अधिकरणसारावली
शमदमाद्यधिकरणम्
3.4.16 यज्ञादिव्यापृतत्वादनिभृतकरणे सर्वकालं गृहस्थे शान्त्यादीनामयोगात्तदितरविषयास्ते गुणा इत्ययुक्तम् । प्रव्रज्यादिस्थितानामपि तदुपधिकानेकधर्मप्रवृत्तेः तत्सर्वं सह्यते चेत्सह तदपि फलाद्युज्झनञ्चात्र तुल्यम् ।।
3.4.17 प्रज्ञातस्वापराधाः प्रभुमनुतपने लोकसिद्धैरुपायैः आत्मार्हैरर्चयन्तः क्रमशमितरुषस्तस्य सेवां लभन्ते । इत्थं नश्शास्त्रसिद्धैरिदमनिदमिति स्वाधिकारैर्विभक्तै- निष्प्रत्यूहः प्रसादो निरुपधिसुहृदश्श्रीधरस्स्याधिगम्यः ।।