अधिकरणसारावली
इतरव्यपदेशाधिकरणम्
2.1.15 उक्तेऽनन्यत्वपक्षे चिदपि परिणतिर्ब्रह्मणस्स्यात्ततस्त- ज्जीवैक्यं तत्त्वमस्याद्यवगतमहतन्दुःखसिन्धुश्च जीवः।
अभ्रान्तस्तु स्वदुःखं न सृजति न च तत् क्रीडयाऽप्यस्य मैवं तात्स्थ्येनानन्यतोक्तेस्तदपि चिदचितोस्तच्छरीरत्वसिद्धेः।।