॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥
आनन्दमयाधिकरणम् ॥६॥
यदि सतो मुख्यमीक्षणम् वाच्यम् तर्हि चेतनत्वान्मुख्येक्षणार्हो जीव एव जगत्कारणमस्त्विति पूर्वपक्षोत्थानादवान्तरसङ्गतिः ।
तैत्तरीये आनन्दवल्ली विषयवाक्यतया प्रस्तूयते – *ब्रह्मविदाप्नोति परम्*(तै.आन.१) । निरतिशयबृहत्वाश्रयवस्तूपासकः सर्वेभ्यः उत्कृष्टम् प्राप्नोतीत्यर्थः । वेदनोपासन शब्दानामेकार्थत्वात्ब्रह्मविदित्यत्र विच्छ-ब्दोऽप्युपासनपरः । तत्क्रतुन्यायेन प्राप्यस्यैव उपास्यत्वात् ब्रह्मणः
प्राप्यत्वकथनात् तस्यैव उपास्यत्वमिति द्रष्टव्यम्। अत्र ब्रह्म – तद्वेदनम् – प्राप्तिः प्राप्यञ्चेति चतुष्टयमुक्तम् । किम् तद्ब्रह्म कीदृशम् तद्वेदनम् -कीदृशी प्राप्ति:- कीदृशम् च प्राप्यमित्याकाङ्क्षायाम् मन्त्रमुखेन विवरी-तुम् मन्त्रमवतारयति । *तदेषाभ्युक्ता*(तै.आन.१) । तत्-ब्रह्म अभिमुखी-कृत्य एषा – ऋक् अध्येतृभिरुक्ता । जन्मादिसूत्रे *यतो वा इमानी* (तै. भृगु.१)त्यादिकारणवाक्येन प्रतिपन्नम् जगज्जन्मादिकारणस्य ब्रह्मणः सकलेतरव्यावृत्तम् स्वरूपमभिधीयते । *सत्यम् ज्ञानमनन्तम् ब्रह्मे* (तै. आन.१)ति । तत्र सत्यपदम् निरुपाधिकसत्तायोगि ब्रह्माह तेन विकारा-स्पदमचेतनम् तत्सम्सृष्टश्चेतनश्च व्यावृत्तः । नामान्तरभजनार्हावस्थान्त- रयोगेन निरुपाधिकसत्तारहितत्वात् । ज्ञानपदम् नित्यासङ्कुचितज्ञानैका-कारमाह । तेन कदाचित् सङ्कुचित्तज्ञानत्वेन मुक्ता व्यावृत्ताः । अनन्त-पदम् देशकालवस्तुपरिच्छेदरहितम् स्वरूपमाह । सगुणत्वात् स्वरूपस्य स्वरूपेण गुणैश्चानत्यम् तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणः सातिशय-स्वरूपस्वगुणाः नित्या व्यावृत्ताः । विशेषणानाम् व्यावर्तकत्वात् ।
नन्वत्र ज्ञानपदस्य विषयावगाहिज्ञानपरत्वम् प्रवृत्तिनिमित्तम् चेत् स्वरूपस्यातादृक्त्वात् ज्ञानमित्यस्य ज्ञानगुणकमित्यर्थः पर्यवस्येत्, न तु स्वरूपस्य ज्ञानत्वम् । प्रकाशतारूपज्ञानत्वम् प्रवृत्तिनिमित्तम् चेत् स्वरूप-स्य ज्ञानत्वमात्रम् सिध्येत्, न तु ज्ञानगुणकत्वम् । न चेष्टापत्ति: *प्राज्ञ-वदिति*(ब्रसू.२-३-२९) सूत्रे *ब्रह्मणो ज्ञानगुणसारत्वात् ज्ञानमिति व्यपदेश * इति भाष्यम् विरुध्येतेति चेदुच्यते । स्वप्रकाशत्वमेव प्रवृत्तिनिमित्तम् तत्र ज्ञानत्वाश्रयत्वमसङ्कोचितम् स्वरूपतो गुणतश्च सिध्यति, यथा ब्रह्मशब्दात् प्रतीयमानम् बृहत्त्वम् । वस्तुतस्तु ज्ञानमित्यस्यान्तो-दात्तत्वादर्श आद्यजन्तत्वेन ज्ञानगुणकत्वमेवार्थः । *प्रज्ञानघन एव आनन्दमय*(नृसिम्हता उ.८-६) इति श्रुत्यन्तरात् ब्रह्मणो ज्ञानस्वरूपत्व-
