अधिकरणसारावली
सहकार्यन्तराधिकरणम्
3.4.26 मन्तव्यत्वे श्रुते सत्यथ मुनिरिति वागस्तु तस्यानुवादः कश्चिन्न ह्यत्र दृष्टो विधिरिति पुरः पण्डितत्वस्य लब्धेः । ऊहापोहार्हता हि श्रवणमननतोऽनन्तरं पण्डितत्वं मौनख्यातिः प्रकृष्टे मनन इति विभौ धारणाद्युक्तिरेषा ।।