैकतमे द्विततादयःयूयं जिज्ञासवो भक्ताः इति।आरोग्यं भास्करादिच्छेच्छ्रियमिच्छेद्धुताशनात्। ईश्वराज्ज्ञानमन्विच्छेन्मोक्षमिच्छेज्जनार्दनात्।।म.पु.77।49 इत्युक्ताधिकारिचतुष्टये चात्र प्रत्यभिज्ञायमाने जिज्ञासुरपि स एव भवितुमर्हति तत्राहप्रकृतीति। भगवन्तं जिज्ञासोरन्ततो भगवानेव प्राप्यतयाऽभिमत इति न पुरुषार्थभेदः तद्भेदाच्चात्राधिकारिभेदः प्रतिपाद्यते।आर्तः अर्थार्थी इति बाह्यपुरुषार्थाभिलाषिणो निर्दिष्टाः। भगवदर्थी चज्ञानी इति जीवात्मस्वरूपं चाधिकानन्दस्वरूपं प्राप्यं चान्यत्र प्रसिद्धम् अत्रापि परस्तादधिकारिभेदः समर्थयिष्यते अतः परिशेषादात्मार्थिविषयोऽयं जिज्ञासुशब्द इति भावः। ज्ञानार्थिवाचके जिज्ञासुशब्दे कथमात्मार्थित्वं व्याक्रियते इत्यत्राह ज्ञानमेवेति। ज्ञानमिह शुद्धात्मानुभवरूपं विवक्षितमिति भावः। ज्ञानिनोऽधिकार्यन्तरत्वानुगुणान्वक्ष्यमाणान् विशेषाननुसन्धाय विशिष्टज्ञानत्वं दर्शयतिइतस्त्वन्यामित्यादिना।केवलात्मन्यपर्यवस्यन्निति नगरं प्रविविक्षोरध्वगस्य च्छायातरुमूलस्वापवदात्मानुभवविलम्ब इति भावः। अत्र जिज्ञासोर्वक्तव्यं सर्वमष्टमे प्रपञ्चयिष्यामः। विशिष्टज्ञानफलभूतं पुरुषार्थान्तरपरिग्रहमाहभगवन्तं प्रेप्सुरिति। तत्र हेतुमाह भगन्वतमिति।भगवन्तमेवेत्यात्मानुभवविलम्बाक्षमत्वमभिप्रेतम्।

तेषां ज्ञानी नित्ययुक्त एकभक्ितर्विशिष्यते।

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः।।7.17।।

।।7.17।।एवं भक्तभेद उक्तः तत्र प्रबुद्धस्य श्रैष्ठ्यं दर्शयति तेषामिति। इममेवार्थं परस्तादपि वक्ष्यति चतुर्विधा मम जना भक्ता एव हि ते श्रुताः। तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः।।अहमेव गतिस्तेषां निराशीः कर्मकारिणाम्। ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः।।सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् म.भा.12।341।33.35 इति। तेषामिति निर्धारणे षष्ठी। विशिष्यते श्रेष्ठतम इत्यर्थः। किं प्रशंसामात्रार्थमिदं इति शङ्कतेकुत इति। वैशिष्ट्यहेतुपरं विशेषणद्वयमित्याहनित्ययुक्तः एकभक्तिरिति चेति।ज्ञानिनो हीत्यादि प्रापकस्य तस्यैव प्राप्यत्वात्फलदशायामपि। योगोऽनुवृत्त इत्यर्थः। आर्तस्यार्थार्थिनश्चैकाधिकारित्वनिर्णयादितरयोरिति द्विवचनम्। एतेनात्मार्थिनः फलदशायां परमात्मनो भोग्यतयाऽनुसन्धानं नास्तीति सिद्धम्। एकस्मिन् भक्तिर्यस्य स एकभक्तिरिति व्यधिकरणबहुव्रीहिः। एकशब्दाभिप्रेतमुपास्यफलयोरभेदं दर्शयितुंएकस्मिन्नेवेत्यवधारणम्।प्रियो हि इत्यादिना हेत्वन्तरमुच्यत इत्यभिप्रायेणाह किञ्चेति। अतिशयितकाष्ठां वक्तुमाह अर्थशब्दोऽभिधेयवचन इति।अत्यर्थमत्यभिधेयम् अभिधेयातिक्रमणं चात्राभिधेयान्तराद्द्वैलक्षण्यम् तच्चाभिधातुमशक्यतेत्यभिप्रायेणाहज्ञानिनोऽहमिति।अभिधातुमशक्यं इत्यस्येश्वरवचनत्वात्तेनाप्यशक्यमिति फलितमित्यभिप्रायेणोक्तंमयेत्यादिना। ननु सर्वज्ञेन यदज्ञातं तदसदेव स्यात् यत्र चासावशक्तः तत्र चास्यानीश्वरत्वं स्यादित्यत्राह प्रियत्वस्येति गगनकुसुमादिवदसत्त्वनिबन्धनमज्ञानं न दोषाय अन्यथा भ्रान्तत्वप्रसङ्गात्। इयत्ताया अभावादेव तद्वाचकः शब्दोऽपि नास्तीति तदप्रयोगोऽपि नाशक्तिहेतुरिति भावः। हिशब्दद्योतितां प्रसिद्धिमुदाहरति यथेति।ज्ञानिनामग्रेसरस्येत्यनेन जन्मसिद्धनिरतिशयज्ञानवत्त्वं बाधकवचनादिभिर्बिभीषिकासहस्रैश्चाकम्पितत्वं विवक्षितम्।कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः म.भा.5।70।5 इति कृष्णशब्देनात्र निर्वृतिहेतुत्वादिकं विवक्षितम्। प्रवाहानादिकृष्णावतारकृतकालियमर्दनसूचनं वा भक्तदुःखानां कर्षणाद्वा कृष्णः तीव्रदुःखहेतुसद्भावेऽपि दुःखानुभवाभावो निरतिशयप्रीत्यन्तरमत्ततयेति भावः। आत्मज्ञानमपि तदानीं मृग्यं किं पुनर्गृहादिकल्पशरीरज्ञानमित्यात्मनो गात्रमित्यस्य भावः।स च मम प्रियः इत्यत्राप्यत्यर्थशब्दः समुच्चयसामर्थ्यादर्थस्वभावाच्चानुषक्त इत्यभिप्रायेणाह तथैवेति। यथाऽहं त्रिविधपरिच्छेदरहित निरतिशयानन्दस्वरूपोऽनन्तगुणविभूतिर्ज्ञानिनः प्रियस्तथाऽयमेक एव ज्ञानी मम निरतिशयप्रीतिविषय इत्युक्तं भवति।स च मम प्रियः इत्यत्र निरतिशयप्रीतिं कुर्वतोऽपि महोदारस्येश्वरस्यापि तत्प्रीत्युपाधिकप्रीतिकरणादतृप्तिः सूचितेति केचिदाचार्याः।