मप्यस्तीति द्रष्टव्यम् ।
*इहेदम् नान्यत्रे*ति परिच्छेदयोग्यत्वम् देशपरिच्छेदः, *इदमिदानीम् नान्यदे*ति परिच्छेदयोग्यत्वम् कालपरिच्छेदः, *इदमिदन्ने*ति परिच्छेद-योग्यत्वम् वस्तुपरिच्छेदः, तदनर्हत्वलक्षणसर्ववस्तुसामानाधिकरण्यार्हत्व- रूपम् वस्त्वपरिच्छेदः । यद्वा – वस्तुस्वभावतः परिच्छेदः वस्तुपरिच्छेदः, यथा तुल्यकालत्वेऽपि तुल्यपरिमाणत्वेऽपि दशवर्णस्वर्णापेक्षया कलधौता- देरपकर्षः तद्राहित्यम् वस्त्वपरिच्छेदः । समाभ्यधिकराहित्यनिदानभूतो गुणैर्निरतिशयप्रकर्षो वस्त्वपरिच्छेदः एतैस्सर्वैः परिच्छेदैः रहितम् *नान्तम् गुणानाम् गच्छन्ति तेनानन्तोऽयमुच्यत*(वि.पु.) इति स्मर- णात् । गुणानत्यञ्चानन्तशब्दार्थः । अत्र रूढिवशाद्देवताविशेषनिर्णयः, द्वितीयान्तपुल्लिङ्गत्वसम्भवात् । द्वितीयान्तत्वाभावे च *यो वेदे*(तै. आन.१)त्यत्र तच्छब्दाध्याहार प्रसङ्गात् । यदि वा अनन्तपदयौगि-कार्थस्य उक्तसकलपरिच्छेदराहित्यस्य नारायणादन्यत्राप्रसक्त्या श्रीपत्या-दिशब्देष्विव न रूढिराश्रीयते, तत्रापि न नः क्षतिः । एवम् च एतादृशनारायणम् हृदयगुहानिहितत्वप्रकारेण यो वेद स सर्वान्कामान्
सह ब्रह्मणा विपश्चिता अश्रुत इति मन्त्रार्थः । काम्यन्त इति कामाः कल्याणगुणाः, मुक्तस्य सर्वविषयविरक्तस्य तद्व्यतिरिक्तकाम्या-न्तरासम्भवात् । *अथ य इहात्मानमनुविद्य व्रजन्त्येतान्स सत्यान्का- मानि*(छान्.८-१-६)त्यादौ कामशब्दस्य कल्याणगुणेष्वेव प्रयोगात् । विविधम् पश्यन्ती चिद्यस्येति बहुव्रीहिः निरुपाधिकानन्याधीनासङ्कु-चितसर्वविषयज्ञानकत्वम् हि विपश्चित्त्वम् । अयम् च गुणःनित्यमुक्त-व्यावर्तकः । ब्रह्मापेक्षयाऽपि तद्गुणानाम् फलदशायाम् प्राधान्यम् प्रतिपादयितुम् *ब्रह्मणा सहे*(तै.आन.