अधिकरणसारावली
सर्वाभेदाधिकरणम्
3.3.13 ज्यैष्ठ्यश्रैष्ठ्यादिसाम्ये क्वचन समधिकं भाति वासिष्ठ्यपूर्वं तेनेत्थं रूपभेदाद्बहुनिगमगता भिद्यतां प्राणविद्या । मैवं वागादितत्तद्गुणपरवशतावर्णनस्याविशेषात् वागाद्यैस्स्वस्वधर्मोपचरणमकृतं तावता स्यान्न भेदः ।।