अधिकरणसारावली
समानाधिकरणम्
3.3.21 शाखैक्येऽध्येतृभेदो न भवति न गुणः कश्चिदन्यो विधेयः तस्मादुक्ताविशेषश्रवणमिह पुनः किं न विद्यां विभिन्द्यात् । मैवं यद्यप्यनूक्तिर्नतु गुणविधये कल्पतेऽस्यास्तथापि व्यक्त्यै सौकर्यतश्च व्यसनसमसनन्यायतस्त्वैक्यसिद्धेः ।।
3.3.22 छन्दोगैर्वाजिभिश्च स्फुटमनुपठिता भाति शाण्डिल्यविद्या भेदाभेदावमर्शस्त्विह किमिति न सन्दर्शितो भाष्यकारैः । तद्ब्रूमो यत्रयत्राधिकपरिपठनं तत्रतत्राधिकानां अन्तर्भावादियुक्तावधिकमनधिकं वेति साधारणोक्तेः ।।
3.3.23 स्थानद्वन्द्वे वशित्वप्रभृतिविरहिता वाजिभिस्तद्युता चा- धीता शाण्डिल्यविद्या तदिह भिदुरता कल्पनीयेति चेन्न । आरण्योक्तं वशित्वाद्यपि खलु विततिस्सत्यसङ्कल्पतायाः साधीताग्नेरहस्येऽप्यधिकविरहतो नात्र विद्यैक्यबाधः ।।