अधिकरणसारावली
साम्परायाधिकरणम्
3.3.33 कर्मोद्धूतिर्मुमुक्षोः क्वचिदुपनिषदि श्रूयते साम्पराये मार्गेऽन्यस्यां द्विधैवं शकलश इह तच्चिन्तनञ्चास्तु मा भूत् । नह्युक्तं कर्मसाध्यं पथि फलमथ गत्यर्थदेहानुवृत्तिं मुक्त्यै विद्यैव कुर्यादघहतिवचने पाठतोऽर्थो बलीयान् ।।
3.3.34 निश्शेषं कर्म नश्येदिह यदि विदुषस्स्थूलदेहान्तमात्रे विश्राम्येत् तस्य तावच्चिरमिति हि वचो नार्थँवत्त्वं गतेस्स्यात् । गत्वा सम्पद्य चाविर्भवनमिति न संबोभवीतीत्ययुक्तं स्याद्धीसङ्कोचमात्रस्थितिकृदनुगतस्सूक्ष्मसंस्कारयोगः ।।