अन्तरधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥

अन्तरधिकरणम् ॥७॥

जगत्कारणम् वस्तु ईक्षणश्रवणात् *तत्त्वमसी*(छान्.६-(८-१६)) त्युप-सम्हाराच्च मा भूत्प्रधानम् मा भूच्चजीवसामान्यम् ततो भेदनिर्देशात् । तथाप्युपचितपुण्यविशेषाणाम् ब्रह्मादीनाम् विश्वामित्रा-दीनामृषीणाम् वा मध्ये यःकश्चित् जीवविशेष: कल्पभेदेन स्यात्, तत्र आनन्दवल्ल्युक्तजीव- सामान्यव्यावर्तकसकलमहिमोपपत्तेरिति शङ्कायाम् एतदधिकरणोत्थानम् ।
द्विर्देवताविषयकवाक्यमुदाह्रियते *अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते*(छान्.१-६-६) । आदित्यमण्डलस्यान्तः हिरण्मयः रमणीयः यो योगिभिर्दृश्यत इत्यर्थः। *हिरण्मय इति रूपसामान्यात् चन्द्रमुखवदि* (वाक्यग्रन्थः (ब्रह्मनन्दी टङकः))ति वाक्यकारः । ततश्च हिरण्मय-शब्दस्य न मुख्यार्थो ग्राह्य इति वाक्यकाराभि- प्रायः । ततश्च हिरण्मय-त्वमुज्वलत्वमित्यर्थः । ततश्च नीलतोयददेह-स्यापि हिरण्मयत्वे नानु-पपत्तिः । यद्वा – *कचिन्न तद्धेमसमानवर्णम् तस्याननमि*(रामा. सुन्. ३६-२८)ति रामायणप्रयोगात्, *यदा पश्य: पश्यते रुक्मवर्णमि*(मुण्ड.३-१-३)ति श्रुतेश्च, नीलतोयददेहस्यापि रुक्मवर्णत्वम् सम्भवति । तत्र हेतुश्च सम्प्रदायगम्यः । *हिरण्यश्मश्रु-र्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः* (छान्.१-६-७) रमणीयश्मश्रुकेशः- रमणीयसर्वावयव इत्यर्थः ।
*तस्य यथा कप्यासम् पुण्डरीकमेवमेवाक्षिणी*(छान्.१-६-७) कम् पिबतीति कपिः – आदित्यः तेन अस्यते क्षिप्यते विकास्यत इति कप्यासम् । तथाऽऽह वाक्यकारः – *आदित्यक्षिप्तम् वा श्रीमत्त्वादि* (वाक्यम् (ब्रह्मनन्दी)) ति । यद्वा – कम् पिबतीति कपिः – नाळः तस्मि-न्नास्त इति कप्यासम् । उपचितपङ्कजात् नाळस्थस्य पङ्कजस्य शोभातिशयशालित्वात् तादृशमिह विवक्षितम् । यद्वा-कम्-जलम् *आस उपवेशन*(धातु पाठः) इति धातुरपिपूर्वकः । *वष्टिवागुरिरल्लोप* मित्यकारलोपः । के जले अप्यास्त इति कप्यासम् सलिलस्थमित्यर्थः । एवमर्थत्रयस्याप्युपपन्नतया वाक्यकारेण सिद्धान्तितत्वमभिप्रेत्य मर्कट- जघनसदृश पुण्डरीकसादृश्याद्यर्थान्तरम् अश्लीलत्वादिदोषदुष्टतया तदनभिमतमित्यनादृत्य भगवता भाष्यकृता * गम्भीराम्भस्समुद्भूत-सुमृष्टनाळरविकरविकसित-पुण्डरीकदळामलायतेक्षण*(श्री भाष्यम् अतरधिकरणम्) इत्यभिहितम् । यद्यपि अमरकोशे- *पुण्डरीकम् सिता-म्भोजमि*(अमरकोश वारिवर्गः) त्यनुशिष्टम् । तथाऽपि शबरस्वामिना नवमाध्याये – *दर्भैस्तृणीत हरितै*(शाबर भाष्यम् ९ अध्यायः)रिति मन्त्रस्य दर्भपदस्थाने पुण्डरीकपदम् हरितपदस्थाने रक्तपदमूहितव्यमित्युक्तत्वात्, रक्ताम्भोजमेव पुण्डरीकमिति द्रष्टव्यम् ।
*तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः*(छान्.१-६-७) । सर्वपापोद्गतत्वात् उन्नामकत्वमित्यर्थः । पापशब्दश्च पुण्वपापरूपोभय-कर्मपरः । परमात्मप्रकरणेषु *नैतम् सेतुमि*(छान्.८-४-१)त्युपक्रम्य *न सुकृतम् न दुष्कृतम् सर्वे पाप्मानोऽतो निवर्तन्त* (छान्. ८-४-१) इति सुकृतेऽपि पापशब्दप्रयोगात्, *पाप्मान: सकलजरामृत्युशोकादयस्सङ्ख्या- तत्वादि*(वाक्यकारवचनम्(ब्रह्म नन्दी))ति वाक्यकारवचनात्, अलौकि-कत्वे सति अनिष्टफलसाघनत्वरूपप्रवृत्तिनिमित्तयोगात् पुण्यस्यापि पाप-शब्दाभिधेयत्वोपपत्तेः । मुमुक्ष्वपेक्षया स्वर्गादीनामप्यनिष्टत्वात् । *एते वै निरयास्तात स्थानस्य परमात्मन*(वि.पु.) इति स्मरणात् । सर्व- पापोदितत्वन्नाम कर्मवश्यतागन्धराहित्यमिति फलितोऽर्थः । कृता-नामपि कर्मणाम् फलजननशक्तिप्रतिभटलक्षणः कश्चिदीश्वरस्वभावविशेष: अपहतपाप्मत्वाख्यः सर्वपापोदितशब्दार्थ इति द्रष्टव्यम् । एवम् नाम-विशिष्टज्ञानस्य फलमाह – *उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवम् वेद तस्य ऋक्च साम च गेष्णौ*(छान्.१-६-७) ।अग्नीन्द्रादिप्रतिपादक-ऋक्सामगेयत्वोक्त्या सर्वात्मकत्वमुक्तम् भवति । *स एष ये चामुष्मा-त्पराञ्चो लोकास्तेषाञ्चेष्टे*(छान्.१-६-८) । स एष हिरण्मयः पुरुषः  आदित्यमण्डलोर्ध्ववर्तिलोकानाम् देवभोग्यभोगोपकरणभोगस्थानानाञ्च नियन्तेत्यर्थः ।
*अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैव ऋक् तत्साम तदुक्थम् तद्यजुस्तद् ब्रह्म*(छान्.१-७-५) । स एव ऋग्यजुस्सामात्मा उक्थादिश-स्त्रात्मा ब्रह्म चेत्यर्थः । *तस्यैतस्य तदेव रूपम् यद-मुष्यरूपम् यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम*(छान्.१-७-५) । एतस्य अक्ष्यन्तर्वर्तिनः आदित्यान्तर्वर्तिनो यानि हिरण्मयत्व-उन्नाम- कत्वऋक्सामगेष्णत्वानि तानि सर्वाणि भवन्तीत्यर्थः । *स एष ये चैतस्मादर्वाञ्चो लोकास्तेषाञ्चेष्टे मनुष्यकामानाञ्चेति*(छान्.१-७-६) । एतस्मादक्षिस्थानादधोवर्तिनाम् लोकानाम् मनुष्यभोग्यादीनाम् च नियन्ते- त्यर्थः । “तद्य इमे वीणायाम् गायन्ति एतम् ते गायन्ति तस्मात्ते धनसनयः*(छान्.१-७-६) – स्पष्टोऽर्थः । तस्यैवम् विदः फलमुच्यते – ” स एष ये चामुष्मात्पराञ्चोलोकस्ताम् श्चाप्नोति देवकामाम् श्च अथानेनैव ये चैतस्मादर्वाञ्चो लोकाम् स्ताम् श्चाप्नोति मनुष्यकामाम् श्च *(छान्.१-७-६,७) -स विद्वान् अमुनैव उपासितेन तदुपासनाविशिष्टः एष तदूर्ध्वलोकान् देवकामाम् श्चाप्नोति । अक्ष्यन्तर्वर्तिनः मनुष्यलोकाधस्तनलोकान् मनुष्यकामाम् श्चाप्नोति । चक्षुरादित्यस्थानवर्ति-परमात्मोपासनया सर्व-लोकावाप्तिर्भवतीत्यर्थः । एवमधिकरणविषय-विचारोपयुक्तानि वाक्यानि लिखितानि ।
अत्र अन्तरादित्ये अन्तरक्षिणि घ वर्तमानत्वेन श्रुतः पुरुषो जीव एव । *हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्ण(छान्.१-६-६) इति शरीरसम्बन्धश्रवणात् शरीरत्वस्वैव कर्मजन्यतावच्छेदकत्वेन कर्मा-जन्यशरीरासम्भवात् प्रक्रमश्रुतेन शरीरत्वेन लिङ्गेन जीवत्वे निश्चिते
औपसम्हारिकसर्वपापोदितत्वमापेक्षिकम् नेतव्यमिति पूर्वपक्षे प्राप्त उच्यते –

