अधिकरणसारावली
ईक्षतिकर्माधिकरणम्
1.3.11 लक्षीभूतोऽयमेकः खलु पुरुष इह ध्यायतेरीक्षतेश्च
क्षेत्रज्ञस्सोऽयमण्डाधिप इतरपरात्स्वान्यजीवात्परोऽसौ।
नो चेद्भौमादिभोगप्रकरणविहतिर्बोभवीतीत्ययुक्तं
तस्मिञ्शान्तामृतत्वप्रभृतिपरगुणख्यात्यनूक्त्योरयोगात्।।
1.3.12 नन्वत्रोङ्कारमात्रात्रयफलगणनारूढभूम्यन्तरिक्ष-
प्रत्यासत्त्या निवासस्सरसिजवसतेर्ब्रह्मलोकोऽस्तु मैवम्।
पापोन्मुक्तेन लभ्यो ह्ययमिह कथितस्सूर्यसम्पत्तिपूर्वं
सोढव्यो मद्ध्यलोकैव्यवधिरिति समस्तत्समाधानमार्गः।।
*******