१)ति निर्देशः । *सहयुक्तेऽप्रधाने* (अष्टा २-३-१९)इति पाणिनिस्मृतिः । न च *पुत्रेण सहौदनम् भुङ्क्त* इतिवत् भोक्तृसाहित्यपरत्वे ब्रह्मण: अप्राधान्यप्रसङ्ग इति वाच्यम्। *पयसा सह ओदनम् भुङ्क्त* इति भोग्यसाहित्यस्य विवक्षि-तत्वात्, परमात्मापेक्षयाऽपि कल्याणगुणानाम् भोग्यतातिशयपर्यवसायि- त्वेन एतादृशप्राधान्यस्य गुणत्वेन दोषाभावात् । इतिशब्दो मन्त्रसमाप्ति-द्योतनार्थः । मन्त्रोक्तम् वस्त्वपरिच्छेदलक्षणमानन्त्यम् सर्वोपादानत्व-सर्वान्तरत्वमुखेन प्रपञ्चयति – *तस्माद्वा एतस्मादि*(तै.आन.१) त्यादिना । तस्मात् – व्यवहितब्राह्मणोक्तात् । एतस्मात् – अव्यवहित-मन्त्रोक्तात् । अत्र *तत्तेज ऐक्षत*(छान्.६-२-३), *ता आप एक्षन्ते*(छान्. ६-२-४)ति तेज:प्रभृतिष्वीक्षणादिश्रवणात् आकाशवायुतेज आदिशब्दास्त-च्छरीरक-परमात्मपरा इति *तेजोऽतस्तथाह्याहे*(ब्र.सू.२-३-१०)त्यधि-करणे स्थितम् । *ओषधीभ्योऽन्नम् अन्नात् पुरुष*(तै.आन.१) इत्यादि। पुरुष: शरीर-मित्यर्थः शिष्टम् स्पष्टम् । *स वा एष पुरुषोऽन्नरसमयः*(तै. आन.१)। अयम् देहः अन्नरसपरिणाम: जाठराग्निपच्यमानान्नरसाम्श- निर्वर्त्यमाम्सादिमयत्वात् शरीरस्येति भावः । इदम् प्रत्यक्षतो दृश्यमान-मेव शिरः । *अयमात्मा*(तै.आन.१) अयम् मध्यमो देहभागः आत्मा धारकत्वेन प्रधानभूत इत्यर्थः । *मध्यम् ह्येषामङ्गानामात्मे* ति श्रुतेः । पुरुषशब्दितपाण्यादेः पक्षत्वादिरूपणम् प्रतिपत्ति- सौकर्यार्थमिति द्रष्टव्यम् । *तदप्येष श्लोको भवति*(तै.आन.१) उपपादित एवार्थे ब्राह्मणोक्तः अयम् मन्त्ररूपः श्लोको भवतीत्यर्थः ।
*अन्नाद्वै प्रजाः प्रजायन्त*(तै.आन.२)इत्यादि स्पष्टोऽर्थः । ब्रह्म-दृष्टिहेतुभूतम् ब्रह्मसाम्यमाह *अन्नम् हि भूतानामि*(तै.आन.२)त्यादिना । *येऽन्नम् ब्रह्मोपासते*(तै.आन.२) अन्ने ब्रह्मदृष्टिम् कुर्वन्ति । एवमाका-शादेरन्नमयशब्दितस्थूलशरीरपर्यन्तस्य ब्रह्मैवात्मा उपादानम् चेत्युक्त्वा स्थूलात्मा क इत्यपेक्षायाम् आनन्दमय एव स आत्मेति दर्शयितुम् स्थूलारुन्धतीन्यायेन प्रदर्शयति – *तस्माद्वा एतस्मादन्नरसमयात् ।
अन्योऽन्तर आत्मा प्राणमयः*(तै.आन.२) । देहान्तर्वर्ती देहादन्यः यः स एव *आत्मन आकाशस्सम्भूत*(तै.आन.२)इति आकाशादिसर्वोपादानत्वेन प्राणनप्रचुरत्वात् प्राणमयत्वम् । सर्वदेहार्न्तवर्ती देहादन्यः। शिष्टम्
स्पष्टम् । *तस्यैष एव शारीर आत्मा, यःपूर्वस्य*(तै.आन.२) । पूर्वस्य अन्नमयस्य य आत्मा एष एव तस्य प्राणमयस्याप्यात्मेत्यर्थः । शारीरः शरीतिसम्बन्ध्यात्मा । ततश्च अन्नमयप्राणमयावेकात्मानौ, नत्व-न्नमयस्य प्राणमय आत्मेत्यर्थः । *तस्य यजुरेव शिरः*(तै.आन.३)