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्।

आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्।।7.18।।

।।7.18।।तेषाम् 7।17 इति श्लोकस्यार्थ एवउदाराः इत्यनेनापि दृढीक्रियते। ज्ञानिनोऽत्यर्थप्रियत्ववचनादन्येषामपि किञ्चित्प्रियत्वं फलितम् तदेवउदाराः सर्वे इति पादेन विशदीकृतम्। तदेकोपायत्वस्य साधारण्यंमामेवोपासत इत्यनेन दर्शितम्। उदारशब्दस्यात्र मन्दप्रयोजनोत्कर्षमात्रपरत्वव्युदासाय प्रसिद्ध्यनुरोधेनाह वदान्या इति। अर्थित्वेनावस्थितानां कथं वदान्यत्वं इत्यत्राह ये मत्त इति। सकलफलप्रदत्वलक्षणं परमौदार्यमेव हि मम सर्वस्वम् तच्च प्रतिग्रहीतृसापेक्षं तदभावे कथं स्यादित्युक्तं भवति।मतम् इति नपुंसकत्वान्न ज्ञानीत्यनेनान्वयःमतः इति परोक्तपाठस्त्वप्रसिद्धः तस्मादितिशब्दोऽध्याहृतः। अयमर्थः त्रय्यन्तसिद्धान्तो भवतु वा मा वा कृष्णसिद्धान्तस्त्वयमिति भावः। आत्मशब्दस्यात्र बहुप्रमाणविरुद्धत्वान्न तादात्म्यादिविषयत्वम् तथा सति व्यतिरेकनिर्देशबाधश्च। अतस्तदभिप्रेतमाह तदायत्तेति। शरीरं प्रति धारको ह्यात्मा। प्रियत्वातिशयप्रतिपादनाय सावधारणोऽयमात्मत्वारोपः। अस्मिन्नभिमानमात्रसारे भवत्सिद्धान्ते किं प्रमाणमभिमतं इत्याकाङ्क्षायाम्आस्थितः इत्यादिकमुच्यत इत्याह कस्मादेवमिति। हिर्हेतौ।युक्तात्मा इत्याशंसायां क्तः परमात्मयोगाशंसाविशिष्ट एव आत्मा यस्य सोऽत्र युक्तात्मा तदेतदभिप्रेत्योक्तं मया विनाऽऽत्मधारणासम्भावनयेति। मदनुसन्धानाभावे सति अर्थान्तरानुसन्धानप्रवृत्तेरसमर्थस्वभावतयेत्यर्थः।मामेवेति अयुक्तदशायामसत्त्वमेव हि स्यादिति भावः।मामेव उपायभूतमेव न तु फलान्तरलवमित्यर्थः।प्राप्यमिति गतिशब्दोऽत्र गन्तव्यपरः। अस्त्वेवं तदायत्तधारणो यथाप्रमाणं ज्ञानी ततः किमायातं भगवतस्तदायत्तधारणत्वस्य इत्यत्राहअतस्तेन विनेति। सहृदयानां मदभिप्रायविदां चैतद्व्यक्तमित्यभिप्रायः। तथा हिन तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः। विद्यते त्रिषु लोकेषु ततोऽस्म्येकान्तितां गतः। नारदैतद्धि ते सत्यं वचनं समुदाहृतम्। नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते इति।ततो ममात्मा हि स इति आधारत्वादिविशेषो ह्यात्मलक्षणमिति भावः। ऐश्वर्यादिकामाः सर्व एव मत्स्वरूपस्यातिशयहेतवः। ज्ञानी तु मम स्वरूपसत्ताहेतुरिति स्वभक्तस्तुतिपरः श्लोकः।

