अधिकरणसारावली
परायत्ताधिकरणम्
2.3.17 कर्ता नह्यन्यतन्त्रस्स्मरति खलु तथा पाणिनिश्चान्यथा चेत् आज्ञा कुर्यान्न कुर्यादिति तु निगलिते धावनादेशवत् स्यात्। मैवं कर्माक्षकालप्रकृतिपरवशे कर्तृतां तत्फलं च स्वीकृत्यात्मेशमात्रे श्रुतिशतविदिते द्वेष इत्थं दुरन्तः।।
2.3.18 साधारण्येन हेतुस्सलिलमिव विभुस्सर्वकार्याङ्कुराणां वैषम्यं त्वाविरिञ्चात् प्रतिनियतफलैः प्राणिनां कर्मबीजैः। साम्यं स्वस्य स्वगीतं श्रुतमपि तदिहाधोनिनीषादिभेद- स्तादृक्कर्मानुरूपं फलमिति नियतोऽनादिरेष प्रवाहः।।
2.3.19 काले दुःखोपशान्तिं जनयति भगवान् व्याजमात्रावलम्बी या दुःखापाचिकीर्षा परहितमनसस्सैव तस्यानुकम्पा। दत्ते देहादियोगं दिशति च निगमं वक्ति वेदान्तसारं निस्सीमानन्दयोगं निरुपधि समये सौति पुंसां तयैव।।
2.3.20 दोषस्स्यान्निग्रहांशो यमयितुरिति चेन्नोपमर्दासहत्वात् स्वानिष्टं नेश्वरे हि प्रसजति न परानिष्टमस्य प्रतीपम्। कारुण्यं सावकाशं क्वचिदिति कथितं साक्षिताद्यञ्च सुस्थं दृष्टे चैतत्स्वभावे फलद इति धिया युज्यते तत्प्रपत्तिः।।
2.3.21 प्रत्यङ्ङात्माऽहमर्थः प्रमितिपरवतां कर्तृतादिश्च तस्मिन् स्वेच्छापूर्वप्रवृत्तेरयमचिदधिकस्तावदीशानतुल्यः। ईशस्तु स्वेच्छयैव प्रयतत इति तन्निघ्नमन्यत्समस्तं सारथ्यादिक्रमेण प्रतिनियतगतिस्स्यात् त्रयाणां प्रवृत्तिः।।
2.3.22 कर्तृत्वं स्यात् कदाचित् करणवति परप्रेरणानिर्व्यपेक्षं नोचेत् तन्निग्रहाद्यं कथमिति यदि न स्वेष्टपक्षेऽपि साम्यात्। स्वेनापथ्यप्रवृत्तं न हि पुनरपि तत् कारयेयुर्दयार्द्रा- स्तच्चेत्तस्य स्वभावादितरदपि न किं निष्फलोऽधीतभङ्गः।।
2.3.23 क्षेत्रज्ञानां समानां विषमयतनता तादृशादृष्टभेदा- न्नादृष्टं त्वन्यदिष्टं नियमनभिदया शासितुस्तत्र भाव्यम्। साक्षित्वाद्य़ञ्च नेतुस्समनिगममितं प्रेरकत्वं न रुन्धे भाष्यादिग्रन्थलेशोऽप्यवहितमनसामैदमर्थ्यं भजेत।।
2.3.24 कर्ता देवः फलानां न तु करणभृतः प्रेरकश्चेत्ययुक्तं सर्वश्रुत्यादिकोपान्न भवति न फलं कर्मणः पापचर्या। कर्माधीनं तु चिन्ताद्यपि हि भवभृतो भाषितं भाष्यकारै- र्जन्तूनां देवतानामपि करणगणाधिष्ठितं वक्ष्यतीत्थम्।।