अधिकरणसारावली
फलाधिकरणम्
3.2.27 आराध्यः कर्मकाण्डस्थितनयनिवहस्थापितानां क्रियाणां अध्यक्षो देवतानामनुपधिमहिमा मध्यकाण्योदितानाम्। अत्राप्येतावतोक्ते भवभयचकिताप्राप्त्युपाल्त्येकलक्ष्यः तत्तच्छास्रार्थयोग्यं दिशति फलमिति स्थाप्यतेऽथात्युदारः।।
3.2.28 कृष्यादेर्मर्दनादेरपि भवति फलं द्वारतो वान्यथा वा धर्माणां साधनत्वं श्रुतिभिरवगतं दोषबाधोज्झिताभिः। तस्मादीशप्रसादात्फलमिति तु वचस्तत्प्रशंसेति चेन्न श्रौताराध्यप्रसादत्यजनकनतोऽपूरवक्लृप्तेरयोगात्।।
3.2.29 यद्यप्याराध्यमूलं फलमपि फलितं देवताधिक्रियायां कर्मापेक्षा तथोक्ता फलजननपरप्रेरणादौ तथापि। साक्षित्वानादरत्वप्रभृतिपरगुणान् प्रेक्ष्य तत्प्रीणनादौ शङ्कातङ्कैर्निरुद्धंस्तवरयितुमधुना तादृशोदारतोक्तिः।।
3.2.30 सम्राजस्सानुकम्पातपितुरुचितविदस्साम्यभाजो वदान्यात् स्थाने विन्दन्ति पुत्रा नियतरुचिभिदा.तास्तं तमर्थंम्। तत्र प्राप्यं स्वतो यद्विहतिरिह यतस्तत्प्रशान्तिश्च यस्माद् देयं यच्चाविशेषाद्दमनमपि यथालोकमत्रापि तत्स्यात्।।
3.2.31 शुद्धानन्दे तदित्थं शुभगुणजलधौ सत्यनित्यस्वदेहे देवीभूषायुधाद्यैरतिशयिनि कनद्भोगलीलाविभूतौ। शेषित्वाधारभावप्रभृतिबहुविधस्थास्नुसम्बन्धदीप्ते दृष्टिस्स्वर्गापवर्गप्रसवितरि हरौ निर्निमेषा श्रुतिर्नः।।
3.2.32 पादे स्वप्नार्थहेतुस्तदयमिह सुषुप्त्याढ़तिस्सुप्रगोप्ता मुग्धोद्बोधादि कर्ता त्वनघशुभगुणोऽचिद्भिरंशी स्वदेहैः। पारम्यस्यैकसीमा सकलफलद इत्युच्यते भक्तिभूम्ने सत्ये ह्येवं गुणादावथ परभजने रूपभेदादि चिन्त्यम्।।