[highlight_content]

अधिकरणसारावली आत्माधिकरणम्

अधिकरणसारावली

आत्माधिकरणम्

2.3.6      द्रव्यं सर्वं हि नित्यं कथितमवयविद्रव्यभङ्गेन पूर्वं नित्यत्वं सूत्रकारः पुनरपि पुरुषे किं विशिष्याभिधत्ते। सत्यं नामान्तरार्हामिह नुदति दशां चेतनस्यानुपाधेः प्रत्यक्त्वज्ञत्वधर्मौ तदिह नियमितौ शाश्वतौ क्षेत्रिणोऽपि।।

2.3.7      सच्छब्दार्थातिरिक्तं जनिमदखिलमित्यैतदात्म्यादिसिद्धं प्रोक्ता सृष्टिश्च जीवे निरवयवनयस्त्वम्बरादौ निरस्तः। जीवोत्पत्तिस्ततस्स्यादिति न सदकृताभ्यागमादिप्रसङ्गा- न्नित्यत्वाजत्वकण्ठोक्तिभिरपि जननं त्वस्य देहादियोगः।।

2.3.8      देहात्मत्वे जनिस्स्यान्न तदिह घटते जातमात्रस्य रागात् ज्ञाने किण्वादिमेघोपलशबलपटप्रक्रियाऽप्यत्र दुस्स्था। देहे गेहादितुल्या ममकृतिरनघा दोषतस्त्वैक्यमोहः क्षिप्तं चैक्यानुमानं बलवदनुमितेश्शास्त्रतस्तर्कतश्च।।

2.3.9      देहं देहातिरेके तदवधिनियतप्राणबुद्ध्यक्षरूपं धीसन्तानं च नित्यं प्रलयविलयिनं स्थास्नुमप्यापवर्गात् । डिण्डीराभं सदब्धाववितथविकृतौ जीवमिच्छन्त इत्थं निर्धूता दूरमत्र श्रुतिभिरितरवद्बाधदोषोज्ज्ञिताभिः।।

error: Content is protected !!