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः।।7.19।।

।।7.19।।पुनरप्युक्तज्ञानवत्त्वस्यानेकजन्मसाध्यपुण्यफलत्वेन दुर्लभतरतया ज्ञानिनः श्रैष्ठ्यं दर्शयति बहूनाम् इति श्लोकेन।ये जन्मकोटिभिः सिद्धास्तेषामन्तेऽत्र संस्थितिः इति भगवच्छास्त्रंजन्मान्तरसहस्रेषु पां.गी.4 इत्यादिकां स्मृतिं चानुसन्दधान आह नाल्पेति।बहूनां जन्मनाम् इत्यत्र न तावद्बहुजन्मसद्भावमात्रं विवक्षितम् तस्यात्रानुपयुक्तत्वात्। न च बहुजन्ममात्रस्य ज्ञानहेतुत्वमुच्यते सर्वेषामयत्नतो ज्ञानित्वप्रसङ्गात् अतःपुण्यजन्मनां इति विशेषितम्। ईदृशज्ञानवत्त्वमेवम्भूतविशिष्टप्रपत्तौ हेतुरिति दर्शयितुं ज्ञानवतोऽनेकजन्मभ्रमव्युदासाय चज्ञानवान् भूत्वेत्युक्तम्।वासुदेवः सर्वम् ति सामानाधिकरण्यस्य बाधाध्यासतादात्म्यादिविषयत्वायोगाच्छरीरशरीरिभावादिनिर्वाहादपि प्रकरणविशेषसिद्धस्यार्थस्य ग्राह्यतरत्वात्परमप्राप्यमित्यादिकमुक्तम्। लौकिकं धारकादिकमभिप्रेत्याहअन्यदपीत्यादि।त्वमेव माता च पिता त्वमेव ना.हृ.10माता पिता भ्राता निवासः शरणं सुहृद्गतिर्नारायणः इत्यादिकमपीहाभिप्रेतम्। प्रपत्तेरत्रोपासनाङ्गत्वादाहमामुपास्त इति। ज्ञानिनोऽपि स्वरूपमहत्त्वं प्रमाणविरुद्धम् पङ्क्तिपावनत्वादिमाहात्म्यं सदपि प्रकृतेऽनपेक्षितम् तस्माज्ज्ञानविशेषाधीनमाहात्म्यमिह विवक्षितमित्याहमहामना इति। फलान्तरपरस्यापि भगवदुपासकस्य दुर्लभत्वात्तद्व्यवच्छेदाय सुशब्द इति दर्शयितुंदुर्लभतर इत्युक्तम्।

वासुदेवः सर्वम् इति सामानाधिकरण्यस्य पराभिमतमर्थं प्रतिक्षिपन् स्वोक्तं द्रढयतिवासुदेव इति। अत्र ह्युपक्रमः प्राप्यभेदनिबन्धनाधिकारिभेदपरः। प्रकरणविरुद्धप्रकरणानुपयुक्तो वाऽर्थः प्रकरणविशेषसिद्धोपयुक्ततमार्थे जागरूकेऽनादरणीय इति भावः।ज्ञानवान् इत्यत्रापि निर्विशेषादिज्ञानजीवमात्रज्ञानादिव्युदासायाहनिवांश्चायमिति। उक्तलक्षणः वासुदेवशेषतैकरसस्वात्मवेदीत्यर्थः। उक्तलक्षणत्वे हेतुमाह अस्यैव पूर्वोक्तज्ञानित्वादितिज्ञानी च भरतर्षभ 7।16 इति पूर्वोक्ते ज्ञानिनि कथमुक्तलक्षणत्वं इत्यत्राहभूमिराप इत्यारभ्येति। यद्वा पूर्वोक्तज्ञानित्वादित्येकभक्तित्वादिकं विवक्षितम्भूमिरापः इत्यादिना हेत्वन्तरोक्तिः।कार्यकारणोभयावस्थस्येति कार्यत्वकारणत्वरूपोभयावस्थाविशिष्टस्येत्यर्थः। स्वरूपस्थित्यादितादधीन्यंमयि सर्वं 7।7रसोऽहम् 7।8 इत्यादिषु व्यक्तम्। उक्तलक्षणत्वं निगमयति अत इति।स एवेति वासुदेवशेषतैकरसोऽहम् इत्यादिनोक्तलक्षण एवेत्यर्थः।

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः।

तं तं नियममास्थाय प्रकृत्या नियताः स्वया।।7.20।।

।।7.20।।कामैस्तैस्तैः इत्यादेःसर्गे यान्ति परन्तप 7।27 इत्यन्तस्य प्रकृतसङ्गतिमाह तस्येति। देवतान्तरफलान्तरसङ्गादिकं प्रतिबन्धकमिति भावः। बहुवचनासङ्कोचंसर्वभूतानि सम्मोहम् 7।27 इति वक्ष्यमाणं चानुसन्धायोक्तंसर्व एव हीति। स्वयेति प्राचीनस्वकीयानुभवजनितया प्रत्यात्मनियतया तदेकनिष्ठफलप्रसाधिकयेत्यर्थः। वासनाया नियतविषयेच्छाजनकत्वायोक्तंगुणमयभावविषययेति। एतेन स्वभावपर्यायः प्रकृतिशब्दोऽत्रकामैस्तैस्तैः इत्यादिसमभिव्याहारात् तत्तदिच्छाहेतुभूतसहजवासनाविषय इत्यपि निर्व्यूढम्। नियतत्वं नामादृष्टव्यभिचारः सम्बन्ध इत्यभिप्रायेणोक्तंनित्यान्विता इति। वीप्साभिप्रेतमाहस्ववासनानुरूपैरिति।लभते च ततः कामान् 7।22 इत्यनन्तराभिधीयमानैकार्थ्यात् कामशब्दोऽत्र कर्मणि व्युत्पन्नः।हृतज्ञानाः इत्यत्र ज्ञानशब्देन पूर्वप्रसक्तमेव ज्ञानं विवक्षितमिति प्रदर्शयितुंहृतमत्स्वरूपविषयज्ञाना इत्युक्तम्। तदेव चान्यदेवताभजनकारणम्। फलकारणयोः स्वरूपेण निर्दिष्टयोरपि साद्ध्यसाधनभावोऽर्थसिद्ध इति दर्शयितुंतत्तत्कामसिद्ध्यर्थमित्युक्तम्। तैस्तैस्तत्तद्देवताभिर्दातुं शक्यैरित्यर्थः। इन्द्रादिदेवतानामपि भगवत्पर्यन्तानुसन्धाने तत्तद्विशेषणविशिष्टस्य भगवत एव तत्तद्देवतात्वादन्यदेवतात्वं तथाविधानुसन्धानराहित्यनिबन्धनमिति ज्ञापनायोक्तंमद्व्यतिरिक्ताः केवलेन्द्रादिदेवता इति। एतेनकामैस्तैस्तैः इत्यादिकमितरभक्तत्रयविषयमिति परोक्तं निरस्तम्। तत्तत्कामार्थमपि निपुणैर्भगवानेव प्रपदनीयः अत एव हि सङ्गृहीतंऐकान्त्यं भगवत्येषां समानमधिकारिणाम् गी.सं.28 इति। अन्यथातृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः इति भावः।तं तं नियममिति नियमोऽत्र सङ्कल्पविशेषादिः।श्रद्धयाऽर्चितुमिच्छति इति वक्ष्यमाणवशादत्रापि प्रपत्तेरर्चनाङ्गत्वं दर्शयति ता एवाश्रित्यार्चयन्त इति। विश्वासगर्भफलप्रदत्ववरणपूर्वकं तत्तत्कर्मभिः प्रीणयन्तीत्यर्थः। प्रपत्तिस्वरूपसामर्थ्यादवधारणसिद्धिः।तदेकोपायता याञ्चा इति हि तल्लक्षणम्।

