अधिकरणसारावली
कामाद्यधिकरणम्
3.3.44 आकाशं ताण्डिनस्तच्छयितमधिजगुर्वाजिनस्तेन विद्या भिद्येतात्रेति चेन्न द्विविध इह यतो ब्रह्मनिर्देश एषः । सर्वाधारत्वपूर्वैः परतरविषयस्सामगाकाशशब्दो विश्वेशाधारतोक्त्या सुषिरविषयतान्यत्र रूपं तु नान्यत् ।।
3.3.45 छन्दोगानामुपास्यं प्रथितमिह गुणैरष्टभिर्ब्रह्म जुष्टं तच्चान्येषां वशित्वप्रभृतिघटितमित्यस्तु रूपे तु भेदः । मैवं यत्तद्वशित्वाद्यपि तदिह भिदा सत्यसङ्कल्पतायाः इत्यैकार्थ्यं निरूढं परमपि दहरोपासनं तद्वदूह्यम् ।।
3.3.46 नन्वाकाशो गुणाद्यैः पर इति दहराधिक्रियायां पुरोक्तं तस्मान्नान्यार्थशङ्केत्यधिकरणमिदं नोज्जिहीतेति चेन्न । व्योमातीतं निमित्तं दहरमिदमुपादानमित्युद्गृणन्तः पूर्वं क्षिप्ताः प्रसङ्गात् पुनरपि गमिताश्छिन्नमूलत्वमत्र ।।