अन्तस्तद्धर्मोपदेशात् ॥ १-१-२१ ॥

आदित्याक्ष्यन्तर्वर्ती पुरुषः परमात्मैव परमात्मधर्मोपदेशात् । कर्म-वश्यतागन्धराहित्यलक्षणम् नित्याविर्भूतम् सर्वपाप्मोदितत्वम् न परमा-त्मनोऽन्यत्र सम्भवति । तच्च चरमश्रुतमपि *उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवम् वेदे*(छान्.१-६-७)ति फलरूपतात्पर्यलिङ्गात् प्रबलम्। तथा ऋक्सामगेयत्वाक्षिप्तम् *सैवर्क्ततत्सामे*(छान्.१-७-५)ति वाक्यश्रुतञ्च सार्वात्म्यम् परमात्मधर्मः । तथा अक्ष्यादित्यवर्त्येक पुरुषगतो र्ध्वाधो-वर्तिलोककामेश्वरत्वरूपनिरङ्कुशसर्वकामेश्वरत्वमपि, *सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्ताम्श्चा प्नोति देवकामाम्श्च । अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताम्श्चाप्नोति मनुष्यकामाम्श्चे*(छान्.१-७-७)ति वाक्यशेषप्रतिपन्नफलरूप तात्पर्यलिङ्गानुगृहीतत्वात् प्रबलम् । अतः प्रबलैः परमात्मलिङ्गैः परमा-त्मत्वे निर्णीते *अजायमानो बहुधा विजायते* ((पुरुषसूक्तम्) तै.आर. ३-२१) *अजोऽपि सन्नव्ययात्मा भूताना-मीश्वरोऽपि सन् । प्रकृतिम् स्वा-मधिष्ठाया सम्भवाम्यात्ममायया । परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् । धर्मसम्स्थापनार्थाय सम्भवामि युगे युगे*(गी.४-६-८) ॥ *इच्छागृहीताभिमतोरुदेह*(वि.पु.६-५-८४) इति श्रुतिस्मृत्यनुसारेण अज- हत्स्वभावस्यैव परमात्मनः माया-शब्दितसङ्कल्पमात्रेण उपासकपरित्राणाय  अप्राकृतदिव्यविग्रहपरिग्रहो-पपत्तिः । एतेन नित्यसर्वज्ञस्य सर्वशक्ते: ज्ञानार्थम् प्रवृत्त्यर्थम् वा करणानपेक्षणात्, आत्मानन्दतृप्तस्य विग्रहे-प्साऽसम्भवाच्च, विग्रहो न सम्भवतीति शङ्का प्रत्युक्ता । करणानपेक्ष- ज्ञानक्रियस्यापि परमात्मनः उपासकानुग्रहार्थम् भोगार्थम् च विग्रह-स्वीकारोपपत्तेः प्रभूतानन्दानामपि आनन्दान्तरापेक्षादर्शनेन निरतिशयानन्दस्यापिहृ ब्रह्मणः प्रीतिविशेषा-पेक्षासम्भवात् । न च विग्रहस्य भोग्यत्ववैकल्यम् शङ्क्यम् । स्वसम्बन्धिभोग्यत्वस्य स्वभोग्यत्वाति-शयावहत्वेत तद्वैकल्यावहत्वा-भावात् । तत्र च *समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्व-रूपवैरूपम् रूपमन्यद्वरेर्महृत् ।। समस्तशक्ति-रूपाणि तत्करोति जनेश्वर* । नित्यालिङ्गयास्वभावासिद्धिरिन्द्रियाकारा अङ्गप्रत्यङ्गव्यञ्जनवती* (व.