अधिकरणसारावली
पशुपत्यधिकरणम्
2.2.30 सर्वं जानाति रुद्रश्श्रुतिषु च महितस्सत्यवादी च दृष्टः प्रख्यातं तद्व्रतञ्च क्वचिदुपनिषदीत्यस्तु मानं तदुक्तिः । मैवं, देवेन दैत्यप्रमथनरुचिना मोहशास्त्राणि कुर्वि- त्यादिष्टो ह्येष तन्त्रं निजमकृत ततस्तन्न शिष्टोपजीव्यम् ॥
2.2.31 प्राजापत्ये हि वाक्ये प्रकटमुपनिषत् प्राह देहात्मवादं चक्रे लोकायतं तत् सुरगुरुरभजन्मोहनत्वं मुकुन्दः । कण्वस्थाने च लौकायतिकपरिबृढा भारतेऽपि प्रगीताः कार्यार्थं विप्रलम्भस्तदिह पशुपतेस्तद्वदेवोपपन्नः ॥
2.2.32 शैवाद्याख्याविशेषैः पशुपतिसमयस्स्याच्चतुर्धाऽन्यथा वा श्रुत्याऽन्योन्यं च बाधस्स्फुट इह तदसौ शापदुष्टार्ह उक्तः । अग्राह्यान् वैदिकानामनुसृतनिगमास्सस्मरुस्तत्प्रविष्टान् तत्त्वेऽप्यत्रान्यथात्वं सुगतजिनमतानन्तरोक्तिः क्रमाप्ता ॥
2.2.33 निष्ठा सर्वेषु नारायण इति वचनाद्धेत्वहन्तव्यतोक्ते- र्मानत्वोक्त्या च तन्त्रान्तरमपि महितं वेदवद्भारतादौ । नातो बौद्धादिवत्तन्निरसनमिति चेत् सत्यमंशे तु बाध- स्स्यान्नासौ पञ्चरात्रे क्वचिदपि तदिह स्वीकृतिर्वेदतुल्या ॥
2.2.34 दृश्यन्ते संगृहीता जगति हि समयास्ते च राज्ञाऽनुपाल्या- स्तस्मान्नः पक्षपातः क्वचिदनुचित इत्यर्भकप्रायचोद्यम् । मुग्धैरन्ये गृहीता भवतु समयसंरक्षणोक्तिश्च धर्म्ये निष्ठैक्योक्तिस्तदन्यग्रहविहतिपरा तद्विरुद्धोक्तिदृष्टेः ॥