अधिकरणसारावली
आदित्यादिमत्यधिकरणम्
4.1.20 तादर्थ्याद् देवतानां फलकरणतया कर्मणश्चोदितत्वात् आदित्यादौ निकृष्टात्मनि भवतु समुत्कृष्टकर्माङ्गदृष्टिः। मैवं कर्म प्रधानं विहितमपि यतस्तत्समाराधनं तत् तत्प्रीता देवतैव प्रदिशति फलमित्यर्थतस्सा प्रधानम्।।
4.1.21 अन्यस्मिन्नन्यदृष्टेरविधिरिह घटतामन्यथाख्यातिपक्षे याथार्थ्यं सर्वबोधानुगतमिति मते युज्यते नान्यदृष्टिः। तन्नात्राद्ये हि न स्याद् विमतिरविमता भ्रान्तिनीतिः परस्मिन् तादृग्भेदाग्रहोपप्लुतमतियुगलस्थापनायां नियोगात्।।
4.1.22 द्रष्टव्यापह्नवे न भ्रमदनुविहिता दृष्टिरद्वैतमोहः स्यादुत्कृष्टापराधस्तत इह विहिता तादृशत्वस्य दृष्टिः। तादृग्दृष्टौ न दोषस्तत इति कतिचित्तार्क्ष्यदृष्ट्यादिनीत्या द्वेधान्यत्रान्यदृष्टिर्न किमनधिगता व्यक्तितो जातितश्च।।
4.1.23 मुख्यं ब्रह्मैकमेवेत्यवहितमनसां ब्रह्मदृष्टिः कथं स्यात् एकत्वेनेति केचिन्नहि बलिनि विधौ शङ्कनीयोऽपराधः। स्वेच्छापूर्वद्विचन्द्रभ्रमवदिह भिदाकल्पनामाहुरन्ये बम्भ्रम्यन्ते यथा च श्रुतिषु बहुविधं ब्रह्म भातीति बालाः।।