*मनोमय*(तै.आन.३) इत्यत्र प्राचुर्यार्थे मयट् मनोबुद्ध्यहङ्कार- चित्ताख्यान्तः करणवृत्तिषु मनोवृत्तेः प्रचुरत्वात् । *अप्राप्य मनसा सह *(तै.आन-४) । यस्मात् ब्रह्मानन्दात् वाङ्मनसे इयत्तालक्षणम् पारमप्राप्य
निवर्तेते तादृशब्रह्मानन्दस्य *दृश्यते त्वग्र्याया बुद्ध्या*(कठ.१-३-१२), *मनसा तु विशुद्धेने*(व्यासस्मृतिः)त्युक्तरीत्या विशुद्धमनोगोचरत्वप्रतिपा-दकत्वादस्य श्लोकस्य मनोविषयत्वमस्तीति द्रष्टव्यम्। विज्ञानमयो जीवः; न बुद्धिमात्रम् मयट्प्रत्ययव्यतिरेकप्रतीतेः । अत्र श्रद्धाऋत-सत्यशब्दा ज्ञानविशेषपराः । *योग आत्मा*(तै.आन.२-४) *ओमित्या-त्मानम् युञ्जीते*(तै.महाना.७.९) ति विहितो ज्ञानविशेषो योगः । योगविरोधिनिरसनसामर्थ्यलक्षणम् *महः पुच्छमि*(तै.आन.४) त्यर्थः ।
*विज्ञानम् यज्ञम् तनुते*(तै.आन.५) । अत्र विज्ञानमयशब्द-निर्दिष्टो जीवः विज्ञानशब्देनोच्यते । आत्मस्वरूपस्य स्वप्रकाशतया ज्ञानैकनिरूपणीयत्वेन च विज्ञानशब्देनाभिधानसम्भवात् । *कृत्य-ल्युटो बहुळमि*(अष्टा.३-३-११३)ति वा जानातीत्यर्थे ल्युडाश्रीयते । *नन्दिग्रहीत्या*(अष्टा.३-१-१३४)दिना नन्द्यादित्वम् वाऽऽश्रित्य *कर्तरि ल्युडा* श्रीयते । केवलविज्ञानमात्रपरामर्शे *विज्ञानम् यज्ञम् तनुते । कर्माणि तनुतेऽपि चे*(तै.आन.५)ति प्रतिपादित-वैदिकलौकिकर्मकर्तृत्वासम्भवात् । *य आत्मनि तिष्ठन्नि*(बृह.५-७-२२)त्यादिमाध्यन्दिनपाठगतात्मस्थाने *यो विज्ञाने तिष्ठन्नि*(बृह.५-७-२२)ति काण्वपाठे दर्शनात् विज्ञानशब्दो जीवात्मपरः । *ब्रह्म ज्येष्ठमु-पासते*(तै.आन.५) प्रधानशब्दाभिलप्यादचेतनात् ब्रह्मणो ज्येष्ठम् प्रजापतिविद्योक्तरीत्या उपासत इत्यर्थः । *तस्माच्चेन्न प्रमाद्यति*(तै. आन.५) । तस्माच्च जीवात् अन्तिमप्रत्ययपर्यन्तम् न प्रमाद्यति चेदित्यर्थः । *तस्य प्रियमेव शिर*(तै.आन.५) इत्यादि । इष्टवस्तु-दर्शनजन्यम् सुखम् प्रियम् । तल्लाभजन्यम् मोदः । लब्धस्योपयोग- जन्यम् सुखम् प्रमोदः । सुखातिशयः -आनन्दः ।
