अधिकरणसारावली
महद्दीर्घाधिकरणम्
2.2.8 कल्प्योपादनमेकं परममहदधिक्षित्य नानाविधाणू- पादानौघस्य दृष्टात् समधिकवपुषः कल्पनेऽनिष्टमाह। प्राज्ञाधिष्ठानशून्यप्रकृतिपरिणतिः प्राङ्निरस्ताऽथ सेशं सूक्ष्माणुद्रव्यमूलद्व्यणुकमुखजगत्सृष्टिपक्षं पिनष्टि।।
2.2.9 प्रागेवारम्भणोक्तावपहृतविषया प्रागसद्द्रव्यक्लृप्तिः काणादानामिदानीं क्षिपति बहुमुखं कारणप्रक्रियांशम्। त्रेधा हेतौ विभक्ते त्वनुमितिशरणैस्तत्तदंशैर्यथार्हं व्याघातादीन्विकल्पक्रमविविधगतीन् व्याहरत्यत्र सूत्रैः।।
2.2.10 दृष्टस्याणोः प्रसूतिं द्व्यणुकमणुमपि स्थापयन्तोऽनुमित्या दृष्टाकारानुसारान्न निरवयवताद्यत्र वक्तुं क्षमेरन्। सर्वं सह्येत सूक्ष्मे प्रमितिपरवतां जालकालोकलक्ष्ये तद्भागान् ख्यापयेद्वा स्मृतिरफलतया त्वान्यपर्येण नेया।।
2.2.11 विश्रान्तिर्न क्वचिच्चेदवयवनिवहानन्त्यतो मानसाम्यं माषक्षोणीभृतोस्स्यादिति यदि तदसत्तारतम्यादनन्ते। वैषम्यं पक्षमासप्रभृतिषु नियतं नह्यनन्तेष्वनिष्टं पारावर्यञ्च जात्योर्न किमनुकथितं व्यक्त्यनन्तत्वसाम्ये।।
2.2.12 नादृष्टं किञ्चिदन्यच्छ्रुतिसरणिजुषां देवतानुग्रहादे- रन्यत्वे तस्य तज्ज्ञैरधिकयतनवत् क्लृप्तिरादौ व्युदस्ता। यत्ने यत्नानपेक्षां न किमनुमनुते स्याददृष्टेऽपि तद्वत् भूतस्थादृष्टवादे द्व्यणुकृदणुगतादृष्टकल्पोऽत्र लूनः।।
2.2.13 नित्यं सम्बन्धमेके निजगदुरपृथक्सिद्धसर्वानुवृत्तं नित्यं नित्येष्वनित्येष्वपि कतिचिदिमन्तावदायुष्कमाहुः। तत्तद्द्वन्द्वस्वभावप्रतिनियतिमुचां स्यान्न तेन व्यवस्था गुर्वी त्वन्यस्य क्लृप्तिः कथमधिकजुषां नानवस्था न दोषः।।
2.2.14 14.निर्धूते सूत्रकारैरवयविपरमाण्वात्मके द्रव्यवर्गे विश्वं व्याप्त्येकलक्ष्यं परममहदसत् स्यादथाद्रव्यमेव। मैवं दृष्टाणुतत्संहति तदुभयसम्बन्धसिद्धेरबाधा- दागन्तुक्षोणिताद्यैः श्रुतिरपि जगदारम्भणं बम्भणीति।।