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति।

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्।।7.21।।

।।7.21।।एवं देवतान्तरफलान्तरसक्ता अपि तत्तदाराधनतत्फलयोः शैथिल्ये सतिअलाभे मत्तकाशिन्या दृष्टा तिर्यक्षु कामिता म.भा. इति न्यायेन अनर्थहेतुषु निषिद्धेषूपायेषु निमज्जेयुरिति भयात्परमकारुणिकोऽहमेव तत्तदाराधनहेतुश्रद्धाविघ्नशान्तिं तत्फलं च प्रयच्छामीति श्लोकद्वयेनाह यो य इति। एक एवश्वरो रामकृष्णाद्यवतारवदादित्यादिविग्रहभाक् न तु चेतनान्तरमस्तीति कुदृष्टिमतनिरासायाह ता अपीति।अयमभिप्रायः पूर्वश्लोकेप्रपद्यन्तेऽन्यदेवताः 7।20 इति निर्देशं न तावदीश्वरासाधारणविग्रहविशेषविषयस्तद्विशिष्टेश्वरविषयो वा भवितुमर्हति तत्रान्यदेवतात्वव्यपदेशायोगाद्रामकृष्णादिवदेव। ततश्च चेतनान्तरविषयत्वमवश्याभ्युपगमनीयम्।देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि 7।23 इति च पृथग्वक्ष्यते। अतोऽत्र तनुशब्दः पूर्वोत्तरपरामर्शवशाच्चेतनविशेषविषयः इति सर्वासां चेतनविशेषरूपदेवतानामीश्वरशरीरत्वप्रदर्शनार्थं श्रुतिमुदाहरतिय आदित्य इति। नात्र तनुत्वेन भजनं विवक्षितम्। तथा सति प्रतर्दनविद्यादिष्विव परमात्मोपासनत्वप्रसङ्गात्।न तु मामभिजानन्ति तत्त्वेन 9।24 इति वक्ष्यमाणत्वाच्चेत्यभिप्रायेणाह मदीयास्तनव इति। अजानन्नपीति। तर्हि तनुत्वेनात्र निर्देशोऽनुपपन्नो निरर्थकश्चयां यां देवतां इत्येव हि वक्तव्यमित्यत्राह तस्य तस्येति। यथा नरपतेरात्मस्वरूपमजानतोऽपि राजशरीरप्रसाधनादिकं कर्तुरन्ततो राजात्मनैव फलमिति न्यायसूचनादुपपन्नोऽत्र तनुशब्द इति भावः। जातायाः श्रद्धाया अचलत्वं नाम प्रतिबन्धकराहित्येनाफललाभाय निरन्तरसन्तन्यमानत्वमित्यभिप्रायेणोक्तंनिर्विघ्नामिति।

