अधिकरणसारावली
शब्दादिभेदाधिकरणम्
3.3.63 सर्वासु ब्रह्म वेद्यं फलमपि खलु तद्ब्रह्मविद्येति चाख्या ध्यानाद्युक्त्येकलक्ष्ये विधिरपि भजने सर्वविद्यैक्यमित्थम् । तन्नाख्यारूपभेदात् तदुपहितविधौ तेन वैशिष्ट्यसिद्धेः मिश्रं मध्वादिविद्याफलमिह च पृथक्काम्यविद्यासु चैवम् ।।
3.3.64 नानाशब्दादिभेदादिति कथमवदत् सूत्रकृच्छब्दसाम्ये न ह्येते यागदानादय इव भिदुरा भक्तिविश्रान्तिसिद्धेः । सत्यं शब्दस्य भेदस्त्वयमुपचरितो रूपभेदद्रढिम्ने ज्ञानं ये चाविधेयं करणमिति जरतुस्तन्निरासेऽभिसन्धिः ।।
3.3.65 यद्वा शब्दादिभेदादिति तु कथयता सूत्रकारेण सम्यक् न्यासोपासे विभक्ते यजनहवनवच्छब्दभेदादभाक्तात् । आख्यारूपादिभेदश्श्रुत इतरसमः किञ्च भिन्नोऽधिकारः शीघ्रप्राप्त्यादिभिस्स्याज्जगुरिति च मधूपासनादौ व्यवस्थाम् ।।