न च मध्यमकायत्वेन निरूपितस्यानन्दस्य पुच्छत्वेन निरूपितस्य ब्रह्मणश्च भेदाभावेन तस्यैवात्मत्वेन पुच्छत्वेन च रूपणम् कथमिति वाच्यम् । एकस्यैव ब्रह्मणः बृहत्त्ववेषणात्मशब्दितमध्यकायत्वमित्युप-पत्तेः । न च आनन्दरूपब्रह्मस्वरूपस्य कथमानन्दप्रचुरत्वलक्षणमानन्द- मयत्वम् । आनन्दस्यानन्दप्रचुरत्वाभावादिति वाच्यम् । आनन्दस्वरूप-स्यैव ब्रह्मणः प्रियमोदप्रमोदशब्दवाच्यशिरः पक्षतारोपितधर्मभूतानन्द-मयत्वाद्युपपत्तेः । अत्र पूर्वेष्वन्नमयादिषु त्रिषु पर्यायेषु अनिरूपितस्य ब्रह्मणोऽवयवत्वस्यास्मिन्नानन्दमयपर्याये निरूपणम् *ब्रह्मविदाप्नोति
परमि*(तै.आन.१-१) त्युपक्रान्तस्य आनन्दमयपर्याये समानमिति द्रष्टव्यम् । अतोऽत्रानन्दमय एव प्रक्रान्तम् ब्रह्म । *तदप्येष श्लोको भवति*(तै.आन.५) ।
*असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनन्ततोविदुरि(तै.आन.६)ति पूर्वेषु त्रिषूदाहृतानाम् श्लोकानाम् पुच्छवद्विषयत्वदर्शनात् अयमपि श्लोकः पुच्छवदानन्दमयविषयक एव । नतु *ब्रह्म पुच्छमि*(तै.आन.५)ति निर्दिष्टतदेकदेशविषयः । ततश्च ब्रह्मशब्देनानन्दमय एवोच्यते । आनन्दमयसदसत्त्वज्ञानान्मोक्षसम्सारौ भवत इत्यर्थः । आनन्दमयरूपस्य ब्रह्मण आकाशादि विज्ञानमयान्त- पदार्थान्तर्यामितया निर्दिष्टस्यापि आत्मान्तरमप्यस्ति किमिति शङ्काम् व्युदस्यति । *तस्यैष एव शारीर आत्मा । यः पूर्वस्य*(तै.आन.५) पूर्वविज्ञानमयान्तपदार्थस्यात्मभूत एष आनन्दमयस्य आत्मा तस्या- नन्दमयस्यात्मेत्यर्थः । ततश्चानन्यात्मत्वमुक्तम् भवति । नच पूर्वेषु पर्यायेषु *तस्यैष एव शारीर आत्मे*(तै.आन.५) त्यस्या-नन्यात्मकत्वप्रतिपादकत्वादर्शनात् अस्मिन्पर्याये तदाश्रयणे अर्थ-वैरूप्यम् स्यादिति शङ्क्यम् । पूर्वेषु पर्यायेष्वनुक्तस्य ब्रह्मविषयत्व-स्येह निरूपणात्, *तस्माद्वा एतस्माद्विज्ञानमयत् अन्योऽन्तर आत्मे*(तै. आन.५)ति निर्देशाच्च, एतत्पर्यायगतस्य *तस्यैष एव शारीर आत्मे* (तै.आन.५)त्यस्यानन्यात्मत्वमेवार्थः ।
एतत्प्रकरणविषयकमधिकरणम् लिख्यते -*तस्माद्वा एतस्माद्विज्ञान-मयात् अन्योन्तर आत्मानन्दमय*(तै.आन.५) इति श्रुत आनन्दमयो जीव एव । *नित्यम् वृद्धशरादिभ्य*(अष्टा.४-३-१४४) इति वृद्धादानन्दमयात् विकारार्थे मयट्प्रत्ययस्य विधाने अविकारे परमात्मनि मयट्प्रत्ययार्था-सम्भवात्, शारीर इति शारीरसम्बन्धश्रवणात्, *अन्नमयप्राणमयमनोमय-विज्ञानमयानन्दमया मे शुद्धान्तामि*(तै.महाना.१४-१९)त्यानन्दमयस्य शोध्यत्वश्रवणात्, नित्यशुद्धस्य परमात्मनश्शोद्ध्यत्वासम्भवात्, आनन्द-मयो जीव एवेति प्राप्ते उच्यते-
