अधिकरणसारावली
मुग्धाधिकरणम्
3.2.14 जाग्रत्स्वप्नौ न बाह्यावगमविरहितौ श्वासपूर्णा सुषुप्तिः तस्मान्मुग्धिरमृतिस्स्यात् प्रशमितकरणप्राणवर्गेति चेन्न। मृत्यादेरहेतुभेदात्स्थितिमृतिविशयादुत्थितेरानियत्यात् मर्तुं प्रक्रम्य मध्ये विरमति विधिनेत्यत्र तुर्यार्धभावः।।
3.2.15 जन्तूनां जागरादिस्थितिषु भवति यद्वैशसं दर्शितं तत् तत्तत्स्थानेषु योगेऽप्यनघशुभगुणं ब्रह्म संशोध्यतेऽत्र। संसर्गैक्यादिना परिहरति ततो दोषवर्गानुभाभ्यां हीनत्वौदार्यहानी परमपनयते नीतियुग्मेन नेतुः।।