स तया श्रद्धया युक्तस्तस्याराधनमीहते।

लभते च ततः कामान्मयैव विहितान् हि तान्।।7.22।।

।।7.22।।स तया इति श्लोकेऽपि पूर्ववद्वीप्सा भाव्या।तया इत्यस्य प्रस्तुतोपयुक्ताकारपरामर्शित्वज्ञापनायनिर्विघ्नयेत्युक्तम्। स्त्रीलिङ्गेन देवताशब्देन तनुशब्देन च पूर्वनिर्देशेऽपितस्य इति पुँल्लिङ्गेन बुद्धिस्थतत्तद्देवपरः।देवान्देवयजो यान्ति 7।23 इति ह्यनन्तरमुच्यत इत्यभिप्रायेण तस्येन्द्रादेरित्युक्तम्। यद्यपितस्याः इति पदच्छेदः शक्यः तथापिराधनं इत्यस्योपसर्गरहितस्य आराधने प्रसिद्ध्यभावात्तदनादरः। यद्वा फलितोक्तिरियंराधनं इत्येव पदच्छेदः।तत इति व्याख्येयनिर्देशः। तद्व्याख्यानंमत्तनुभूतेन्द्रादिदेवताराधनादिति।अयमभिप्रायः ततः इत्यस्येन्द्रादिपरत्वं मन्दम्मयैव विहितान् इति स्वस्यैव फलदातृत्ववचनात्। ततस्तन्निमित्तमेवात्रापेक्षितम्। अतःतस्याराधनमीहते इति प्रधानतया प्रस्तुतपरामर्श एवायमिति।हि तान् इत्यत्र हीत्यव्ययम्। सर्वत्र च तच्छब्दनिर्देशात्कामान् इत्यत्रापितान् इति विशेषणमुचितम् भगवतः समस्ताभिलषितदायित्वसूचनादपेक्षितं च। हितत्ववचनं च प्रकरणविरुद्धम्।अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् 7।23 इति तन्निन्दाप्रवृत्तत्वादित्यभिप्रायेणोक्तंतानेव ही स्वाभिलषितानिति। त्वद्विषयज्ञानहीनस्थ त्वया फलदानं कथं इत्यत्रमयैव इत्यवधारणाभिप्रेतमाहयद्यपीति। एतदप्यत्र स्मारितं- यदि भवत्प्रसादात्तेषामपि फलसिद्धिस्तर्हि तत्र को विशेषो भवदुपासकेभ्यः इति |   यद्यपीत्यवधारणार्थमाह मदाराधनत्वादितिअहं हि सर्वयज्ञानां 9।24 इत्येतदत्र भाव्यम्। इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः म.ना.1।6 इति च श्रुतिः।

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्।

देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि।।7.23।।

।।7. अत्रोत्तरम् अन्तवत्तु इत्यादि। पूर्वार्धे सम्भवत्येकवाक्यत्वे वाक्यभेदभ्रमनिरासायतेषामल्पमेधसामिति सामानाधिकरण्यं दर्शितम्। तेषामिति फलाल्पत्वहेतुपरामर्शं इत्याहइन्द्रादिमात्रयाजिनामिति। तत्र हेतुरल्पबुद्धित्वम्। अल्पेष्विन्द्रादिषु तदधीनफलेषु च मेधा बुद्धिर्येषां तेऽल्पमेधसः। अल्पगोचरत्वादल्पा मेधा येषामिति वा। अल्पमेधस्त्वादेव तत्फलस्याप्यल्पत्वं सिद्धमिति कृत्वाअल्पमन्तवच्च भवतीत्युक्तम्।देवान् देवयजः इत्यत्र देवशब्दो गोबलीवर्दन्यायान्मच्छब्दोक्तभगवद्व्यतिरिक्तदेवपरः। अथवा मनुष्यादिसहपठितकर्मवश्यदेवजातिविशेषपर इत्यभिप्रायेणइन्द्रादीन् देवांस्तद्याजिन इत्युक्तम्। कथमिन्द्रादिप्राप्तिः फलस्याल्पास्थिरत्वहेतुः इत्यत्राह इन्द्रादयोऽपि हीति। अस्तु तेषामल्पभोगत्वमस्थिरत्वं च ततः किं तदुपासकस्य भगवत्प्रसादाधीनफललाभस्येत्यत्राहतत इति। केवलेन्द्रादियाजिनां तत्तदभिलषितं तत्सायुज्यादिकमेव हि भगवान् प्रयच्छति सायुज्यं च समानभोगत्वमेव तत इन्द्रादिभोगस्य परिमितस्वरूपत्वात्परिमितकालवर्तित्वाच्च तत्समानस्तदुपासकभोगोऽपि तथाविध एव भवेदिति भावः।माम् इति निर्दिष्टभगवत्स्वरूपस्य निरतिशयानन्दमयत्वात्तत्साधर्म्यमागतस्यापि निरतिशयभोगत्वं सिद्धम्। सूत्रं चभोगमात्रसाम्यलिङ्गाच्च ब्र.सू.4।4।21 इति। तन्नित्यत्वाच्च तदुपासकभोगस्यापि नित्यत्वं दर्शयतिन च पुनर्निवर्तन्त इति। अत्राभिप्रेतं वक्ष्यमाणवचनेन विशदयतिमामुपेत्येति। अत्रापि सूत्रम् अनावृत्तिः शब्दादनावृत्तिः शब्दात् ब्र.सू.4।4।22 इति।मद्भक्ता यान्ति मामपि इत्यत्र भगवति फलान्तरार्थिनामपि मोक्षे विश्रमो नारायणार्यैरुक्तः तथा देवतान्तरभक्तानां अपेक्षितार्थलाभ एव फलम् भगवद्भक्तानां तु न तावन्मात्रं फलम् किन्तु स्वभावप्राप्तादनभिसंहितादपि पापपरिक्षयात् सत्त्वाधिक्योन्मीलनेन शुद्धेषु धर्मेषु श्रद्धोत्पत्त्या शनैश्शनैर्ज्ञानवैराग्यादिलाभद्वारेण पूर्वोक्तभक्तिविशेषलाभाच्चिरतरेणापि कालेन भगवत्प्राप्तिर्भविष्यतीति नित्यफलत्वमित्यभिप्रायः इति। इदं चशाण्डिल्यसंहितायामपि भागवतापचारसङ्ग्रहे प्रोक्तं भगवन्तं समुद्दिश्य तदेकशरणा नराः। कदाचिन्न च हीयन्ते काम्यकर्मरता अपि। इति।