आनन्दमयोऽभ्यासात् ॥ १-१-१३॥
आनन्दमय: परमात्मा । कुतः? अभ्यासात् । निरतिशयदशाशिरस्क-तया *ते ये शतम्, ते ये शतमि*(तै.आन.८)त्यभ्यस्यमानस्य अपरि-च्छिन्नानन्दस्य परिमितसुखलवभाजि जीवे असम्भवात् ।
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १-१-१४ ॥
विकारवाचिमयट्प्रत्ययश्रवणात् आनन्दमयो जीव एवेति चेन्न । अत्र न विकारवाची मयट्प्रत्ययः *मूयड्वैतयोर्भाषायामभक्ष्याच्छादनयोरि* (अष्टा.४-३-१४३)ति पूर्वसूत्रात् *नित्यम् वृद्धशरादिभ्य*(अष्टा. ४-३-१४४) इत्यत्र भाषायामित्यनुवृत्तेः, विकारावयवयोर्मयट्प्रत्ययस्य भाषाविष-यत्वेन छन्दसि विकारार्थे मयडोऽसम्भवात् । *यस्य पर्णमयी*(तै. सम्.३-५-७)त्यादौ तु *व्द्यचश्छन्दसी*(अष्टा.४-३-१५०) तिविधान-बलादुपपद्यते । प्रकृते आनन्दपदस्य द्यच्चत्वाभावेन न मयट्प्रत्ययस्य सम्भवः । आनन्दमय इत्यत्र मयट्प्रत्ययस्य च *तत्प्रकृतवचने मयडि* (अष्टा.५-४-२१)ति सूत्रविहितप्राचुर्यार्थमयट्प्रत्यय एव । ततश्च आनन्द-प्रचुरत्वम् परमात्मनस्सम्भवतीति परमात्मैवानन्दमयः । ननु *ब्राह्मण-प्रचुरो ग्राम* इत्युक्ते तस्मिन् ग्रामे अब्राह्मणानामप्यल्पानाम् सत्त्वम् प्रतीयते, एवमिहापि ब्रह्मण आनन्दप्राचुर्ये कथिते अनानन्दस्यापि लेशत-स्सत्त्वम् प्रतीयत इति दुःखलेशशून्ये परमात्मनि आनन्दप्राचुर्यो-क्तिरपि न सङ्गच्छत इति चेत्, मैवम् । प्रचुरप्रकाशस्सवितेत्यत्र सवितु प्रकाश-प्राचुर्ये कथितेऽपि तद्विरोधितमोऽल्पत्वस्य तत्राप्रतीतेः । न हि सवितरि तमोलेशस्यापि सम्भवोऽस्ति । अतस्तत्र यथा सवितरि प्रकाशप्राचुर्यम् व्यधिकरण- गतप्रकाशाल्पत्वापेक्षम् । अतो ब्रह्मण्या-नन्दप्राचुर्ये नानुप-पत्तिः ।
तद्हेतुव्यपदेशाच्च ॥१-१-१५॥
*एष हयेवानन्दयाती*(तै.आन.७)ति आनन्दमयस्य जीवानन्दयि-तृत्वम् व्यपदिश्यते । अत आनन्दयितव्याज्जीवादानन्दयिता अन्य एव।
मान्त्रवर्णिकमेव च गीयते ॥ १-१-१६ ॥
*सत्यम् ज्ञानमनन्तम् ब्रह्मे*(तै.आन.१)ति मन्त्रवर्णोदितम् ब्रह्मैव *तस्माद्वा एतस्मादात्मन आकाशस्सम्भूत*(तै.आन.१) इत्यादिना आकाशादिकारणत्वेन आनन्दमयत्वेन च गीयते । न च सत्यज्ञानत्वा- दिकम् सविकारस्य सङ्कुचिज्ञानस्य जीवस्य सम्भवति ।
ननु परिशुद्धस्वरूपस्य मन्त्रवर्णोदित सत्यज्ञानत्वादिकम् सम्भवतीति चेत् तत्राह –
नेतरोऽनुपपत्तेः ॥१-१-१७॥
