अधिकरणसारावली
कर्त्रधिकरणम्
2.3.14 ज्ञातृत्वं पुंस इत्थं भवतु तदपि नामुष्य कर्तृत्वसिद्धि- श्श्रुत्याद्यैस्तन्निषेधाद्विकृतिविरहतश्चेत्यसद्दृष्टबाधात्। कर्तृत्वापह्नवोक्तेरविकृतिवचसोऽप्यान्यपर्यं हि गींतं कर्ता शास्त्रार्थवत्त्वात्तदयमिह न च स्यादबोद्धुर्नियोगः।।
2.3.15 किञ्च स्वोक्त्यादिभग्नो निगदितुरहमः कर्तृताया निषेधो यद्यन्यस्याहमर्थात्तदिदमुपनिषद्वेदिनस्सिद्धसाद्ध्यम्। भोक्तृत्वस्याप्यभावे प्रसजति वितथं बन्धमोक्षादिशास्त्रं प्राणादानाद्विहारात् प्रकृतिसमधिकोऽस्मीति योगाच्च कर्ता।।
2.3.16 व्यापारज्ञानवाञ्छाप्रशमनयतनायोगयुक्तिस्तु मन्दा कार्ये सामग्र्यपेक्षे विधितदितरयोर्लोकसिद्धा प्रवृत्तिः। सार्थं शास्त्रं हितोक्त्या नियतिनियमिता शास्त्रयोग्या दशा सा ज्ञाता कर्ता च भोक्ता तदयमिह पुमान् भाति सर्वैः प्रमाणैः।।