अधिकरणसारावली
अनियमाधिकरणम्
3.3.35 पन्थास्स्यादर्चिरादिः फलमिह सकलब्रह्मविद्यासु मा वा प्रारभ्याधीतियोगात् प्रकरणनियता तस्य चिन्तेति चेन्न । सर्वासां तद्य इत्थं विदुरिति वचसात्राथ येचेति चोक्त्या मार्गे साधारणेऽस्मिंन्स्तदनुसरणतस्तद्वदेवास्य चिन्ता ।।
3.3.36 हेयोपादेयमार्गद्वितयमुपदिशन् मुक्तिदाता मुमुक्षोः योगी यः कश्चनैतत्सरणियुगलविन्मुह्यते नेत्यगायत् । तस्मादस्मादृशाधीत्यविशदविशदीकर्तृवाक्यावमर्शात् ब्रह्मप्राप्त्यर्हकृत्स्नप्रणिहितविहितं मार्गचिन्ताविधानम् ।।
3.3.37 हानादेरर्चिरादेरपि किमभिहितं चिन्तनं सूत्रकारैः विद्याङ्गत्वादिसिद्ध्यै यदि भवतु तदानन्तरे पाद एतत् । मैवं विद्याङ्गतायामपि भजनमिवेदञ्च धीत्वाविशेषात् कर्मादिभ्यो विभक्तं कथयितुमिह तत्सूत्रणं स्थानपाति ।।