अव्यक्तं व्यक्ितमापन्नं मन्यन्ते मामबुद्धयः।

परं भावमजानन्तो ममाव्ययमनुत्तमम्।।7.24।।

।।7.24।।ननु फलान्तरदेवतान्तरवासनया हि त्वद्विषयज्ञानप्रतिबन्ध उक्तः त्वत्साक्षात्काराभावे हि तदुपपत्तिः त्वयि कारुण्यादिगुणप्रेरिते सर्वसमाश्रयणीयत्वायावतारवशादशेषजननयनगोचरे कथं त्वत्परित्याग इत्यत्रोत्तरम् अव्यक्तं व्यक्तिमापन्नम् इत्यभिप्रायेणाह इतरे त्विति। इतरे चतुर्विधसुकृतिभ्योऽन्ये।परं भावम् इत्यनेनाभिप्रेतं निरतिशयपरत्वसौलभ्यरूपं स्वभावं दर्शयतिसर्वैः कर्मभिरित्यादिना अवतीर्ण इत्यन्तेन।अजहत्स्वभाव इत्यव्ययशब्दाभिप्रेतोक्तिः। अस्मादुत्तमं नास्तीत्यनुत्तमम् अनवधिकातिशयमित्यर्थः। अत्रअव्यक्तं व्यक्तिमापन्नम् इत्येतत्सामर्थ्यादवतारविषयत्वम् तत्रापिमाम् इत्यस्यौचित्यादवतारविशेषविषयत्वं च सिद्धमित्यभिप्रेत्योक्तंवसुदेवसूनुरवतीर्ण इतिप्राकृतराजसूनुसमानमिति च। इदं सर्वावतारोपलक्षणतया विशेषोदाहरणमात्रं वा।अव्यक्तं व्यक्तिमापन्नम् इत्यनयोरर्थान्तरभ्रमव्युदासायाहप्राकृतेत्यादि। मन्दमतिबोद्धव्यतया निन्द्यमानोऽर्थोऽत्रायमेव भवितुमर्हतीति भावः। इतः पूर्वमनभिव्यक्तत्वमिदानीमवताराद्व्यक्तत्वमपि प्रमाणसिद्धम् तत्कथमत्र प्रतिक्षिप्यत इत्यत्रोक्तंकर्मवशाज्जन्मविशेषं प्राप्येति। उत्सर्गापवादादिनयात्सङ्कोच इति भावः।अबुद्धयः इत्यनेन परमात्मतदवतारादिविषयश्रवणमननादिराहित्यं वैलक्षण्यज्ञापकलिङ्गदर्शनेऽपि तदूहशक्तिवैकल्यं च विवक्षितम्। फलितमाह अत इत्यादि। आश्रयणमत्र प्रपत्तिपूर्वकभजनं तदभावाच्च तदङ्गतया वर्णाश्रमादिधर्मान् स्तुतिनमस्कारादींश्च न कुर्वत इत्याह न कर्मभिरिति।

नाहं प्रकाशः सर्वस्य योगमायासमावृतः।

मूढोऽयं नाभिजानाति लोको मामजमव्ययम्।।7.25।।

।।7.25।।यदि त्वमप्रतिहतसङ्कल्पः साभिसन्धिकं सर्वसमाश्रयणीयत्वायावतीर्णः तर्हि कथं तत्फलासिद्धिरित्यभिप्रायेण शङ्कतेकुत इति। मायाशब्दस्तावद्विचित्र(शिष्ट)सृष्टिकरार्थवा चितया प्रागेव प्रपञ्चितः त्रिगुणात्मिकया मायया समावृतत्वं तु प्रागवस्थावतारावस्थयोः साधारणम् असाधारणश्चावरणहेतुरत्र सम्भवे वक्तुमुचितः सङ्कल्पादिश्च साधारणः योगशब्दोऽपि सम्बन्धे प्रचुरप्रयोगत्वात्तदर्थः प्राप्तः तत्सम्बन्धी चार्थसिद्धः स चात्रौचित्यात्प्रदेशान्तरेषु प्रसिद्धत्वाच्च मनुष्यादिसंस्थानवेषभाषादिरेव तेनैवेन्द्रजालमायाव्यवच्छेदोऽपि सिद्ध इत्यभिप्रायेणाहमनुष्यत्वादीति। प्रकाशः परस्वभावेनेति शेषः। तर्हि तवैवायं दोष इत्यत्रोत्तरंमूढोऽयमित्यादि। अधिगम्यत्वायापादितं मनुष्यत्वादिकं दुर्मतीनां परित्यागहेतुरभूत् नच पारमेश्वरस्वभावो मायया सर्वस्तिरोहितः लोकोत्तरकर्मतेजःप्रभृतीनां प्रकाशनात्। किन्त्वयं मन्दो लोको यत्किञ्चित्साधर्म्याद्धनावृते मयूखमालिनि खद्योतभावमवगच्छतीत्यभिप्रायेणाह मयीति। मूढः मयि मनुष्यत्वादिभ्रमविशिष्ट इत्यर्थः।माम् इति तदानीन्तनोपलभ्यमानाकारनिर्देशसामर्थ्यात्प्रदेशान्तरोक्तत्वाच्चअतिवाय्विन्द्रकर्माणमित्याद्युक्तम्। परावस्थस्याज्ञानं सर्वेषां प्राप्तमेव हि इह तुपरं भावमजानन्तो ममाव्ययमनुत्तमम् 7।24 इति मनुष्यत्वे परत्वस्याज्ञानमुच्यते तत्र प्रतिषेध्यस्य ज्ञानस्य प्रसङ्गार्थं लिङ्गोक्तिरियम्। निरतिशयदीप्तियुक्तत्वमपि जगत्कारणपरमपुरुषासाधारणधर्मतया वेदान्तेषु निर्णीतम्। अतिवाय्विन्द्रकर्मत्वं च सर्वनियन्तृत्वलिङ्गम्।अजम् इत्यनेन फलितमाहनिखिलजगदेककारणमिति।अव्ययम् इत्यनेन लब्धमाहसर्वेश्वरमिति। स्वरूपतो धर्मतश्च निर्विकारत्वं हि तस्याव्ययत्वम् एतेनअजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् 4।6 इति प्रागुक्तसूचनं वा। अजमव्ययं नाभिजानाति किन्तु पुरुषान्तरवत्कर्माधीनजन्मानं ज्ञानसङ्कोचादिमन्तं जानातीति शेषः।

