अधिकरणसारावली
तन्निर्धारणानियमाधिकरणम्
3.3.47 उद्गीथादौ क्रियाङ्गे भजनमपि भवेत्पर्णताद्युक्तनीत्या कर्माङ्गं तत्फलोक्तिस्त्विह नुतिरिति गोदोहनन्यायभग्नम् । स्वर्गादीनां फलत्वं क्रतुषु तदधिके ह्यत्र वीर्यातिरेकः पर्णत्वादौ न वाक्यं वदति करणतां कर्म चाहानुपास्तौ ।।
3.3.48 उद्गीथे प्राणदृष्टौ क्रतुघटितफलादन्यदुक्तं फलं तत् स्वीकृत्य प्राग्विचारः स्थित इति विहतः पूर्वपक्षोऽत्र मैवम् । अत्रत्येऽनङ्गभावे स्थितनिहितधियस्तत्र विद्यैक्यशङ्का त्यक्त्वाङ्गानङ्गभावौ पृथगपृथगिति स्याच्च पूर्वत्र चिन्ता ।।