अधिकरणसारावली
सम्बन्धाधिकरणम्
3.3.24 अक्ष्यादित्योपलक्ष्ये भगवति भजनं चोदनादेरभेदात् एकं स्यात् तेन नाम्नोरनियतिरिति न स्थानतो रूपभेदात् । स्थानं तत्स्थत्वबुद्ध्यै ह्युपदिशति न चेत् स्यान्न रूपातिदेशः तस्मादर्काक्षिय़ोगादहरहमिति तन्नामनी स्थापनीये ।।