वेदाहं समतीतानि वर्तमानानि चार्जुन।

भविष्याणि च भूतानि मां तु वेद न कश्चन।।7.26।।

।।7.26।।अयं लोको नाभिजानातीत्येतावता वर्तमानमात्रपरत्वं नाशङ्कनीयं किन्तु त्रैकाल्यवर्तीन्यपि भूतानि न जानन्तीत्युच्यतेवेदाहं इत्यादिना। अत्रअतीतानि इति पृथङ्निर्दिष्टत्वात् भूतानि इत्येतत्क्षेत्रज्ञपरम्। स्वस्य सर्वज्ञत्वमत्र किमर्थमुच्यते इत्यत्राहमयेति। तद्वेदनफलं हि तदेकसमाश्रयणमिति दर्शयितुंमामेव समाश्रयन्नित्युक्तम्। परमप्रकृतेन सङ्गमयति अत इति।

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत।

सर्वभूतानि संमोहं सर्गे यान्ति परन्तप।।7.27।।

।।7.27।।एवं ज्ञानिनो दौर्लभ्याय कालत्रयवर्तिसर्वभूतसाधारणं भगवदज्ञानकारणंइच्छा इति श्लोकेनोच्यत इत्यभिप्रायेणाह तथाहीति। पदार्थमन्वयार्थं च दर्शयतिइच्छाद्वेषाभ्यामिति। इच्छाद्वेषाभ्यां समुत्तिष्ठतीति इच्छाद्वेषसमुत्थः। ननु जन्मकाल एवेच्छाद्वेषौ कारणाभावान्न सम्भवतः सम्भवन्तौ वा भगवद्विषयौ किं न स्याताम् न चेच्छाद्वेषमात्रेण शीतोष्णादेरुत्थानं तस्य च हेमन्तघर्मादिस्वकारणाधीनत्वात् द्वन्द्वस्य च कथं मोहशब्दार्थता मोहेन मोहं यान्तीत्यात्माश्रयादिप्रसङ्गः। इच्छाद्वेषावेव द्वन्द्वशब्देन गृह्येते अतो द्वन्द्वनिमित्तो मोहो द्वन्द्वमोह इत्यादि परव्याख्यानं च पुनरुक्त्यादिदुस्स्थम्। एतेनसुखं मे भूयात्दुःखं मा भूत् इत्यभिनिवेशो द्वन्द्वमोह इत्यपि मन्दमुक्तमित्यादिकमाशङ्क्याह एतदुक्तं भवतीति। जन्मान्तरवासनाख्यं कारणमस्ति वासनायाश्च स्वकारणस्वभावविषयत्वादिच्छाद्वेषयोर्न भगवत्संश्लेषविश्लेषविषयत्वप्रसङ्गः। उत्थानं चेच्छाद्वेषविषयतया स्फुरणमेव। मोहशब्दस्य करणे व्युत्पत्त्या द्वन्द्वे प्रयोगः। मोहकारणस्य मोहजनने च नात्माश्रयादिरिति भावः। अभोग्ये भोग्यताबुद्धिः अद्वेष्ये च द्वेष्यताबुद्धिरिह सम्मोह इत्यभिप्रायेणाह तद्विषयेति। एवंविधसम्मोहवशादिच्छाद्वेषयोः साक्षात्प्राप्तविषयपरित्यागं दर्शयति न मत्संश्लेषेति। उचितविषयेच्छाद्वेषशालिनं सुदुर्लभं ज्ञानिनं तद्व्यतिरेकप्रकाशनाय दर्शयतिज्ञानी त्विति।ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः। तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः गी.सं.27 इति सङ्ग्रहः। तद्व्यतिरेकमेव भूतानां जन्मसिद्धं दर्शयति न तदिति।

