अधिकरणसारावली
अन्यथात्वाधिकरणम्
3.3.9 प्राग्वच्छाखाविभेदेऽप्युपशमितभिदा तादृगुद्गीथविद्या स्यादेका चोदनाद्यैस्तदसदुभयथा रूपभेदोपलब्धेः । गाता गेयश्च गेये सकलमसकल़ञ्चेति वैषम्यसिद्धौ शेषाभेदोऽप्यभेदं न गमयति भिदा त्वेकभेदेऽपि सिध्येत् ।।
3.3.10 छन्दोगोद्गीथशब्दस्तदवयवपरः प्रक्रमादिप्रसिद्धेः कृत्स््नोद्गीथाभिधायी प्रकरणनियमाभावतो वाजिनां स्यात् । उद््गीथोक्तिश्च नैषामुपचरितवती गातरि प्रक्रमस्था तत्कर्त्रा साधनीये द्विषदुपशमने तत्फलत्वोक्त्यबाधात् ।।
3.3.11 यद्यप्यब्रह्मविद्या परपरिभवनाद्यैहिकार्थप्रयुक्ता न ग्राह्या मोक्षशास्त्रे तदपि समतया तत्परीक्षेति केचित् । काम्या विद्याप्यनिष्टव्यपनयनमुखैर्ब्रह्मविद्योपयुक्तैः तत्तत्साध्यप्रभेदैर्भवति समुचितालोचनेत्याहुरन्ये ।।
3.3.12 अज्ञातब्रह्मतत्त्वः कथमिव विमृशेत् कुत्रचिद् ब्रह्मदृष्टिं तस्मात्तत्तादृशानां समुचितमगतेरत्र मीमांसनं स्यात् । आदध्युः कर्मणाञ्च स्वफलवितरणे वीर्यवत्त्वातिरेकं ब्रह्मध्यानार्थकर्मातिशयजननतः प्रस्तुतापेक्षितं तत् ।।