अधिकरणसारावली
शरीरे भावाधिकरणम्
3.3.57 तत्कालाकारिणस्स्यादहमिति भजने कञ्चुकस्यात्मनो धीः आसत्तेर्मामुपास्स्वेत्युदितवदिति चेन्नान्यथा सन्निकर्षात् । शुद्धो ह्यात्मात्र साध्यः फलमतिरविनाभाविनी बोद्धृकृत्ये बुद्ध्यासन्नेऽन्तरङ्गे सति विधिनियता तत्क्रतुन्यायसिद्धिः ।।
3.3.58 कर्तुर्भोक्तृत्वमात्रं गणयितुमुचितं दृष्टभोगार्थयत्ने स्वर्गाद्यर्थेऽन्यदेहानुगतिरपि परं स्वाधिकारानुविद्धा । मुक्त्यर्थे प्राप्त्यवस्थाप्रणिधिकथनतस्तत्क्रतुन्यायवाचां तद्युक्तोपास्यरूपं विषय इति कुतोऽतिप्रसङ्गादिशङ्का ।।
3.3.59 विद्याभेदेषु वेद्याकृतिविषमतया यावदुक्तेऽपि चिन्त्ये प्राप्यं सर्वोपपन्नं खलु तदिह कथं प्राप्यचिन्तानिषेधः । तस्माद्बद्धस्य चिन्तास्त्विति न कलुषितो नह्यहंशब्दमुख्यः प्राजापत्यात्तु वाक्यादकलुषदशया भावनीयत्वसिद्धिः ।।