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्।

ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः।।7.28।।

।।7.28।।यद्येवं सर्वभूतानि सम्मोहं यान्ति तर्हि भगवदुपासनं कदाचिदपि कस्यचिदपि न स्यात् अतःचतुर्विधा भजन्ते माम् 7।16 इत्यादिनोक्तं चानुपपन्नं स्यादित्यत्रोत्तरंयेषां त्वित्यादि।पुण्यकर्मणाम् इत्येतत्पापनिवृत्तिहेतुपरम्। तथा च श्रुतिः धर्मेण पापमपनुदति म.ना.उ.16।1 इति। जनशब्दश्च जननवति वर्तमानत्वात् पुण्यप्रचयहेतुभूतानेकजन्मसूचनपर इत्यभिप्रायेणोक्तम् अनेकजन्मार्जितेनोत्कृष्टपुण्यसञ्चयेनेति। भगवज्ज्ञानप्रतिबन्धकपापनिवर्तकत्वाच्चोत्कृष्टत्वं फलितम्। गुणमयशब्देन सुखदुःखरूपभगवत्संश्लेषविश्लेषाख्यद्वन्द्वव्यवच्छेदः।द्वन्द्वमोहविनिर्मुक्ता मां भजन्ते इति फलद्वयदर्शनात्प्रतिबन्धकेऽपि पापे द्वन्द्वेच्छाद्वेषहेतुभूतं मदौन्मुख्यविरोधि चेति भेदो दर्शितः। अनेकजन्मार्जितोत्कृष्टपुण्यनाश्यत्वायोक्तंअनादिकालप्रवृत्तमिति। उपासनारम्भे पापस्य द्वन्द्वमोहस्य च निश्शेषविनष्टत्वाभावादन्तर्गतशब्देनाल्पावशिष्टत्वं विवक्षितमित्यभिप्रायेणोक्तं क्षीणमिति।मामेव ये प्रपद्यन्ते 7।14चतुर्विधा भजन्ते मां इत्यादिकं च प्रायुक्तमनन्तराभिधीयमानं चजरामरणमोक्षाय 7।29 इत्यादिकमनुसन्दधान आहपूर्वोक्तेनेति। न चात्र द्वन्द्वमोहविनिर्मुक्तत्ववचनादैश्वर्यार्थिनां प्रसङ्गानुपपत्तिः तेषामपि क्षुद्रतरद्वन्द्वनिरोधस्यावश्यापेक्षितत्वात्। व्रतशब्दः सङ्कल्पविशेषेषु मुख्यः तत्सम्बन्धादेव क्रियाविशेषेषु तत्प्रयोग इत्यभिप्रायेणदृढसङ्कल्पा इत्युक्तम्। दृढव्रतशब्देन देवतान्तरपरित्यागादिनियमोऽपि यथाप्रमाणं सूचित इत्यभिप्रायेणमामेव भजन्त इत्युक्तम्।मां भजन्ते इत्यनेनैव भजनाङ्गव्रतादेरपि सिद्धत्वात्मत्प्राप्तये चेत्यन्तेन दृढसङ्कल्पत्वं स्वाभिमतफलविषयतया वा व्याख्यातम्।

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये।

ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्।।7.29।।

।।7.29।।अथाष्टमाध्याये प्रपञ्चयिष्यमाणस्यार्थस्य प्रस्तावः श्लोकद्वयेन क्रियत इत्याह अत्रेति।जरामरणमोक्षाय इत्येतावतो निर्देशात्प्रकृतिवियुक्तात्मस्वरूपदर्शनायेत्युक्तम्। यतनमत्राराधनरूपं विवक्षितम्। एषां ब्रह्माध्यात्मकर्मादीनां सप्तानां प्रश्नपूर्वकं प्रपञ्चो भविष्यति। अत्रविदुः इति सिद्धवन्निर्देशो वर्तमानापदेशोऽपि विद्ध्यर्थः।

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।।7.30।।

।।7.30।।साधिभूत इति श्लोकस्यश्वर्यार्थिविषयत्वं वक्तुमधिकारिणो भेदमात्रज्ञापकं तावद्दर्शयति अत्रेति। पूर्वाधिकारिविषयत्वेसाधियज्ञं च ते विदुः इति हि वक्तव्यम् न चैवं शिष्टाः पठन्ति। न चात्र यच्छब्दावृत्तेः प्रयोजनमस्तीति भावः। प्रश्नोत्तरवशाच्चाधिकारिभेदः सेत्स्यति। एवं सामान्येन ज्ञातमधिकारिभेदमधिभूतादिसामर्थ्याद्विशिनष्टिऐश्वर्यार्थिन इति।जरामरणमोक्षाय [7।29] इत्यादाविव अत्रापि यच्छब्दवशादनुवादत्वं प्रतीतमिति तत्प्रतिक्षिपतिइत्येतदित्यादिना। यदाग्नेयोऽष्टाकपालः [श.ब्रा.2।5।1।11] इत्यादिवदिति भावः। अस्य च विधित्वं प्रश्नादिवशाच्च फलिष्यति। नह्यवगते प्रश्नाद्यवकाशः।साधियज्ञम् इत्यस्यैकस्मिन्नधिकारिणि निर्दिष्टस्याप्यर्थस्वाभाव्यात्ित्रष्वप्यन्वयं दर्शयति तथेति।अर्थस्वाभाव्यादिति सर्वाधिकारिसाधारणतया प्रमाणसिद्धयज्ञाख्यपदार्थस्वाभाव्यादित्यर्थः। एतदेव दर्शयति त्रयाणां हीति। अन्यथासन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु इत्यादिक्रमेण कर्मानर्हत्वादिप्रसङ्ग इत्यभिप्रायेणाहअवर्जनीयमिति। अपि चेत्येकाव्ययार्थत्वे प्रयोजनाभावात् पृथक्त्वे सप्रयोजनतया अन्वयसम्भवाच्च विभज्याह ते चेति। अन्तिमप्रत्ययस्यैकस्यैव वक्ष्यमाणं विषयविशेषेण प्राप्यानुगुणाकारत्वं युक्तचेतश्शब्देन विवक्षितमित्याह स्वप्राप्यानुगुणमिति। चकारस्य पृथगन्वयेन लब्धमाहते चेति।चकारादिति यद्वृत्तप्रतियोगिकत्वात्तद्वृत्तमैश्वर्यार्थिविषयमेव। चकारात्तु पूर्वश्लोकोक्तानां समुच्चयः। तेषामपि ह्यन्तिमप्रत्यये विशेषो वक्ष्यत इति भावः।त्रयाणाम् इत्यादिकमयुक्तं ज्ञानिनामत्र प्रसङ्गाभावादित्यत्राह अनेनेति। यज्ञान्तिमप्रत्ययमात्रयोरधिकारित्रयसाधारण्यसिद्धेरिति भावः।

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्गीताभाष्यटीकायां सप्तमोऽध्यायः।।7।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.