इतरो मुक्तोऽपि जीवो नात्र प्रतिपाद्यः- अनुपपत्तेः । निरुपाधिक-विपश्चित्व सकल जगत्कारणत्वभयाभयहेतुत्वादीनाम् प्रकरणप्रति-पादितानाम् धर्माणाम् परमात्मव्यतिरिक्ते अनुपपत्तेः ।
भेदव्यपदेशाच्च ॥१-१-१८॥
*तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्माऽऽनन्दमय*(तै. आन.५) इति विज्ञानशब्दितबद्धमुक्तात्मकसकलजीवभेदव्यपदेशाच्च न मुक्तात्मा इह प्रतिपाद्यः ।
कामाच्च नानुमानापेक्षा ॥१-१-१९ ॥
*सोऽकामयत बहु स्याम् प्रजायेये*(तै.आन.६)ति कामनामात्रादेव आनुमानिकप्रधाननिरपेक्षम् जगत्स्रष्ट्रुत्वप्रतीतेर्न जीव आनन्दमयः ।
अस्मिन्नस्य च तद्योगम् शास्ति ॥१-१-२०॥
अस्मिन्नानन्दमये लब्धे सति अस्य जीवस्यानन्दमययोगम् *रसम् ह्येवायम् लब्ध्वाऽऽनन्दी भवती*(तै.आन.७)ति शास्त्रम् शास्ति ।अतो जीवानन्दहेतुभूतलाभकर्मीभूतस्य ब्रह्मणो न जीवाभेद उपपद्यते।
ननु नानन्दमयस्य ब्रह्मत्वमुपपद्यते । *ब्रह्म पुच्छम् प्रतिष्ठे*(तै.आन. ५)ति तदाधारभूततया तत्पुच्छत्वेन निर्दिष्टस्यैव ब्रह्मत्वेनाभिधानात् । आनन्दमयस्यैव प्रधानप्रतिपाद्यत्वे *असन्नेव स भवती*(तै.आन.६)ति तत्पर्यायोक्तश्लोकोऽपि आनन्दमयविषय एव स्यात् । न च तस्मिन् श्लोके आनन्दमयस्य निर्देशो दृष्टः । तत्र ब्रह्मशब्दस्यैव श्रवणात् । अतः पुच्छमेव ब्रह्म नानन्दमय इति चेन्न । आनन्दमयस्यैव ब्रह्मणः कयाचन विवक्षया अवयवावयविभावेन निर्देशोपपत्तेः । इतरथा आत्मा *आनन्द-मय*(तै.आन.७) इति मध्यमावयवत्वेन निर्दिष्टस्यापि पुच्छत्वेन निर्दिष्ट-ब्रह्मणोऽपि भेदः प्रसज्येत । मध्यमावयवपुच्छयोर्भेदावश्यम्भवात् । न चेष्टापत्तिः, ब्रह्मणोऽनानन्दरूपत्वप्रसङ्गात् । यदि च कयाचनभेदविवक्षया एकस्यैव ब्रह्मणः पुच्छत्वमध्यमाङ्गत्वनिरूपणम्, तर्हि अवयवावयवि-भावभेदकल्पनमप्यभेदेऽपि सङ्गच्छत इति नानन्दमयब्रह्मणोर्भेदप्रसक्तिः । न च आनन्दमयस्य ब्रह्मत्वे *आनन्दमया मे शुध्यन्तामि* (तै.महाना. १४-१९)ति शोध्यत्वमनुपपन्नमिति वाच्यम् । शोध्यत्वस्य प्रसाद्यत्व-रूपतया भक्तिप्रपत्तिलक्षणोपायवशेन शान्तकोपत्वलक्षणप्रसादविशिष्टत्वेन रूपेण साध्यत्वसम्भवेन शोध्यत्वस्यापि सम्भवात्, आनन्दमात्रस्याब्रह्मत्वे च *आनन्दमयोऽभ्यासादि*(ब्र.सू.१-१-१३)ति सूत्रगणस्य असम्बद्धप्रलाप- त्वम् स्यादित्यास्तान्तावत् ।
इति आनन्दमयाधिकरणम् ॥