अधिकरणसारावली
अक्षराधिकरणम्
1.3.10 प्रख्याताकाशपूर्वस्वविकृतिवहनादक्षराख्यं प्रधानं
तस्याप्याकाशतोक्तौ धृतनिखिलजगत् क्षेत्रितत्त्वन्तु तत्स्यात्।
मैवन्द्रष्टृत्वपूर्वैरनितरनियतैश्शासनायत्तधृत्या
किञ्च द्रष्ट्रन्तरस्य व्युदसनमिह तत्तुल्यतद्द्रष्ट्रपोहः।।
*******