पु.६-७-१०,११) *उज्जहारात्मनः केशौ सितकृष्णौ *, *अम्शा- म्शेनावतीर्योर्व्यामि* त्यादिप्रमाणात् नित्यस्यापि विग्रहस्य अशिथिलसम्स्थानस्यैव अप्राकृतानन्तावतारहेतुत्वमुपपद्यते । चतुर्मुख-देहस्य सम्स्थानाशैथिल्येऽपि अनेकदेहोत्पादकत्वदर्शनात् । न चैता-दृशविग्रहस्य आरोपितत्वम् वक्तुम् शक्यम् । *यदा पश्यः पश्यते रुक्मवर्णमि*(मुण्ड.३-१-३)ति प्रकरणे *मनसा तु विशुद्धेने*(व्यासस्मृतिः) ति रुक्मवर्णविग्रहविशिष्टस्य विशुद्धमनोग्राह्यत्वोक्तेः । नह्यारोपिताकारस्य विशुद्धमनोग्राह्यत्वम् सम्भवति । *ईक्षतिकर्म व्यपदेशादि* (ब्र.सू.१-३-१२) त्यत्रेक्षणस्य परमात्मविषयत्वम् वक्तव्यम् परैरपि । *आदित्यवर्णम् तमसः परस्तादि*(का २-२९, पुरुषसूक्तम् २०)ति तमः पारवर्तिन आदित्य-वर्णविग्रहविशिष्टत्वाभिधानेन कल्पितत्वाप्रसक्तेः । न हि कल्पितस्य तमःपारवर्तित्वम् सम्भवति । ततश्च उपासकानु-ग्रहार्थम् स्वेच्छासृष्टा-प्राकृतशरीरसम्बन्धस्य प्रमाणसिद्धस्य परमात्मनि सत्वात् न हिरण्मय-विग्रहसम्बन्धानुपपत्तिः परमात्मनः । अत: अक्ष्या-दित्यान्तर्वर्ती परमात्मा ।

ननु आदित्यपुरुषादन्यः परमात्मा नास्तीत्यत्राह-

भेदव्यपदेशाच्चान्यः ॥ १-१-२२ ॥

*य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद*(बृह.३-७-९)त्यादिना आदित्यादिपुरुषावेद्यस्य तन्नियन्तुः परमात्मनोऽन्यस्य प्रमाणसिद्धत्वात् तद्व्यतिरिक्तो नास्तीति न शङ्कयम् । न च नित्य- मुक्तव्यतिरिक्तः परमात्मा नास्तीत्यपि वक्तुम् शक्यम् । *य आत्मनि तिष्ठन्नि*(बृह.५-७-२२)तिपर्याये परिशुद्धमुक्तात्मभ्योऽपि भेदप्रतिपादनात्। अतोऽन्तरादित्ये विद्यमानः परमात्मेति स्थितम् ।।

इति अन्तरधिकरणम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.