अधिकरणसारावली
प्रयोजनवत्त्वाधिकरणम्
2.1.19 आत्मार्थं विश्वसृष्टिः कथमपि सततावाप्तकामस्य न स्यात् कारुण्याद्दुःखसृष्टिर्न भवति न च सा सर्वशक्तेश्चिकित्सा। सर्वज्ञस्स्वात्मतृप्तस्तदिह न जगतो हेतुरित्यन्धचोद्यं लीलाऽसौ लोकवत्स्यादभिमतिसमये सिद्धितस्त्वाप्तकामः।।
2.1.20 विश्वं दुःखैकतानं विषममपि सदा निर्मिमाणस्य लीला संजायेतासमञ्जक्रमत इति भवेन्निर्दयत्वादिदोषः।मैवं बीजाङ्कुरादिक्रमविषमभवानादिकर्मौघभाजां जीवानां सौति तत्तत्फलमिति करुणासाम्ययोरप्रहाणात्।।
2.1.21 दृष्टन्यायेन विश्वप्रजनकचिदचित्तत्त्वभेदप्रक्लृप्तौ स्वेष्टप्रत्यर्थिधर्मोपनयननियतव्याप्तिवैयाकुली स्यात्। अत्यन्तादृष्टमर्थं भणितुमधिकृताच्छास्त्रतस्सर्वकर्तु- स्सिद्धौ बाधाद्यनर्हप्रमितिपरवती सर्वधर्मोपपत्तिः।।
2.1.22 सांख्यस्मृत्या विरोधाद्विधिमतविहतेः कार्यवैरूप्यतोऽस्मि- न्नेकार्थानेकतन्त्रोदितविहततया देहभोगावियुक्त्या । कार्योपादानभेदात् स्वहितविहतितः कारकस्तोमहानेः कृत्स्नांशाद्यूहबाधात् कृतिविफलतयाऽप्युत्थितं प्रत्यविद्ध्यत्।।