अधिकरणसारावली
इतराधिकरणम्
4.1.33 धर्मस्याश्लेषनाशौ न हि परभजनानुग्रहेणोपपन्नौ तस्याघत्वप्रसङ्गाच्छ्रुतिरपि च परं पापनिर्मुक्तिमाह। भोगैस्तत्पुण्यनाशोऽस्त्विति यदि न यतः काम्यमप्यस्य पापं तस्मिंस्तल्लक्ष्मसिद्धेर्न सुकृतमिति च श्रूयते पाप्मतास्य।।
4.1.34 पुण्यं विद्यानुकूलं यदिह सफलता तस्य विद्याप्रदत्वात् तस्यां यन्नोपयुक्तं तदपि दुरितवद् बन्धकत्वेन वार्यम्। कारागारोपरुद्धे निगलयुगलतस्सार्वभौमस्य भृत्ये हैमं कार्ष्णायसञ्च प्रसदनसमये भञ्जनीयं सहैव।।
4.1.35 काम्यं नेच्छेद्विरक्तो यदि किल कुरुते रागयोगात् फले तत् नाधीपूर्वञ्च काम्यं किमपि नच दिशेद्बन्धमज्ञातधर्मः। विद्यार्थैर्लुप्यतेऽतः किमितरदिति चेन्नाधिकैस्सान्तरायैः अन्यार्थैर्मोहजैः क्वाप्यनुतपनवतो बन्धुजैश्चास्त्वलेपः।।